अहिर्बुध्नसंहिता/अध्यायः ५३
| ← अध्यायः ५२ | अहिर्बुध्नसंहिता अध्यायः ५३ [[लेखकः :|]] |
अध्यायः ५४ → |
जितन्ताख्यमन्त्रार्थनिरूपणं नाम त्रिपञ्चाशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ।।
मन्त्राद्यपादस्य स्थूलार्थनिरूपणे
जिधात्वर्थयोरौज्ज्वल्याविघातयोर्नमनप्रयोजकत्वकथनम्
अहिर्बुध्न्यः -
औज्ज्वल्यमविघातश्च जयतेरर्थ उच्यते ।
प्रयोजकं तदुभयं नन्तुर्नमनकर्मणि ।। ५३-१ ।।
तयोर्ज्ञानादिषड्गुणजन्यत्वम्
ज्ञानशक्तिबलाद्यैस्तदुभयं खलु जायते ।
ज्ञानादिगुणपूर्णत्वात् भगवत एव नन्तव्यत्वम्
ज्ञानशक्तिबलैश्वर्यवीर्यतेजोमहोदधिः ।। ५३-२ ।।
भगवानेव विश्वात्मा नन्तव्यः प्रविवक्ष्यते ।
पूण्डरीकाक्षशब्दस्य यथोक्तार्थप्रकाशकत्वोपपादनम्
पुण्डरीकाक्षशब्देन तदिदं प्रतिसूत्र्यते ।। ५३-३ ।।
प्रयुक्तो रागरोषाभ्यां चक्षुषैव विभाव्यते ।
प्. ५२९) अयं त्ववाप्तकामत्वात् तत्तत्कृत्यविवर्जितः ।। ५३-४ ।।
प्रसन्नो वैकृतत्यागात् पुण्डरीकाक्ष उच्यते ।
तस्यैव शब्दस्य
हेयप्रतिभटत्वकल्याणगुणाकरत्वरूपोभयलिङ्गपरत्वम्
रागादिदोषनिर्मुक्तिः कल्याणगुणपूरणम् ।। ५३-५ ।।
पुण्डरीकाक्षशब्देन शब्द्यते पुरुषोत्तमे ।
तस्यैव वासुदेवाख्यप्रथमव्यूहनिरूपकत्वम्
पुण्डरीकाक्षशब्दोऽयमादिव्यूहनिरूपणः ।। ५३-६ ।।
पुण्डरीकाक्षमामन्त्र्य ब्रह्मा तेनैव हेतुना ।
नन्ता स्वं च समालोक्य जितं त इति वक्त्ययम् ।। ५३-७ ।।
इति संसर्गजः स्थूलः सूक्ष्मं चापि मुने शृणु ।
सूक्ष्मार्थनिरूपणे पुण्डरीकाक्षशब्देन
भगवतोऽकालकाल्यत्वस्याविष्करणम्
पुण्डरीकं तु कालाख्यं पुरं जरयते यतः ।। ५३-८ ।।
तेनाक्षतो बहिर्भावात् तेनानाकलितो यतः ।
कालत्रैविध्यकथनपूर्वकं तदुपपादनम्
स्थूलः सूक्ष्मः परः कालस्त्रिविधो न परात्मनि ।। ५३-९ ।।
वासुदेवे परे ब्रह्मण्यवगाहनमर्हति ।
स्थूलो लवादिमान् कालः सूक्ष्मस्तत्त्वनिरूपकः ।। ५३-१० ।।
व्यूहानां चेष्टितव्यापी परः कालो निरूप्यते ।
प्. ५३०) व्यूहत्रयात् परवासुदेवस्य वैलक्षण्याविष्करणम्
व्यूहत्रयस्य भवति कालेन कलनं सदा ।। ५३-११ ।।
भगवान् वासुदेवस्तु न व्यूहेनापि कालवान् ।
व्यूहत्रयमपेक्ष्यैव कालव्यूहनिरूपणम् ।। ५३-१२ ।।
कालेनामानतश्चायममितद्युतिरुच्यते ।
पुण्डरीकाक्षशब्दस्य भगवति नित्यविभूतियोगप्रतिपादकत्वम्
पुण्डरीकं परं धाम नित्यमक्षयमव्ययम् ।। ५३-१३ ।।
तस्मिन्निवसनान्नित्यं पुण्डरीकाक्ष उच्यते ।
तस्यैव स्वमहिमप्रतिष्ठितत्वप्रतिपादकत्वम्
पुण्डरीकं परं धाम स्व एव महिमोज्ज्वलः ।। ५३-१४ ।।
स्वे महिम्नि स्थितो देवः पुण्डरीकाक्ष उच्यते ।
वासुदेवस्ततः प्रोक्तः पुण्डरीकाक्षसंज्ञया ।। ५३-१५ ।।
पुण्डरीकाक्षशब्दस्य सूक्ष्मार्थः सोऽयमीरितः ।
परार्थनिरूपणारम्भः
पुण्डरीकाक्ष इत्यस्य परमर्थं निशामय ।। ५३-१६ ।।
पकारार्थनिरूपणम्
(१) रागादिदोषनिर्मुक्तः पवित्रं परमं हरिः ।
______________
१ अत्रेदं बोध्यम्- पकारः, उकारः, णकारः, डकारः, रीकारः,
ककारः, आकारः, क्षकारः, इत्येवं पुण्डरीकाक्षशब्दस्थान्
वर्णानष्टधा विभज्य तेषामप्रमेयादिभावसंसिद्धः
परसंज्ञोऽर्थो रागादीत्युपक्रम्य सार्धश्लोकचतुष्टयेन क्रमात्
प्रदर्श्यत इति ।
______________
प्. ५३१) उकारार्थनिरूपणम्
नित्योदितस्वरूपत्वादुद्दाम उदयः स्मृतः ।। ५३-१७ ।।
णकारार्थनिरूपणम्
व्यूहत्रितयपूर्वत्वात् प्रधानः परिपठ्यते ।
डकारार्थनिरूपणम्
शुद्धाशुद्धाध्वसंप्राप्तेः संस्मृतोऽखण्डविक्रमः ।। ५३-१८ ।।
ईकारशिरस्करेफार्थनिरूपणम्
संकर्षणादिभूम्यन्तमशेषभुवनं यतः ।
बिभर्त्याधारभावेन व्याप्नोत्यन्तश्च तत् स्वयम् ।। ५३-१९ ।।
आकारसहितककारार्थनिरूपणम्
आनन्दो नैरपेक्ष्येण परा च प्रकृतिः स्वयम् ।
क्षकारार्थनिरूपणम्
शुद्धाशुद्धमयस्यास्य चेतनाचेतनात्मनः ।। ५३-२० ।।
वर्गस्यान्तः परा सीमा वर्गान्तः परिपठ्यते ।
पुण्डरीकाक्षशब्दार्थस्य चिरकालादपि कार्त्स्न्येन वक्तुमशक्यत्वम्
इति वर्णमयी रीतिः पराख्या ते प्रदर्शिता ।। ५३-२१ ।।
वर्षायुतैरपि व्यक्तं न शक्या वक्तुमञ्जसा ।
प्. ५३२) मन्त्रद्वितीयपादस्थूलार्थनिरूपणम्
विश्वभावनसंज्ञेयं संकर्षश्रीसमीरणी ।। ५३-२२ ।।
क्रियाकारकसंसर्गजन्यः स्थूलो निरूपितः ।
सूक्ष्मार्थनिरूपणम्
सूक्ष्ममर्थमिदानीं तु गदतो मे निशामय ।। ५३-२३ ।।
विश्वभावनशब्दस्य सर्वकारणपरत्वम्
चेतनाचेतनाकारं विश्वं प्रद्युम्नपूर्वकम् ।
भावयन्ननिशं देवः कथितो विश्वभावनः ।। ५३-२४ ।।
कारणत्वोपयोगिसर्वज्ञत्वपरत्वम्
विश्वं भावयति व्यक्तं जानात्येव यथार्थतः ।
विश्वभावन उद्दिष्टः सर्वज्ञः शब्दवित्तमैः ।। ५३-२५ ।।
संकर्षणाख्यद्वितीयव्यूहपरत्वम्
अनिशं बिभ्रतं प्राप्य विश्वं भवति वै ततः ।
विश्वभावन उद्दिष्टो बलदेवो महाबलः ।। ५३-२६ ।।
सर्वशेषिपरत्वम्
अनाथमभवद्विश्वं नाथो भावयति स्वयम् ।
तस्मिन्नुदितमात्रे वै विश्वं यद्भवति स्वयम् ।। ५३-२७ ।।
विश्वभावन उद्दिष्टो नाथत्वेन निरीक्षणात् ।
सर्वाधारपरत्वम्
विशालोऽयं यदाधारो विश्वस्य भवने स्वयम् ।। ५३-२८ ।।
प्. ५३३) तिलकालकवद्विश्वं यस्मात् तत्रावतिष्ठते ।
विशालाधाररूपेण विशालाक्षो भवेत् स्वयम् ।। ५३-२९ ।।
विश्वं तद्भावयन् विश्वं विश्वभावन ईर्यते ।
इति ते लेशतः प्रोक्तः सूक्ष्मोऽर्थो विश्वभावने ।। ५३-३० ।।
परार्थनिरूपणारम्भः
परमर्थमिदानीं त्वं गदतो मे निशामय ।
इकारशिरस्कवकारार्थनिरूपणम्
(१) अमृताधारतस्त्विद्धो वासुदेवादिभूमिकः ।। ५३-३१ ।।
शकारार्थनिरूपणम्
सम्यग्ज्ञानोपदेशेन शंकरः सर्वदेहिनाम् ।
द्वितीयवकारार्थनिरूपणम्
अह्नां वरमहो यस्माद्वराहः परिपठ्यते ।। ५३-३२ ।।
अहः संकर्षणः प्रोक्तो वासुदेवस्य तत्त्वतः ।
आकारसहितभकारार्थनिरूपणम्
सिद्धिदः सर्वभूतानां देवानामादिरेव च ।। ५३-३३ ।।
______________
१ इयमत्र योजना- इकारशिरस्कः प्रथमवकारः, शकारः,
द्वितीयवकारः, भकारः, आकारः, तृतीयवकारः, नकारः, इत्येवं
विश्वभावनशब्दस्थान् वर्णान् सप्तधा विभज्य
तेषामप्रमेयादिभावसंसिद्धः परसंज्ञोऽर्थः अमृताधारत
इत्यादिना सार्धश्लोकपञ्चकेन क्रमात् प्रदर्श्यत इति ।
_________________
प्. ५३४) भकारविवक्षितसिद्धिप्रदत्वोपपादनम्
तत्तत्सच्छास्त्रसंभूतशुक्लकर्मोपजोषणः ।
सिद्धिं ददाति जीवानामतः सिद्धिद उच्यते ।। ५३-३४ ।।
आकारविवक्षितयोरादित्वदेवत्वयोरुपपादनम्
आदिभूतः स देवानां सव्यूहविभवात्मनाम् ।
आदिश्च दीव्यति व्यक्तमादिदेवः स उच्यते ।। ५३-३५ ।।
तृतीयवकारनकारार्थनिरूपणम्
आवृणोति तमः सर्वं विवृणोति तदक्षरम् ।
वरुणः सोऽप्रमेयस्थः स च पन्थाः स्मृतो बुधैः ।। ५३-३६ ।।
विश्वभावन इत्येवमर्थो वर्णमयः परः ।
मन्त्रतृतीयपादस्थूलार्थस्य पूर्वनिरूपितत्वसूचनम्
हृषीकेशपदार्थं तु ब्रुवतो मे निशामय ।। ५३-३७ ।।
क्रियाकारकसंसर्गजन्योऽर्थः पूर्वमीरितः ।
सूक्ष्मार्थनिरूपणम्
यः प्रातिपादिकार्थस्तं सूक्ष्ममद्य निशामय ।। ५३-३८ ।।
हृषीकेशपदस्य सप्तधा अर्थवर्णने प्रथमं
ज्ञानोत्तेजकत्वपरत्वकथनम्
प्रद्योतयति विद्यायास्तमो हत्वा मधुं रिपुम् ।
प्. ५३५) भगवद्भावितं रूपं सत्सत्त्वप्रतिपादकम् ।। ५३-३९ ।।
हृषीकेशत्वमीशस्य तदेव गदितं बुधैः ।
ज्ञाननिर्मलीकरणद्वारा हर्षहेतुत्वपरत्वेन
प्रद्युम्नाख्यव्यूहपरत्वम्
हर्षयत्यमलीकृत्य विद्यामीश इतीदृशम् ।। ५३-४० ।।
हृषीकेशत्वमेतद्धि प्रद्युम्नत्वमुदीर्यते ।
ज्ञानेन्द्रियनियामकपरत्वम्
ज्ञानेन्द्रियं हृषीकं स्यात् तस्य सोऽन्तर्नियामकः ।। ५३-४१ ।।
हृषीकेशत्वमेतद्धि प्रद्युम्नस्य निगद्यते ।
जगन्मयपरत्वम्
हृषीका विषयाः प्रोक्ताः प्रकृतिप्राकृतात्मकाः ।। ५३-४२ ।।
हर्षयन्ति हि ते जीवांस्तेषामीशो जगद्गुरुः ।
जगन्मयत्वमेतद्धि तन्मयत्वसमीरणात् ।। ५३-४३ ।।
सृष्ट्यादिरूपक्रीडाहेतुकहर्षाश्रयदेवपरत्वम्
क्रीडया हृष्यति व्यक्तमीशस्तत्सृष्टिरूपया ।
हृषीकेशत्वमीशस्य देवत्वं चास्य तत् स्फुटम् ।। ५३-४४ ।।
ऐश्वर्यवीर्यरूपगुणाश्रयपरत्वम्
अविकारितया हृष्टो हृषीको वीर्यरूपया ।
ईशः स्वातन्त्र्ययोगेन नित्यं सृष्ट्यादिकर्मणि ।। ५३-४५ ।।
प्. ५३६) ऐश्वर्यवीर्यरूपत्वं हृषीकेशत्वमुच्यते ।
जगच्छब्दविवक्षितसर्वचेतनशेषित्वपरत्वम्
हृषी ज्ञानं समुद्दिष्टं हृषीकाश्चेतनात्मकाः ।। ५३-४६ ।।
जङ्गमत्वाज्जगद्रूपास्तदीशो जगतां पतिः ।
इति सूक्ष्मोऽयमुद्दिष्टः स प्रातिपादिकाश्रयः ।। ५३-४७ ।।
परार्थनिरूपणारम्भः
वर्णाश्रयमिदानीं मे परमर्थं निशामय ।
हकारार्थनिरूपणम्
(१) प्राणयत्यखिलं जीवं शुक्लधर्मात्मभावतः ।। ५३-४८ ।।
ऋकारार्थनिरूपणम्
सत्यश्च नामतः सच्च त्यच्च यस्माद्भवत्ययम् ।
ईकारशिरस्कषकारार्थनिरूपणम्
माययाश्चर्ययोगेन भास्करं भरते दिवि ।। ५३-४९ ।।
एकारशिरस्कककारार्थनिरूपणम्
करालां जगतो योनिं घोररूपां तमोमयीम् ।
________________
१ अत्रेयं योजना- हकारः, ऋकारः, ईकारशिरस्कः षकारः,
एकारशिरस्कः ककारः, शकारः, इत्येवं हृषीकेशपदस्थान् वर्णान्
पञ्चधा विभज्य तेषामप्रमेयादिभावसंसिद्धः
परसंज्ञोऽर्थः प्राणयतीत्यादिना सार्धश्लोकद्वयेन क्रमात्
प्रदर्श्यत इति ।
________________
प्. ५३७) शकारार्थनिरूपणम्
शमयत्यप्रमेयस्थ इति वर्णाश्रया स्थितिः ।। ५३-५० ।।
अर्थोऽयं त्रिविधः प्रोक्तो हृषीकेशे महामुने ।
मन्त्रचतुर्थपादस्य स्थूलार्थनिरूपणम्
अर्थं शृणु त्वं त्रिविधं महापुरुषपूर्वजे ।। ५३-५१ ।।
जितं च इति वाकृष्य आहार्योऽत्र जयेति वा ।
जितं तेऽथ नमस्तेऽस्तु पदमेतदिहोभयम् ।। ५३-५२ ।।
अञ्जसा जगतोऽध्यक्षे चेतनाचेतनात्मनः ।
जयः प्रणामरूपोऽर्थो ह्यनिरुद्धेऽभिधीयते ।। ५३-५३ ।।
जितं त इति शब्दोऽयमतिस्वामित्वसूचकः ।
संनिकृष्टो नमस्कारः सर्वोत्कृष्टे कथं भवेत् ।। ५३-५४ ।।
अत्युच्चो येन रूपेण संनिकर्षमुपैति सः ।
तद् द्वितीयतृतीयौ द्वाविति तत्र नमस्क्रिया ।। ५३-५५ ।।
भावद्वयेन भगवाननिरुद्धो जगद्धितः ।
इति द्योतयितुं तत्र वाच्ये जयनमस्क्रिये ।। ५३-५६ ।।
क्रियाकारकजन्योऽर्थ इति स्थूलो निरूपितः ।
सूक्ष्मार्थनिरूपणम्
यः प्रातिपदिकस्थोऽर्थस्तं त्वं सूक्ष्मं निशामय ।। ५३-५७ ।।
प्. ५३८) मकारार्थनिरूपणम्
मिमीते विविधं वस्तु क्षेत्रक्षेत्रज्ञतन्मयम् ।
हाकारार्थनिरूपणम्
जिहीते तदशेषं च प्रविशत्यन्तरात्मना ।। ५३-५८ ।।
महेतिसमुदायार्थनिरूपणम्
प्राणयत्यथ तत् सर्वं तत्र तत्र महीयते ।
महद्भ्यश्च महानित्थं महानिति निरुच्यते ।। ५३-५९ ।।
पुकारार्थनिरूपणम्
पुष्यति स्थितिमाव्यक्ति पुनः पुनरुदेति च ।
रुशब्दार्थनिरूपणम्
रौति शास्त्रं च नानार्थं रूयते तत्तदात्मना ।। ५३-६० ।।
राति पूजामथादत्ते राति चाराधितः फलम् ।
षकारार्थनिरूपणम्
(१) अन्तं करोति पापानां नाना सभज्यते जनैः ।। ५३-६१ ।।
पुरुषपदसमुदितार्थनिरूपणम्
पुरमोषति कर्मान्ते पुरुभिः सेव्यते तथा ।
________________
१ ऽऽषोऽन्तकर्मणिऽऽ ऽऽषण संभक्तौऽऽ इति धातुद्वयमत्र बोध्यम्.
_________________
प्. ५३९) पुरि शेते पुरं सौति सत्त्वे पुरुणि सीदति ।। ५३-६२ ।।
रेफशिरस्कपूकारार्थनिरूपणम्
पारयत्यखिलं विश्वं वारयत्यखिलं तमः ।
वकारजकारार्थनिरूपणम्
वनते चाश्रितान् सर्वाञ्जयत्यपि तमोमयम् ।। ५३-६३ ।।
अजति क्षिपति स्पष्टं द्विषतः क्रूरयोनिषु ।
पूर्वजशब्दसमुदितार्थनिरूपणम्
पूर्व एव पुराणः संस्तत्तद्योनिषु जायते ।। ५३-६४ ।।
पूर्वजः सर्वदेवानां पूर्वोऽजो यस्य देहजः ।
अजो हि पुत्रः पूर्वोऽस्य ब्रह्मा प्रथमकल्पितः ।। ५३-६५ ।।
पूर्वा जीवाः समाख्याताः पुरस्ते (१) वन्वते यतः ।
स्वेन रूपेण पूर्वांस्तान् प्रादुर्भावयति स्वयम् ।। ५३-६६ ।।
महापुरुषपदसमुदितार्थनिरूपणम्
महत्त्वमनपेक्षत्वं सर्वभावक्रियाविधौ ।
(२) पुरुषैरविभागो यो महापुरुषतास्य सा ।। ५३-६७ ।।
एतदेव च तेजस्तत् सैषा शक्तिरुदीरिता ।
________________
१ ऽऽवनु याचनेऽ इति धातोः रूपमिदम्
२ पुरुषैरविभागे या.
________________
प्. ५४०) एतदेवानिरुद्धत्वं भगवत्त्वमपीदृशम् ।। ५३-६८ ।।
स्थित्युत्पत्तिलयत्राणहेतुत्वं चैतदीदृशम् ।
इति ते लेशतः प्रोक्तः सूक्ष्मः प्रतिपदाश्रयः ।। ५३-६९ ।।
परार्थनिरूपणारम्भः
वर्णाश्रयमिदानीं मे परमर्थं निशामय ।
मकारार्थनिरूपणम्
मर्दनः सर्वदुष्टानामप्रमेयपराक्रमः ।। ५३-७० ।।
हाकारार्थनिरूपणम्
अरिभ्यश्च हितो नित्यं गोपनः सर्वदेहिनाम् ।
व्यक्तः क्रियावतां पन्थास्त्रयीकर्मसमुद्भवः ।। ५३-७१ ।।
उकारशिरस्कपकारार्थनिरूपणम्
पद्मनाभोऽम्बुशायी सन्नुद्दामभुवनोदयः ।
तादृशरेफार्थनिरूपणम्
अशेषभुवनाधारस्तत्तत्कार्योदयस्थितिः ।। ५३-७२ ।।
षकारपकारार्थनिरूपणम्
श्वेतद्वीपे नृसिंहः सन्नग्निरूपो हविर्भुजाम् ।
भास्करः सर्वदेवानां पवित्रं परमं सताम् ।। ५३-७३ ।।
ऊकारार्थनिरूपणम्
नानाविधानां प्रज्ञानामाधारः कार्यसाधने ।
द्वितीयरेफार्थनिरूपणम्
बलवान् सर्वलोकेशः कल्पान्ते कालपावकः ।। ५३-७४ ।।
वकारजकारार्थनिरूपणम्
वराहो वसुधोद्धारे जन्महन्ता स्मृतः सताम् ।
अजितो देवदैत्याद्यैर्महापुरुषपूर्वजः ।। ५३-७५ ।।
इति वर्णाश्रया रीतिर्महापुरुषपूर्वजे ।
प्रकृतमहामन्त्रतात्पर्यसूचनम्
नानाविधमहार्थोऽयं जितन्ताख्यो महामनुः ।
चक्ररूपं चित्ररूपं वक्ति देवं सनातनम् ।। ५३-७६ ।।
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
जितन्ताख्यमन्त्रार्थनिरूपणं नाम त्रिपञ्चाशोऽध्यायः ।। ५३ ।।
आदितः श्लोकाः ३४७८