सामग्री पर जाएँ

अहिर्बुध्नसंहिता/अध्यायः ५१

विकिस्रोतः तः
अहिर्बुध्नसंहिता
अध्यायः ५१
[[लेखकः :|]]
अध्यायः ५२ →
अहिर्बुध्नसंहितायाः अध्यायाः


तारादिबीजाक्षरस्वरूपार्थवर्णनं नाम
एकपञ्चाशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ।।

तारादिमन्त्रार्थप्रश्नः

नारदः-

भगवन् भूतभव्येश भगनेत्रनिपातन ।
साधकानां हितार्थाय यन्त्रं नानाविधात्मकम् ।। ५१-१ ।।

नानामन्त्रमयं प्रोक्तं नानाशक्त्युपबृंहितम् ।
प्रदर्शितानि चास्त्राणि द्वितयानीह शंकर ।। ५१-२ ।।

विधानमपि च प्रोक्तं दिव्यं माहाभिषेचनम् ।
उक्ता चोच्चावचा शान्तिरियं ग्लपितयातना ।। ५१-३ ।।

ऋग्भिरप्युदिता सम्यगस्त्रशक्तिरनेकधा ।
नानाफला महावीर्या मन्त्रा एवात्र कारणम् ।। ५१-४ ।।

उक्ता भगवता पूर्वं मन्त्रास्ते तारकादयः ।
एषामर्थकृतं भावं वक्तुमर्हसि शंकर ।। ५१-५ ।।

प्. ५०१) यत्तज्ज्ञानं महत् प्रोक्तं सर्वशास्त्रार्थसंभवम् ।
तत्ते मनोमयं सर्वं सर्वज्ञो ह्यसि शाश्वत ।। ५१-६ ।।

उत्तरकथनारम्भः

अहिर्बुध्न्यः -

शृणु नारद तत्त्वेन मन्त्राणामर्थजं यशः ।
यद्विज्ञानान्नरः शश्वत् सर्वज्ञत्वमवाप्नुयात् ।। ५१-७ ।।

तारकस्य सर्वश्रैष्ठ्यप्रतिपादनम्

तारको नाम यो भावः सारः सर्वगिरामयम् ।
प्रभवन्ति ह्यतः शब्दा अपियन्ति च तं पुनः ।। ५१-८ ।।

अनेनाप्यायिताः शब्दा भावं पुष्णन्ति च स्वकम् ।

मन्त्रसामान्येऽप्यर्थस्य त्रैविध्यम्

स्थूलः सूक्ष्मः परश्चेति भावो मन्त्रे त्रिधा स्थितः ।। ५१-९ ।।

स्थूलादीनां सामान्यतो लक्षणम्

स्थूलः संसर्गजो योऽर्थः सूक्ष्मः पदविभावितः ।
अप्रमेयादिभिर्भावैरक्षरस्थः परः स्मृतः ।। ५१-१० ।।

स्थूललक्षणम्

संस्तुतैरन्वितैर्योगैः स्वस्ववाच्याभिधानतः ।
पुरुषार्थोऽविभागात्मा संसर्गो नाम भाव्यते ।। ५१-११ ।।

प्. ५०२) सूक्ष्मलक्षणम्

स्वरूपालोचनेनैव यः प्रतीतः पदे पदे ।
योगेन जन्यते भावः स सूक्ष्म उदितो बुधैः ।। ५१-१२ ।।

परलक्षणम्

अप्रमेयादिभिर्भावैर्भावो यो वर्णसंश्रयः ।
स परः कथ्यते सद्भिरिति त्रेधार्थसंस्थितिः ।। ५१-१३ ।।

तारस्य स्थूलार्थप्रदर्शनम्

ओतमस्मिन् (१) मितं सर्वमित्यर्थः स्थूल उच्यते ।
ओकारेण मकारेण संसर्गस्तारकाश्रयः ।। ५१-१४ ।।

द्वौ वर्णौ गमकावेतावोतस्य च मितस्य च ।
यत् किंचिद्भगवत्तोऽन्यत् तन्मितं सर्वमिष्यते ।। ५१-१५ ।।

शक्तिमान् भगवान् वाच्यस्तच्छक्तेः प्रविजृम्भणम् ।
संकल्पनीयः संकल्प इति यत्ते पुरोदितम् ।। ५१-१६ ।।

तत्र संकल्पनीयोऽर्थो भूतिः शुद्धेतरात्मिका ।
अव्याहता तु तत्प्रेक्षा संकल्पस्तत् सुदर्शनम् ।। ५१-१७ ।।

कल्प्यकल्पात्मकं सर्वं तदेतन्मितमिष्यते ।

_______________

१ इत आरभ्य पञ्चचत्वारिंशश्लोकं यावत् प्रणवस्य
स्थूलसूक्ष्मरूपार्थद्वयप्रदर्शनव्याजेन
माण्डूक्योपनिषन्निगूढः परमरहस्यार्थो विशदीक्रियते । अत एव
वासुदेवादिव्यूहचतुष्टयस्वरूपतद्गुणतत्कृत्यादिनिरूपणपरस्य
कृत्स्नस्यापि पाञ्चरात्रवचनसंदर्भस्य
माण्डूक्योपनुषदुपबृंहणरूपतया तन्मूलकत्वेन
श्रुतिमूर्धप्रसिद्धस्वतःसर्वज्ञवासुदेवभाषिततया स्वातन्त्र्येण
वा प्रामाण्यं त्रययन्तनिष्णाताः संगिरन्ते ।

________________


प्. ५०३) एकपञ्चाशोऽध्यायः

मितं तदोतं सूत्रे हि मणिवद्भगवत्यजे ।। ५१-१८ ।।

अवतिस्तु प्रवेशार्थो गतिर्व्याप्तिः प्रवेशनम् ।
मितं प्रविष्टं देवेशे पुष्करे परमाणुवत् ।। ५१-१९ ।।

ओतो मिते च देवेशः प्रविष्टः सूत्रवन्मणौ ।
स्थूलोऽयं प्रणवस्यार्थं सूक्ष्मोऽर्थार्थो निरूप्यते ।। ५१-२० ।।

सूक्ष्मार्थनिरूपणप्रतिज्ञा । तत्रानिरुद्धप्रद्युम्नसंकर्षणा-
नामखण्डभगवच्छक्त्यंशत्वकथनम्

सृष्टिस्थित्यन्तकारिण्यः (१) शक्तयस्तिस्र ऊर्जिताः ।
पूर्णाया भगवच्छक्तेरेकस्या अंशतां गताः ।। ५१-२१ ।।

क्रमेण तेषां प्रणवाक्षरत्रयप्रतिपाद्यत्वम्

अकाराद्यक्षरत्रेतारूपिण्यः परमाद्भुताः ।

तेषामेकैकस्य विश्वतैजसप्राज्ञरूपैकैकसंज्ञाभागित्वम्

अकारशक्तिर्विश्वाख्या उकारोत्था तु तैजसी ।। ५१-२२ ।।

मकारशक्तिः प्राज्ञाख्या तासां रूपं पुनः शृणु ।

_______________

१ एवं स्थूलार्थनिरूपणद्वारा
समस्तप्रणवप्रतिपाद्यब्रह्मस्वरूपात्मकं
माण्डूक्यप्रथमखण्डार्थं प्रदर्श्य
व्यस्तप्रणवप्रतिपाद्यानिरुद्धादिव्यूहचतुष्टयात्मको माण्डूक्यस्य
द्वितीयादिखण्डत्रयार्थः सूक्ष्मार्थविरूपणद्वारात्र स्पष्टीक्रियत
इति ज्ञेयम् ।

________________


प्. ५०४) विश्वाख्यानिरुद्धरूपप्रदर्शनम्

एकोनविंशतिमुखा (१) विश्वाख्या विश्वधारिणः ।। ५१-२३ ।।

अनिरुद्धस्यैव स्थानविशेषनिर्देशपूर्वकं भोग्यविशेषनिरूपणम्

नानासृष्टिमयी विश्वा भुङ्क्ते स्थूलानि जाग्रती (२) ।
द्रव्यक्रियागुणाकारं नानासामान्यचित्रितम् ।। ५१-२४ ।।

स्थूलं तर्पयते विश्वं विश्वां सृष्टिमयीमजाम् ।

प्रद्युम्नस्य भोग्यविशेषस्थानविशेषनिरूपणम्

विश्वं (३) तदेव सूक्ष्माख्यमन्तःकरणसंमितम् ।। ५१-२५ ।।

स्वाप्नीं तर्पयते शक्तिमुकारस्थां तु तैजसीम् ।

________________

१ मध्यमं तु मुखं गजमुखाकारं, पार्श्वद्वयेऽपि नव नव
मुखानि पुरुषमुखाकाराणि, इत्येकोनविंशतिमुखत्वं बोध्यम् ।
इदमुपलक्षणं सप्ताङ्गत्वस्यापि; सप्ताङ्ग एकोनविंशतिमुखः इति
श्रुतौ दर्शनात् । चत्वारो हस्ताः, द्वौ पादौ, गजमुखत्वाद्गजहस्त एक
इति सप्ताङ्गत्वम् ।

२ अस्य च शब्दस्य स्थानविशेषनिर्देशपरत्वम्, जागरितस्थानः इति
श्रुतौ दर्शनात् । यत्र स्थित्वा जगतिं तच्चक्षुर्जागरितम् । अधिकरणे
क्तप्रत्ययः । तदेव स्थानं यस्य स जागरितस्थानः, चक्षुःस्थान इति
तदर्थः ।

३ अत्रामयर्थः- विश्वशब्दः स्थूलजगत्परः । यदेवानिरुद्धस्य
भोग्यभूतं स्थूलं जगत्, तदेवेदानीं वासनाजन्यतया
बाह्यार्थेनेभ्यो विविच्य विलक्षणतया ज्ञायमानत्वेन
प्रविविक्तापरपर्यायसूक्ष्मशब्दशब्द्यमानम् अन्तःकरणसंमितं
बाह्यार्थज्ञानजन्यवासनासचिवेनान्तःकरणसंज्ञेन चित्तेन
सम्यक्प्रमितं ज्ञातं सत्, स्वाप्नीं स्वप्ननिर्वाहकत्वेन
कण्ठदेशस्थानम् उकारस्थां प्रणवस्य द्वितीयाक्षरे उकारे
वाच्यतासंबन्धेनावतिष्ठमानां, तैजसीं तेजोमयचित्तस्थतया
चित्तसम्बन्धित्वेन तैजसनाम्नीं प्रद्युम्नशक्तिं तर्पयत इति ।

_________________

प्. ५०५) संकर्षणस्य भोग्यविशेषस्थानविशेषनिरूपणम्

विश्वं (१) तदेव सूक्ष्मत्वं विहायानन्दतां गतम् ।। ५१-२६ ।।

परां तर्पयते शक्तिं सौषुप्तिं प्राज्ञनामिकाम् ।
उकारशक्तिस्त्रिमुखा सूक्ष्मा स्वाप्नी पुरोदिता ।। ५१-२७ ।।

निरञ्जना मकाराख्या शक्तिरानन्दभोजिनी ।

अनिरुद्धस्य स्थूलदेहाधिष्ठातृतया प्रवृत्तिः

स्थूलं पुरमधिष्ठाय देहं विश्वा प्रवर्तते ।। ५१-२८ ।।

प्रद्युम्नस्य सूक्ष्मदेहाधिष्ठातृतया प्रवृत्तिः

सूक्ष्मं पुर्यष्टकं स्वाप्नी पुरमादाय वर्तते ।

संकर्षणस्यानन्दाधिष्ठातृतया प्रवृत्तिः

प्राज्ञा प्रवर्तते प्राप्य पुरमानन्दजं परम् ।। ५१-२९ ।।

_______________

१ अयमर्थः- विश्वशब्दः प्रविविक्तापरपर्यायसूक्ष्मजगत्परः ।
यदेव प्रद्युम्नस्य भोग्यभूतं सूक्ष्मं जगत्, तदेवेदानीं
सूक्ष्मत्वमपि विहायानन्दरूपतां गतं सत्, सौषुप्तिं जीवस्य
सुषुप्तिनिर्वाहकत्वेन हृत्कर्णिकाग्रस्थां, प्राज्ञनामिकां,
प्रकर्षेण न ज्ञापयतीति प्राज्ञः, जीवस्वरूपातिरिक्तं बाह्यं
स्वाप्नं वा किमपि वस्तुजातं जीवस्य न ज्ञापयतीति प्रज्ञनामिकां,
प्रपूर्वादन्तर्णीतणिजर्थकान्नञुपपदात् ज्ञाधातोः आतश्चोपसर्गे
इत्यनुशासनात् कप्रत्ययः । पराम् अन्तिमां मकारस्थानमिति यावत्,
शक्तिं संकर्षणरूपां तर्पयते । तामिमां तृतीयशक्तिं
निशिनष्टि- उकारेत्यादिना भोजिनीत्यन्तेन । आनन्दं स्वयं भुङ्क्ते
जीवं च भोजयतीत्यानन्दभोजिनी, वाच्यवाचकयोरभेदविवक्षया
मकाराख्या सैषा संकर्षणरूपा तृतीया शक्तिः निरञ्जना निर्लेपा ;
विषयभोगान् विना आनन्दमात्रभोक्तृत्वात् ।
नित्यपूर्णानन्दानुभवैकस्वरूपस्यानिरुद्धरूपेण
स्थूलप्रपञ्चभोक्तृत्वं प्रद्युम्नरूपेण प्रविविक्तभोक्तृत्वं च
क्रीडारूपमेव, क्रीडार्थमपि तादृशं भोक्तृत्वं
शुद्धानन्दभोक्तुः संकर्षणस्य नास्तीति निरञ्जनत्वमिति ।

_______________

प्. ५०६) अनिरुद्धस्य बहिःप्रज्ञत्वम्

बाह्यप्रमाणभूमिष्ठा विश्वस्य स्थूलता दशा ।

प्रद्युम्नस्यान्तःप्रज्ञत्वम्

अन्तःकरणभूमिष्ठा सूक्ष्मता तस्य वै दशा ।। ५१-३० ।।

संकर्षणस्यानन्दमयत्वम्

सदानन्दमयी तस्य विश्वस्य परता दशा ।

स्थूलत्वादिदशात्रयस्यानिरुद्धादिशक्तित्रयप्रीतिहेतुत्वम्

एतास्तिस्रो दशास्तिस्रः शक्तीः संप्रीणयन्ति ताः ।। ५१-३१ ।।

अनिरुद्धादिरूपास्ता भोक्तृशक्तीर्विचिन्तयेत् ।

वासुदेवाख्यायाश्चतुर्थशक्तेर्नादप्रतिपाद्यत्वम्

अर्धमात्रा तु या दिव्या मकारोत्था प्रकाशिनी ।। ५१-३२ ।।

वासुदेवमयीं शक्तिं विद्धि तामनुपस्कृताम् (१) ।

________________

१ अनुपस्कृताम्-
जाग्रत्स्वप्नसुषुप्तिप्रवर्तकानामनिरुद्धप्रद्युम्नसंकर्षणानां
तत्तत्प्रवर्तनरूपैर्व्यापारैरनाविष्टामित्यर्थः ; नान्तःप्रज्ञम्
इत्यादिश्रुता तुरीयस्य विश्वादित्रयवैधर्म्यप्रतिपादनात् । अत एव

कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिध्यतः ।।

इति मन्त्रार्थसंवादिश्लोकेनापि कार्यकारणबन्धनियमनव्यापारस्य
कारणमात्रबन्धनियमनव्यापारस्य च तुर्ये प्रतिषेधं विदधता
तुर्यस्य विश्वादिवैधर्म्यमेव स्पष्टीक्रियत इति ध्येयम् ।

________________


प्. ५०७) शक्तिचतुष्टयविलये सति अखण्डभगवच्छक्तेः स्तैमित्यरूपत्वम्

तिसृणां सार्धमात्राणां विलये या विराजते ।। ५१-३३ ।।

तां विद्धि भगवच्छक्तिमनुच्चार्यां निरञ्जनाम् ।

शक्तिचतुष्टयविलापनप्रकारः

उच्चरन्नोमिति व्यक्तं (१) क्रमादादीर्विलोपयेत् ।। ५१-३४ ।।

शक्तीश्चतस्र उद्दिष्टा उत्तरोत्तरभूमिषु ।

स्तैमित्यरूपायास्तस्याः शक्तेः पञ्चमदशारूपत्वम्

(२) या न किंचिदिवाभाति न सती नापि चासती ।। ५१-३५ ।।

सर्वासां ग्रसनी दिव्या शक्तीनां पञ्चमी दशा ।

प्रणवाभ्यासविशेषस्य तादृशशक्तिसाक्षात्कारहेतुत्वम्

ओमित्युच्चरतः सम्यक् शाम्यतः क्रमतो मुने ।। ५१-३६ ।।

महाभासा निराभासा शक्तिः सान्तर्विजृम्भते ।

__________________

१ आदीः- अः आदिः यासामिति बहुव्रीहिः; द्वितीयाबहुवचनान्तं
शक्तीरित्यस्य विशेषणम् ।
२ अयमत्राशयः- यथा अर्णवे बुद्बुदानामर्णवजलोन्मेषरूपत्वम्,
बुद्बुदत्वावस्थाविगमे च अर्णवजलस्य बुद्बुदग्रसितृत्वम्, ग्रसनोत्तरं
च जलस्य बुद्बुदत्वाकारेण सत्त्वाभावादसत्त्वम्, स्वरूपेण
सत्त्वादसत्त्वाभावश्च; एवमनिरुद्धादिशक्तिचतुष्टयस्याप्यखण्ड-
भगवच्छक्त्युन्मेषरूपत्वम्, अनिरुद्धत्वाद्यवस्थाविगमे
चाखण्डशक्तेरनिरुद्धादिग्रसितृत्वम्, ग्रसनोत्तरं
चाखण्डशक्तेरनिरुद्धत्वाद्याकारेण सत्त्वाभावादसत्त्वम्,
स्वरूपेण सत्त्वादसत्त्वाभावश्चेति ।

__________________

प्. ५०८) तस्याः शक्तेर्भगवदपृथक्सिद्धविशेषणीभूतलक्ष्मी-
रूपत्वम्

अनन्या सा परा शक्तिर्विष्णोर्लक्ष्मीः सनातनी ।। ५१-३७ ।।

गौरी सरस्वती धेनुर्वाच्या वाच्यक्रमोज्झिता ।

ओंकाराभ्यासिनो हृदये लक्ष्म्या निर्हेतुकं स्वस्वरूपस्य प्रकाशनम्

उदेति स्वयमेवान्तरोंकारं शृण्वतो मुने ।। ५१-३८ ।।

भवद्रूपे परस्मिन् ब्रह्मणि भावरूपत्वं लक्ष्म्याः

नित्ये निरञ्जने शुद्धे निष्कले निर्विकल्पके ।
विष्णौ भवितरि व्यक्तं भावो ब्रह्मणि वर्तते ।। ५१-३९ ।।

पौराणिकोक्तस्य ब्रह्मविष्ण्वादिसंज्ञाचतुष्टयस्य लक्ष्मीपरत्वम्

ब्रह्मविष्णुशिवाख्याभिस्तथैवाव्याकृताख्यया ।
उक्ता चतसृभिर्दिव्या स्तूयते सैव पञ्चमी ।। ५१-४० ।।

पाशुपतोक्तस्येशादिसंज्ञाचतुष्टयस्यापि लक्ष्मीपरत्वम्

ईशविद्यासमाख्याभिस्तथैव च शिवाख्यया ।
उक्ता चतसृभिः सैव शक्तिः पाशुपते मते ।। ५१-४१ ।।

सांख्ययोगोक्तस्य संज्ञाचतुष्टयस्यापि लक्ष्मीपरत्वम्

व्यक्ताव्यक्तपुमाख्याभिस्तथा कालाख्यया मुने ।
उक्ता चतसृभिः सैव शक्तिर्वै सांख्ययोगयोः ।। ५१-४२ ।।

प्. ५०९) लक्ष्मीविशिष्टस्य परस्य ब्रह्मणो मुक्तप्राप्यत्वम्

(१) प्राप्य तां पञ्चमीं शक्तिं यदन्ते विरमत्यसौ ।
परं ब्रह्म परं धाम तद्विष्णोः परमं पदम् ।। ५१-४३ ।।

उक्तार्थस्यैव भङ्ग्यन्तरेण विशदीकरणम्

अर्धमात्रोर्ध्वगां दिव्यां दीर्घघण्टानदोपमाम् ।
अन्तरास्वादयञ्छक्तिमानन्दात्मानमव्ययाम् ।। ५१-४४ ।।

यमन्ते लभते भावं रूपं विष्णोस्तदुज्ज्वलम् ।
इति ते प्रणवस्यार्थः सूक्ष्मात्मा संप्रदर्शितः ।। ५१-४५ ।।

अथ परार्थनिरूपणम्

योऽर्थः पराह्वयस्तस्य तमिदानीं निबोध मे ।
प्रणवं भावयेदेतदक्षरद्वितयात्मकम् ।। ५१-४६ ।।

सृष्ट्याद्युन्मुखशक्त्युपहितस्य स्थूलचिदचिद्विशिष्टस्य
ब्रह्मणोऽकारप्रतिपाद्यत्वम्

पञ्चकृत्यकरी शक्तिर्या हि सा वैष्णवी परा ।

________________

१ अयमाशयः- असौ प्रणवाभ्यासात् विमुक्तसंसारबन्धनः पुमान्,
यथोक्तस्वरूपां लक्ष्मीरूपां पञ्चमीं शक्तिं प्राप्य, यदन्ते
यदुपान्ते यस्य लक्ष्मीविशिष्टस्य परस्य ब्रह्मणः परिसर इति यावत्,
विरमति ततः प्राप्यान्तराभावात् प्राप्यविषयकव्यापारोपरतिमान्
भवति, तत् विष्णोः व्यापनशीलस्य, परमं समाभ्यधिकरहितं,
पदं पद्यते गम्यते उपास्यते पाप्यत इति वा पदं स्वरूपमित्यर्थः ।
तदेव पुनर्विशेष्यते- परं ब्रह्म परं धामेति । तदेव
बृहत्त्वादिगुणविशिष्टं, परं न त्वपरं हिरण्यगर्भादिरूपम्,
तदेव परं धाम अपरिच्छिन्नतेजोरूपम्; यथोक्तलक्ष्मीसंबन्धादेव
ह्यप्रमेयतेजोरूपत्वं परस्यापि ब्रह्मणः । यथोक्तमादिकविना-
ऽऽअप्रमेयं हि तत्तेजो यस्य सा जनकात्मजाऽऽ इति । विष्णोः पदमिति
व्यतिरेकनिर्देशस्तु ऽशिलापुत्रकस्य शरीरम्ऽ इत्यादिवदौपचारिक इति ।

________________

प्. ५१०) तयैवोपहितं ब्रह्म नानाकारविकल्पवत् ।। ५१-४७ ।।

अभिधत्ते परं विष्णुं सृष्टिकृत् परमेश्वरः ।

सृष्ट्याद्यनुन्मुखशक्त्युपहितस्य सूक्ष्मचिदचिद्विशिष्टस्य ब्रह्मण
उकारप्रतिपाद्यत्वम्

अव्यक्तपञ्चकृत्यासौ तूष्णींभूतेव राजते ।। ५१-४८ ।।

निरञ्जना निराभासा निश्चला वैष्णवी परा ।
सदा प्रतायमानापि सूक्ष्मैर्भावैरलक्षणैः ।। ५१-४९ ।।

निर्व्यापारेव सा भाति स्तैमित्यमिव चोदधेः ।
तयैवोपहितं ब्रह्म निर्विकल्पं निरञ्जनम् ।। ५१-५० ।।

अभिधत्ते परं विष्णुं व्यापी व्योमेश उज्ज्वलः ।

ओंकारेण यथोक्तब्रह्मणोरभिन्नत्वस्य बोधनम्

(१) एकतानयनं यत् तदनयोर्वर्णयोर्द्वयोः ।। ५१-५१ ।।

तदोमित्यक्षरं ब्रह्म परेयमजपा स्मृता ।
जगद्विलापनं रूपं तदेव प्रणवाह्वयम् ।। ५१-५२ ।।

उक्तार्थध्याननिष्ठस्य योगनिष्ठासिद्धिः

अत्र योऽवहितो योगी स समाधिं व्रजेत् परम् ।

________________

१ अत्रायमाशयः- अकारोकाररूपाक्षरयोरेकीकरणेन निष्पन्नत्वात्
तत्संध्यक्षररूप ओकारो न वर्णान्तरम् । तत्राक्षरद्वयमपि क्रमेण
स्थूलचिदचिद्विशिष्टब्रह्मणः सूक्ष्मचिदचिद्विशिष्ठब्रह्मणश्च
वाचकम् । वाचकद्वयैकीकरणानिष्पन्नेन चौकारेण वाच्यद्वयैकी-
करणबोधनप्रक्रियया यथोक्तविशेषणविशिष्टयोर्ब्रह्मणोः
प्रकार्येकत्वरूपमद्वैतं बोध्यत इति कार्यकारणयोरद्वैतसिद्धिरिति ।
________________

प्. ५११) इति ते त्रिविधावस्था प्रणवस्य प्रदर्शिता ।। ५१-५३ ।।

तारानुतारयोरर्थवर्णनप्रतिज्ञा

तारानुतारयोरन्या विधास्तिस्रो निशामय ।

तत्र तारायाः स्थूलार्थनिरूपणम्

हरत्यशेषदुरितमीड्यते च सुरासुरैः ।। ५१-५४ ।।

मीयते चाखिलैर्मानैरतो ह्रीमिति कीर्त्यते ।

सूक्ष्मार्थनिरूपणम्

इति ते स्थूल उद्दिष्टः सूक्ष्ममद्य निशामय ।। ५१-५५ ।।

सर्वत्र प्राणीति व्यक्तमलंभावं न गच्छति ।
नित्योन्नमनरूपा सा कलयत्यखिलं जगत् ।। ५१-५६ ।।

परार्थनिरूपणम्

इति ते सूक्ष्म उद्दिष्टः परमद्य निशामय ।
परमात्मा परो योऽसौ देवो नारायणाह्वयः ।। ५१-५७ ।।

तस्यानपायिनी शक्तिर्देवी तद्धर्मधर्मिणी ।
मायाश्चर्यकरत्वेन पञ्चकृत्यकरी सदा ।। ५१-५८ ।।

व्यापिनी विष्णुरूपेण सर्वभावानुगामिनी ।
अशेषभुवनाधारसंकल्पप्रविजृम्भिणी ।। ५१-५९ ।।

समाश्रितानलंभावं विधाय विविधं जगत् ।
व्योमेशव्यापिनी स्पष्टं पुनः सा प्रतितिष्ठति ।। ५१-६० ।।

परोऽयमर्थ उद्दिष्टस्तारिकाया महामुने ।

प्. ५१२) अनुतारायाः स्थूलार्थनिरूपणम्

(१) शृणाति निखिलान् दोषाञ्छ्रीणाति (२) च गुणैर्जगत् ।। ५१-६१ ।।

श्रीयते चाखिलैर्नित्यं श्रयते च परं पदम् ।
लेशतः स्थूल उद्दिष्टः श्रिय एष महामुने ।। ५१-६२ ।।

सूक्ष्मार्थनिरूपणम्

पुण्डरीकं परं धाम नित्यमक्षरमव्ययम् ।
शंकरी श्रयतां तत्र मर्दयन्ती भवोदधिम् ।। ५१-६३ ।।

नानाश्चर्यकरी भूत्वा तत्तद्भोगप्रदानतः ।

परार्थनिरूपणम्

इति ते सूक्ष्म उद्दिष्टः परमद्य निशामय ।। ५१-६४ ।।

प्रशान्तं यत् परं ब्रह्म नित्यशुद्धं निरञ्जनम् ।
षाड्गुण्यमचलं दिव्यं नारायणसमाह्वयम् ।। ५१-६५ ।।

तद्धर्मधर्मिणी देवी शक्तिस्तस्यानपायिनी ।
मायाश्चर्यकरत्वेन पञ्चकृत्यकरी सदा ।। ५१-६६ ।।

व्यापिनी विष्णुरूपेण सर्वभावानुभाविनी ।

_________________

१ शॄ हिंसायाम् इति क्रैयादिकाद्धातोर्लटि रूपमिदं शृणातीति ।
पुरुषकारत्वेन स्वरचरणकमलमुपाश्रितानामनादिकालसंचितान्
संचेष्यमाणांश्च निखिलानपि कर्मरूपान् दोषान् शृणाति हिनस्ति
विनाशयतीति श्रीरिति वाक्यतात्पर्यम् ।

२ श्रीञ् पाके इति क्रैयादिकाद्धातोर्लटि रूपमिदं श्रीणातीति ।
जगच्छब्दविवक्षितं निखिलचेतनवर्गं स्वीयैः
कारुण्यवात्सल्यादिभिर्मातृत्वप्रयुक्तैर्गुणैः श्रीणाति पचति
मानसकाठिन्यापाकरणेन मृदूकरोतीति श्रीरिति भावः ।

_________________

प्. ५१३) अशेषभुवनाधारसंकल्पप्रविजृम्भिणी ।। ५१-६७ ।।

समास्थितानलंभावं विधाय विविधं जगत् ।
व्योमेशव्यापिनी स्पष्टं पुनः सा प्रतितिष्ठति ।। ५१-६८ ।।

अर्थोऽयमनुतारायास्ताराया इव वर्णितः ।

उक्तसर्वार्थसंक्षेपः

सर्ववाच्यार्थविषयं संक्षेपं शृणु नारद ।। ५१-६९ ।।

योऽसौ तवेरितो देवः परमात्मा सनातनः ।
शक्तिमानखिलावासः षाड्गुण्यपरिबृंहितः ।। ५१-७० ।।

तद्धर्मिणी शक्तिरेका तस्यानपायिनी ।
सर्वभूतानुगा देवी स्तैमित्यमिव वारिधेः ।। ५१-७१ ।।

अत्यन्ताल्पाल्पकांशेन सा स्वेनैव विभाव्यते ।
भाव्यभावकभेदेन भाव्या भूतिः सितेतरा ।। ५१-७२ ।।

भावको विष्णुसंकल्पः सुदर्शनसमाह्वयः ।
भूतिः शब्दार्थभेदेन द्विधा पूर्वा प्रवर्तते ।। ५१-७३ ।।

शब्दस्य शब्दनं यत् तदर्थं प्रति निरूप्यते ।
तत् क्रियारूपतो ज्ञेयं सौदर्शनमयं वपुः ।। ५१-७४ ।।

शब्दभावो हि योऽर्थस्य कर्मीभावसमाह्वयः ।
सोऽपि क्रियात्मभावेन सुदर्शनमयः स्मृतः ।। ५१-७५ ।।

अतः स्पन्दमयो विष्णोर्यः संकल्पः सुदर्शनम् ।
प्. ५१४) तन्मययेव क्रिया सर्वा कारकस्था न संशयः ।। ५१-७६ ।।

सर्वः शब्दश्च सर्वश्च वाच्यो द्वेधा प्रवर्तते ।
गुणेन कर्मणा वापि विधान्या नैव विद्यते ।। ५१-७७ ।।

अतो नैव प्रवर्तन्ते वाचो ब्रह्मणि रूपतः ।
अवगाहयतो ब्रह्म एते तु गुणकर्मणी ।। ५१-७८ ।।

ते च सौदर्शने रूपे विशेषणमयात्मना ।
मन्त्रग्रामो हि यो यावान् ब्रह्मणि प्रविगाहते ।। ५१-७९ ।।

सुदर्शनप्रभावेण तत् सर्वमिति चिन्त्यताम् ।
इति ते गदितः सम्यक् संक्षेपः शास्त्रसंमतः ।
अस्य विस्तृतिमव्यग्रो मन्त्रे मन्त्रे निबोध मे ।। ५१-८० ।।

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
तारादिबीजाक्षरस्वरूपार्थवर्णनं नाम एकपञ्चाशोऽध्यायः ।।
५१ ।।

आदितः श्लोकाः ३३१७