अहिर्बुध्नसंहिता/अध्यायः ५०
| ← अध्यायः ४९ | अहिर्बुध्नसंहिता अध्यायः ५० [[लेखकः :|]] |
अध्यायः ५१ → |
कीर्तिमाल्युपाख्यानवर्णनं नाम पञ्चाशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि॥
वक्ष्यमाणार्थसूचनम्
अहिर्बुध्न्यः -
इदं तु शृणु देवर्षे कीर्तिमाली वितानतः।
अजयत् त्रिदिवं पूर्वं येनैव विधिना बली॥ ५०-१॥
भद्रशृङ्गनाम्ना राज्ञा भूमण्डलस्य परिपालनम्
भद्रशृङ्ग इति ख्यातो राजा परमधार्मिकः।
आसीदुदारचरितो विशालाख्ये पुरे पुरा॥ ५०-२॥
तस्य स्वपुरवत् पृथ्वीं सप्तद्वीपवतीमपि।
शासतः शक्रकल्पस्य शरदामयुतं गतम्॥ ५०-३॥
तत्पुत्रस्य कीर्तिमालिनो गुणवर्णनम्
तस्य दीर्घायुषः पुत्रः कीर्तिमाली मदोद्धतः।
शूरः कमलपत्राक्षः कन्दर्प इव रूपवान्॥ ५०-४॥
प्. ४८३) बलवानप्रतिद्वन्द्वः सर्वशास्त्रविशारदः।
विनयज्ञो महोदारः प्रतापी सत्यसंगरः॥ ५०-५॥
समरेष्वपरावर्ती गम्भीरो धनदर्पितः।
मेघगम्भीरनिर्ह्रादी जिगीषुः शत्रुतापनः॥ ५०-६॥
मत्तद्विप इव स्वैरं चचार जगतीमिमाम्।
पितुरनन्तरं तेनापि धर्मतो राज्यस्य पालनम्
तस्यैवं वर्तमानस्य पिता मृत्युमुपागतः॥ ५०-७॥
पितर्युपरते श्रीमाञ्छशास पितृवद् भुवम्।
जगत्याः सर्ववृत्तान्तं चारैः कैश्चिद्विवेद सः॥ ५०-८॥
स्वपुरे स्वयमङ्गेषु चरितं वेद सप्तसु।
कदाचित् निशीथे गूढं संचरतस्तस्य पुराद् बहिर्विप्रदर्शनम्
एकाकी चैकदा धन्वी नृपः स्वैरकथा नृणाम्॥ ५०-९॥
श्रोतुं निशीथे निर्गत्य सर्वतो व्यचरत् पुरम्।
आपणेषु च रथ्यासु चत्वरेषु गृहेषु च॥ ५०-१०॥
सर्वद्वारेषु वप्रेषु सरसीषु वनेषु च।
उपकार्यासु चैत्येषु देवतायतनेषु च॥ ५०-११॥
शस्त्रशालासु तीर्थेषु वनेषूद्यानभूमिषु।
संचरन् विप्रमासीनं शमीमूले पुराद् बहिः॥ ५०-१२॥
प्. ४८४) ददर्श राजा निर्भीको ज्वलन्तमिव पावकम्।
प्रसाधिततनुं शान्तं साक्षात्कृतसुदर्शनम्॥ ५०-१३॥
संप्राप्तसर्वकामं तं योगारूढमकल्मषम्।
प्रश्रयावनतो भूत्वा पप्रच्छेदं महीपतिः॥ ५०-१४॥
तद्वृत्तान्तजिज्ञासोः राज्ञस्तं प्रति प्रश्नः
कस्त्वं किमर्थमधुना वृक्षमूलमुपाश्रितः।
कस्मादुपागतः सर्वमाचक्ष्वानघ पृच्छते॥ ५०-१५॥
योगारूढस्य तस्य राजप्रश्नमजानतो मौनीभावः
एवमुक्तोऽपि योगस्थो न वेदैतदुदीरितम्।
तथा पुनः पुनश्चोक्तो राजानं नाभ्यभाषत॥ ५०-१६॥
बलाद् ग्रहीतुमुद्युक्तस्य राज्ञो विप्रप्रभावात् स्तम्भीभावः
बलाद् ग्रहीतुमारेभे ब्राह्मणं कुपितो नृपः।
ततस्तस्य प्रभावेण स्तब्धचेष्टोऽभवत् तदा॥ ५०-१७॥
विस्मितेन राज्ञा स्तुतिभिर्विप्रस्य प्रसादनम्
स्तब्धमात्मानमालक्ष्य विस्मयं परमं ययौ।
स्तुतिभिस्तोषयामास तं प्रणम्य ततस्ततः॥ ५०-१८॥
प्. ४८५) प्रसन्नेन विप्रेण स्ववृत्तान्तस्याविष्करणम्
तुष्टः स योगादुत्थाय जगादेदं वचो नृपम्।
सालग्राम इति ख्यातं विष्णुस्थानमनुत्तमम्॥ ५०-१९॥
नित्यं संनिहितस्तत्र चक्ररूपी जगत्पतिः।
तत्र चक्राङ्कितं सर्वं स्थावरं जङ्गमं च यत्॥ ५०-२०॥
तत्र प्रवेशमात्रेण जन्तवो वीतकल्मषाः।
तत्र त्यक्तशरीरास्तु यान्ति निर्वाणमुत्तमम्॥ ५०-२१॥
तस्मिन् देशे समुत्पन्नो ब्राह्मणः शिष्टसंमतः।
सुदर्शनप्रभावेण साधिताखिलसाधनः॥ ५०-२२॥
गम्यते पौष्करं तीर्थं मयाद्य जगतीपते।
निशि मार्गवशात् प्राप्तः पुरमेतत् तवर्द्धिमत्॥ ५०-२३॥
पिहितद्वारमालक्ष्य शमीमूलमिह श्रितः।
विदितवृत्तान्तेन राज्ञा स्वपुरं प्रति ब्राह्मणस्यानयनम्
एवमुक्तस्ततो राजा सत्कृत्यैनमनिन्दितम्॥ ५०-२४॥
प्रावेशयत् पुरीं रम्यां तत्राप्यायतनं हरेः।
तत्रोषितस्तु तां रात्रिं सर्वसत्कारपूर्वकम्॥ ५०-२५॥
अपरेद्युर्द्विजो गन्तुमारेभे पुष्करं प्रति।
हितमुपदेष्टुं राजप्रार्थना
राजा तु कृतपूर्वाह्णकर्माणं तमभाषत॥ ५०-२६॥
प्. ४८६) साधूनां दर्शनं पुण्यं समस्ताभीष्टसाधनम्।
इति श्रुतमतो भाषे भगवन् किं हितं मम॥ ५०-२७॥
यथेह विन्देय सुखं परत्राप्यसपत्नकम्।
तथा प्रसादं कुरु मे करुणार्द्रमना ह्यसि॥ ५०-२८॥
तेन राज्ञे साङ्गसौदर्शनमहामन्त्रस्योपदेशः
ततः प्रसन्नो राजानमुपसन्नं (१) मुने द्विजः।
सौदर्शनं महामन्त्रं षड्वर्णं सर्वसाधकम्॥ ५०-२९॥
सत्कारपूर्वकं तस्मै नृपायोपादिशत् तदा।
साङ्गमन्त्रं तथा ध्यानं साधनं यन्त्रमेव च॥ ५०-३०॥
अस्त्रमन्त्रांस्तथा सर्वान् प्रवर्तकनिवर्तकान्।
परिच्छदानि पञ्चाशद्यन्त्रितानि महामुने॥ ५०-३१॥
सर्वं तस्मै प्रदायासौ गन्तुं समुपचक्रमे।
राज्ञा गुरवे दक्षिणयाः प्रदानम्
राजा च परमप्रीतो द्रव्यजातमुपानयत्॥ ५०-३२॥
गवां सहस्रं कोटिं च सुवर्णानां तथा मुने।
________________
१ अत्र अभिलक्ष्येति पदमध्याहृत्य वाक्यं योजनीयम्। उपसन्नपदं च
तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय
इत्यादिश्रुतिप्रतिपादितानामवश्यंभाविनां
शिष्यगुणान्तराणामुपलक्षकम्। तथाच स द्विजः
प्रश्रयमृदुवचनादिभिर्लिङ्गै राजानं प्रशान्तचित्तत्वादिगुणयुक्तं
ब्रह्मविद्योपदेशयोग्यमभिलक्ष्य साङ्गं सौदर्शनमहामन्त्रं
तस्मै उपादिशदिति संबन्धः
________________
प्. ४८७) रत्नपूर्णानि हैमानि पात्राण्यन्यानि सप्त च॥ ५०-३३॥
तथा भूयांसि वासांसि महार्हाणि च भूपतिः।
ग्रामानष्टौ च गुरवे प्रादात् परमधार्मिकः॥ ५०-३४॥
गुरुणा तदग्रहणपूर्वकं स्वाभिमतदेशस्य गमनम्
न चैच्छद् ब्राह्मणस्तत्र दक्षिणाः समुपाहृताः।
किं कार्यमेभिर्नृपते सर्वं संकल्पिते भवेत्॥ ५०-३५॥
यथेष्टं विनियुङ्क्ष्वैतदित्युक्तः प्राह भूपतिः।
अवश्यं गृह्यतामेतन्न चेन्नैवास्मि साधकः॥ ५०-३६॥
त्यज्यतां वा यथेष्टं भो मद्दत्तं दत्तमेव हि।
इत्युक्तो ब्राह्मणोऽप्याह राजानममितौजसम्॥ ५०-३७॥
मदर्थमर्थजातं तद् ब्राह्मणेभ्यः प्रदीयताम्।
इत्युक्त्वा प्रययौ विप्रो भूपतिश्चैनमन्वयात्॥ ५०-३८॥
निवर्तितः स गुरुणा ब्राह्मणेभ्यो धनं ददौ।
राज्ञा धर्मतो राज्यस्य प्रशासनम्
तस्मिन् गते महाराजो विप्रसात्कृत्य तद्धनम्॥ ५०-३९॥
अन्वशात् पृथिवीमेतां त्रिदिवं मघवानिव।
नक्तंदिवं विभज्यैव धर्ममोक्षाविरोधिनौ॥ ५०-४०॥
अर्थकामौ यथाकालमसेवत महीपतिः।
राजधर्मेषु चान्येषु नात्यवर्तिष्ट किंचन॥ ५०-४१॥
प्. ४८८) एवं च मानवं मार्गमनुतिष्ठन् महीपतिः।
धर्म्येण पालनेनैव प्रजा रञ्जयति स्म सः॥ ५०-४२॥
वश्यावश्यपरराष्ट्रादिबुभुत्सया कदाचिदमात्यान् प्रति राज्ञः
प्रश्नः
एकदा मन्त्रिणः सर्वानाहूयास्थानमण्डपे।
पप्रच्छ पृथिवीपालः के च वश्या उतेतरे॥ ५०-४३॥
देशेषु भूमिपालेषु प्रकृतिष्वथवा मम।
ब्रूत सर्वं हि जानन्ति भवन्तश्चारचक्षुषः॥ ५०-४४॥
मन्त्रिणां प्रतिवचनम्
इति प्रतिसमादिष्टास्ते सर्वे मन्त्रिणोऽवदन्।
देव त्वयि महीमेतां शासत्येव परंतपे॥ ५०-४५॥
प्रतिपक्षाः प्रलीयन्ते तपत्यर्के यथा तमः।
कृत्स्नस्यापि भूमण्डलस्य वश्यत्वप्रतिपादनम्
साधुना पृथिवी वश्या सशैलाम्बुधिपत्तना॥ ५०-४६॥
दिवीव देव राजानः सर्वे द्वारि निवारिताः।
तव प्रकृतिवर्गेषु का कथा जगतीपते॥ ५०-४७॥
देवादीनां वश्यत्वाभावप्रतिपादनम्
न च देवा न गन्धर्वा नासुरा न च पन्नगाः।
यथा वयं ते सेवन्ते भवन्तं परमेश्वरम्॥ ५०-४८॥
देवः प्रमाणमिति ते विज्ञाप्यार्थमुपारमन्।
प्. ४८९) पुनरमात्यान् प्रति राज्ञो देवादिविजयोपायप्रश्नः
कीर्तिमाली च तच्छ्रुत्वा देवादीनां जिगीषया॥ ५०-४९॥
व्यजृम्भत तदा सर्वान् मन्त्रिणश्चाब्रवीदिदम्।
कथमेतान् विजेष्यामो बलिनो वीर्यशालिनः॥ ५०-५०॥
विचित्रयोधिनो दृप्ता मायाबलसमन्विताः।
अनुकूला विशिष्टाश्च लोकान्तरमुपाश्रिताः॥ ५०-५१॥
यथा भवन्ति ते वश्यास्तथा वदत मा चिरम्।
अमात्यानां प्रतिवचनम्
इत्युक्तास्ते महाराजमूचुः संमन्त्र्य मन्त्रिणः॥ ५०-५२॥
एतानद्यैव यास्यामो विजेष्यामश्च संयुगे।
स्वपक्षे बलसमृद्धिनिरूपणपूर्वकमभिषेणनोद्योगजननम्
अस्मद्वरूथिनी सर्वा चतुरङ्गबलान्विता॥ ५०-५३॥
मेरुमन्दरसंकाशा गजाः परमदुर्जयाः।
एकैकमेव पर्याप्तं शत्रुशैन्यप्रमर्दने॥ ५०-५४॥
एवंविधानां नागानां नियुतानि दशाभवन्।
मत्तानां तुरगाणां च पञ्च कोट्यः परंतप॥ ५०-५५॥
तिस्रः कोट्यश्च संपूर्णाः स्यन्दनानां तथाभवन्।
बद्धापदानमानानां शूराणामनिवर्तिनाम्॥ ५०-५६॥
प्. ४९०) चतुर्विधपदातीनामक्षौहिण्यश्चतुर्दश।
निशितास्त्राणि नः संख्ये यान्यसंख्यानि भूपते॥ ५०-५७॥
एकतः सर्वमेतच्च एकतः केवलो बली।
अतिरिक्तो भवान् वीर्यादिति मन्यामहे वयम्॥ ५०-५८॥
किंच दिव्यानि चास्त्राणि लब्धवानसि भूसुरात्।
एभिः परिवृतस्यैवं कस्तिष्ठेत् संमुखे तव॥ ५०-५९॥
संवर्तवर्तिनः शंभोर्भूतानीव दिधक्षतः।
यत्र यत्र जिगीषा ते वर्तते तत्र मा चिरम्॥ ५०-६०॥
नियुङ्क्ष्वास्मान् महाबाहो जयं विद्धि करे स्थितम्।
मन्त्रिवचनात् प्रथमं राज्ञो नागलोकाभिषेणनम्
इत्युक्तः परमप्रीतः कीर्तिमाली महाबलः॥ ५०-६१॥
सर्वानमात्यानाहूय तत्तत्सेना मयाहृता।
नागलोकं प्रयात्वद्य युध्यतामद्य पन्नगैः॥ ५०-६२॥
अहं चाद्यैव यास्यामि समूलबलवाहनः।
इत्युक्त्वा तैः परिवृतो जगाम स महीपतिः॥ ५०-६३॥
गरुडास्त्रप्रभावेण तत्र राज्ञो विजयप्राप्तिः
तत्र तैः पन्नगैर्युद्धमभवद्रोमहर्षणम्।
ततोऽचिरेण कालेन दिव्यास्त्रेण गरुत्मतः॥ ५०-६४॥
विजयं प्राप्तवांस्तत्र तेभ्यो रत्नादिकं करम्।
गृहीत्वा दैत्यनाशाय मनश्चक्रे महामनाः॥ ५०-६५॥
प्. ४९१) तथा दैत्यविजयः
तैर्युद्धमभवत् तीव्रं चिरकालं महामुने।
नाशयित्वा तु तत्सैन्यं विजयं परमं ययौ॥ ५०-६६॥
यक्षगन्धर्वादिजयपूर्वकं राज्ञः स्वनगरगमनम्
ततश्च यक्षगन्धर्वान् सिद्धविद्याधरानपि।
निर्जित्य समरे सर्वान् किंकरानकरोद् बली॥ ५०-६७॥
एतान् विजित्य समरे स्वपुरं पुनराययौ।
तत्र स्वपरिवारेषु देवानामदर्शनादिन्द्रं प्रति संदेशप्रेषणम्
आस्थानसद्मन्यासीनो राजभिः परिवारितः॥ ५०-६८॥
तथा गन्धर्वयक्षैश्च दानवैः पन्नगेश्वरैः।
चक्रवर्ती निजास्थाने नामरान् ददृशे तदा॥ ५०-६९॥
ततो मनोजवं नाम गन्धर्वमिदमूचिवान्।
अद्य त्रिदिवमभ्येत्य वचनान्मम वासवम्॥ ५०-७०॥
ब्रूया ऐरावतं नागं कुलिशं कल्पकं तथा।
अष्टौ चाप्सरसः क्षिप्रं मदर्थं विसृजेति वै॥ ५०-७१॥
राजसंदेशात् मनोजवनाम्नो दूतस्यामरावतीगमनम्
मनोजवस्तथेत्युक्त्वा शिरसा चक्रवर्तिनः।
मालामिवाज्ञां संगृह्य प्रययावमरावतीम्॥ ५०-७२॥
तत्रास्थानमण्डपे वासवदर्शनम्
प्रविश्य तत् पुरं रम्यमुपमानं परं पुराम्।
प्. ४९२) वासवं वसुभी रुद्रैरादित्यैश्च समावृतम्॥ ५०-७३॥
आस्थामण्डपासीनमप्सरोगणसेवितम्।
विश्वावसुमुखैः सिद्धैः स्तूयमानं शचीपतिम्॥ ५०-७४॥
ददर्श स तदा देवं नाट्यदर्शनलालसम्।
दृष्ट्वा प्रणम्य तुष्टाव विरते नृत्यकर्मणि॥ ५०-७५॥
वासवेन दूतस्याभिनन्दनम्
दृष्ट्वा प्रीतः सुरपतिर्मनोजवमवैक्षत।
दूतेनेन्द्राय राजसंदेशस्य निवेदनम्
विमलीकृतमात्मानं मन्यमानः स वीक्षितैः॥ ५०-७६॥
व्यजिज्ञपद्यथावृत्तं वृत्रहन्त्रेऽविलम्बितम्।
देव भूमण्डले कश्चित् कीर्तिमालीति विश्रुतः॥ ५०-७७॥
चक्रवर्ती सुरपते देवायैतन्न्यवेदयत्।
दूतेन राजोक्तसंदेशस्यानुवादः
विनिर्जिता मया लोकाः सर्वे त्रिदिवमन्तरा॥ ५०-७८॥
भवन्तं द्रष्टुमिच्छामि सांप्रतं त्रिदिवेश्वर।
आरोहणार्थं नागेन्द्रमैरावतमवारितम्॥ ५०-७९॥
कल्पकं कुलिशं चाष्टौ योषितो विसृजेह नः।
इत्थमाज्ञापितं तेन महाराजेन गोपते॥ ५०-८०॥
देवः प्रमाणमत्रेति विरराम मनोजवः।
प्. ४९३) संदेशश्रवणात् कुपितस्येन्द्रस्य तत्प्रतिक्रियाचरणम्
ततो विहस्य मघवानास्थाने देवसेविते॥ ५०-८१॥
प्राह गम्भीरया वाचा विज्ञायैतां विडम्बनाम्।
वज्रमैरावतं नागं प्रेषयाम्यद्य ते उभे॥ ५०-८२॥
आगत्य स्वयमन्यांस्तु समाहृत्य प्रयात्वसौ।
इत्युक्त्वा प्रेषयामास वज्रमैरावतं गजम्॥ ५०-८३॥
सवज्रेणैरावतेन राजसैन्यस्य विनाशनम्
निष्क्रम्योभौ विविशतुः कीर्तिमालिमहापुरीम्।
प्रविश्यैरावतो नागो वज्रमादाय वाहिनीम्॥ ५०-८४॥
अदृष्टेनैव रूपेण जघानैनां महामुने।
भीतैर्जानपदैः राज्ञे तद्वृत्तान्तस्य निवेदनम्
हन्यमानेषु सैन्येषु गजवाजिभटात्मसु॥ ५०-८५॥
सर्वे जानपदा भीता भूपायैन्न्यवेदयन्।
देव सामोद्भवा नागा निहता भुवि शेरते॥ ५०-८६॥
तथा हयोत्तमाः शूरा भटाः परमशोभनाः।
अकस्मादेव दृश्यन्ते निहता जगतीपते॥ ५०-८७॥
सैन्यविनाशश्रवणात् दुःखितेन राज्ञा पुरोधसं प्रति प्रश्नः
एतच्छ्रुत्वा महाराजः शोकेन महता वृतः।
पुरोधसं समाहूय वचनं चेदमब्रवीत्॥ ५०-८८॥
वारणा वाजिनो योधा हन्यन्ते कारणादृते।
प्. ४९४) न रोगो दृश्यते चैषु न तापः कालकल्पितः॥ ५०-८९॥
नाभिचारः परकृतो दृश्यते सुनिरूपितः।
किमेतच्चिन्त्यतां ब्रह्मन् भ्रमतीव च मे मनः॥ ५०-९०॥
पुरोधसा देवकोपस्यैव तत्कारणत्वेन निवेदनम्
इत्युदीरितमाकर्ण्य पुरोधाश्चाप्यचिन्तयत्।
चिन्तयित्वा जगादैतद् देवकोपादुपागतम्॥ ५०-९१॥
इति शङ्के न शोकस्य वशमागाः परंतप।
अत्रान्तरे मनोजवसमागमः
इति चिन्तयतोरेव तयोरागान्मनोजवः॥ ५०-९२॥
प्रणतः प्राञ्जलिस्तथौ महाराजस्य पार्श्वतः।
मनोजवं प्रति राज्ञः प्रश्नः
मनोजव किमानीतमुक्तरत्नचतुष्टयम्॥ ५०-९३॥
किमाह वासवः सर्वं कथयाद्याविलम्बितम्।
मनोजवेन राज्ञे निवेदनम्
इत्युक्तस्तेन सकलं पृष्टमस्मै न्यवेदयत्॥ ५०-९४॥
राजवाक्यस्य कथनमतो मघवतः स्मयः।
वज्रैरावतयोस्तेन प्रेषणं तद्वचस्ततः॥ ५०-९५॥
प्. ४९५) स्वसैन्यविनाशमैरावतकृतं ज्ञातवता राज्ञा
वारणास्त्रेणैरावतस्य
एवं तेनेरितो राजा निश्चित्यैरावतक्रियाम्।
पुरोधसा प्रतीकारं तस्य संमन्त्र्य तत्क्षणात्॥ ५०-९६॥
व्यसृजद्वारणाख्यास्त्रं दिव्यं वारणवारणम्।
तदस्त्रं तु गजं प्राप्तं निश्चेष्टः सोऽभवत् तदा॥ ५०-९७॥
तच्छ्रुतवता वासवेन युद्धार्थं देवसैन्यस्य प्रेषणम्
स्तब्धमैरावतं वज्रं तेनास्त्रेण महात्मना।
व्यजिज्ञपुर्मघवते सुराश्चैरावतानुगाः॥ ५०-९८॥
तच्छ्रुत्वा परमक्रुद्धो मघवान् समनह्यत।
संनद्धमिन्द्रमालक्ष्य सुराश्चुक्षुभिरे तदा॥ ५०-९९॥
प्रेषितास्तेन ते सर्वे सैनिकास्तत्पुरं ययुः।
प्रलयोज्जृम्भिताम्भोधिकल्पं सैन्यं शतक्रतोः॥ ५०-१००॥
ततो देवमानुषसेनयोर्घोरयुद्धप्रवृत्तिः
विलोक्य त्वरितो राजा ससैन्यो निर्ययौ पुरात्।
ततः प्रववृते युद्धं देवमानुषसेनयोः॥ ५०-१०१॥
प्रवृत्तयुद्धवर्णनम्
अदृष्टचरमाश्चर्यं हाहाकारि भयावहम्।
दिव्यदुन्दुभिनिर्घोषैः शङ्खभेरीरवैरपि॥ ५०-१०२॥
क्ष्वेलितैस्तलशब्दैश्च विहायः समपूर्यत।
नागा युयुधिरे नागैः पत्तिभिः पत्तयस्तथा॥ ५०-१०३॥
प्. ४९६) स्यन्दनैः स्यन्दनाश्चाश्वैरश्वाश्चैव परस्परम्।
नाराचैः परिघैः शूलैः पट्टसैर्मुद्गरैरपि॥ ५०-१०४॥
कार्मुकैः शक्तिभिः खड्गैः प्रासैः कुन्तैः परश्वधैः।
एवं नानाविधैः शस्त्रैर्निजघ्नुस्ते परस्परम्॥ ५०-१०५॥
केचिन्निकृत्तशिरसः केचिच्छिन्नोरसः परैः।
केचिदुत्कृत्तशस्त्रास्तु विद्धवक्षांसि कानि च॥ ५०-१०६॥
छिन्नहस्ता गजाः केचित् खड्गनिर्भिन्नमस्तकाः।
भल्लैर्निर्भिन्नहृदया दृश्यन्ते तुरगास्तथा॥ ५०-१०७॥
प्रवृत्ता रक्तसरितो हस्तिस्यन्दनवाजिनाम् (१)।
निपतच्छस्त्रसंभिन्ना दृश्यन्ते रणभूमयः॥ ५०-१०८॥
तत्र जिगीषुणेन्द्रेण स्वसेनाधिपतीनां प्रचोदनम्
एवं प्रवृत्ते संग्रामे जयार्थी पाकशासनाः।
देवसेनापतीन् सर्वांश्चोदयामास सत्वरः॥ ५०-१०९॥
देवसेनापतीनां तात्कालिकजयप्राप्तिः
तेन प्रवर्तिता देवा विद्राव्य नृपतेर्बलम्।
विजयं लेभिरे सद्यस्ततः क्रुद्धोऽभवन्नृपः॥ ५०-११०॥
_______________
१ स्यन्दनानां वाजिनः स्यन्दनवाजिन इति प्रथमं षष्ठीतत्पुरुषः।
ततो हस्तिनश्च स्यन्दनवाजिनश्चेति द्विपदघटितो द्वन्द्वः। न तु
हस्तिनश्च स्यन्दनाश्च वाजिनश्चेति त्रिपदघटितः अचेतनानां
स्यन्दनानां रक्तसंरित्संबन्धित्वायोगेन स्यन्दनपदस्य
द्वन्द्वघटकत्वासंभवात्
________________
प्. ४९७) राज्ञा दिव्यास्त्रस्य विमोचनम्
विनष्टे स्वबले सोऽथ दिव्यास्त्राणि मुमोच ह।
आग्नेयादीनि चास्त्राणि प्रवृत्तानि महामुने॥ ५०-१११॥
तेषामपीन्द्रेण निवारणान्निर्विण्णेन राज्ञा
सुदर्शनयन्त्रघटितवितानसमाश्रयणम्
निवृत्य बलभित् क्रुद्धः प्रत्यस्त्रैस्तान्यवारयत्।
ततो निर्वेदमापन्नः कीर्तिमाली द्विजोत्तमात्॥ ५०-११२॥
लब्धं विमानं सस्मार तत्तथाकारयत् ततः।
सुदर्शनमहायन्त्रयन्त्रितं सवितानकम्॥ ५०-११३॥
कृत्वा निषेदिवांस्तस्य छायायां स महीपतिः।
राजप्रयुक्तेन वैष्णवचक्रेण देवसैन्यस्य प्रतिहतिः
प्राहिणोद्विष्णुचक्रं तु महास्त्रप्रभवं परम्॥ ५०-११४॥
तेजसा विश्वमापूर्य विरराज विहायसि।
तस्यैव तेजसा सर्वे सुराः प्रतिहता रणे॥ ५०-११५॥
विनिघ्नाश्चेष्टितुं नैव शेकुर्देवगणा मुने।
वासवप्रयुक्तानां दिव्यास्त्राणामपि तस्मिन् विष्णुचक्रे विलयः
ततः क्रुद्धः स मघवान् दिव्यास्त्राणि व्यसर्जयत्॥ ५०-११६॥
तानि सर्वाणि निर्गत्य विष्णुचक्रे निलिल्यिरे।
सर्वास्त्रप्रकृतौ तस्मिञ्छलभा इव पावके॥ ५०-११७॥
प्. ४९८) ततश्चिक्षेप शस्त्राणि सर्वाण्यपि पुनः पुनः।
तानि तत्रैव लीनानि सरितः सागरे यथा॥ ५०-११८॥
अन्ततो वज्रस्याप्यकिंचित्करत्वम्
ततश्च परमक्रुद्धो वज्रं सुरसुपूजितम्।
चिक्षेप तच्च तत्रैव तथैवान्तरधीयत॥ ५०-११९॥
स्वपराजयात् विस्मितस्य शक्रस्य राज्ञा सह संलापः
तद् दृष्ट्वा विस्मितः शक्रो राजपार्श्वमुपाययौ।
कीर्तिमाली च देवेन्द्रं विमानस्थं पुरः स्थितम्॥ ५०-१२०॥
उत्थाय प्रणतो भूत्वा तुष्टाव शुभया गिरा।
ततस्तुष्टः शचीनाथो राजानमिदमब्रवीत्॥ ५०-१२१॥
पुरा विमुक्तान्यस्त्राणि विफलानि तवाभवन्।
अधुना विपरीतानि दृश्यन्ते कारणं वद॥ ५०-१२२॥
राज्ञा सुदर्शनयन्त्रघटितवितानप्रभावात् स्वस्याजययत्वस्य
ख्यापनम्
सुदर्शनमहायन्त्रयन्त्रितस्य प्रभावतः।
वितानस्य हरे प्राप्तमजययत्वमवेहि नः॥ ५०-१२३॥
राजशक्रयोः सख्यकरणपूर्वकं स्वस्वस्थानगमनम्
अतः परं महाराज सख्यं भवतु चावयोः।
यन्मे तत् तव यत् ते स्यात् तन्मम स्यादिति ब्रुवन्॥ ५०-१२४॥
प्. ४९९) स ययौ त्रिदिवं देवः सबलायुधवाहनः।
कीर्तिमाली च संतुष्टो विजयी स्वपुरं ययौ॥ ५०-१२५॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
कीर्तिमाल्युपाख्यानवर्णनं नाम पञ्चाशोऽध्यायः॥ ५०॥
आदितः श्लोकाः ३२३७