अहिर्बुध्नसंहिता/अध्यायः ५२
| ← अध्यायः ५१ | अहिर्बुध्नसंहिता अध्यायः ५२ [[लेखकः :|]] |
अध्यायः ५३ → |
विष्ण्वादिमन्त्रार्थनिरूपणं नाम द्विपञ्चाशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ।।
वृत्तानुवादपूर्वकं विष्ण्वादिमन्त्रार्थकथनप्रतिज्ञा
अहिर्बुध्न्यः -
तारतारानुताराणां स्वरूपं ते प्रदर्शितम् ।
स्थूलसूक्ष्मपरत्वेषु गुणकर्मनिमित्तजम् ।। ५२-१ ।।
मन्त्राणां विष्णुपूर्वाणामर्थमद्य निशामय ।
नमःशब्दस्य स्थूलार्थनिरूपणे शब्दार्थप्रदर्शनम्
प्रेक्षावतः प्रवृत्तिर्या प्रह्वीभावात्मिका स्वतः ।। ५२-२ ।।
उत्कृष्टं परमुद्दिश्य तन्नमः परिगीयते ।
उत्कृष्टापकृष्टभेदेन चेतनद्वैविध्यम्
लोके चेतनवर्गस्तु द्विधैव परिकीर्त्यते ।। ५२-३ ।।
ज्यायांश्चैव तथाज्यायान्नैवाभ्यां विद्यते परः ।
अनवधिकातिशयप्रकर्षविशिष्टस्य ज्यायःशब्दमुख्यार्थत्वम्
कालतो गुणतश्चैव प्रकर्षो यत्र तिष्ठति ।। ५२-४ ।।
शब्दस्तं मुख्यया वृत्त्या ज्यायानित्यवलम्बते ।
प्. ५१६) तदन्येषामज्यायस्त्वम्
अतश्चेतनवर्गोऽन्यः स्मृतः प्रत्यवरो बुधैः ।। ५२-५ ।।
अज्यायांश्चानयोर्योगः शेषशेषितयेष्यते ।
अज्यायांसः स्मृताः सर्वे ज्यायानेको मतः परः ।। ५२-६ ।।
जीवपरयोः संबन्धनिरूपणपूर्वकं नन्तृनन्तव्यत्वव्यवस्था
नन्तृनन्तव्यभावेन तेषां तेन समन्वयः ।
नन्तव्यः परमः शेषी शेषा नन्तार ईरिताः ।। ५२-७ ।।
जीवेशयोः शेषशेषिभावस्य निरूपाधिकत्वम्
नन्तृनन्तव्यभावोऽयं न प्रयोजनपूर्वकः ।
नीचोच्चयोः स्वभावोऽयं नन्तृनन्तव्यतात्मकः ।। ५२-८ ।।
निरुपाधिकोत्कर्षापकर्षज्ञानस्य नमनहेतुत्वम्
उपाधिरहितेनायं येन भावेन चेतनः ।
नमति ज्यायसे तस्मै तद्वा नमनमुच्यते ।। ५२-९ ।।
भगवान् मत्परो नित्यमहं प्रत्यवरः सदा ।
इति भावो नमः प्रोक्तो नमसः कारणं हि सः ।। ५२-१० ।।
अन्तर्णीतणिजर्थविवक्षया नमःशब्दस्य निर्वचनान्तरम्
नामयत्यपि वा देवं प्रह्वीभावयति ध्रुवम् ।
प्रह्वीभवति नीचे हि परो नैच्यं विलोकयन् ।। ५२-११ ।।
प्. ५१७) अतो वा नम उद्दिष्टं यत् तं नामयति स्वयम् ।
करणत्रयसहितस्य नमसः पूर्णत्वम्
वाचा नम इति प्रोच्य मनसा वपुषा च यत् ।। ५२-१२ ।।
तन्नमः पूर्णमुद्दिष्टमतोऽन्यन्न्यूनमुच्यते ।
इयं करणपूर्तिः स्यादङ्गपूर्तिमिमां शृणु ।। ५२-१३ ।।
प्रह्वीभावात्मकात्मनिक्षेपतद्विरोधिनोर्निरूपणम्
शाश्वती मम संसिद्धिरियं प्रह्वीभवामि यत् ।
पुरुषं परमुद्दिश्य न मे सिद्धिरतोऽन्यथा ।। ५२-१४ ।।
इत्यङ्गमुदितं श्रेष्ठं फलेप्सा तद्विरोधिनी ।
कार्पण्यतद्विरोधिनोर्निरूपणम्
अनादिवासनारोहादनैश्वर्यात् स्वभावजात् ।। ५२-१५ ।।
मलावकुण्ठितत्वाच्च (१) दृक्क्रियाविहतिर्हि या ।
तत् कार्पण्यं तदुद्बोधो द्वितीयं ह्यङ्गमीदृशम् ।। ५२-१६ ।।
________________
१ अत्र दृक्छब्देन ज्ञातृत्वं क्रियाशब्देन च कर्तृत्वं विवक्षितम् ।
इदं च भोक्तृत्वस्याप्युपलक्षकम् । तेषां विहतिः प्रतिहतिः
कुण्ठनमिति यावत् । तदेव कार्पण्यम् । तज्ज्ञानं द्वितीयमङ्गमिति ।
अयमाशयः- चेतनस्य ज्ञातृत्वकर्तृत्वभोक्तृत्वानि द्विविधानि
स्वाभाविकान्यौपाधिकानि चेति । तत्र सप्रकारकपरमपुरुषविषयकं
ज्ञातृत्वं, तदीयपर्यन्ततच्चरणकमलपरिचर्याविषयकं कर्तृत्वं,
सोऽश्नुते सर्वान् कामान् सह इत्यादिश्रुतिबोधितं भोक्तृत्वं च
स्वरूपानुबन्धित्वात् स्वाभाविकम् । तच्च यथोक्तेनानादिवासनारोहादि-
रूपेण हेतुत्रयेणामोक्षं कार्त्स्न्येन कुण्ठितम् । यानि तु चेतनस्य
सांसारिकतत्तत्पदार्थविषयकाणि ज्ञातृत्वकर्तृत्वभोक्तृत्वानि, तानि
कर्मोपाधिकस्वातन्त्र्यज्ञाननिमित्तकत्वादौपाधिकान्युपाध्यनुगुण-
मामोक्षात् तत्तज्जन्मसु तरतमभावेन प्रवर्तन्ते । सोऽयं
स्वस्वातन्त्र्यावबोधो यथोक्तकार्पण्यविरोधीत्युच्यत इति ।
________________
प्. ५१८) स्वस्वातन्त्र्यावबोधस्तु तद्विरोधीत्युदीर्यते ।
महाविश्वासतद्विरोधिनोर्निरूपणम्
परत्वे सति देवोऽयं भूतानामनुकम्पनः ।। ५२-१७ ।।
अनुग्रहैकधीर्नित्यमित्येतत्तु तृतीयकम् ।
उपेक्षको यथाकर्म फलदायीति या मतिः ।। ५२-१८ ।।
विश्वासात्मकमेतत्तु तृतीयं हन्ति वै सदा ।
गोप्तृत्ववरणतद्विरोधिनोर्निरूपणम्
(१) एवंभूतोऽप्यशक्तः सन्न त्राणं भवितुं क्षमः ।। ५२-१९ ।।
इति बुद्ध्यास्य देवस्य गोप्तृशक्तिनिरूपणम् ।
चतुर्थमङ्गमुद्दिष्टममुष्य व्याहतिः पुनः ।। ५२-२० ।।
उदासीनो गुणाभावादित्युपेक्षानिमित्तजा ।
प्रातिकूल्यवर्जनतद्विरोधिनोर्निरूपणम्
स्वस्य स्वाम्यनिवृत्तिर्या प्रातिकूल्यविवर्जनम् ।। ५२-२१ ।।
तदङ्गं पञ्चमं प्रोक्तमाज्ञाव्याघातवर्जनम् ।
अशास्त्रीयोपसेवा तु तद्व्याघात उदीर्यते ।। ५२-२२ ।।
आनुकूल्यसंकल्पतद्विरोधिनोर्निरूपणम्
चराचराणि भूतानि सर्वाणि भगवद्वपुः ।
__________________
१ एवंभूत इति हेतुगर्भविशेषणम् । परमपुरुष इति विशेष्यं
प्रकरणलभ्यम् । एवंभूतः परमपुरुषः स्वयमशक्तश्चेत्
चेतनानां त्राणं भवितुं क्षमो न भवेत् । अतः शक्तः सन् क्षमो
भवेदेवेति योजना ।
__________________
प्. ५१९) अतस्तदानुकूल्यं मे कार्यमित्येव निश्चयः ।। ५२-२३ ।।
षष्ठमङ्गं समुद्दिष्टं तद्विघातो निराकृतिः (१) ।
उक्तार्थनिगमनम्
पूर्णमङ्गैरुपाङ्गैश्च नमनं ते प्रकीर्तितम् ।। ५२-२४ ।।
स्थूलोऽयं नमसश्चार्थः सूक्ष्ममद्य निशामय ।
नमःशब्दस्य सूक्ष्मार्थनिरूपणे म
इत्यस्याहंकारममकारवाचित्वम्
चेतनस्य यदा मम्यं स्वस्मिन् स्वीये च वस्तुनि ।। ५२-२५ ।।
मम इत्यक्षरद्वन्द्वं तदा मम्यस्य वाचकम् ।
नमःशब्दस्याहंताममताबुद्धिनिवर्तकत्वम्
अनादिवासनाधीनमिथ्याज्ञाननिबन्धना ।। ५२-२६ ।।
आत्मात्मीयपदार्थस्था या स्वातन्त्र्यस्वतामतिः ।
मे नेत्येवं समीचीनबुद्ध्या सात्र निवार्यते ।। ५२-२७ ।।
उक्तार्थस्यैव विवरणम्
नाहं मम स्वतन्त्रोऽहं नास्मीत्यस्यार्थ उच्यते ।
न मे देहादिकं वस्तु स शेषः परमात्मनः ।। ५२-२८ ।।
इति बुद्ध्या निवर्तन्ते तास्ताः स्वीया मनीषिकाः ।
नमःशब्दार्थज्ञानस्याहंताममताबुद्धिनिवर्तकत्वे
उपपत्तिप्रदर्शनम्
अनादिवासनाजातैर्बोधैस्तैर्विकल्पितैः ।। ५२-२९ ।।
________________
१ भगवच्छरीरभूतानां चराचरात्मकानां भूतानां
निराकृतिः प्रद्वेषादिना तिरस्करणं तद्विघातः
आनुकूल्यसंकल्परूपषष्ठाङ्गविरोधिनीत्यर्थः ।
_________________
प्. ५२०) रूषितं यद् दृढं चित्तं स्वातन्त्र्यस्वत्वधीमयम् ।
तत्तद्वैष्णवसार्वात्म्यप्रतिबोधसमुत्थया ।। ५२-३० ।।
नम इत्यनया वाचा नन्त्रा स्वस्मादपोह्यते ।
इति ते सूक्ष्म उद्दिष्टः परमद्य निशामय ।। ५२-३१ ।।
नमःशब्दस्य परार्थनिरूपणम्
पन्था नकार उद्दिष्टो मः प्रधानो निरूप्यते ।
विसर्गः परमेशस्तु तत्रार्थोऽयं निरूप्यते ।। ५२-३२ ।।
अनादिः परमेशो यः शक्तिमान् पुरुषोत्तमः ।
तत्प्राप्तये प्रधानोऽयं पन्था नमननामवान् ।। ५२-३३ ।।
इति ते त्रिविधः प्रोक्तो नमःशब्दार्थ ईदृशः ।
विष्णुमन्त्रस्य स्थूलार्थनिरूपणम्
विष्णुनारायणादीनामर्थमद्य निशामय ।। ५२-३४ ।।
नीचभावेन संद्योत्यमात्मनो यत् समर्पणम् ।
विष्ण्वादिस्था चतुर्थी तत्संप्रदानप्रदर्शनी ।। ५२-३५ ।।
नीचीभूतो ह्यसावात्मा यत्संरक्ष्यतयाप्यते ।
तत् कस्मा इत्यपेक्षायां विष्णवे स इतीर्यते ।। ५२-३६ ।।
क्रियाकारकसंसर्गलभ्योऽर्थः स्थूल ईरितः ।
प्. ५२१) विष्णुमन्त्रस्य सूक्ष्मार्थनिरूपणे विष्णौ
परत्वद्योतकगुणविशेषनिरूपणम्
यः प्रातिपदिकप्रेक्षाजन्यः सूक्ष्मः स ईर्यते ।। ५२-३७ ।।
व्याप्तिकान्तिप्रवेशेच्छास्तत्तद्धातुनिबन्धनाः ।
परत्वद्योतिका विष्णोर्देवस्य परमात्मनः ।। ५२-३८ ।।
व्याप्तिगुणनिरूपणम्
व्याप्नोति देशकालाभ्यां सर्वं यद्रूपतोऽपि च ।
तत् परं गदितं (१) सद्भिर्विषेर्धातोर्निरूपणात् ।। ५२-३९ ।।
कान्तिगुणनिरूपणम्
कान्तिर्नाम गुणोत्कर्षो गुणा ज्ञानबलादयः ।
अतिवेलं प्रकृष्यन्ते यत्र कान्तः स ईरितः ।। ५२-४० ।।
अकान्ताश्चेतनाः सर्वे कान्तः स पुरुषः परः ।
कान्तिर्नाम गुणः सोऽयं (२) वशेर्धातोर्निरूपणात् ।। ५२-४१ ।।
प्रवेशगुणनिरूपणम्
चेतनाचेतनाः सर्वे विशन्त्येव यतः स्वयम् ।
महीयांसं विशत्येव योऽणीयानणुषु स्वयम् ।। ५२-४२ ।।
स परो गदितः (३) सद्भिर्विशेर्धातोर्निरूपणात् ।
इच्छागुणनिरूपणम्
य इष्यते सदा सर्वैरात्मभावेन चेतनैः ।। ५२-४३ ।।
_________________
१ ऽऽविषॢ व्याप्तौऽऽ.
२ ऽऽवश कान्तौऽऽ.
३ ऽऽविश प्रवेशनेऽऽ.
__________________
प्. ५२२) स परो गदितः सद्भिरिषेर्धातोर्निरूपणात् (१) ।
विष्णुशब्दे एकैकवर्णार्थनिरूपणम्
विश्वं प्रजायते वस्तु समवैति च तत्र हि ।। ५२-४४ ।।
प्रस्नौति च सदा सद्भ्यः पुरुषार्थं चतुर्विधम् ।
(२) वेः (२) सचेश्च (२) स्नुतेश्चैव विष्णुर्धातुत्रयान्वयात् ।। ५२-४५ ।।
इति ते लेशतः सूक्ष्मो विष्णुशब्दार्थ ईरितः ।
परार्थनिरूपणम्
परस्त्वक्षरलभ्योऽर्थस्तस्य तत्त्वं निशामय ।। ५२-४६ ।।
अमृतायितसर्वार्थो ज्योतिस्त्रयसमिन्धनः ।
ददात्यभयमित्येतत् परोऽर्थः परिकीर्तितः ।। ५२-४७ ।।
इति ते वैष्णवे मन्त्रे त्रिविधा गतिरीरिता ।
नारायणमन्त्रस्य सूक्ष्मार्थनिरूपणम्
नारायणे निबोधैतद्रूपाणां त्रितयं मुने ।। ५२-४८ ।।
क्रियाकारकलभ्योऽर्थस्तत्र स्थूलो (३) निदर्शितः ।
यः प्रातिपदिकस्थोऽर्थः स सूक्ष्मोऽद्य निरूप्यते ।। ५२-४९ ।।
_______________
१ ऽऽ इष दच्छायाम् ऽऽ.
२ ऽऽ वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषुऽऽ ऽऽषच समवायेऽऽ ऽऽष्णु
प्रस्रवणेऽ इति धातुत्रयमत्र क्रमेण बोध्यम् । अत एव
द्वितीयतृतीयधातुद्वयानुगुण्येनात्र विष्णुशब्देपि
षकारद्वित्वमवधेयम् । अत्र सवेश्चेति द्वितीयो धातुः क्वचित् पठ्यते;
तत्तु शमवैति च तत्र हिऽऽ इति
पूर्वोक्तविवरणवाक्याननुगुणत्वादुपेक्षितम् ।
३ पञ्चत्रिंशषट्त्रिंशश्लोकौ द्रष्टव्यौ.
_______________
प्. ५२३) नरसंबन्धिनो नारा नरः स पुरुषोत्तमः ।
नयत्यखिलविज्ञानं नाशयत्यखिलं तमः ।। ५२-५० ।।
न रिष्यति च सर्वत्र नरस्तस्मात् सनातनः ।
नरसंबन्धिनः सर्वे चेतनाचेतनात्मकाः ।। ५२-५१ ।।
ईशितव्यतया नारा धार्यपोष्यतया तथा ।
नियाम्यत्वेन सृज्यत्वप्रवेशहरणैस्तथा ।। ५२-५२ ।।
अयते निखिलान्नारान् व्याप्नोति क्रियया तथा ।
नाराश्चाप्ययनं तस्य तैस्तद्भावनिरूपणात् ।। ५२-५३ ।।
नाराणामयनं वासस्ते च तस्यायनं सदा ।
परमा च गतिस्तेषां नाराणामात्मनां सदा ।। ५२-५४ ।।
आपो नारा इति प्रोक्तास्ता अप्ययनमस्य च ।
अतो नारायणो नाम हेतुभिर्दर्शितः परः ।। ५२-५५ ।।
इति ते सूक्ष्म उद्दिष्टः परं वर्णाश्रयं शृणु ।
परार्थनिरूपणम्
अकुण्ठितश्चक्ररूपः समस्तदुरितानलः ।। ५२-५६ ।।
व्यापकः सर्वशास्त्रेषु प्रथितो गोपनः सताम् ।
सदानन्दमयः पन्था नाराणां च परा गतिः ।। ५२-५७ ।।
इत्यर्थः पर उद्दिष्टो वासुदेवे निशामय ।
प्. ५२४) वासुदेवमन्त्रस्य सूक्ष्मार्थनिरूपणम्
क्रियाकारकगो योऽर्थः स्थूलः (१) पूर्वोक्त एव सः ।। ५२-५८ ।।
सूक्ष्मोऽर्थो वासुदेवाख्ये मन्त्रे प्रतिपदाश्रयः ।
भगवानिति पूज्यार्थः शब्दोऽयं समुदायतः ।। ५२-५९ ।।
भकारार्थनिरूपणम्
धारयत्यखिलं विश्वं पोषयत्यपि तत् सदा ।
भरते पूरयत्येतत् संभरत्यपि चात्मना ।। ५२-६० ।।
त्रयीकर्मात्मकं सूक्ष्ममिति भार्थो निरूप्यते ।
गकारार्थनिरूपणम्
गीयते निखिलैः शब्दैर्गम्यते चापवर्गिभिः ।। ५२-६१ ।।
स्वतोऽवबुध्यते सर्वं व्याप्नोति निखिलं जगत् ।
नेता च निखिलार्थस्य गकारार्थः स्मृतो मुने ।। ५२-६२ ।।
मतुबर्थनिरूपणम्
स्वत्वेन वृणुते विश्वं वर्तते चेशतात्मना ।
वर्धयत्यखिलं कामं वतोऽर्थोऽयं समीरितः ।। ५२-६३ ।।
वासुशब्दार्थनिरूपणम्
छादयत्यखिलं स्वेन ज्ञानानन्दामलात्मना ।
_______________
१ पञ्चत्रिंशषट्त्रिंशश्लोकौ द्रष्टव्यौ.
_______________
प्. ५२५) यथा च वह्निनाविष्टमिन्धनं तन्मयं भवेत् ।। ५२-६४ ।।
एवमाच्छादितं तेन विश्वं तन्मयमेव तत् ।
वसत्यस्मिन् यतो विश्वं तत्रापि च वसत्ययम् ।। ५२-६५ ।।
वासुशब्दार्थ उद्दिष्टो वा गन्ता परिकीर्त्यते ।
तन्तुवत् सकलार्थेषु संतनोतीति वाः स्मृतः ।। ५२-६६ ।।
प्रसूयतेऽखिलान् भावान् सौति प्रेरयतीत्यपि ।
मखेष्वभिष्टुतः सद्भिरिति स्वर्थोऽयमुच्यते ।। ५२-६७ ।।
देवशब्दार्थनिरूपणम्
द्योतते स्वत एवायं सृष्ट्याद्यैः क्रीडति स्वयम् ।
स्तूयते च सदा देवैरिति देवार्थ ईरितः ।। ५२-६८ ।।
दाता च सर्वकामानां शोधकः सर्वदेहिनाम् ।
रक्षिता सर्वभूतानामिति देकार उच्यते ।। ५२-६९ ।।
सर्वैः संभजनीयश्च वोढा च सकलात्मनाम् ।
वकारार्थोऽयमुद्दिष्ट इति सूक्ष्मगतिस्त्वियम् ।। ५२-७० ।।
परार्थनिरूपणे भकारार्थनिरूपणम्
परस्त्वक्षरसंलभ्यस्तस्य रूपं निशामय ।
ध्रुवः पूर्वोऽवधिर्ज्ञेयो यदुपादानमुच्यते ।। ५२-७१ ।।
ध्रुवं जगदुपादानमिति भाक्षरचिन्तनम् ।
प्. ५२६) गकारार्थनिरूपणम्
गां वेदयति सच्छास्त्रमादौ विन्दति वा स्वयम् ।। ५२-७२ ।।
गोविन्दो नाम देवोऽसौ गार्थः संकर्षणो मुने ।
वकारार्थनिरूपणम्
वरुणो वृणुते विश्वं त्रयीकर्मोभयात्मकम् ।। ५२-७३ ।।
वृणुते कुरुते विश्वमिति वार्थो निरूप्यते ।
तकारार्थनिरूपणम्
यत् सृज्यते संह्रियते स्रग्घरः परिकीर्त्यते ।। ५२-७४ ।।
धत्ते तदुभयं देवः स्वनाभिकमलोदरे ।
अतः स्रग्धर इत्येवमनिरुद्धोऽत्र चोदितः ।। ५२-७५ ।।
चतुर्भिरक्षरैरेवं चतुर्व्यूहनिरूपणम् ।
वाकारार्थनिरूपणम्
वकारेणामृताधारो वासुदेवो निरूप्यते ।। ५२-७६ ।।
आकारेणादिदेवस्तु संकर्षण उदीर्यते ।
यो वासुदेवो भगवान् मोक्षाधारः सनातनः ।। ५२-७७ ।।
संकर्षणः स एवेति वाकारार्थो निरूप्यते ।
सुकारार्थनिरूपणम्
भुवनं कर्म चैवादौ योऽसूयत सनातनः ।। ५२-७८ ।।
प्. ५२७) स सोम उदितस्तेन प्रद्युम्नः पुरुषोत्तमः ।
उद्दाम उदयश्चात्र संकर्षण उदीर्यते ।। ५२-७९ ।।
संकर्षणदशायां हिं संपूर्ण उदयो हरेः ।
वासुदेवात्मको यः स संकर्षण उदीरितः ।। ५२-८० ।।
प्रद्युम्नोऽपि स एवेति सुकारार्थो निरूप्यते ।
देकारार्थनिरूपणम्
दत्तो येनावकाशोऽप्सु शयानेन महात्मना ।। ५२-८१ ।।
क्षेत्रक्षेत्रज्ञयोर्वृद्ध्यै स्वनाभिकमलोदरे ।
दत्तावकाशो दस्यार्थः सोऽनिरुद्ध उदीर्यते ।। ५२-८२ ।।
एकारेण जगद्योनिः प्रद्युम्नः परिपठ्यते ।
संकर्षणात्मको यः स प्रद्युम्नः परिकीर्तितः ।। ५२-८३ ।।
अनिरुद्धः स इत्येवं देकारार्थो निरूप्यते ।
वकारार्थनिरूपणम्
एवं वर्णत्रयेणोक्तं व्यूहतादात्म्यमुत्तमम् ।। ५२-८४ ।।
उपसंहाररूपेण पुनर्वेति तदुच्यते ।
लेशतो वासुदेवाख्ये परोऽर्थस्ते प्रदर्शितः ।
जितन्तायामिदानीं मे सर्वमर्थं निशामय ।। ५२-८५ ।।
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
विष्ण्वादिमन्त्रार्थनिरूपणं नाम द्विपञ्चाशोऽध्यायः ।। ५२ ।।
आदितः श्लोकाः ३४०२