सामग्री पर जाएँ

अहिर्बुध्नसंहिता/अध्यायः ५७

विकिस्रोतः तः
← अध्यायः ५६ अहिर्बुध्नसंहिता
अध्यायः ५७
[[लेखकः :|]]
अध्यायः ५८ →
अहिर्बुध्नसंहितायाः अध्यायाः

ज्योतिश्चक्रमन्त्रार्थनिरूपणं नाम सप्तपञ्चाशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ।।

प्रथमं गायत्त्र्यर्थप्रपञ्चने तच्छब्दस्य
भगवत्संकल्परूपसुदर्शनपरत्वनिरूपणम्

अहिर्बुध्न्यः -

यत्तु ज्योतिस्त्रयं पूर्वं ज्योतिश्चक्रे निदर्शितम् (१) ।
सावित्रं नाम यज्ज्योतिस्तत् सावित्रीसमाह्वयम् ।। ५७-१ ।।

तस्य व्याख्यामिमां सम्यग् गदतो मे निशामय ।
संकल्पः कथितो यः स सुदर्शनसमाह्वयः ।। ५७-२ ।।

या सा भूतिर्महाशक्तेर्वैष्णव्याः कोटिभागजा ।
शुद्धाशुद्धमयैर्भावैस्तनुते विस्तृणाति ताम् ।। ५७-३ ।।

प्रतिसंचरवेलायां तामयत्येव तां पुनः ।
तायते तत्र तत्रैव भूत्यंशे धारकात्मना ।। ५७-४ ।।

प्रमाणत्वेन भूयश्च तत्तदर्थतया पुनः ।

________________

१ त्रयोविंशेऽध्याये चतुश्चत्वारिंशश्लोकस्योत्तरार्धमारम्य
एकोनसप्ततिश्लोकपूर्वार्धान्तैः पञ्चविंशत्या
श्लोकैर्निदर्शितमिदं ज्योतिश्चक्रम् ।
________________

प्. ५७२) अतस्तदिति संकल्पः प्रोच्यते वैष्णवः परः ।। ५७-५ ।।

सवितृशब्दस्य
जगत्कारणत्वभोगमोक्षप्रदत्वादिगुणविशिष्टपरमपुरुषपरत्वम्

प्रसौति सकलाश्चेष्टाः प्रसूते सकलं जगत् ।
अवतेर्गतिकान्त्यर्थात् तरतेर्दानकर्मणः ।। ५७-६ ।।

गतो ह्यवति सर्वत्र षड्भिः कान्तो गुणैः परः ।
भोगापवर्गयोर्दाता सवितेति निरुच्यते ।। ५७-७ ।।

वरेण्यशब्दस्योपास्यत्वपरत्वम्

वरैर्नेयं वरेण्यं तु वराः ख्यातार ईरिताः ।
वरणीयं वरेण्यं वा वरं नयति तत्परम् ।। ५७-८ ।।

भर्गःशब्दस्य तच्छब्दविवक्षितसुदर्शनगुणविशेषपरत्वम्

भर्गस्तेजः समाख्यातं प्रभावः कर्तृरूपता ।
भरतीदं जगत् कृत्स्नं संभरत्यपि चेश्वरान् ।। ५७-९ ।।

रमयत्यपि तत् सर्वं राति चार्थमभीप्सितम् ।
गमयत्यपि तन्नाशं स्यति बन्धमशेषतः ।। ५७-१० ।।

भर्जयत्यखिलं कष्टं भ्रस्जतेऽनेहसं तथा ।
अतो भर्गः परं विष्णोः संकल्पं विदुरद्भुतम् ।। ५७-११ ।।

प्. ५७३) देवशब्दस्य द्योतनत्वादिगुणविशिष्टपरमात्मपरत्वम्

द्योतनः सर्वभावानां द्योतमानः स्वयं सदा ।
अज्ञानमखिलं चान्यच्छोधयत्यखिलं जगत् ।। ५७-१२ ।।

अतः सकलमेवेदं तत्रौतं मणिसूत्रवत् ।
इत ईरण ईड्यश्च वनितः सकलं वियत् ।। ५७-१३ ।।

देव इत्युदितो विष्णु परमात्मा सनातनः ।

धीमहीत्यस्योपासनात्मकज्ञानविशेषपरत्वम्

धीमहीत्यत्र धीर्ज्ञानं मननं भावनं तथा ।। ५७-१४ ।।

तृतीयपादार्थनिरूपणपूर्वकं गायत्त्र्याः
संपिण्डितवाक्यार्थनिरूपणम्

धियो धीपूर्विकाश्चेष्टाः प्रेरणं तु प्रचोदनम् ।
यः सर्वशक्तिः सविता देवं संविन्मयश्च यः ।। ५७-१५ ।।

यश्च सर्वविदीशानो धियस्तास्ताः प्रचोदयात् ।
सृष्टिस्थितिलयत्राणक्रियाकारणमव्ययम् ।। ५७-१६ ।।

तस्य देवस्य संकल्पं भर्गः संज्ञमुपास्महे ।
गायन्तं त्रायमाणाया गायत्त्र्या अर्थ ईदृशः ।। ५७-१७ ।।

संक्षेपतो गायत्त्रीमहिमवर्णनम्

संध्ययोरुभयोर्युक्तो ब्राह्मण्यं लभते परम् ।
बहिः सहस्रमभ्यस्ता मासमात्रेण साधिनः ।। ५७-१८ ।।

प्. ५७४) त्रायते महतः पापात् सर्वस्मादपि चाहंसः ।
ओंकारपूरिकास्तिस्रो महाव्याहृतयोऽव्ययाः ।। ५७-१९ ।।

त्रिपदा चेयमित्येतत् त्रितयं पावनं परम् ।

व्याहृतित्रयस्वरूपनिरूपणपूर्वकं सग्रहेण तदर्थप्रकाशनम्

या सत्ता सर्वभूतानां विष्णुशक्तिः परावरा ।। ५७-२० ।।

सा भूरिति समाख्याता भवतीदं जगत् स्वयम् ।
भूत्वशक्तिं समास्थाय यावतीदं जगत् स्वयम् ।। ५७-२१ ।।

सा भुवः कथिता सद्भिरवन्ती भावितं जगत् ।
वसीयो भोगमोक्षाख्यं सूते या सततं सताम् ।। ५७-२२ ।।

सा स्रुवः कथिता सद्भिर्व्याहृतिर्वाङ्मयी ततः ।

गायत्त्रीमन्त्रनिगूढानां ब्रह्मशिरःप्रभृतीनामस्त्राणां
दिङ्मात्रपरदर्शनम्

पादशो ब्रह्मदण्डास्त्रं प्रतिलोमस्तदित्यृ च ।। ५७-२३ ।।

अस्त्रं ब्रह्मशिरो नाम पदशः परिगीयते ।
वर्णशो ब्राह्ममस्त्रं स्यात् तत्स्वरप्रतिलोमजम् ।। ५७-२४ ।।

सुब्रह्मास्त्रमिति प्रोक्तं सर्वास्त्रविनिर्बर्हणम् ।
आनन्दो वरुणस्तद्वान्वरुणः सचतुर्गतिः ।। ५७-२५ ।।

साप्रमेयस्तृतीयः स्याच्छङ्खस्थो व्यापकस्तथा ।
सानन्दो वरुणश्चैव साप्रमेयश्चतुर्गतिः ।। ५७-२६ ।।

शाङ्खद्वयं सदा देवमस्त्रं सप्ताक्षरं परम् ।
प्. ५७५) अतिब्राह्मं समुद्दिष्टमस्य स्वरविलोमजम् ।। ५७-२७ ।।

आनन्दः केवलस्तत्तु दिव्यमेकाक्षरं स्मृतम् ।
तदित्यृचोऽस्याः सावित्र्या इयती दर्शिता भिदा ।। ५७-२८ ।।

जातवेदसे इति त्रिष्टुभोऽर्थनिरूपणे जातवेदःशब्दस्य सोमशब्दस्य
चार्थवर्णनम्

जातवेदस इत्यस्यास्त्रिष्टुभोऽर्थं निशामय ।
जातजातं हि यो वेत्ति भूते भूतेऽखिलं सदा ।। ५७-२९ ।।

जातं स्वभावसंसिद्धं विज्ञानं तस्य सर्वदा ।
वेदः सत्ता महाशक्तिरानन्दस्पन्दलक्षणा ।। ५७-३० ।।

प्रादुर्भूता सदा यस्य सा देवी जगतां गतिः ।
वेदो विचारणं प्रोक्तं विचारो विविधा क्रिया ।। ५७-३१ ।।

प्रादुर्भूता क्रिया यस्य विष्णोः सा सर्वकर्तृता ।
सर्वज्ञः सर्वशक्तिश्च सर्वकृत् पुरुषोत्तमः ।। ५७-३२ ।।

जातवेदाः समुद्दिष्ट आत्मा सोमः समीरितः ।
स ह्यविद्यावशात् सर्वयोनिस्थः सूयते सदा ।। ५७-३३ ।।

सुनवामेति पदस्य बद्धात्मनि भगवच्छेषत्वयोग्यतापादनपरत्वम्

योग्यतापादनं तस्य प्रोच्यतेऽत्र सुनोतिना ।

योग्यतापादनस्य प्रकृत्यात्मविवेकरूपतां वक्तुं विवक्षितार्थस्य
सोमपदगम्ये दृष्टान्ते शिक्षणम्

पृथक्कारो हि सोमस्य स्वरसस्य सुनोतिजः ।। ५७-३४ ।।

प्. ५७६) रसीभूतेन सोमेन यागः कर्तुं स शक्यते ।
उपमागर्भ एवायं वाक्यार्थः पूर्वपादजः ।। ५७-३५ ।।

दृष्टान्ते शिक्षितस्यार्थस्य दार्ष्टान्तिके उपपादनम्

सोमं यथाभिषुण्वन्ति ह्यध्वरे जातवेदसे ।
दित्समानस्तथात्मानमृषिः स्वं परमात्मने ।। ५७-३६ ।।

देहेन्द्रियमनःप्राणधीगुणेभ्यः स्वरूपतः ।
विविनक्ति प्रसंख्यानैः साम्यवैषम्यहेतुजैः ।। ५७-३७ ।।

यथोक्तात्महविर्याजिनः स्वेन रूपेणाभिनिष्पत्तिरूपो
गुणाष्टकाविर्भावः फलम्

एवं विविच्य दत्त्वास्मै स्मात्मानं जातवेदसे ।
तत्स्थः स तन्मना भूत्वा स्वेनाथो संविवित्सते ।। ५७-३८ ।।

भङ्ग्यन्तरेण नमःशब्दार्थस्यैवात्र प्रथमपादे
विवक्षितत्वसूचनम्

नमःशब्दार्थ एवायं प्रकारान्तरदर्शितः ।

द्वितीयपादेन परमपुरुषस्य स्वप्राप्तिप्रतिबन्धकप्रकृतिसंबन्ध-
रूपबन्धनिवर्तकत्वप्रदर्शनम्

अर्थं द्वितीयपादस्य प्रोच्यमानं निबोध मे ।। ५७-३९ ।।

अरातीयान् स तु प्रोक्तो यो ह्यरातिवदाचरेत् ।
स च बन्धः समाख्यातो मिथ्याज्ञाननिबन्धनः ।। ५७-४० ।।

तस्य वेदः स्मृता सत्ता गुणसक्तिरनादिका ।
प्. ५७७) स्वीकर्तुं स सुतं सोमं जातवेदाः सनातनः ।। ५७-४१ ।।

तत्प्रतिद्वन्द्विनीं बन्धसत्तां विदहतु स्वयम् ।

उत्तरार्धे सदृष्टान्तं पूर्वोक्तार्थोपपादनम्

बद्ध्वा स नितरां सत्तां गुणसङ्गस्वरूपिणीम् ।। ५७-४२ ।।

हेयतत्त्वानि दुर्गाणि पारयत्यखिलानि नः ।

उत्तरार्थगतस्याग्निशब्दस्य परमपुरुषपरत्वसमर्थनम्

जातवेदाः स चात्रापि ह्यग्नि शब्देन वर्ण्यते ।। ५७-४३ ।।

अङ्गीकारं समीपं स्वमागतं निखिलं जगत् ।
नयत्यात्मानमित्येवमग्निशब्दो निरुच्यते ।। ५७-४४ ।।

स्वात्मोपसर्पिणं जीवं नेताग्निः स्वं परं पदम् ।
जातवेदाः स दुर्गाणि पारयत्यखिलानि नः ।। ५७-४५ ।।

दृष्टान्तपरस्य चतुर्थपादस्य वाक्यार्थवर्णनम्

अत्र नावेति दृष्टान्तः सिन्धुर्नाम महोदधिः ।
तं यथा नाविको नावा नौस्थितं पारयेन्नरम् ।। ५७-४६ ।।

दुरितादिपदद्वन्द्वात् पारणे दुरितात्ययः ।
दुरितं गदितं दौःस्थ्यं वातवर्षादिसंभवम् ।। ५७-४७ ।।

अतीत्यतीत्य दुरिता दिरितानीति वर्णयते ।
दुरितं वातवर्षाद्यं परिहृत्य यथाखिलम् ।। ५७-४८ ।।

नाविकः पारयेन्नावा सागरं नौस्थितं नरम् ।

प्. ५७८) तस्यार्थस्य दार्ष्टान्तिके उपपादनम्

एवं स भगवानग्निर्जातवेदा हरिः स्वयम् ।। ५७-४९ ।।

दुरितं क्लेशसंघातमपवर्गविघातकम् ।
सर्वं परिहरन् दुर्गं पारयेत् तत्त्वपद्धतिम् ।। ५७-५० ।।

अत्र नावेति दृष्टान्तादुपायस्थानमेव तु ।
नरेण कृत्यमन्यत्तु नाविकस्येव तद्धरेः ।। ५७-५१ ।।

अस्मिन् मन्त्रे निगूढानां पावकाद्यस्त्राणां संक्षेपतः
स्वरूपसूचनम्

पादशः प्रतिलोमः स पावकास्त्रं निगद्यते ।
पादशो जातवेदःस्थमाग्नेयं वर्णशस्तु तत् ।। ५७-५२ ।।

स्वरशः प्रतिलोमोऽयमत्याग्नेयं निगद्यते ।
चतुर्गतिः साप्रमेयः सोदयोऽथ चतुर्गतिः ।। ५७-५३ ।।

प्. ५७९) सूक्ष्मद्वयं साप्रमेयं साप्रमेयश्चतुर्गतिः ।
चतुर्गतिः साप्रमेयो वराहः शङ्ख एव च ।। ५७-५४ ।।

अप्रमेयश्च पिण्डस्थं त्रमेकीकृतं स्मरेत् ।
चतुर्गतिः साप्रमेयः सादिदेवश्चतुर्गतिः ।। ५७-५५ ।।

उत्तरार्थविलोमोऽयमथ पूर्वार्धजं शृणु ।
आनन्दः केवलः सूक्ष्मद्वययुक् चाप्रमेयतः ।। ५७-५६ ।।

चतुर्गतिः साप्रमेयो वराहः शङ्ख एव च ।
अप्रमेयश्च पिण्डस्थं त्रमेकीकृतं स्मरेत् ।। ५७-५७ ।।

चतुर्गतिः सादिदेवः सानन्दो वरुणस्तथा ।
चतुर्गतिः सादिदेव इति पूर्वार्धजा स्थितिः ।। ५७-५८ ।।

हनद्वयं वर्म सास्त्रमग्निजाया तथान्ततः ।
स्वरशः प्रतिलोमोऽयं स्मृतं पञ्चदशाक्षरम् ।। ५७-५९ ।।

हनाद्यष्टाक्षरं चान्ते यः स्वरः प्रतिलोमजः ।
त्र्यक्षरः स तु विज्ञेयो द्विवर्णश्चोर्ध्वभाग्भवेत् ।। ५७-६० ।।

एकार्णश्चैव पूर्वार्धे तयो रूपे पुनः शृणु ।
अप्रमेयोऽथ सानन्दो वरुणो द्व्यक्षरो मनुः ।। ५७-६१ ।।

आनन्द एकः पूर्वार्धे संहत्या यत् त्रिवर्णकम् ।
तस्यापि प्रतिलोमोऽयमानन्दः केवलः स्मृतः ।। ५७-६२ ।।

प्रतिलोमाविमौ सर्वशान्तिस्वस्त्ययनात्मकौ ।
प्. ५८०) इत्येषा त्रिष्टुभो रीतिर्लेशतस्ते निदर्शिता ।। ५७-६३ ।।

त्रियम्बकम् इत्यनुष्टुभोऽर्थवर्णने त्रियम्बकशब्दस्य
ज्ञानशक्तिक्रियान्वितपरमपुरुषपरत्वकथनम्

अधुनानुष्टुभो रीतिं शृणु त्वं पावनीं पराम् ।
इच्छा ज्ञप्तिः क्रिया चेति तिस्रो लोकस्य मातरः ।। ५७-६४ ।।

तिस्रस्तु यस्य विद्यन्ते जगद्भाविन्य ऊर्जिताः ।
त्र्यम्बकः स तु विज्ञेयो ज्ञानशक्तिक्रियान्वितः ।। ५७-६५ ।।

यजामहे इति पदार्थनिरूपणम्

यजतिर्द्रव्यसंत्यागः कांचिदुद्दिश्य देवताम् ।

सुगन्धिशब्दार्थनिरूपणम्

शोभनो यस्य गन्धोऽस्ति स सुगन्धिरितीर्यते ।। ५७-६६ ।।

शोभनं सूचयन् सर्वः सुगन्धिरिति शब्द्यते ।
यः यष्टु सर्वतत्त्वानि गन्धयत्यात्मतेजसा ।। ५७-६७ ।।

गन्धयत्यनुवेधेन स्वस्वरूपीकरोति यः ।
गन्धादीनि पृथिव्यादिभूतान्येवाखिलानि च ।। ५७-६८ ।।

शोभनं यस्य तिष्ठन्ति वशे देवस्य शासितुः ।
स सुगन्धिः समाख्यातो ज्ञानात्मा सर्वविद्वशी ।। ५७-६९ ।।

पुष्टिवर्धनशब्दार्थनिरूपणम्

पुष्टिर्भूतिः समाख्याता या सा सदसदात्मिका ।
प्. ५८१) शक्तिर्विष्णुमयी विष्णोः स तां वर्धयति स्वयम् ।। ५७-७० ।।

संकल्पेन समुद्भाव्य वितत्य विविधात्मना ।
संधार्य संनियम्याथ प्रतिसंहरते च ताम् ।। ५७-७१ ।।

ततोऽसौ भगवान् विष्णुः कथ्यते पुष्टिवर्धनः ।

वाक्यार्थवर्णनमुखेन पूर्वार्धस्य भगवति
स्यात्महविःसमर्पणपरत्वप्रदर्शनम्

इच्छाज्ञानक्रियाकारं शोभनाख्यं जगत्प्रियम् ।। ५७-७२ ।।

स्वाकारज्ञापितैश्वर्यं शुद्धं संविन्मयं परम् ।
ईशानं सर्वलोकानां पुरुषं पुष्करेक्षणम् ।। ५७-७३ ।।

देवतां स्वां समुद्दिश्य स्वात्माख्यद्रव्यमुत्तमम् ।
यजाम इति मन्त्रस्य पूर्वभागार्थ ईदृशः ।। ५७-७४ ।।

उत्तरार्धस्य वाक्यार्थनिरूपणम्

निरुक्तो मृत्युशब्दोऽत्र मृत्युमृत्युनिरूपणे ।
स्वात्मस्वात्मीयसंन्यासी देवेऽद्य परमात्मनि ।। ५७-७५ ।।

मृत्योर्मुच्येय संसारान्नानादुःखमहोदधेः ।
उर्वारुकं यथा पक्वमक्लेशेन स्वबन्धनात् ।। ५७-७६ ।।

मुच्यते मृत्युतस्तद्वदहं मुच्येय बन्धनात् ।
संन्यासे स्थैर्यमाशास्ते कृतेऽस्मिन् मामृतादिति ।। ५७-७७ ।।

अमृताद् ब्रह्मणस्तस्माद्यस्मै मां दत्तवानहम् ।
जातुचिन्मा स्व मुच्येय क्षेमी भावो भवेन्मम ।। ५७-७८ ।।

प्. ५८२) प्रपत्तुर्ब्रह्मसाधर्म्यापत्तिलक्षणस्य फलस्य तात्पर्यगत्या
मन्त्रे विवक्षितत्वप्रदर्शनम्

इत्यर्थोऽनुष्टुभः प्रोक्तो ब्रह्मभावमयः शुभः ।
ज्योतिस्त्रयं निरुक्तं तु तदिदं छन्दसां त्रयम् ।। ५७-७९ ।।

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
ज्योतिश्चक्रमन्त्रार्थनिरूपणं नाम सप्तपञ्चाशोऽध्यायः ।। ५७ ।।

आदितः श्लोकाः ३७१०