अहिर्बुध्नसंहिता/अध्यायः ५५
| ← अध्यायः ५४ | अहिर्बुध्नसंहिता अध्यायः ५५ [[लेखकः :|]] |
अध्यायः ५६ → |
नारसिंहानुष्टुभमन्त्रार्थनिरूपणम् नाम
पञ्चपञ्चाशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ।।
योगमतानुसारेण मन्त्रार्थनिरूपणप्रतिज्ञा
अहिर्बुध्न्यः -
निर्ब्रुवन्ति यथा योगा मन्त्रमेतं विचक्षणाः ।
तथा वाच्यस्तव मुने तन्मे निगदतः शृणु ।। ५५-१ ।।
उग्रशब्दार्थनिरूपणम्
उद्गतः क्रुध इत्येवमुग्रः करणरोधनात् ।
वीरशब्दार्थनिरूपणम्
विवृता येन विजिता ईरा देहस्थवायवः ।। ५५-२ ।।
स वीर उदितो योगैस्तन्त्रविज्ञानपारगैः ।
ज्वलच्छब्दार्थनिरूपणम्
जितेन्द्रियो जितश्वासो योऽन्तर्ज्वलति सर्वतः ।। ५५-३ ।।
५५२) अनिन्द्रियव्यवच्छेदात् सर्वतः प्रसृतो ज्वलन् ।
सर्वतोमुखशब्दार्थनिरूपणम्
सर्वतोमुख उद्दिष्टः सर्वज्ञानमयो हरिः ।। ५५-४ ।।
भीषणशब्दार्थनिरूपणम्
भा सम्यग्ज्ञानमुद्दिष्टं तस्याः प्रेरणमीषणम् ।
भेषणो भीषणः प्रोक्तो भगवान् विश्वभावनः ।। ५५-५ ।।
महाविष्णुनृसिंहभद्रमृत्युमृत्युशब्दार्थस्य पूर्वोक्तत्वसूचनम्
महाविष्णुनृसिंहौ च मृत्युमृत्युश्च पूर्ववत् ।
संपिण्डितवाक्यार्थनिरूपणम्
जितेन्द्रियसमीराद्यं जीवरूपं व्यवस्थितम् ।। ५५-६ ।।
व्यापिनं महनीयं च धियां सम्यक् प्रचोदकम् ।
संसारमोचकं चैव यं विदुः पुरुषोत्तमम् ।। ५५-७ ।।
नमामि तमहं देवमिति योगानुशासनम् ।
पाशुपतमतानुसारेण मन्त्रार्थनिरूपणे उग्रशब्दार्थनिरूपणम्
उग्रव्रतसमाराध्य उग्रशब्देन वर्ण्यते ।। ५५-८ ।।
वीरशब्दार्थनिरूपणम्
तत्पारयितृवन्द्यत्वं वीरशब्देन वर्ण्यते ।
सर्वतोमुखशब्दार्थनिरूपणम्
प्. ५५३) मलत्रयप्रागभावः सर्वतोमुखशब्दितः ।। ५५-९ ।।
ज्वलच्छब्दार्थनिरूपणम्
सविद्घनत्वमाद्यस्य ज्वलच्छब्देन वर्ण्यते ।
भीषणशब्दार्थनिरूपणम्
अर्थपञ्चकरूपस्तु पाशो भीशब्ददर्शितः ।। ५५-१० ।।
भियं स्यति द्यति स्पष्टं पाशं छिन्त्ते पशोरिति ।
पशुपाशच्छिदं वक्ति शब्दो भीषण इत्ययम् ।। ५५-११ ।।
मृत्युमृत्युशब्दार्थनिरूपणम्
शिवंकरत्वमीशस्य मृत्युमृत्युपदोदितम् ।
पदान्तरार्थस्य पूर्वप्रदर्शितत्वसूचनम्
महाविष्णुर्नृसिंहश्च पूर्वमेव प्रदर्शितौ ।। ५५-१२ ।।
संपिण्डितवाक्यार्थनिरूपणम्
उग्रव्रतप्रियं नित्यमुग्रव्रतपरार्चितम् ।
मलत्रयापरामृष्टं चिद्घनं पाशभेदिनम् ।। ५५-१३ ।।
शिवं वदन्ति यं विष्णुं महान्तं पुरुषोत्तमम् ।
नमाम्यहं तमित्येवमर्थः पाशुपते स्मृतः ।। ५५-१४ ।।
प्. ५५४) त्रययन्तमतानुसार्यर्थस्य पूर्वनिरूपितत्वसूचनम्
त्रययन्तपदवीवेद्यः पूर्वमेव (१) निरूपितः ।
सात्त्वतमतेन मन्त्रार्थनिरूपणम्
अर्थं सात्त्वतसंवेद्यमप्रमत्तोऽवधारय ।। ५५-१५ ।।
उग्रशब्दस्य संकर्षणाख्यव्यूहपरत्वम्
उद्गिरत्यमलं शास्त्रमुद्गीर्य रमयत्यपि ।
गिरत्यन्ते च तच्छास्त्रमुग्रः संकर्षणः स्मृतः ।। ५५-१६ ।।
वीरशब्दस्य प्रद्युम्नाख्यव्यूहपरत्वम्
विना कृत्वा प्रेरयति रजसा तमसा त्रयीम् ।
वीरां करोति तां विद्यां वैद्यमानवसर्गयोः ।। ५५-१७ ।।
वीरयत्यपि चात्मानं तमोमधुनिघातने ।
व्यापारयति शास्त्रार्थानुष्ठाने कर्म निर्मलम् ।। ५५-१८ ।।
अतो वीरं वदन्त्याद्यं प्रद्युम्नं पुरुषोत्तमम् ।
महाविष्णुशब्दस्यानिरुद्धाख्यव्यूहपरत्वम्
महान् भवति चेष्टाभिरनिरुद्धश्च सर्वतः ।। ५५-१९ ।।
एकत्रिचतुरीहाभिस्ते पूर्वे मितवृत्तयः ।
कार्यस्य च मितत्वेन तेषां शक्तिर्निरोधिता ।। ५५-२० ।।
_________________
१ पूर्वाध्याये सप्तदशश्लोकमारभ्य
चत्वारिंशश्लोकपूर्वार्धान्तैः सार्धत्रयोविंशत्या श्लोकैर्निरूपित
इति बोध्यम् ।
_________________
प्. ५५५) आम्नायन्तेऽनिरुद्धे तु चेष्टाः संख्यानवर्जिताः ।
कार्याण्यपरिमेयानि सृष्टिस्थित्यादिकानि तु ।। ५५-२१ ।।
शक्तिस्तद्विषया या तु या व्याप्तिर्विष्णुता च सा ।
सा चानिरुद्धता तस्य तुर्यव्यूहस्य शार्ङ्गिणः ।। ५५-२२ ।।
महाविष्णुस्ततः प्रोक्तः सोऽनिरुद्धो विचक्षणैः ।
ज्वलच्छब्दस्य रामकृष्णादिविभवपरत्वम्
विकासो ज्वलनं प्रोक्तं तस्य ब्रह्माण्डमध्यतः ।। ५५-२३ ।।
यद्वदन्त्यवतारं तु वैभवं हरिमेधसः ।
सर्वतोमुखशब्देनावताराणां
सौलभ्यकाष्ठाभूमिभूतनानायोनित्वस्य बोधनम्
सर्वतोमुखशब्देन नानायोनिनिवेशनम् ।। ५५-२४ ।।
भद्रशब्दस्यावतारदशायामपि हेयसंबन्धराहित्यपरत्वम्
भद्रत्वं तत्र तस्यापि ह्यजहत्स्वस्वभावता ।
भीषणशब्दस्य मोक्षप्रदत्वपरत्वम्
भियः संसारबन्धस्य (१) सानं भीषणता मता ।। ५५-२५ ।।
सा सप्रकारविज्ञानमात्रलभ्योपदिश्यते ।
__________________
१ षोऽन्तकर्मणि इति धातुः
__________________
प्. ५५६) मृत्युमृत्युशब्देन भद्रशब्दोदितस्य हेयप्रतिभटत्वस्य
बोधनम्
हेयप्रत्यर्थिता या सा ब्रह्मणः सार्वकालिकी ।। ५५-२६ ।।
स्वाभाविकी च सा प्रोक्ता मृत्युमृत्युपदेन तु ।
नृसिंहशब्दस्य द्विविधव्याप्तिपरत्वम्
नॄनात्मनोऽनुबध्यान्तर्हित्वैनान् परितोऽपि च ।। ५५-२७ ।।
या स्थितिस्तस्य देवस्य पुरुषोत्तमताह्वया ।
सोक्ता नृसिंहशब्देन सैषा वाक्यार्थ उच्यते ।। ५५-२८ ।।
संकर्षणादिरूपेण व्यूह्यात्मानं त्रिधा स्थितः ।
तत्तदाश्रितकार्याय यो विभुः सर्वतोमुखः ।। ५५-२९ ।।
नानाविभवरूपेण ज्वलत्यन्तर्भवोदरे ।
एवं ज्वलन् भवत्येव भद्रो भद्रतरस्तथा ।। ५५-३० ।।
एवं विज्ञातमात्रो यो भीषणो बन्धनाशकृत् ।
मृत्योर्हेयस्वरूपस्य मृत्युः प्रतिभटो यतः ।। ५५-३१ ।।
तमहं व्यूहविभवविज्ञानसुलभं नृणाम् ।
अन्तर्बहिरिदं व्याप्य तिष्ठन्तं पुरुषोत्तमम् ।। ५५-३२ ।।
नृसिंहं करणैः सर्वैरात्मत्वेनानुसंदधे ।
इति सात्त्वतसिद्धार्थो लेशतस्ते निदर्शितः ।। ५५-३३ ।।
प्. ५५७) सूक्ष्मो नानाविधोऽर्थो यः (१) परमद्य निशामय ।
परार्थवर्णने प्रथममुग्रपदस्य
संकर्षणाख्यव्यूहपरत्वकथनम्
अशेषभुवनाधारः संसारगदनाशनः ।। ५५-३४ ।।
उद्दाम उदयो विष्णोः संकर्षणसमाह्वयः ।
उग्रवर्णैः समुद्दिष्ठो वैष्णवः प्रथमोदयः ।। ५५-३५ ।।
तदुपपादनम्
तिलकालकवद्यस्मात् तत्र विश्वं प्रकाशते ।
दिव्यशास्त्रोपदेशेन गदं ध्वंसयते यतः ।। ५५-३६ ।।
उद्दामः सोऽप्रतिहतो विष्णोरुदय उज्ज्वलः
___________________
१ इदमत्र रहस्यम्- नारसिंहानुष्टुभमन्त्रस्य परार्थवर्णनं
नाम मन्त्रवर्णानामप्रमेयादिभावसंसिद्धव्यूहविभवपरत्व-
प्रदर्शनम् । तथा हि- आनुष्टुभे ह्येकादश पदानि । तत्र प्रथमान्तं
कर्तृकारकबोधकं चरमं पदम् । उत्तमपुरुषैकवचनान्तं
नमनक्रियावाचि दशमम् । अवशिष्टानि नव द्वितीयैकवचनान्तानि
पदानि नमिकर्मीभूतवस्तुविशेषबोधनानि । तत्राद्यं पदत्रयं
क्रमात् संकर्षणप्रद्युम्नानिरुद्धाख्यव्यूहत्रयपरम् ।
ज्वलदादिपदषट्कं तु पञ्चमाध्यायावसानप्रतिपादितस्य
पद्मनाभादेः पातालशयनान्तस्य विभवानामेकोनचत्वारिंशतो
यथासंभवं प्रतिपादकम् । तत्र परमद्य निशामय
इत्यादिनाध्यायशेषेण संकर्षणादिव्यूहपरत्वमुग्रवीरमहा-
विष्णुशब्दानां प्रदर्श्यते । बहुवक्तव्यत्वात् पृथगध्यायारम्भेण
ज्वलदादिपदानां पद्मनाभादिपरत्वमुत्तराध्याये प्रदर्शयिष्यत
इति । तत्र अशेषभुवनाधारः इत्यादेः सार्धश्लोकत्रयस्यायमाशयः-
उग्रपदस्थैरुकारगकाररेफैर्व्युत्क्रमेण गुणत्रयं विवक्षितम् ।
रेफेणाशेषभुवनाधारत्वम्, गकारेण संसारगदनाशकत्वम्,
उकारेणोद्दामत्वविशेषितमुदयरूपत्वम् । रेफादिभिः
स्वपर्यायभूताशेषभुवनाधारादिशब्दान्तराण्युपस्थाप्य
तन्मुखेन यथोक्तगुणोपस्थापनसंभवात् ।
अशेषभुवनाधारादिशब्दानां रेफादिपर्यायत्वं च प्रपञ्चितं
सप्तदशे । उदये उद्दामत्वं चाप्रतिहतत्वम् । तथा
चाशेषभुवनाधारत्वादिगुणविभूषितोऽप्रतिहतो विष्णोः
प्रधमोदयः संकर्षण एव भवतीति स एवोग्रपदावयवैर्वर्णैः
समुद्दिष्ट इति । अनयैव दिशा वीरादिपदेष्वप्यर्थगतिरभ्यूह्या ।
___________________
प्. ५५८) अत उग्रपदोद्दिष्टो देवः संकर्षणः प्रभुः ।। ५५-३७ ।।
वीरपदेन प्रद्युम्नव्यूहस्य प्रतिपादनम्
अमृताधाररूपश्च मायावांश्च ततोऽनलः ।
प्रद्युम्नो वीरशब्देन गदितः पुष्करेक्षणः ।। ५५-३८ ।।
तदुपपादनम्
अमृतं भगवद्धर्मस्तस्याधारः समाश्रयः ।
संपिण्डितवाक्यार्थनिरूपणम्
सद्धर्मस्य ह्यधिष्टाता प्रद्युम्नो धर्मसंश्रयः ।। ५५-३९ ।।
माया ज्ञानं यतो विद्यां संबोधयति मायया ।
दहत्यनलवच्चैव विद्यादोषं तमोमयम् ।। ५५-४० ।।
वीरवर्णैरतो देवः प्रद्युम्नः परिकीर्त्यते ।
महाविष्णुशब्देनानिरुद्धव्यूहस्य संकीर्तनम्
कालः प्रधानमाधारस्तयोः प्राणः सदाभवत् ।। ५५-४१ ।।
गोपनश्च तयोर्नित्यं वृण्वानः सकला गतीः ।
एधयन् मानवं गर्भं तत्तत्संवत्सरैः क्रमात् ।। ५५-४२ ।।
अग्निरूपो जगत्यस्मिन् भास्करश्च स्वयं भवन् ।
भुवनाभयदश्चैव वैकुण्ठोऽविहतं जगत् ।। ५५-४३ ।।
प्. ५५९) शासिता स्वयमध्यक्षो महाविष्णुर्विवर्णितः ।
तदुपपादनम्
पुष्करं कालरूपेण धत्ते नाभिसमुद्भवम् ।। ५५-४४ ।।
अन्तःस्थपुरुषं चैव प्रधानं तद्गतं दधत् ।
कालप्रधानशब्दाभ्यामभेदेनाभिधीयते ।। ५५-४५ ।।
प्राणयन् कालतः सांख्यकालजीवत्रयीत्रयम् ।
प्राणवर्णेन निर्दिष्ठो गोपनो गोपनाख्यया ।। ५५-४६ ।।
कार्याणि गतयः प्रोक्तास्ताश्च वृण्वंश्चिकीर्षया ।
उक्तो वरुणवर्णेन सा हि तस्यानिरुद्धता ।। ५५-४७ ।।
गर्भं काल्स्थविद्यायां जीवमन्वष्टकात्मकम् ।
पुष्णन्नब्दसहस्रेण देव इद्धार्णवर्णितः ।। ५५-४८ ।।
अग्निसूर्यादिके चैव देवसर्गे हि वैद्यके ।
तत्तद्देवप्रवेशेन तत्तन्नाम दधत् स्वयम् ।। ५५-४९ ।।
अन्गिभास्करवर्णेन स्वयं देव उदीर्यते ।
कालाद्यवनिपर्यन्तं चेतनाचेतनात्मकम् ।। ५५-५० ।।
भुवनार्णोदितं यत् तद् भुवनाङ्गविचित्रितम् ।
तस्य दुष्टनिबर्हेण यो ददात्यभयं सदा ।। ५५-५१ ।।
यश्चाविहत एवासीत् तत्तत्कार्यसमुद्यमे ।
अनुप्रविश्य भूतानि योऽध्यक्षः संनियच्छति ।। ५५-५२ ।।
प्. ५६०) एषोऽभयदवैकुण्ठशास्तृवर्णेन वर्ण्यते ।
इति व्यूहाः समुद्दिष्टा उग्रादित्रितयेन तु ।
ज्वलदादिनिरूप्योऽर्थो ह्यतः परमुदीर्यते ।। ५५-५३ ।।
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
नारसिंहानुष्टुभमन्त्रार्थनिरूपणम् नाम
पञ्चपञ्चाशोऽध्यायः ।। ५५ ।।
आदितः श्लोकाः ३५८६