सामग्री पर जाएँ

अहिर्बुध्नसंहिता/अध्यायः ४८

विकिस्रोतः तः
← अध्यायः ४७ अहिर्बुध्नसंहिता
अध्यायः ४८
[[लेखकः :|]]
अध्यायः ४९ →
अहिर्बुध्नसंहितायाः अध्यायाः

श्रीसुदर्शनमहायन्त्रघटितासनादिप्रभाववर्णनं
नामाष्टाचत्वारिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि।|

इष्टार्थसाधने जपादिव्यतिरिक्तोपायप्रश्नः

नारदः -

कथितं भगवन् सर्वं जपहोमार्चनादिकम्।
अभिषेको महाशान्तिर्महाशान्तिक्रियाविधिः।| ४८-१।|

सर्वार्थसाधकत्वेन चक्ररूपस्य शार्ङ्गिणः।
एतैर्विना किमिष्टार्थसाधनं विद्यते न वा।| ४८-२।|

तत्रासनादीनामुपायत्वकथनम्

अहिर्बुध्न्यः -

विनैतान्यप्यभीष्टार्थमलभन्त परे नृपाः।
आसनेनाङ्गुलीयेन दर्पणेन ध्वजेन च।| ४८-३।|

वितानेन च विस्तीर्णभूतयो देवसंनिभाः।
मुक्तापीडो विशालश्च सुनन्दश्चित्रशेखरः।| ४८-४।|

प्. ४५७) कीइर्तिमाली च भूपालाः पालयन्तोऽखिलां भुवम्।

आसनादिभिर्मुक्तापीडादीनामिष्टसिद्धिः

आसनेनैव वसुधां मुक्तापीडोऽजयत् पुरा।| ४८-५।|

विशालोऽप्यजयन्मृत्युमङ्गुलीयेन भूपतिः।
सुनन्दो दर्पणेनैव नागलोकं महीपतिः।| ४८-६।|

ध्वजेनासुरसंग्राममजयच्चित्रशेखरः।
कीर्तिमाली वितानेन त्रिदिवं प्राप भूपतिः।| ४८-७।|

केवलासनादीनामिष्टसाधनत्वकथंताप्रश्नः

नारदः -

केवलान्यासनादीनि साधनत्वं कथं ययुः।
साध्यं प्रति विभो तन्मे कथयेदं महाद्भुतम्।| ४८-८।|

आसनप्रभाववर्णनाय मुक्तापीडोपाख्यानकथनम्

अहिर्बुध्न्यः -

मुक्तापीडो महातेजा राजा सुश्रवसः सुतः।
पितर्युपरते पृथ्वीं बुभुजे सागराम्बराम्।| ४८-९।|

हारापीडस्य विषयासक्ततया राज्ये धर्मविच्युतिः

निजान्तःपुरयोषित्सु विषयासक्तमानसः।
अनालोचितसप्ताङ्गो राजा राजीवलोचनः।| ४८-१०।|

प्. ४५८) प्रजास्तद्विषये तेन धर्मविच्युतिमाचरन्।
बलिभिर्दस्युभी राज्यं क्षुभितं च हृतं च तत्।| ४८-११।|

तस्मै प्रकृतयः सर्वा राज्ञे क्षोभं व्यजिज्ञपन्।
बुबुधे न स तेनापि मधुमैथुनविह्वलः।| ४८-१२।|

सपुरोधसाममात्यानां मन्त्रणप्रकारः

ततः पुरोधसा सार्धममात्याः संन्यमन्त्रयन्।
राजा तु विषयासक्तो राज्यं दस्युभिराप्लुतम्।| ४८-१३।|

इति संचिन्त्य ते सर्वे गुरुं प्रप्य महाद्युतिम्।
भवत्प्रसादाज्जेष्यामो नान्या काप्यस्ति नो गतिः।| ४८-१४।|

इत्युक्तस्तैः पुरोधास्तु तथैवेत्याह तान् प्रति।

पुरोधसा वसिष्ठोपदिष्टोपायानुष्ठानम्

इत्युक्त्वा यन्त्रघटितं विष्टरं रत्नमण्डितम्।| ४८-१५।|

वसिष्ठोक्तेन मार्गेण चकारास्मै महाद्भुतम्।
तस्मिन्नारोपयामास राजानमबलारतम्।| ४८-१६।|

पुरोधसा राजानं प्रति कृत्यविशेषानुशासनम्

वेदशाखाश्चतुर्दिक्षु (१) वाचयेच्च क्रमेण तु।

______________

१ अत्र पूर्वप्रकान्तश्लोकद्वयानुगुण्यादुत्तरवाक्यानामपि
पुरोधोव्यापारपरत्वं न्याययमिति लिट्प्रयोगस्यैवोचिततया
वाचयेदित्यादिलिङ्गादिप्रयोगानुपपत्तिर्यद्यपि स्फुरति, तथापि
वेदशाखाः इत्यारभ्याष्टाचत्वारिंशान्तानां श्लोकानां
पुरोधःकर्तृकानुशासनपरत्वेन नानुपपत्तिः। अत
एवैकोनपञ्चाशश्लोके तेनैवमनुशिष्टोऽयं इति
ग्रन्थस्याप्याञ्जस्यं भवतीति ध्येयम्

_______________

प्. ४५९) आशीर्मङ्गलयुक्तानि गीतवादित्रनर्तकान्।| ४८-१७।|

कलशोदकमक्षययममृतं भावयेद् बुधः।
तन्मध्यादुत्थिते पद्मे सौवर्णे चाष्टपत्रके।| ४८-१८।|

चतुर्बाहुं त्रिनेत्रं च पद्यहस्तं हिरण्मयम्।
सर्वाभरणसंछन्नं मुक्ताहारविराजितम्।| ४८-१९।|

किरीटहारकेयूरकटकादिविभूषितम्।
पीताम्बरधरं सौम्यं प्रसन्नवदनं शुभम्।| ४८-२०।|

कटिसूत्रसमायुक्तं कुण्डलाभ्यां विराजितम्।
श्रीवत्सवक्षसं श्रीशं श्रीकरं श्रीनिकेतनम्।| ४८-२१।|

श्रिया जुष्टं सदा सम्यक्ताम्रपद्मनिभेक्षणम्।
पद्मनाभमुदाराङ्गं भक्तार्तिशमनं हरिम्।| ४८-२२।|

तस्याङ्के दक्षिणे लक्ष्मीं समासीनां विचिन्तयेत्।
मन्त्रमूर्त्यात्मको देवो मन्त्रवाच्यस्तु स प्रभुः।| ४८-२३।|

प्रविशन्तं ततस्तं तु भावयेन्मन्त्ररूपिणम्।
एवं संचिन्तयन् मन्त्रं जपेत् कलशमामृशन्।| ४८-२४।|

अष्टोत्तरायुतं जप्त्वा अभिषिञ्चन् स्वकां तनुम्।
ग्रहाणां नवकानां च सद्यः शान्तिकरो भवेत्।| ४८-२५।|

प्. ४६०) आयुः श्रियं च यस्येच्छेत् तं च तेनाभिषेचयेत्।
अर्चयेदृत्विजः सर्वान् पूर्वमेव बुधो नरः।| ४८-२६।|

ब्राह्मणांस्तर्पयेच्चैव दक्षिणामुत्तमां ददत्।
एवं स्वस्यापरस्यापि हितं कुर्यात् तथात्मनः।| ४८-२७।|

दक्षिणा चात्र देया स्यात् सुवर्णं शतमेव वा।
केशान् धुनेन्न न वपेन्न स्पृशेत् स्नानशाटिकाम्।| ४८-२८।|

नातिष्ठेत् स्नानसलिलमलंकुर्यात् ततो बुधः।
मङ्गलानि च पश्येत्तु ऋषभं मङ्गलाः स्त्रियः।| ४८-२९।|

आत्मनो जन्मनक्षत्रे शुक्लवासा भवेत् तथा।
शुक्रवारेषु कुर्वीत सप्तशः कुर्वतस्तथा।| ४८-३०।|

कामाः संकल्पितास्तस्य ध्रुवं सिध्यन्ति नान्यथा।
उद्वहन् वारि कुर्वीत श्रीकामः पापनाशनम्।| ४८-३१।|

तिष्ठन्नञ्जलिभिः प्रातरष्टोत्तरशतं पुनः।
अभिमन्त्र्य जलं मूर्ध्नि क्षिपेत् पापप्रणाशनम्।| ४८-३२।|

जुहुयाद्वस्त्रकामस्तु कुसुमैः कुमुदादिभिः।
यद्वर्णं जुहुयात् पुष्पं तद्वर्णं वस्त्रमाप्नुयात्।| ४८-३३।|

वृष्टिकामः शुचौ देशे गोमयेनोपलेपिते।
रक्तद्रव्येण तत्रैव मण्डलं परिकल्पयेत्।| ४८-३४।|

मण्डलस्य पुरस्तात्तु नवकुम्भं निधापयेत्।
प्. ४६१) तन्तुना वेष्टितं सम्यक् पूरितं गन्धवारिणा।| ४८-३५।|

आवाहयेत् ततः सूर्यं कुम्भे शुभ्रे समाहितः।
तत्रस्थमर्चयेद् विष्णुं पूर्ववत् साधकोत्तमः।| ४८-३६।|

पायसं जुहुयात् तत्र शतमष्टोत्तरं बुधः।
ध्यायन्नेकाग्रधीः सिंहं जपेन्मन्त्रं सहस्रशः।| ४८-३७।|

एवं कुर्वीत सप्ताहं द्वादशाहमथापि वा।
ततः प्रसन्नो भगवान् महावृष्टिं विमुञ्चति।| ४८-३८।|

वैतसेनैव होमेन वृष्टिर्भवति सर्वथा।
अनश्नन्नार्द्रवासस्को वृष्टिकामः सदा जपेत्।| ४८-३९।|

सप्ताहाज्जायते वृष्टिर्महती दिव्यशासनात्।
भस्महोमेन वा सम्यग् लवणेनाथवा पुनः।| ४८-४०।|

वृष्टिं निवारयेद् भूयः शान्तिः कार्या मनीषिणा।
यस्तु मन्त्रं जपेन्नित्यं प्रातः स्नात्वा सहस्रशः।| ४८-४१।|

श्रीरारोग्यं च तेजश्च वर्धते तस्य सर्वदा।
सर्वाहःसु जपेद्यस्तु क्षीराहारो जितेन्द्रियः।| ४८-४२।|

अर्चनं च यथाशक्ति कुर्वन्नियुतमन्वहम्।
संसिद्धिमतुलां गच्छेदणिमादिगुणैर्युताम्।| ४८-४३।|

अहोरात्रोषितो यस्तु पञ्चगव्यं पिबेत् ततः।
नित्यमष्टसहस्रं तु सर्वपापप्रणाशनम्।| ४८-४४।|

प्. ४६२) पञ्चगव्यं तु संपीत्वा जपेत् पञ्च दिनानि वै।
ब्रह्महत्यादिभिः सद्यो मुच्यते सर्वपातकैः।| ४८-४५।|

वापयेत् सर्वबीजानि ह्यभिमन्त्र्य सहस्रकम्।
महती सस्यसंपत्तिर्जायते नात्र संशयः।| ४८-४६।|

घृतेन पायसा चापि स्नापयेद् देवमुत्तमम्।
ततः प्रसन्नो भगवान् ददाति मनसेप्सितम्।| ४८-४७।|

अश्नीयादन्वहं विद्वानन्नं सप्ताभिमन्त्रितम्।
परकर्माचरन्नस्मिन्नासीनः कुरु सर्वदा।| ४८-४८।|

यथोपदिष्टानुष्ठानेन राज्ञो निष्कण्टकभूमिलाभः

तेनैवमनुशिष्टोऽयं मासमात्रमथाकरोत्।
तेनास्य शत्रवः सर्वे विनष्टा व्याधिभिर्बलैः।| ४८-४९।|

तेन निष्कण्टका भूमिर्वश्याभूत् तस्य सार्णवा।

अङ्गुलीयप्रभाववर्णनाय विशालोपाख्यानारम्भः

विशालो नाम राजायं विशालाख्ये पुरे वसन्।| ४८-५०।|

पालयामास धर्मात्मा मेदिनीं साब्धिपत्तनाम्।

विशालगुणवर्णनम्

सत्यवादी समो बन्धुर्दैष्टिको धर्मवत्सलः।| ४८-५१।|

वसन् विंशतिमे वर्षे ब्राह्मणानामुपासकः।

प्. ४६३) प्रजानुरञ्जको धीरो दैवे पित्र्ये च निष्ठितः।| ४८-५२।|

तज्जनन्याः स्वपुत्रमरणसूचकाकाशवाणीश्रवणाद्विलापः

बाल्ये पित्रा वियुक्तस्य तस्येत्थं वसतो मुने।
जननी वाचमश्रौषीदाकाशे ह्यशरीरिणीम्।| ४८-५३।|

आगामिनि चतुर्थेऽह्नि पञ्चत्वं ते गमिष्यति।
पुत्र इत्यादि सा श्रुत्वा विललापाकुला भृशम्।| ४८-५४।|

राज्ञा मातुः समाश्वासनपूर्वकं पुरोधसः
पुलहस्याश्रमगमनम्

तच्छ्रुत्वा जननीमार्तामुवाच सुसमाहितः।
किमर्थं रोदिषीत्येवं पृष्टा निर्बन्धतः सती।| ४८-५५।|

तत्त्वतो वृत्तमाचख्यौ स तच्छ्रुत्वा महामनाः।
मा भैषीरिति तामुक्त्वा निर्ययौ पुलहाश्रमम्।| ४८-५६।|

पुलहं प्रति स्ववृत्तान्तनिवेदनम्

तपस्यन्तं मुनिं दृष्ट्वा प्रणिपत्येदमब्रवीत्।
अशृणोज्जननी चैवमशरीरां सरस्वतीम्।| ४८-५७।|

मुनिना तत्प्रतीकारोपायोपदेशनम्

इत्थं तेनैवमुक्तोऽसौ मुनिराह पुरोहितः।
सौदर्शनमहायन्त्रघटितं चाङ्गुलीयकम्।| ४८-५८।|

धारयैनमनेनैव मृत्युर्नश्यत्यसंशयम्।

प्. ४६४) राज्ञा यथोपदिष्टानुष्ठानम्

इति शिष्टोऽङ्गुलीयं स आहूयैनमधारयत्।| ४८-५९।|

ततश्च राज्ञो यमकिंकरैः समागमः

विशालेन धृते तस्मिन्नङ्गुलीये सुयन्त्रिते।
ततः कालेन संदिष्टाः किंकरा भीमदर्शनाः।| ४८-६०।|

प्राणानादातुमाजग्मुस्तस्यान्तिकमवारिताः।

अङ्गुलीयप्रभावात् किंकराणां दूरात् पलायनम्

पार्श्वं न शेकुस्ते गन्तुमङ्गुलीयप्रभावतः।| ४८-६१।|

संरब्धोर्ध्वकरास्तस्मिन् यावत् पाशान्न चिक्षिपुः।
तावच्चक्रमहानेमिनिःसृतैर्विविधायुधैः।| ४८-६२।|

प्रदुद्रुवुस्ते नितरां पीड्यमाना यथागतम्।

राज्ञोऽपमृत्युजयात् यमादीनां विस्मयः

ततः सहैव कालेन सुरा विस्मयमागमन्।| ४८-६३।|

सुदर्शनप्रभावेण तीर्णमृत्युरसाविति।

दर्पणप्रभाववर्णनाय सुनन्दोपाख्यानम्

तथैव दर्पणस्यापि शृणु वीर्यं महामुने।| ४८-६४।|

सुनीतिरिति राजासीच्छृङ्गाराख्ये पुरे पुरा।
त्रेतायुगावसानेऽसौ पालयामास मेदिनीम्।| ४८-६५।|

प्. ४६५) सुमतिनाम्नस्तत्पुत्रस्य नागकन्यया नागलोके नयनम्

लेभे चिरेण तनयमयमिष्ट्वा शतक्रतुम्।
चकार सुमतिं नाम्ना वर्धमानं दिने दिने।| ४८-६६।|

जनकस्तं ततः श्रीमान् कालेन प्राप्तयौवनः।
सोऽभूदनल्पकालेन प्राप्तविद्योऽस्त्रकोविदः।| ४८-६७।|

एकदा मृगयां कर्तुं बाह्योपवनमभ्यगात्।
तत्रापश्यन्मनोज्ञाङ्गीं रूपयौवनशालिनीम्।| ४८-६८।|

अदृष्टपूर्वां तां दृष्ट्वा मुमोह मदनातुरः।
सुमतिं तं समादाय सा जगाम स्वमालयम्।| ४८-६९।|

मायया मोहयित्वैनं नागलोकं विवेश सा।

तस्यानङ्गमञ्जरीं वासुकितनयां परिणीय तत्रैव चिरकालनिवासः

तस्मिन् भोगवतीं रम्यां नागराजपुरीं तदा।| ४८-७०।|

प्रविश्यानङ्गमञ्जर्यै प्रायच्छत् सुमतिं रमा।
तं दृष्ट्वा परमप्रीता सा वव्रे सुमतिं पतिम्।| ४८-७१।|

तं लोकं तां पुरीं तां च नागकन्यां मनोहराम्।
विलोक्य विस्मयं प्राप स तां चानङ्गमञ्जरीम्।| ४८-७२।|

गान्धर्वेण विवाहेन परिगृह्य तया सह।
रेमे विस्मृतसर्वस्वपुरीपितृपरिग्रहः।| ४८-७३।|

 प्. ४६६) पुत्रविरहात् खिद्यता राज्ञा चारैः पुत्रान्वेषणम्

एतस्मिन्नन्तरे राजा शुश्रावानागतं सुतम्।
त्वरया परयाविष्टः सचिवांश्चेदमब्रवीत्।| ४८-७४।|

कृच्छ्राल्लब्धः प्रियः पुत्रो ममैकोऽद्य प्रवेश्यताम्।
तेन सार्धं तु भुञ्जीय न भोक्ष्येऽद्येत्यचोदयत्।| ४८-७५।|

इति तस्य वचः श्रुत्वा निर्ययुः सर्वतो दिशः।
सचिवैः प्रेषिताश्चारा दूताश्चान्ये जवान्विताः।| ४८-७६।|

विदिक्षु दिक्षु कोणेषु गिरिष्वप्सु सरित्सु च।
ग्रामेषु नगरेष्वेते चेरुश्चैत्येषु शाखिषु।| ४८-७७।|

पत्तनेष्वप्यरण्येषु तीर्थेष्वन्विष्य सर्वतः।
नापश्यन् सुमतिं सर्वे तथैवोचुर्नृपाय वै।| ४८-७८।|

अलब्धपुत्रवृत्तान्तेन राज्ञा अनशनव्रतस्वीकरणम्

तच्छ्रुत्वा शोकसंतप्तो विलप्य बहु भूपतिः।
अनश्नन्नशयिष्टान्तः शोकेन महतावृतः।| ४८-७९।|

पुरोधसा कण्वाश्रमगमनपूर्वकं तस्मिन् राजवृत्तस्य निवेदनम्

एवं शोकाभिभूतेऽस्मिन् महाराजे पुरोहितः।
स्वगुरुं कण्वमासाद्य तमसातीरवासिनम्।| ४८-८०।|

वृत्तं विज्ञापयामास राजपुत्रस्य तादृशम्।

प्. ४६७) कण्वमुनिना राजकुमारवृत्तान्तस्याविष्करणम्

तच्छ्रुत्वा स मुनिर्युक्तो बभूव कृपया पुनः।| ४८-८१।|

दृष्ट्वा कुमारवृत्तान्तं योगेनास्मात् समुत्थितः।
स तस्मै कथयामास तद्वृत्तमखिलं मुनिः।| ४८-८२।|

आसीद् भोगवती नाम पुरी परमशोभना।
पाताले नागराजस्य वासुकेरमितद्युतेः।| ४८-८३।|

अनङ्गमञ्जरी नाम तस्यां तस्याभवत् सुता।
रूपलावण्यसंपन्ना कालेन प्राप्तयौवना।| ४८-८४।|

अस्या यस्मिन् वरे लिप्सा तस्मै दास्यामि तामिति।
संकल्पं वासुकेर्मत्वा चेष्ट्यश्चेरुरितस्ततः।| ४८-८५।|

तस्याः सदृशमन्वेष्टुं वरं तं नैव लेभिरे।
नागलोके तथा भूम्यां व्यचरन् वरवाञ्छया।| ४८-८६।|

तत्रैनं सुमतिं दृष्ट्वा राजपुत्रं मनोहरम्।
प्रोचुस्तस्या महाराजतनयो मदनोपमः।| ४८-८७।|

तवैव सदृशो भूम्यां पुरुहूतसमः श्रिया।
न च सामादिभिः शक्यः समानेतुमसाविति।| ४८-८८।|

तदाकर्ण्य तमत्रैव क्षिप्रमानयतेति ताः।
उक्त्वा तत्संगमौत्सुक्यात् परां चिन्तामुपागता।| ४८-८९।|

ततः संमन्त्र्य ताः सख्यो रमां मायाविशारदाम्।
प्. ४६८) मायया मोहयित्वैनमिहानय मनोरमम्।| ४८-९०।|

इत्यूचुः सा तथोक्तैनमानयामास मायया।
सुमतिस्तामथोद्वाह्य रमते तत्र सांप्रतम्।| ४८-९१।|

कुमारप्रत्याहरणे सुदर्शनयन्त्रघटितदर्पणस्यैव
साधनत्वोपदेशः

सुदर्शनप्रभावेण विनाहरणकर्मणि।
नास्त्युपायान्तरं तस्य ततस्तेनाहराम्यहम्।| ४८-९२।|

सुदर्शनमहायन्त्रं दर्पणीकृत्य हाटकैः।
पूर्वोक्तवर्त्मना तेन तमानयत मा चिरम्।| ४८-९३।|

इत्युक्त्वा स पुनश्चक्रे तपः परमदारुणम्।

यथोपदिष्टानुष्ठानात् राज्ञो नागलोकगमनसिद्धिः

पुरोहितो विनिष्क्रम्य राज्ञे सर्वं न्यवेदयत्।| ४८-९४।|

राजा च परमप्रीतः कृत्वा यन्त्रितदर्पणम्।
रथे पुरस्तात् संस्थाप्य बिलद्वारं तदा ययौ।| ४८-९५।|

तेनाभिगन्तुं शक्तोऽभूत् सुनन्दो दर्पणौजसा।

अत्यद्भुतनागलोकदर्शनात् राज्ञो विस्मयातिशयः

प्रविश्य लोकं नागानां स्वर्गलोकमिवापरम्।| ४८-९६।|

विस्मयं परमं प्राप तत्समृद्धिविलोकनात्।

राज्ञा सदारस्य कुमारस्य स्वपुरीं प्रति प्रत्यानयनम्

तस्मिन् भोगवतीं रम्यां नागराजपुरीमसौ।| ४८-९७।|

प्. ४६९) प्रविश्याथानयामास पुत्रं परमवत्सलः।
सदारः पितरं द्रष्टुं शुद्धान्तात् सुमतिस्तदा।| ४८-९८।|

निर्ययौ वनितालोकसहितो मदनो यथा।
तं ताभिर्नागकन्याभिः सह स्यन्दनमुत्तमम्।| ४८-९९।|

आरोप्य स्वपुरीं राजा प्रतस्थे परवीरहा।

ततः क्रुद्धस्य वासुकेर्युद्धसमुद्योगः

तव जामातरं पुत्रीं स्वावरोधान्महीपतिः।| ४८-१००।|

कश्चित् स्यन्दनमारोप्य यातीत्याकर्ण्य वासुकिः।
निर्ययौ परमक्रुद्धः फणिसेनापरीवृतः।| ४८-१०१।|

स दृष्ट्वा राजशार्दूलं तिष्ठ तिष्ठेति चाब्रवीत्।
क्व गम्यते समादाय वधूं वरमितस्त्वया।| ४८-१०२।|

सुदर्शनयन्त्रघटितदर्पणप्रभावात् राज्ञो विजयलाभः

सुनन्दोऽथ समाकर्ण्य निवर्त्य स्यन्दनोत्तमम्।
वव्रे दर्पणमद्यैव शत्रुसेनां जहीति वै।| ४८-१०३।|

ततः प्रस्वापनाग्नेये दिव्यास्त्रे निःसृते क्षणात्।
प्रस्वापनं नागसेनां विवेशानेन सास्वपत्।| ४८-१०४।|

आग्नेयमस्त्रमारब्ध तां पुरीं दग्धुमोजसा।

पराजितेन वासुकिना शरणागतिपूर्वकं राजाभ्यर्हणम्

तद् दृष्ट्वा नागराजस्तं शरणं समुपागमत्।| ४८-१०५।|

प्. ४७०) नाज्ञायि सर्वमस्माभिस्तदेतत् क्षम्यतां विभो।
अत्याहितमिदं स्त्रीणामिति मत्वा शमं व्रज।| ४८-१०६।|

गृहाणेमानि रत्नानि महार्हाणि महाद्युते।
इमां च कन्यामन्याश्च सहस्रं नागयोषितः।| ४८-१०७।|

आदाय प्रतिसंहृत्य दिव्यास्त्रे गन्तुमर्हसि।

ततो राज्ञः सपरिकरस्य स्वपुरप्रवेशः

सुनन्दोऽपि तथेत्युक्त्वा संहृत्यास्त्रे समाहितः।| ४८-१०८।|

ततः स्वपुत्रं रत्नानि महान्ति वरयोषितः।
आदायामन्त्र्य तं राजा जगाम स्वपुरीं कृती।| ४८-१०९।|

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
श्रीसुदर्शनमहायन्त्रघटितासनादिप्रभाववर्णनं नाम
अष्टाचत्वारिंशोऽध्यायः।| ४८।|

आदितः श्लोकाः ३०४५



सुदर्शनमहायन्त्रघटितध्वजप्रभावनिरूपणं नाम
एकोनपञ्चाशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि।|

सुदर्शनयन्त्रघटितध्वजप्रभावनिरूपणप्रतिज्ञा

अहिर्बुध्न्यः -

सुदर्शनमहायन्त्रघटितस्य ध्वजस्य तु।
प्रभावः श्रूयतां सम्यग् याथातथ्येन नारद।| ४९-१।|

चित्रशेखराधिष्ठितभद्रवाटीनगरवर्णनम्

सरस्वत्यास्तटे रम्ये भद्रवाटीति विश्रुता।
परःसहस्रैः प्रासादैर्जातरूपमयैश्चिता।| ४९-२।|

पुरी विविधकामाढ्या हेमसालसमन्विता।
समृद्ध्या त्रिदिवप्रख्या बभूव भुवि दुर्लभा।| ४९-३।|

तामध्यास्ते महावीर्यो राजोपरिचरात्मजः।
पालयन्नैकवर्षाणि चित्रशेखरसंज्ञितः।| ४९-४।|

प्. ४७२) तत्पित्रोपरिचरेण कदाचिद् द्वन्द्वयुद्धे
शङ्कुकर्णाख्यासुरहननम्

पितर्यस्य पुरा दिव्यमिन्द्रदत्तं क्रमागतम्।
रथमारुह्य देवानां कार्यार्थं याति खे बली।| ४९-५।|

शङ्कुकर्ण इति ख्यातो दानवो भीमलोचनः।
जिघृक्षुस्तद्रथं मार्गे तस्य कूबरमग्रहीत्।| ४९-६।|

उवाच च मया सार्धं युध्यस्व यदि वा रथम्।
जहि वेत्युक्तवत्यस्मिन् स तथेत्यग्रहीद् धनुः।| ४९-७।|

ततस्तेन महायुद्धे दिनमेकं प्रवर्तिते।
अथास्त्रजालमुत्सृज्य द्वन्द्वयुद्धे हतोऽसुरः।| ४९-८।|

अमर्षणनाम्ना शङ्कुकर्णसुतेन चित्रशेखरपीडनम्

जित्वा तमसुरं राज्ञि कालेनास्तं गते मुने।
तत्पुत्त्रं शङ्कुकर्णस्य सुतः परमरोषणः।| ४९-९।|

अमर्षण इति ख्यातो मायावी चित्रशेखरम्।
जिघांसुस्तद्बलं राज्ञः पुरं चापीडयत् सदा।| ४९-१०।|

एकदामर्षणः क्रुद्धो भद्रवाटीमुपागमत्।
पितृहन्तृसुतं योद्धुं ससैन्यं चित्रशेखरम्।| ४९-११।|

निहत्य चैनमादास्ये सर्वं तत्स्यन्दनोत्तमम्।
इत्युक्त्वा नगरीं रम्यां रुरोध बलदर्पितः।| ४९-१२।|

प्. ४७३) चित्रशेखरस्य तेन सह घोरयुद्धम्

निर्ययौ महतीं सेनां संनह्य नृपतिः पुरात्।
तत्र युद्धं समभवद्राज्ञस्तेन दुरात्मना।| ४९-१३।|

सरणैश्चाभिसरणैः कचाकचि भयावहम्।
गजाश्वरथपादातं प्रभग्नरथमाकुलम्।| ४९-१४।|

प्रवृत्तासृक्सरित्सार्थं कृत्तच्छत्रध्वजाचितम्।
नृत्यत्कबन्धमुत्कृत्तदष्टाधरशिरश्चितम्।| ४९-१५।|

दिनत्रयं युध्यमानस्यापि विजयालाभः

एवं दिनत्रयं युद्धं प्रवृत्तं रोमहर्षणम्।
न लेभे विजयं तस्मिन्नाहवे चित्रशेखरः।| ४९-१६।|

श्रान्तसेनयोर्द्वयोरपि युद्धात् प्रतिनिवृत्तिः

श्रमान्निववृते सेनाद्वयी तस्माद् द्वयोरपि।
तावुभौ जग्मतुः स्वं स्वं पुरं विश्रान्तवाहनौ।| ४९-१७।|

एवं सप्तदशवारं युध्यमानस्यापि विजयासिद्धिः

वारान् सप्तदशैतेन युयुधे चित्रशेखरः।
एवमेव जयं प्राप न क्वचित् पृथिवीपतिः।| ४९-१८।|

खिन्नस्य राज्ञः चिन्ताप्रकारः

अथ दुर्जयमालोच्य महासुरममर्षणम्।

प्. ४७४) केनोपायेन जेतव्य इति चिन्तापरोऽभवत्।| ४९-१९।|

महादेवप्रसादेन विना नैव जयो मम।
अतस्तं तपसा देवं तोष्यामीति मनो दधे।| ४९-२०।|

कृतनिश्चयस्य कैलासगमनम्

कृती निश्चित्य मनसा राज्यं संन्यस्य मन्त्रिषु।
जगाम तपसे राजा रथमारुह्य कामगम्।| ४९-२१।|

कैलासशिखरं रम्यं नभसा वसुधाधिपः।

गगने गच्छतोऽस्य मन्दरोपरि स्यन्दनगतिप्रतिरोधः

तेनैव गच्छतस्तस्य स्यन्दनं मन्दरोपरि।| ४९-२२।|

अतिष्ठत् प्रेर्यमाणेषु वराश्वेष्वपि नारद।

तत्कारणजिज्ञासया चरतस्तत्र कुबेरदर्शनम्

रथः कस्मादकस्मान्मे विष्टब्धः इति विस्मितः।| ४९-२३।|

रथादवातरच्छृङ्गे तस्य रम्ये महीपतिः।
अवतीर्य रथात् तस्माच्चचार गिरिमूर्धनि।| ४९-२४।|

तत्रापश्यत् सरस्तीरे तरुणं दिव्यलक्षणम्।
उपास्य पश्चिमां संध्यामवस्थितमनाकुलम्।| ४९-२५।|

तरुणादित्यसंकाशं ज्वलन्तं प्रभया स्वया।

प्. ४७५) तेन समं संलापः

तं प्रणम्य महाबाहुः कृताञ्जलिरभाषत।| ४९-२६।|

कस्त्वं पुराणपुरुषो यदि वा कमलोद्भवः।
उमेश्वरो दिशेशानां यदि वान्यतमो भवान्।| ४९-२७।|

इत्युक्तस्तेन भगवान् प्राह गम्भीरया गिरा।
किंनामकोऽसि कथय किमागमनकारणम्।| ४९-२८।|

एकाकिना त्वया देशः कथं प्राप्तोऽयमित्यपि।

राज्ञा कुबेरे स्ववृत्तान्तस्य निवेदनम्

अथ न्यवेदयत् सर्वं राजोपरिचरात्मजः।| ४९-२९।|

चित्रशेखरनामानमात्मानमवनीपतिम्।
महासुरप्रवृत्तिं च स्वस्य तेन च पीडनम्।| ४९-३०।|

तज्जयायेशतुष्ट्यर्थं तपश्चरणकारणात्।
स्यन्दनेनाभिगमनं निरोधं तत्र तस्य तु।| ४९-३१।|

कुबेरवचनात् तत्र गिरौ लक्ष्मीनिवासपरिज्ञानम्

इत्युक्तस्तेन सोऽप्याह विद्धि मां गुह्यकेश्वरम्।
अत्रैवास्ते महालक्ष्मीः सर्वकारणकारणम्।| ४९-३२।|

तत्सेवार्थमिह प्राप्तः सा हि सर्वगतिः परा।
तदाज्ञयैव चरतश्चन्द्रसूर्यौ विहायसि।| ४९-३३।|

तत्प्रभावेण ते भग्नं गमनं स्यन्दनस्य तु।

प्. ४७६) लक्ष्मीप्रसादनोपदेशपूर्वकं कुबेरान्तर्धानम्

तां दृष्ट्वा साधयाभीष्टमित्युक्त्वान्तरधीयत।| ४९-३४।|

राजसाहाययार्थं कुबेरप्रहितपुरुषसमागमः

तस्य साहाययकामोऽन्यस्तन्निदेशादुपागमत्।
प्रणम्य भूपतिं प्राह गुह्यकोऽहं तदाज्ञया।| ४९-३५।|

साहाययकामस्ते प्राप्तो वासावोऽत्रैव शर्वरीम्।
प्रत्यूषेऽपेक्षितं यत् स्यात् तत् करिष्यामि नान्यथा।| ४९-३६।|

तद्वचनात् तत्रैव स्थाने तद्रात्रियापनम्

परस्परप्रणयिनौ तां रात्रिं तत्र चोष्य तु।
देव्याः सदसि गन्धर्वगीतवादित्रनिःस्वनम्।| ४९-३७।|

शृण्वन्तौ तत्कथाभिश्च निन्यतुस्तां सरस्तठे।

प्रभाते राज्ञा लक्ष्मीनिवासस्थानजिज्ञासया गुह्यकं प्रति प्रश्नः

प्रत्यूषसमये संध्यामुपास्य प्रथमां नृपः।| ४९-३८।|

गुह्यकं प्राह शैलेऽस्मिन् देवी सा कुत्र वर्तते।
केनाध्वना वा तद्धाम याम तद्दर्शनं कदा।| ४९-३९।|

गुह्यकस्य प्रतिवचनम्

गुह्यकः प्रत्युवाचेदं क्रोशे तन्मन्दिरं परम्।
प्. ४७७) यतो गीतमृदङ्गानां निस्वनः श्रूयते महान्।| ४९-४०।|

कंचित् कालमुपास्यैनां धनदो यास्यति क्षणात्।
तस्मिन् गते प्रविश्यैनां नमस्यसि सनातनीम्।| ४९-४१।|

ततो गुह्यकेन सह लक्ष्मीमन्दिरगमनम्

प्रस्थापयामास ततो याममात्रं प्रतीक्ष्य तम्।
राजापि स्वरथं तत्र संस्थाप्यैनमथान्वगात्।| ४९-४२।|

गुहाद्वारदेशे गुह्यकस्यावस्थानम्

ततो महागुहापार्श्वे मन्दिरं समदृश्यत।
तद्गुहाद्वारि सोऽतिष्ठत् पालयन् बिलगह्वरम्।| ४९-४३।|

राज्ञो मन्दिरान्तःस्थरत्नमण्डपे प्रवेशः

अतीत्य च ततः कक्ष्याश्चतस्रो मणिगोचराः।
ततो रत्नमयं दिव्यं विवेशास्थानमण्डपम्।| ४९-४४।|

मण्डपवर्णनम्

मणिस्थूणासहस्राढ्यं मण्डपं समदृश्यत।
परःशतमहारत्नपर्यङ्कसमलंकृतम्।| ४९-४५।|

रत्नमङ्गलदीपैश्च मण्डितं तुङ्गतोरणम्।
अनेककल्पकाकीर्णं मणिपीठपरिष्कृतम्।| ४९-४६।|

मन्दारकुसुमामोदैर्मृगनाभिमदैरपि।
प्. ४७८) कस्तूरिकोत्थसौरभ्यैर्वासितान्तरमूर्जितम्।| ४९-४७।|

अत्यादित्यप्रभं पुण्यं मुक्तादामविभूषितम्।
हेमपङ्कजमालाढ्यं पताकाध्वजशोभितम्।| ४९-४८।|

धूपैः कालागरूद्भूतैः समन्तादधिवासितम्।
कर्पूरमिश्रकालेयक्षोदपङ्कपरिष्कृतम्।| ४९-४९।|

इतस्ततश्चरन्तीनां शक्तीनां भूषणारवैः।
झणज्झणितमञ्जीरनिनदैर्नादितान्तरम्।| ४९-५०।|

मण्डपमध्यस्थरन्तपर्यङ्के अब्जासनस्थमहालक्ष्मीदर्शनम्

तन्मध्ये रत्नपर्यङ्के संस्कृताब्जासनाश्रिताम्।
महालक्ष्मीं महानन्दां संश्रितां सर्वशक्तिभिः।| ४९-५१।|

सर्वाभरणसंयुक्तां सर्वालंकारशोभिताम्।
लावण्यामृतकल्पाङ्गीं शशिबिम्बनिभाननाम्।| ४९-५२।|

संवीतदिव्यकौशेयां दिव्यचन्दनमालिकाम्।
विलोक्य प्रणतो भूत्वा विस्मयस्तिमितोऽभवत्।| ४९-५३।|

तत्पादोदकप्राशनपरिपूतेन राज्ञा तत्स्तुतिकरणम्

तत्पादाम्बु समादाय रतिरेनमपाययत्।
सोऽथ तुष्टाव सुप्रीतस्तां देवीं शुभलोचनाम्।| ४९-५४।|

प्. ४७९) तत्र लक्ष्म्याः उभयविभूत्यैश्वर्यप्रतिपादनम्

महालक्ष्मि भद्रे परव्योमवासि-
न्यनन्ते सुषुम्नाह्वये सूरिजुष्टे।
जये सूरितुष्टे शरण्ये सुकीर्ते
प्रसादं प्रपन्ने मयि त्वं कुरुष्व।| ४९-५५।|

सति स्वस्ति ते गौरि गायत्रि गार्गि
ध्रुवे कामधेनो सुराधीशवन्द्ये।
सुनीते सुपूर्णेन्दुशीते कुमारि
प्रसादं प्रपन्ने मयि त्वं कुरुष्व।| ४९-५६।|

सदा सिद्धगन्धर्वयक्षेशविद्या-
धरैः स्तूयमाने रमे रामरामे।
प्रशस्ते समस्तामरीसेव्यमाने
प्रसादं प्रपन्ने मयि त्वं कुरुष्व।| ४९-५७।|

लक्ष्म्या एव निर्व्याजपुरुषकारत्वसमर्थनम्

दुरितौघनिवारणप्रवीणे
विमले भासुरभागधेयलभ्ये।
प्रणवप्रतिपाद्यवस्तुरूप-
स्फुरणाख्ये हरिवल्लभे नमस्ते।| ४९-५८।|

प्. ४८०) सिद्धे साध्ये मन्त्रमूर्ते वरेण्ये
गुप्ते तृप्ते नित्यमुद्गीथविद्ये।
व्यक्ते विद्वद्भाविते भावनाख्ये
भद्रे भद्रं देहि मे संश्रिताय।| ४९-५९।|

सर्वाधारे सद्गतेऽध्यात्मविद्ये
भाविन्यार्द्रे निर्वृतेऽध्यात्मवल्लि।
विश्वाध्यक्षे मङ्गलावासभूमे
भद्रे भद्रं देहि मे संश्रिताय।| ४९-६०।|

लक्ष्म्याः पारमार्थिकमङ्गलगुणाकरतया श्रुतिशिरोभूषणत्वम्

अमोघसेवे निजसद्गुणौघे
विदीपितानुश्रवमूर्धभागे।
अहेतुमीमांस्यमहानुभावे
विलोकने मां विषयीकुरुष्व।| ४९-६१।|

उमाशचीप्रभृतीनां महालक्ष्मीविभूतित्वम्

उमाशचीकीर्तिसरस्वतीधी-
स्वाहादिनानाविधशक्तिभेदे।
अशेषलोकाभरणस्वरूपे
विलोकने मां विषयीकुरुष्व।| ४९-६२।|

प्. ४८१) स्तुतिप्रीतया लक्ष्म्या राजाभीष्टस्य प्रश्नः

इति स्तुतिं निशम्यैषा प्रसन्ना प्राह पार्थिवम्।
प्रार्थितं ते ददाम्यद्य किं तत् कथय भूपते।| ४९-६३।|

राज्ञा स्ववृत्तान्तस्य निवेदनम्। लक्ष्म्या
सुदर्शनयन्त्रघटितध्वजस्यार्पणम्

राजा च स्वान्वयं स्वं च महासुरनिपीडितम्।
आचख्यौ सर्वमेवास्यै मा भैषीरिति साब्रवीत्।| ४९-६४।|

अहमाधारभूतापि शक्तीनां जगतस्तथा।
सुदर्शनप्रभावेण करोम्याश्रितरक्षणम्।| ४९-६५।|

अनेन जहि ते शत्रुमिति ध्वजमथार्पयत्।

लक्ष्मीदत्तध्वजमहिम्ना शत्रुजयपूर्वकं राज्ञो
निष्कण्टकराज्यलाभः

यन्त्रितं तं ध्वजं लब्ध्वा जगाम स्वपुरं नृपः।| ४९-६६।|

जिगाय तेन महतीमासुरीं स वरूथिनीम्।
तं च हत्वा सुखं राज्यमकरोच्चित्रशेखरः।| ४९-६७।|

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
सुदर्शनमहायन्त्रघटितध्वजप्रभावनिरूपणं नाम
एकोनपञ्चाशोऽध्यायः।| ४९।|

आदितः श्लोकाः ३११२