सामग्री पर जाएँ

अहिर्बुध्नसंहिता/अध्यायः ५८

विकिस्रोतः तः
← अध्यायः ५७ अहिर्बुध्नसंहिता
अध्यायः ५८
[[लेखकः :|]]
अध्यायः ५९ →
अहिर्बुध्नसंहितायाः अध्यायाः

पञ्चहोतृमन्त्रार्थनिरूपणं नाम अष्टपञ्चाशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् |
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ||

अहिर्बुध्न्यः -

(१) दशहोता चतुर्होता पञ्चहोता तथैव च |
षड्ढोता सप्तहोता च पञ्च होतार ईरिताः || ५८-१ ||

__________________

१ अत्रेदमवधेयम्- त्रयोविंशेऽध्याये
शतारज्योतिश्चक्रनिरूपणानन्तरं ब्रह्मचक्रं निरूपितम् |
तत्रातीतेनाध्यायेन ज्योतिश्चक्रमन्त्राणामर्थ उपवर्णिते
क्रमप्राप्तं ब्रह्मचक्रमन्त्रार्थवर्णनमिह प्रस्तूयते | तत्र
ब्रह्मचक्रे बहवो मन्त्रा गर्भिताः- सग्रहाः पञ्चहोतारः,
संभाराः, देवपत्न्यः, दक्षिणाः, हृदयानि, शतरुद्राणि,
इत्येवमादयः |
तत्र तैत्तिरीयारण्यकस्य तृतीयप्रपाठके चित्तिः स्रुक् इत्यारभ्य
समाम्नाता आद्याः पञ्चानुवाकाः क्रमेण दशहोत्रादिभिः
पञ्चभिः शब्दैर्विवक्षिताः,; तेषु यथाक्रमं
दशत्वादिसंख्याविशिष्टानां होमसाधनानामभिधानात् |
वाग्घोता इति षष्ठोऽनुवाकस्त्वपरः षड्ढोता | यद्यपि सूर्यं ते
चक्षुः इति चतुर्थानुवाके होमसाधनानि न प्रतिपाद्यन्ते, तथापीतरेषु
चतुर्ष्वपि तत्प्रतिपादनात् सृष्टिन्यायेन बाहुल्यात् तथा व्यवहारः | अत
एवोक्तं कविभिरपि- एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः
किरणेष्विवाङ्कः इति | त एते दशहोत्रादयः पञ्चापि
चतुर्होतृनामभ्यामभिधीयन्ते | यत्रैतौ शब्दावेकवचनान्तौ, तत्र
मुख्यवृत्त्या यथोक्तद्वितीयतृतीयानुवाकमात्रोपस्थापकौ | यत्र तु
बहुवचनान्तौ, तत्र लिङ्गसमवायन्यायेन गौण्या वृत्त्या
दशहोत्रादिसमुदायोपस्थापकौ | यथा चैवं सति तेनैव न्यायेन
दशहोतृषड्ढोतृसप्तहोतृशब्दानामपि समुदायोपस्थाकत्वापत्तौ
तेषां तदभावः, चतुर्होतृपञ्चहोतृशब्दयोरेव तद्बोधकत्वम्, तथा
तैत्तिरीयब्राह्मणस्य द्वितीयाषट्के द्वितीयतृतीयपाठकयोः
प्रपञ्चितं तत एव सुगमम् | तथा तेषामेव मन्त्राणां
जगत्सृष्टिहेतुत्वादिना बहुमुखं प्राशस्त्यादिकं,
तत्तत्फलसाधनत्वेन तेषां विनियोगभेदादिकं च तत्रैव
प्रपञ्चितमिति नेह प्रतन्यते | तत्रैते मन्त्राः प्रत्येकं
भागत्रयात्मकाः- होमसाधनप्रतिपादकः पूर्वो भागः उत्तरस्तु
स्वाहाकारवियुक्तो ग्रहभागः स्वाहाकारस्तु तृतीयो भाग इति | तत्र
पञ्चदशवाक्यात्मके चित्तिः स्रुक् इतिप्रथमानुवाके दश वाक्यानि
पूर्वो भागः | उत्तराणि ग्रहभागः | अन्ते स्वाहाकारः |
दशवाक्यात्मके पृथिवी होता इति द्वितीयानुवाके
वाक्यचतुष्टयात्मकाः पूर्वो भागः | तदन्यो ग्रहः | अन्ते
स्वाहाकारः | वाक्याष्टकात्मके अग्निर्होता इति तृतीयानुवाके अर्धं
पूर्वो भागः | अर्धं ग्रहः | अन्ते स्वाहाकारः | नववाक्यात्मके
सूर्यं ते चक्षुः इति चतुर्थानुवाके वाक्यषट्कं पूर्वो भागः | उत्तरो
ग्रहः | अन्ते स्वाहाकारः | त्रयोदशवाक्यात्मके महाहविर्होता इति
पञ्चमानुवाकेऽपि वाक्यषट्कमित्यादिः पूर्ववद्विभागः |
षष्ठोऽनुवाकश्चतुर्थानुवाकेन तुल्यः |
सर्वेष्वेतेषु मन्त्रेषूत्तरभागे ग्रहशब्दप्रवृत्तिनिमितं तु
तैत्तिरीयब्राह्मणद्वितीयाष्टकद्वितीयप्रपाठकस्य प्रथमानुवाके
प्रजापतिरकामयत प्रजाः सृजेयेति | स एतं दशहोतारमपश्यत् | तं
मनसानुद्रुत्य दर्भस्तम्बेऽजुहोत् | ततो वै स प्रजा असृजत | ता अस्मात्
सृष्टा अपाक्रामम् | ता ग्रहेणागृह्णात् | तद्ग्रहस्य ग्रहत्वम् | इति
निरूपितम् | तत्रायमर्थः- पुरा कदाचित् प्रजापतिः प्रजासृष्टिं
कामयमानस्तदुपायं वेदेषु परीक्ष्य दशहोत्राख्यं मन्त्रं
साक्षात्कृतवान् | तं च मनसोच्चार्य कुत्रचिद् दर्भस्तम्ब आज्येन जुहाव
| ततो होमसामर्थ्यात् कामिताः प्रजाः ससर्ज | सृष्टास्ताः प्रजा
अनुरागरहिता अस्मात् प्रजापतेरपसस्रुः | स च
प्रजापतिर्यथोक्तग्रहभागपठनलब्धसामर्थ्योऽपक्रान्ताः प्रजाः
पुनरगृह्णात् | ततः प्रजाग्रहणसाधनत्वात् ग्रहस्य ग्रहत्वं
निष्पन्नमिति | तदिदं दशहोतृमन्त्रान्तर्गते ग्रहभागे ग्रहशब्दस्य
प्रवृत्तिनिमित्तम् | उत्तरेषु चतुर्ष्वनुवाकेषु तन्निमित्तं तु यथाक्रमं
दर्शपूर्णमासचातुर्मास्यपशुबन्धज्योतिष्टोमग्रहणसाधनत्व-
मिति तत्रैव द्वितीयानुवाके प्रपञ्चितं बोध्यम् |
तदेवं चतुर्होतृपञ्चहोत्रन्यतरशब्दविवक्षितानामेषां
मन्त्राणामापस्तम्बेन प्रयोगव्यवस्था प्रदर्शिता- त इमे चतुर्होतारो
यत्र होमार्थाः सग्रहाः सस्वाहाकारास्तत्र प्रयुज्येरन्,
यत्राहोमार्थाः अग्रहा अस्वाहाकाराः इत्यादिना | तदत्र
ब्रह्मचक्रयन्त्राङ्गत्वेन त्रयोविंशे विनियुक्तानामेषां
मन्त्राणामहोमार्थत्वेन ग्रहभागरहितानामेव यन्त्राङ्गत्वे
प्राप्ते अस्माच्चक्राद्बहिः पञ्च होतारः सग्रहाः स्मृताः इति तत्रैव
ग्रहभागस्य प्रतिप्रसवः कृत इति ग्रहसहितानामेवैषां यन्त्रलेखने
विनियोग इति तेषां मन्त्राणामर्थनिरूपणायाष्टपञ्चाशोऽध्याय
आरभ्यत इति |

__________________

प्. ५८४) विश्वं सिसृक्षतो विष्णोर्यत् तज्ज्ञानमयं तपः |
होतृभिः क्रतुरूपेण स संकल्पो निरूप्यते || ५८-२ ||

प्. ५८५) अद्याप्यवदधानोऽयं योगी तत्तन्निरूपणम् |
तांस्तान्निर्वर्तयत्येव क्रतून् ज्ञानमयाञ्छुभान् || ५८-३ ||

दशहोत्रादिपदविवक्षितमन्त्रविशेषसूचनम्

(१) चित्तिः स्रुग्दशहोतायमग्निहोत्रस्य कारणम् |
पृथिवीत्यादिको होता चतुर्होता निगद्यते || ५८-४ ||

(२) दर्शस्य पूर्णमासस्य निदानं स द्वयोरपि |
(३) अग्निर्होता पञ्चहोता चातुर्मास्योद्भवस्तु सः || ५८-५ ||

(४) सूर्यं ते स च गाग्घोता पशुबन्धस्य कारणम् |
षड्ढोताराविमौ वेदे निर्णीतौ मुनिसत्तमैः || ५८-६ ||

(५) (महाहविः सप्तहोता ज्योतिष्टोमस्य कारणम् |)

__________________

१ दशहोतृमन्त्रस्याग्निहोत्रकारणत्वे प्रमाणं तु
तेनैवोद्द्रुत्याग्निहोत्रं जुहुयात् | प्रजातमेवैनज्जुहोति
(तैत्तिरीयब्राह्मणे, २. २. १.) इतीयं श्रुतिः |

२ चतुर्होतृमन्त्रस्य दर्शपूर्णमासकारणत्वे प्रमाणं तु
प्रजापतिरकामयत दर्शपूर्णमासौ सृजेयेति | स एतं
चतुर्होतारमपश्यत् | तं मनसानुद्रुत्याहवनीयेऽजुहोत् | ततो वै स
दर्शपूर्णमासावसृजत (तैत्तिरीयब्राह्मणे, २. २. १.) इतीयं श्रुतिः |

३ एवमत्रापि सोऽकामयत चातुर्मास्यानि सृजेयेति | स एतं
पञ्चहोतारमपश्यत् | तं मनसानुद्रुत्याहवनीयेऽजुहोत् | ततो वै स
चातुर्मास्यान्यसृजत इतीयं श्रुतिस्तत्रैवाम्नाता
प्रमाणत्वेनानुसंधेया |

४ तथात्रापि सोऽकामयत पशुबन्ध/सृजेयेति | स
एत/षड्ढोतारमपश्यत् | तं मनसानुद्रुत्याहवनीयेऽजुहोत् | ततो वै स
पशुबन्धमसृजत इतीयं श्रुतिस्तत्रैवोदाहृता बोध्या |

५ इदमर्धं सर्वमातृकाकोशेष्वनुपलभ्यमानमपि स्वयमनुमाय
संनिवेशितमत्र; इतरथा न्यूनत्वप्रसङ्गात् | सप्तहोतृमन्त्रस्य
ज्योतिष्टोमकारणत्वे प्रमाणं च सोऽकामयत सौम्यमध्वर/सृजेयेति |
स एत/सप्तहोतारमपश्यत् | तं मनसानुद्रुत्याहवनीयेऽजुहोत् | ततो वै
सौम्यमध्वरमसृजत इतीयं श्रुतिर्बोध्या |
__________________

प्. ५८६) अथोक्तानां मन्त्राणामर्थवर्णनप्रतिज्ञा

अथार्थो दशहोत्रादेर्वर्ण्यते शृणु नारद || ५८-७ ||

प्रथमं दशहोतृमन्त्रार्थनिरूपणे चित्त्यादिपदार्थप्रदर्शनम्

चित्तिर्नाम स्मृता बुद्धिर्व्यवसायस्य कारणम् |
अहंकारस्तु चित्तं स्यादभिमानस्य कारणम् || ५८-८ ||

मनो नामेन्द्रियं हेतुः स संकल्पविकल्पयोः |
वाङ् नाम व्याहृता वाणी एवमस्त्वितिरूपिणी || ५८-९ ||

आधीतं नाम वागृत्तिर्यदध्ययनमुच्यते |
केतो ज्ञानमिति प्रोक्तमुच्चार्यस्यावधारणम् || ५८-१० ||

विज्ञातं यत् तदुच्चार्यमवधारणगोचरम् |
यत् तद्वागिन्द्रियं प्रोक्तं तद्व्यङ्ग्या या सरस्वती || ५८-११ ||

सा वाक् तां सुब्रुवन् पाति यः स वाक्यपतिरुच्यते |
उच्चारणप्रवृत्तेर्यः प्रयत्नो हेतुरुच्यते || ५८-१२ ||

स प्राणः साम तत् प्रोक्तं यदुच्चारणसौष्ठवम् |

दशहोत्रादिसमाख्यानिमित्तप्रदर्शनम्

दशहोत्रादिहोत्राख्या यागोपकरणाभिधा || ५८-१३ ||

क्रियाभूतिविभेदेन भगवच्छक्तेर्द्वैविध्यम्

एकान्तिनो जगद्विष्णोः कुर्वतः शक्तिशालिनः |
या शक्तिर्वैष्णवी देवी सर्वभावानुगामिनी || ५८-१४ ||

प्. ५८७) तदेकांशः क्रिया नाम कृत्योपकरणं हरेः |
तदेकांशो विभूत्याख्यो लक्ष्यतेऽत्र जगत्तथा || ५८-१५ ||

क्रियायाः संकल्परूपत्वं कृत्योपकरणत्वं च

संकल्पः प्रोच्यते विष्णोः कृत्योपकरणं क्रिया |

संकल्पस्य च निश्चयात्मकमित्यादिरूपत्वम्

एवमस्त्विति वाक्यान्तो मित्यादिः स च कथ्यते || ५८-१६ ||

बुद्ध्यहंकारमनसां वृत्तिः शब्दे विवक्ष्यते |
त्रिरूपा मिति रुद्दिष्टा ते स्तब्धो------त्र शब्दितम् || ५८-१७ ||

चित्त्यादिवाक्योक्तस्रुगादिपदार्थनिरूपणम्

बुद्ध्यादिमितिपर्यन्तं वृत्तिमट्वृत्तिरूपकम् |
यज्ञे जगद्विधानाख्ये वितते हरिमेधसः || ५८-१८ ||

स्रुक्तयाज्यतया चोपवक्तृत्वेनाग्निभावतः |
उपवक्ता स्मृतो ब्रह्मानुज्ञा प्रवचनं स्मृतम् || ५८-१९ ||

उच्चार्यत्वेन विज्ञातः शब्दोऽग्निरिति कथ्यते |
उच्चारणं यदाधीतं तद्बर्हिरिति गीयते || ५८-२० ||

तस्य हेतुः प्रयत्नो यः प्राणः स हविरुच्यते |
प्. ५८८) वाग् व्याहृता तु वेदिः स्याद्धर्ता होतेति गीयते || ५८-२१ ||

उच्चारणस्य साम्यं यत् साम सोऽध्वर्युरुच्यते |

यथोक्तस्य जगद्विधानाख्यस्य वैष्णवयज्ञस्य ज्ञेयत्वविधिः

इत्थं जगद्विधानाख्यो दशोपकरणान्वितः || ५८-२२ ||

यो यज्ञो वैष्णवो वृत्तस्तमद्यत्वे विचिन्तयेत् |
वाक्यं समुच्चरन् किंचिल्लौकिकं वैदिकं तु वा || ५८-२३ ||

वैष्णवं भावमासाद्य मन्त्रं चेमं विचिन्तयेत् |

तात्पर्यार्थनिरूपणमुखेन
ग्रहभागस्यात्महविःसमर्पणपरत्वस्फुटीकरणम्

वाचस्पते विधे नामन्निति तस्यार्थ उच्यते || ५८-२४ ||

वाङ् नाम वैष्णवी शक्तिः शब्दब्रह्ममयी परा |
वाचस्पतिस्तत्पतिः स्याद् विदधातीति वै विधिः || ५८-२५ ||

नामयत्यखिलं स्वस्मिन्निति नामाग्निरुच्यते |
विधेम भगवन्नाम प्रह्वीभावापराभिधम् || ५८-२६ ||

त्वं चास्माकं विधेः कुर्या नाम प्रवणचित्तताम् |
एतदेव पुनर्वक्ति मुनिः स्वात्मसमर्पणम् || ५८-२७ ||

भगवत एवात्महविःसमर्पणजन्यफलभागित्वनिरूपणम्

वाचस्पतिः स पूर्वोक्तः सोमं सोमरसोपमम् |
पिबत्वात्मरसं स्वस्मै मया हुतमिवाध्वरे || ५८-२८ ||

प्. ५८९) स्वरूपनिरूपकशेषत्वपारतन्त्र्यानुगुणवृत्तिप्रार्थना

पीत्वा चास्मासु नृम्णं यत् स्वमाधादादधातु तत् |
मननीयं नृभिर्नृम्णं तदनुग्रहरूपकम् || ५८-२९ ||

आत्महविःसमर्पणस्य स्वार्थत्वशङ्काव्युदासः

स्वाहेति स्वात्मसंन्यासः स्वाहुतं तद्भवेदिति |

चतुर्होतृमन्त्रेऽपि पूर्वोक्तस्यैव यज्ञस्य भङ्ग्यन्तरेण
विवक्षितत्वनिरूपणम्

अयमेव च यज्ञोऽत्र चतुर्होतृतयेष्यते || ५८-३० ||

पृथिवीद्युरुद्रशब्दानां प्रकृतिपुरुषकालपरत्वप्रदर्शनम्

जगत्प्रथनरूपा सा पृथिवी प्रकृतिः स्मृता |
पुरुषो द्यौरिति प्रोक्तो द्योतते स स्वया चिता || ५८-३१ ||

रुणद्धि प्रलये तौ द्वौ स्रावयत्युदयेऽपि च |
रुद्र इत्युदितः कालः संयोजकवियोजकः || ५८-३२ ||

बृहस्पप्तिशब्दस्य श्रियः पतित्वपुरस्कारेण भगवत्परत्वम्

बृहत् सा शक्तिरुद्दिष्टा यतो बृंहयतेऽखिलम् |
बृहस्पतिः पतिस्तस्या देवदेवो जनार्दनः || ५८-३३ ||

ग्रहभागार्थनिरूपणे वाचोवीर्यशब्दस्य
भगवत्कर्तृकसृष्ट्युद्यमपरत्वप्रदर्शनम्

वाचो वीर्यं भवेत् प्राणो विष्णोः सृष्ट्युद्यमः परः |

प्. ५९०) संभृततमशब्देन सृष्ट्युद्यमस्य
सर्वार्थविषयकत्वविवक्षा

तत्संभृततमं चैव सर्वार्थविषयत्वतः || ५८-३४ ||

पूर्वोक्तस्य प्राणस्यैवात्रापि हविष्ट्वविवक्षा

प्राणो हविरिति न्यायात् प्राणो हविरिहेष्यते |

मन्त्रशेषस्य दास्यमहारसरूपसुखप्रार्थनापरत्वप्रदर्शनम्

आयक्ष्यसे पूज्यसेऽद्य यस्त्वं वाचस्पतिः स्वयम् || ५८-३५ ||

अतोऽस्मै यजमानाय वार्यं वर्यं सुवः सुखम् |
आकस्त्वमाकुरुष्वाद्य सोमं पिबति पूर्ववत् || ५८-३६ ||

मन्त्रचरमवक्यस्य प्रतिबन्धनिवृत्तिप्रार्थनापरत्वम्

इरां ददतमिन्द्रं मामिन्द्रियायाद्यशक्तये |
ब्रह्माप्तिहेतुभूतायै स योग्यं जनयत्वजः || ५८-३७ ||

पञ्चहोतृमन्त्रार्थनिरूपणम्

चतुर्होतायमुद्दिष्टः पञ्चहोता निगद्यते |
अग्निर्निरुदितः पूर्वं स होता परिगीयते || ५८-३८ ||

ज्ञानप्राणावश्विनौ द्वावश्नुवाते यतो जगत् |
अध्वर्युः प्रतिप्रस्थाता द्वावध्वर्यू प्रकीर्तितौ || ५८-३९ ||

त्वष्टा संकल्प उद्दिष्टस्त्वष्ट्टकार्यं यतोऽखिलम् |
मित्रो मैत्री समुद्दिष्टा करुणा हरिमेधसः || ५८-४० ||

ग्रहभागस्यात्मयागसाधनत्वेन विनियोगः

प्. ५९१) सोम इत्यादिमन्त्रोऽयं यजने तस्य शिष्यते |

तत्र षष्ठ्यन्तयोः प्रथमान्तयोश्च सोमशुक्रपदयोरर्थविवेकः

षष्ठ्यन्तौ सोमशुक्रौ द्वौ लतासाराभिधायिनौ || ५८-४१ ||

इतरावात्मवचनौ पुरोगा हेतुरुच्यते |

प्रथमान्तसोमपदविवक्षितस्य जीवस्य षष्ठ्यन्तसोमपदविक्षितात्
लतासारादुत्तमत्वम्

जीवः सोमस्य सोमोऽयं पुरोगाः सेमतोऽपि यत् || ५८-४२ ||

सोमो ह्यभिष्टुतो यादृक् प्रीणयेत् पुरुषोत्तमम् |
आत्मयागहुतो जीवो न तादृक् किंत्वतोऽधिकः || ५८-४३ ||

तदुपपादनम्

मर्त्यो ह्यभिष्टुतः सोमो यस्त्वमर्त्यो हि चिन्मयः |

शुक्रशब्दस्य जीवपरत्वे प्रवृत्तिनिमित्तप्रदर्शनम्

शुक्र इत्यतिसारत्वाज्जगद्बीजतयापि च || ५८-४४ ||

आख्या जीवस्य तत्रापि योजनैषा पुरोदिता |

इन्द्रशब्देन भगवतः संबोधनम्

इन्द्रेत्यपि च संबोधो देवस्य हरिमेधसः || ५८-४५ ||

वातापिशब्दस्य
व्याप्तिपूर्वकभगवन्निष्ठकिर्याशक्तिवैशिष्ट्यपरत्वम्

प्. ५९२) वातापीत्युच्यते व्यापी वातेन क्रियया स्वया |
जगद्धातुः क्रिया सृष्टिरतर्क्या व्याप्तिपूर्विका || ५८-४६ ||

तस्या अविषयो नास्ति भावः कोऽपि कथंचन |

हवनश्रुत्पदस्य स्वविषयकाह्वानश्रवणरसिकत्वपरत्वम्

हवनश्रुत् समाख्यातः शृण्वन्नाह्वानमादरात् || ५८-४७ ||

श्राता इत्यादिवाक्यद्वयस्य तात्पर्यार्थनिरूपणमुखेन
सर्वेष्वप्यात्मसु भगवद्गुणकृतदास्यप्रतिपादकत्वप्रदर्शनम्

हे इन्द्र परमेशान कर्तस्ते हवनश्रुतः |
श्राताः श्रिता गुणैः सोमा आत्मानस्त इमे वयम् || ५८-४८ ||

स्वाहा स्वाहुतमस्त्वेतत् तदिदं परमं हविः |

अथ षड्ढोतृमन्त्रार्थनिरूपणम्

उद्दिष्टः पञ्चहोतायं षड्ढोताद्य निगद्यते || ५८-४९ ||

यजमानं पशुं भूतं वाक्त्यात्मानं हविष्कृतम् |
देहेन्द्रियैः समं विष्णुं प्राप्ताद्य सहविष्कृतम् || ५८-५० ||

सूते च रमते चैव यजते चैव कथ्यते |
सूर्योविष्णुं विशत्वेनं चक्षुर्विज्ञानकारणम् || ५८-५१ ||

वातो गतिमतः संज्ञा गतिर्व्याप्तिरुदीरिता |
द्योतमानस्तथा स द्यौर्देवो विज्ञानसारथिः || ५८-५२ ||

प्. ५९३) अन्तः समीक्षमाणः सन्नन्तरिक्षमुदीर्यते |
सर्वान् संगमयन् प्राणैर्यज्ञ इज्यतयापि च || ५८-५३ ||

पृथिवी वैष्णवी शक्ति प्रथमाना स्वतेजसा |
पञ्चात्मावयवः प्राणः पृष्ठं मूर्धाङ्गमुच्यते || ५८-५४ ||

आत्मान्तःकरणं प्रोक्तमनाद्यन्तस्थितानि च |
शरीराण्यथ बाह्याङ्गान्यथो ग्रह उदीर्यते || ५८-५५ ||

वाचस्पतिः समुद्दिष्टः शक्तिर्वाग् वैष्णवी क्रिया |
सैव प्रोक्ता जुहूः प्राणो होत्राहुतिरुदीर्यते || ५८-५६ ||

नानादेहादिरूपेण वृद्धा देवा उदीरितः |
एरयस्व प्रेरयस्व प्रेरणं त्वेरणं मतम् || ५८-५७ ||

अपरस्य षड्ढोतृमन्त्रस्यार्थनिरूपणम्

(१) अथापरस्य षड्ढोतुर्निर्णयं शृणु नारद |
दीक्षा मानससंकल्पो वागवस्था तु वाक् स्मृता || ५८-५८ ||

आपो दयार्द्रता विष्णोर्मन इच्छा निगद्यते |
तपो विज्ञानमुद्दिष्टं पोता त्वभिगरो मतः || ५८-५९ ||

__________________

१ षड्ढोतृमन्त्रो द्विविधः- चतुर्थानुवाकात्मकः सूर्यं ते चक्षु
इत्यादिरेकः | षष्ठानुवाकात्मकः वाग्धोता इत्यादिरपरः | तत्र
वाग्घोता षड्ढोतृणाम् इति ब्राह्मणनिर्देशात् स एव चातुर्होत्रचयने
प्रयोज्यः | इतरस्य तु पशुबन्धेन यक्ष्यमाणः षड्ढोतारं
मनसानुद्रुत्याहवनीये जुहुयात् इति होतृब्राह्मणकाण्डे विधिदर्शनात्
पशुबन्धे विनियोगः | तदेवं कर्मकाण्डे व्यवस्थितविकल्पेन
विनियुक्तयोरपि षड्ढोतृमन्त्रयोर्ब्रह्मचक्रे समुच्चयेन विनियुक्तत्वाद्
द्विविधयोरपि तयोरिह व्याख्यानं कृतमिति बोध्यम् |
__________________

प्. ५९४) सप्तहोतृमन्त्रार्थनिरूपणम्

महाहविरिति प्रोक्तः सप्तहोता मनीषिभिः |
मनो हविरिति प्रोक्तं मनो हविरिहोच्यते || ५८-६० ||

महाविषयता तस्य महत्त्वं परिगीयते |
यत्नो हविरिति प्रोक्तं प्राणो हविरिहोच्यते || ५८-६१ ||

सत्यता त्वविपर्यासः संततोद्युक्तता तथा |
पाजस्तेज इह प्रोक्तो नित्यताच्युततास्य तु || ५८-६२ ||

मनो मतिरिह प्रोक्ता तस्याः पूर्ववदच्युतिः |
अनाधृष्याप्रधृष्यौ च शक्त्यैश्वर्यनिरूपकौ || ५८-६३ ||

पोता च मैत्रावरुणः स्मृतावभिगराविह |
अनायासविषयत्वादयास्य इति वर्ण्यते || ५८-६४ ||

ग्रहभागार्थनिरूपणम्

हरति स्वीकरोतीह पूजां हृदिति वर्ण्यते |
दैव्यस्तन्तुरिति प्रोक्ता शिष्याचार्यपरम्परा || ५८-६५ ||

मनुष्यस्तन्तुरित्युक्ता सत्संतानसमृद्धिता |
द्यावापृथिव्यौ पितरौ पितरौ श्रीतदीश्वरौ |
व्याख्यातो होतृवर्गोऽयमिति ते लेशतो मुने || ५८-६६ ||

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
पञ्चहोतृमन्त्रार्थनिरूपणम् नाम अष्टपञ्चाशोऽध्यायः || ५८ ||

आदितः श्लोकाः ३७७६