सामग्री पर जाएँ

अहिर्बुध्नसंहिता/अध्यायः ५४

विकिस्रोतः तः
← अध्यायः ५३ अहिर्बुध्नसंहिता
अध्यायः ५४
[[लेखकः :|]]
अध्यायः ५५ →
अहिर्बुध्नसंहितायाः अध्यायाः

नारसिंहानुष्टुभमन्त्रार्थनिरूपणं नाम
चतुष्पञ्चाशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् |
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ||

सप्तभिः श्लोकैर्मन्त्रमाहात्म्यनिरूपणम्

अहिर्बुध्न्यः -

इति ते लेशतः प्रोक्तो जितन्ताख्यो महामनुः |
नारसिंहमिदानीं मे तत्त्वतः शृणु नारद || ५४-१ ||

मन्त्रस्यास्यैहिकामुष्मिकनानाविधफलसाधनता

सर्वाश्चर्यकरः सोऽयं नारसिंहो महामनुः |
दिव्यान्तरिक्षभौमानां भोगानामुपपादकः || ५४-२ ||

आध्यात्मिकादिरूपाणां त्रिविधानां तथापदाम् |
निवारणस्तथा रक्षोदैत्यदानवमर्दनः || ५४-३ ||

संख्ययोगपाञ्चरात्रवेदान्तपाशुपतैरप्यस्यावश्योपजीव्यत्वम्

सांख्यानां परमं ज्ञानमिदमेव महामुने |
इयं सोपानभूमिः सा योगिनां नियतात्मनाम् || ५४-४ ||

प्. ५४३) तदेतदयनं ह्येकं सात्त्वतानां महात्मनाम् |
एतत् त्रययन्तसर्वस्वमेतत् पाशुपतं मतम् || ५४-५ ||

सर्वचेतनहितकामनया कल्पादौ संकर्षणेनास्य प्रकाशितत्वम्

संकर्षणो जगत्यस्मिन् सृष्टे नानाविधे पुरा |
हिताय सर्वजीवानां ज्ञानमेतत् परं जगौ || ५४-६ ||

ब्रह्मरुद्रादीनामपि महता श्रमेण संकर्षणादेतन्मन्त्रप्राप्तिः

तप्त्वा घोरं तपो ब्रह्मा तस्मादधिजगौ पुरा |
अधीतवानहं तस्मान्मत्तो दिव्या महर्षयः || ५४-७ ||

स्थूलार्थनिरूपणे शेषत्वज्ञानपूर्वकमात्मात्मीययोर्भगवति
समर्पणनिरुपणम्

नमनं नतिरित्युक्तं नीचीभावश्च स स्मृतः |
परं प्रत्यात्मनो नीचीभावः शेषत्वमेव हि || ५४-८ ||

आत्मानं शेषतां नीत्वा नमामीतिपदेन तु |
आत्मीयमर्थं तत् तस्मै निवेदयति मन्त्रवित् || ५४-९ ||

मान्त्रवर्णिकैरुग्रादिपदैः रौद्रादिरसप्रतिपादनम्

क्रोधातिशयतो रौद्रो रस उग्र उदीरितः |
उत्साहातिशयोत्थायी वीरो वीरपदोदितः || ५४-१० ||

चतुर्भिरद्भुतैः शब्दैर्महाविष्ण्वादिपूर्वकैः |
भयातिशयहेतुत्वाद् भीषणेन भयानकः || ५४-११ ||

प्. ५४४) रसं वदति शृङ्गारं मन्त्रभद्रपदं मुने |
मृत्युमृत्युपदं चापि वदत्यद्भुतभीषणौ || ५४-१२ ||

अहंपदस्य भगवच्छेषत्वेन रूपेणात्मस्वरूपनिष्कर्षकत्वम्

अहमित्यात्मनिष्कर्षो नन्तुर्भागवतात्मना |

उग्रादिपदाभिहितानां रौद्रादिरसानां विषयव्यवस्थाप्रदर्शनम्

उग्रः शत्रुधिया देवो वीरो देवगणेक्षया || ५४-१३ ||

महाविष्णुर्ज्वलंश्चैव सर्वतोमुख इत्यपि |
नृसिंह इति चाश्चर्यो योगसिद्धजनेक्षया || ५४-१४ ||

भीषणो देव उद्दिष्टः क्षुद्ररक्षोगणेक्षया |
आनन्दवलितापाङ्ग्या लक्ष्म्या भद्रो निरीक्षितः || ५४-१५ ||

ऋषीणां मृत्युमृत्युः स भीषणाश्चर्ययोगतः |
क्रियाकारकसंसर्गजन्योऽर्थः स्थूल ईदृशः || ५४-१६ ||

सूक्ष्मार्थनिरूपणम्

सूक्ष्ममर्थं निबोधेमं यः प्रातिपदिकाश्रयः |

उग्रशब्दार्थनिरूपणम्

उद्गिरत्यखिलं विश्वमुद्गीर्णं ग्रसति स्वयम् || ५४-१७ ||

वीरशब्दार्थनिरूपणम्

वीरयत्यखिलं भावं विविधं रमयत्यपि |

महच्छब्देन त्रिविधपरिच्छेदशून्यत्वस्य बोधनम्

प्. ५४५) कालदेशाद्यवच्छेदविरहात् स महान् स्मृतः || ५४-१८ ||

पुनर्महच्छब्दस्य नवधा निर्वचनप्रदर्शनम्

(१) महीयतेर्मेहतेर्वा मुह्यतेरथवा मिहेः |
मनुतेः सजहातेर्वा मां जिहीतेऽथवा महान् || ५४-१९ ||

मात्यस्मिन्नथ वा विश्वं न जहात्यपि वै जगत् |

यथाक्रमं तेषामुपपादनम्

महीयते परे व्योम्नि महानिति निरुच्यते || ५४-२० ||

मेहतिर्दानकर्मायं महान् मेहत्यभीप्सितम् |
मोहयत्यात्मचेष्टाभिरिति देवो महान् स्मृतः || ५४-२१ ||

स्वं मेहत्यप्सु वै वीर्यमण्डत्वेनेति वै महान् |
मनुते नित्ययोगेन स्वेन ज्ञानात्मना महान् || ५४-२२ ||

जहाति विविधान् भावान् षड् भावा इति यान् विदुः |
मेति लक्ष्मीर्मता देवी तां जिहीतेऽभिगच्छति || ५४-२३ ||

दिव्यं नित्यपरिष्वक्तं मिथुनं तन्महानतः |

_________________

१ अत्रैते सप्त धातवो विवक्षिता बोध्याः- मह पूजायाम् भ्वादि मिह
सेचने भ्वादिः; मुह वैचित्त्ये दिवादिः; मनु अवबोधने तनादिः; ओहाक्
त्यागे जुहोत्यादिः; ओहाङ् गतौ जुहोत्यादिः; मा मने अददिः; इति | अत्र मिह
सेचने इत्यत्र सेचनं मिश्रीकरणम् | तेन मेहतिर्दानकर्मायं इति
ग्रन्थोपपत्तिः | यद्यपि नवविधनिर्वचनोपयोगितया नव
धातवोऽपेक्षिताः, तथापि मिहधातोर्हाङधातोश्च तात्पर्यभेदेन
वारद्वयमावृत्तत्वान्नवसंख्यापूरणं बोध्यम् |

_________________

प्. ५४६) मात्यस्मिन्निखिलेनेदं कुण्डे बदरवज्जगत् || ५४-२४ ||

न जहाति बहिर्भूतस्तच्च देहे महानतः |

विष्णुशब्दार्थनिरूपणम्

(१) विविनक्ति जगत्यस्मिन् सच्चासच्च विचेष्टते || ५४-२५ ||

(२) वेवेष्टि निखिलान् भोगान् यच्छति प्राणिनां स्वयम् |
आयत्तैः सकलैर्जीवैः प्रणौत्यन्तः स्वरात्मना || ५४-२६ ||

इति शब्दार्थतत्त्वज्ञा विष्णुं देवं प्रचक्षते |

महाविष्णुपदसंपिण्डितार्थनिरूपणम्

महान् विशति संसारे जायमानो यतो महान् || ५४-२७ ||

महाविष्णुमतो धीरा देवमेनं प्रचक्षते |

ज्वलच्छब्दार्थनिरूपणम्

हृदये योगिनां नित्यं सूरीणां परमे पदे || ५४-२८ ||

वितानेषु च विप्राणां यतो ज्वलति वै स्वयम् |
सूर्याचन्द्रमसौ वह्निरिति तेजस्त्रयं परम् || ५४-२९ ||

आविश्य ज्वलयत्यन्तरवतीर्णो ज्वलत्यपि |
ज्ञानात्मना स्वरूपेण ज्वलत्येको जगद् ग्रसन् || ५४-३० ||

इति ज्वलन्तमाहुस्तं सर्वतो (३) हरिमेधसम् |

__________________

१ विचिर् पृथग्भावे इति धातुः
२ विषॢ व्याप्तौ इति धातुः
३ आश्रितदुरितानि हरन्ती मेधा संकल्पो यस्य स हरिमेधाः;
स्वप्राप्तिप्रतिबन्धकस्वाश्रितदुरितविनाशविषयकामोघसंकल्प-
विशिष्ट इत्यर्थः |

___________________

प्. ५४७) सर्वतोमुखशब्दार्थनिरूपणम्

मुखं शक्तिः समुद्दिष्टा सर्वतो यस्य सा स्थिता || ५४-३१ ||

सर्वतोमुखमाहुस्तं सर्वशक्तिं सनातनम् |

नृसिंहशब्दाथनिरूपणम्

नराणां बन्धनं हन्ति हिनस्तीति नृसिंहता || ५४-३२ ||

भीषणशब्दार्थनिरूपणम्

भियं सनोति दुष्टानां भीषणस्तेन शब्द्यते |

भद्रशब्दार्थनिरूपणम्

भां ददाति रवौ भद्रां भावं द्रावयते सताम् || ५४-३३ ||

भवं द्रावयते घोरं संसारं तापसंततम् |

मृत्युमृत्युशब्दार्थनिरूपणम्

मृत्युरज्ञानमुद्दिष्टं मृत्युः प्राणापहारकः || ५४-३४ ||

मृत्युः संसार उद्दिष्टस्तेषां मृत्युर्यतो हरिः |

प्रथममृत्युशब्दस्याज्ञानादित्रयपरत्वे निर्वचनप्रदर्शनम्

मतिं त्यजत्यनेनेति मृत्युरज्ञानमुच्यते || ५४-३५ ||

मृतिं तनोति जन्तूनामिति मृत्युरिति स्थितिः |
मृतिसंतानरूपत्वान्मृत्युः संसार उच्यते || ५४-३६ ||

द्वितीयमृत्युशब्दस्य
प्रथममृत्युशब्दोदिताज्ञानादित्रयनाशकत्वपरत्वम्

प्. ५४८) नाशकत्वमिहोद्दिष्टं मितमुत्तरमृत्युना |

अहंशब्दस्य चतुर्धार्थवर्णनम्

अं जिहीते हरिं याति स्वरूपेणेह तादृशः || ५४-३७ ||

पूर्णानन्दस्वरूपो हि चेतनो निखिलो यतः |
अहीनश्चाप्ययं सर्वैर्ज्ञानशक्त्यादिभिः स्वतः || ५४-३८ ||

अह्ना वाप्यमितोऽयं स्यात् कालातीतो यतोऽखिलः |
अह्नि वा माति जीवोऽयमहमर्थः स उच्यते || ५४-३९ ||

अहः संकर्षणो ज्ञेयस्तस्मिञ्जीवोऽखिलः स्थितः |

सांख्यमार्गेण मन्त्रार्थं
प्रदर्शयितुमुग्रभीषणशब्दतात्पर्यार्थनिरूपणम्

उग्रभीषणशब्दाभ्यां प्रोच्यतेऽव्यक्तरूपता || ५४-४० ||

उग्रमत्यन्तघोरं यद्भीषणं भयदायि च |
अव्यक्तं तत् परिज्ञेयं भगवद्रूपमेव हि || ५४-४१ ||

ज्वलच्छब्दतात्पर्यार्थनिरूपणम्

ज्वलन्तमिति शब्देन प्रोच्यते जीवरूपता |
चैतन्यं ज्वलनं प्रोक्तं तत्कर्ता चेतनो ज्वलन् || ५४-४२ ||

ज्वलन्नित्युच्यते सोऽयमसमाप्तविदिक्रियः |
सर्वतः प्रकृतिं दृष्ट्वा दोषांश्चैव तदुद्भवान् || ५४-४३ ||

विरक्तः सर्वथा तत्र यदा वेत्ति परं हरिम् |
तदा समाप्यते तस्य वेत्तुः सर्वा विदिक्रिया || ५४-४४ ||

प्. ५४९) अतः प्रकृतिनिर्मग्नो बुध्यमानो य ईर्यते |
संसारी स ज्वलन् सोऽपि भगवानिति भण्यते || ५४-४५ ||

वीरशब्दतात्पर्यार्थनिरूपणम्

विविधं प्रेरयत्येतच्चेतनाचेतनं जगत् |
यः कालो भगवद्रूपं वीरशब्देन स स्मृतः || ५४-४६ ||

महाविष्णुशब्दतात्पर्यार्थनिरूपणम्

तत्तत्त्वत्रितयव्याप्तिर्विष्णुशब्देन भण्यते |
व्याप्तौ तत्राप्यलिप्तत्वं तस्माच्चाधिकता च या || ५४-४७ ||

महा महत्त्वं पूज्यत्वं महच्छब्देन वर्ण्यते |

सर्वतोमुखशब्दतात्पर्यार्थनिरूपणम्

सर्वतोमुखशब्देन प्रोच्यते सर्वशक्तिता || ५४-४८ ||

सर्वज्ञता च देवस्य सर्वकर्तृत्वमेव च |

भद्रशब्दतात्पर्यार्थनिरूपणम्

भद्रशब्देन देवस्य नित्यनिर्दोषतोच्यते || ५४-४९ ||

नृसिंहशब्दतात्पर्यार्थनिरूपणम्

तथा नृसिंहशब्देन पुरुषोत्तमतोच्यते |

मृत्युमृत्युशब्दतात्पर्यार्थनिरूपणम्

प्. ५५०) मोक्षप्रदत्वमेतस्य मृत्युमृत्युसमीरणात् || ५४-५० ||

अहंशब्दतात्पर्यार्थनिरूपणम्

प्रसंख्यानेन या सिद्धा सिद्धिः कालेन भूयसा |
प्रकृत्युत्तरता साक्षात् साहंशब्देन वर्ण्यते || ५४-५१ ||

हिनस्ति गच्छतीत्यादिः प्राकृती याखिला क्रिया |
तत्कर्तृवाची हंशब्दस्तदन्योऽहंपदोदितः || ५४-५२ ||

निरुपाध्यवमर्शोऽयं देहप्राणात्यये स्थितः |
अहमित्यास्पदं याति स जीवो निरुपस्कृतः || ५४-५३ ||

नमामिशब्दतात्पर्यार्थनिरूपणम्

प्रसंख्यायेत्थमात्मानं प्रह्वीभवति यत् स्वयम् |
नद्या इवाम्बुधौ देवे प्रह्वीभावो निमग्नता || ५४-५४ ||

इति ते सांख्यमार्गस्थो मान्त्रोऽर्थः सूक्ष्म ईरितः |
तत्प्रसंख्यानतत्त्वज्ञा विशन्ति प्रुषोत्तमम् |
योगमार्गस्थितं तस्य मत्तो रूपं निशामय || ५४-५५ ||

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
नारसिंहानुष्टुभमन्त्रार्थनिरूपणम् नाम
चतुष्पञ्चाशोऽध्यायः || ५४ ||

आदितः श्लोकाः ३५३३