सामग्री पर जाएँ

अहिर्बुध्नसंहिता/अध्यायः ४७

विकिस्रोतः तः
← अध्यायः ४६ अहिर्बुध्नसंहिता
अध्यायः ४७
[[लेखकः :|]]
अध्यायः ४८ →
अहिर्बुध्नसंहितायाः अध्यायाः

महाशान्तिविधानं नाम सप्तचत्वारिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि।|

ऐहिकामुष्मिकसर्वफलसाधकैकोपायप्रश्नः

नारदः -

भगवन् पञ्चमन्त्राङ्ग पशुपाशहर प्रभो।
स्वतः साक्षात्कृताशेषविशेष व्योममन्दिर।| ४७-१।|

ऐहिकामुष्मिकं शश्वन्मन्त्रेणानेन लभ्यते।
उभयेऽपि तथा दोषा नाश्यन्ते नात्र संशयः।| ४७-२।|

इत्युक्तं तेन पृच्छामि येनैकेनैव कर्मणा।
उभयी सिद्धिरुभयानिष्टनाशो भवेत् तथा।| ४७-३।|

ईदृशं कर्म चेदस्ति तन्मे कथय शंकर।
ईदृग्ग्रहस्य त्वत्तोऽन्यो न कश्चिद् वक्तुमर्हति।| ४७-४।|

तदुत्तरकथनारम्भः

अहिर्बुध्न्यः -

तदेतत् कथयिष्यामि सर्वशान्तिकरं परम्।

वक्ष्यमाणे कर्मविशेषे राज्ञामधिकारः

महाराजैर्महाभागैः प्रयोज्यं व्यस्तजातिभिः।| ४७-५।|

प्. ४४६) तस्य निखिलदुःखनिवर्तनपूर्वकमीप्सितफलसाधनत्वम्

आध्यात्मिकादिदुःखानां त्रयाणामपि नाशनम्।
आधीनां चाप्यशेषाणां नाशनं शुभलक्षणम्।| ४७-६।|

सर्वारिनाशनं शान्तं महाविजयकारणम्।
रक्षोहणं पुष्टिकरं सर्ववश्यकरं मुने।| ४७-७।|

परमायुःप्रदं पुण्यं पूर्वैर्नृपतिभिः कृतम्।

अम्बरीषप्रभृतीनामेतदनुष्ठानात् यथोक्तफललाभः

अम्बरीषः शुकोऽलर्को मांधाता च पुरूरवाः।| ४७-८।|

राजोपरिचरो धुन्धुः शिबिश्च श्रुतकीर्तनः।
कृत्वैतच्चक्रवर्तित्वं पुरा प्रापुरमी नृपाः।| ४७-९।|

निरामया निःसपत्ना विस्तीर्णामलकीर्तयः।

तत्र राज्ञामधिकारनिगमनम्

अतो मानुषमानन्दं काङ्क्षन्तो भुवि भूभुजः।| ४७-१०।|

कुर्युरेतन्महाशान्तिलक्षणं कर्म सादरम्।

देशविशेषविधिः

पुराद् बहिर्महानद्यास्तटे देवालयेऽथवा।| ४७-११।|

असंबाधे शिवे देशे विविक्ते सजलाशये।
पूर्वोक्तलक्षणयुतान्मण्डपादधिकं मुने।| ४७-१२।|

कुर्यादायामविस्तारौ तथा राजासनान्वितम्।
प्. ४४७) तत्तत्समन्ततः कुर्यादेवंलक्षणमुत्तमम्।| ४७-१३।|

मण्डपनिर्माणक्रमः

बहुस्तम्भसमाकीर्णं मणिकाञ्चनमण्डितम्।
तुङ्गतोरणसंयुक्तं दीपिकाशतशोभितम्।| ४७-१४।|

किङ्किणीजालसंयुक्तं पताकाभिरलंकृतम्।
सवितानं ससोपानं सर्वालंकारसंयुतम्।| ४७-१५।|

चन्दनागुरुकर्पूरधूपमालाधिवासितम्।
तुङ्गसालसमायुक्तं होमशालाभिवेष्टितम्।| ४७-१६।|

कुण्डकल्पनाक्रमः

एवं मनोज्ञ कृत्वैतत् तत्र कुण्डानि कल्पयेत्।
प्राग्भागे मण्डपस्यास्य चतुर्दिक्षु प्रकल्पयेत्।| ४७-१७।|

चतुर्व्यूहाभियोगार्थं चतुरश्राणि कारयेत्।
प्राच्याद्यान्यथ कुण्डानि केशवादीनथो यजेत्।| ४७-१८।|

चतुर्णां केशवादीनां विकोणेषु प्रकल्पयेत्।
कुण्डानि शेषमूर्तीनां तच्छिद्रेषु यथाक्रमम्।| ४७-१९।|

त्र्यश्रं षडश्रमर्धेन्दुं योनिं पद्माकृतिं क्रमात्।
वृत्तं पद्माभमष्टाश्रं वज्राकृति धनुःप्रभम्।| ४७-२०।|

शूलाभं शूर्पकल्पं च कुण्डान्येतानि कारयेत्।

प्. ४४८) मध्ये देवं प्रतिष्ठाप्य यन्त्ररूपधरं प्रभुम्।| ४७-२१।|

विमानलक्षणोपेतं कुण्डं कुर्यात् तदग्रतः।

अस्त्रकुण्डकल्पना

समन्ताद्धोमशालायामस्त्रकुण्डान्यनुक्रमात्।| ४७-२२।|

शतं तथाधिकं कुर्याच्चत्वारिंशदतन्द्रितः।
यथार्हमस्त्रलिङ्गानि मण्डितान्यथ कारयेत्।| ४७-२३।|

ऋत्विग्वरणम्

अन्तर्मण्डपकुण्डेषु ऋत्विजः षोडश क्रमात्।
ऋग्भिः पुरुषसूक्ताभिर्वृणुयाद्वैष्णवान् सतः।| ४७-२४।|

अस्त्रकुण्डेषु ऋत्विगन्तरवरणम्

ततः स्वनामभिश्चान्ते वृणुयाद्वेदपारगान्।
बाह्यास्त्रकुण्डशालायां ब्रह्मास्त्रप्रमुखेष्वपि।| ४७-२५।|

ऋत्विजो वृणुयात् सर्वान् कुशलान् शान्तिकर्मणि।
ब्रह्मजज्ञानमित्यादि-ऋग्भिः पञ्चाशतं क्रमात्।| ४७-२६।|

स्वनामभिश्च विदुषो ब्रह्मास्त्रादिकृतादिकान्।
त्रिशतं वृणुयाद् ब्रह्मसूक्तैः सद्भिरनुक्रमात्।| ४७-२७।|

तत्रैवाथ भवा मित्र इति पञ्चभिरन्वितः।
प्. ४४९) परो मात्रादिभिर्-ऋग्भिस्त्रयोदशभिरेव च।| ४७-२८।|

विष्णुसूक्तगताभिश्च अस्य वामेति पञ्चभिः।
अतो देवेति षड्भिश्च दशभिश्चक्षुरित्यपि।| ४७-२९।|

षड्भिः प्रति व एनेति वृणुयात् स्वस्वनामभिः।
सौवर्णान् राजतान् वाथ कुर्याद्धोमपरिच्छदान्।| ४७-३०।|

कुम्भस्थापनम्

पूर्वभागेषु कुण्डानां स्थापयेत् तोयपूरितान्।
सौवर्णान् राजतान् कुम्भान् यद्वा ताम्रमयानिह।| ४७-३१।|

कुम्भान् पूर्ववदेकैकं कलमान् भारसंमितान्।

होमार्थमृत्विगन्तरवरणविधिः

वृणुयादृत्विजः शिष्टान् यज्वनो होमकर्मसु।| ४७-३२।|

प्रवर्तयेत् स्वैः स्वैस्तु मन्त्रैर्मन्त्रविदुत्तमः।

मध्यमकुण्डे आचार्यकर्तृकहोमविधिः

देशिको मध्यमे कुण्डे सामध्वनिसमन्वितम्।| ४७-३३।|

हुनेद्वादित्रसंयुक्तं पुण्याहनिनदैर्युतम्।

होमसंख्याविधिः

प्रत्येकं कोटिहोमेन शान्तिकर्म समारभेत्।| ४७-३४।|

प्. ४५०) तत्तत्कुम्भेषु तत्तद्देवताभ्यर्चनविधि.ः

तत्तद्देवान् समाहूय कुम्भेषु च पृथक् पृथक्।
स्वैः स्वैरभ्यर्चयेन्मन्त्रैर्धूपदीपादिभिस्तथा।| ४७-३५।|

होमान्ते कुम्भोदकेन राज्ञोऽभिषेकः

होमकर्मणि निर्वृत्ते तत्तत्कुम्भोदकैस्ततः।
यन्त्रपीठे समारोप्य राजानमभिषेचयेत्।| ४७-३६।|

अस्त्रकुण्डेषु होमविधिः

अस्त्रमन्त्रेषु येष्वेव नियुक्ता ये द्विजातयः।
तत्तत्कुण्डेषु तैर्मन्त्रैर्जुहुयुः शान्तमानसाः।| ४७-३७।|

उत्तममध्यमाधमभेदेन होमसंख्याविकल्पः

प्रत्येकं कोटिहोमस्तु मुख्यस्तस्यार्धमध्यमः।
अधमं नियुतं ज्ञेयं यावदेतत् समाप्यते।| ४७-३८।|

कालेन तावता कार्यमप्रमत्तैरतन्द्रितैः।

नारायणीयाद्यस्त्रवर्गे होमसाधनद्रव्यविधिः

नारायणीयं ब्राह्मं च विमलं क्रौञ्चमेव च।| ४७-३९।|

धर्मपाशं च लक्षाक्षं संवर्तं सत्यमुत्तमम्।
दुन्दुनाभं च शीतेषुं विष्णुचक्रं च मानवम्।| ४७-४०।|

ऐन्द्रं ज्यौतिषमित्येतमस्त्रवर्गं घृतैर्हुनेत्।

प्. ४५१) कालचक्रादिवर्गे चरुविधिः

कालचक्रं धर्मचक्रं वज्रास्त्रं च गदाह्वयम्।| ४७-४१।|

ब्राह्मं शिरस्तथैषीकं त्रिशूलमशनिद्वयम्।
कालपाशं च पैनाकं पाशं वारुणमेव च।| ४७-४२।|

आग्नेयं दयितं चापि तथा पाशुपतं परम्।
एष वर्गस्तु होतव्यश्चरुणैव यथाविधि।| ४७-४३।|

कङ्कालादिवर्गे दधिविधिः

कङ्कालं मुसलं चापि वायव्यमथ कङ्कणी।
असिरत्नं च कापालं शक्तिर्वैद्याधरं तथा।| ४७-४४।|

प्रस्वापनप्रशमने दर्पणं शोषणं तथा।
संतापनं च गान्धर्वं पैशाचं च विलापनम्।| ४७-४५।|

एतानि दध्ना होतव्यान्यस्त्राणि परमास्तिकैः।

मदनादिवर्गे पयोविधिः

मदनं तामसं चैव कन्दर्पदयितं परम्।| ४७-४६।|

सौमनं मुसलं चैव संवर्तं घोरमेव च।
मायाधरं च सोमास्त्रं वारुणं त्वाष्ट्रमेव च।| ४७-४७।|

प्रस्वापनं भगास्त्रं च रौद्रसृष्टं पराङ्मुखम्।
पयसामूनि जुहुयुस्तदस्त्रध्यानतत्पराः।| ४७-४८।|

प्. ४५२) रभसादिवर्गे पायसविधिः

रभसं सत्यकीर्तिं च प्रतिहारतरं तथा।
अवाङ्मुखं च विषमं दृढनाभं सुनाभकम्।| ४७-४९।|

दशाक्षं शतवक्त्रं च शतशीर्षं शतोदरम्।
पद्मनाभं महानाभं नैराश्यक्रथने अपि।| ४७-५०।|

वर्गोऽयं पायसेनैव होतव्यः शुद्धमानसैः।

योगंधरादिवर्गे तिलविधिः

योगंधरं विनिद्रं च नैद्रं सौमनसं तथा।| ४७-५१।|

धृतिमाली प्रमथनं विधूतं वृत्तिमानपि।
महार्चिर्माली मकरं रुचिरं करवीरकम्।| ४७-५२।|

अमीषां च कृते कार्यस्तिलैर्होमो यथाविधि।

धनादिवर्गे मधुविधिः

धनधान्ये कामरूपं मोहः कामरुचिस्तथा।| ४७-५३।|

वरणावरणे चैव परमास्त्रे उभे अपि।
जृम्भकं सर्वनाभं च भृशाश्वतनयो महान्।| ४७-५४।|

संदानं परशुं चैव प्रीणीयान्मधुना भृशम्।

अन्येष्वस्त्रेषु शालितण्डुलविधिः

अपराण्यप्यनुक्तानि जुहुयाच्छालितण्डुलैः।| ४७-५५।|

प्. ४५३) होमान्ते मन्त्रविशेषेण सुदर्शनतर्पणविधिः

हुत्वा यथोक्तं स्वैर्मन्त्रैः सर्वास्त्रप्रभवं विभुम्।
सुदर्शनाकृतिं विष्णुं सर्वयन्त्रमयं विभुम्।| ४७-५६।|

ऋग्भिर्यन्त्रनियुक्ताभिः शान्तिकर्म समारभेत्।

नारायणीयादितर्पणे मन्त्रविशेषविधिः

नारायणीयमुख्यास्त्रजातं प्रत्येकमादरात्।| ४७-५७।|

शान्तिं कुर्यात् परो मात्रेत्येतत्सूक्तेन सादरम्।

कालचक्रादिवर्गे मन्त्रविशेषविधिः

कालचक्रादिवर्गस्थं प्रत्येकं जातवेदसम्।| ४७-५८।|

प्रीणीयाच्चैव कङ्कालमुख्यवर्गस्य शान्तये।
दिवस्परीति सूक्तेन जुहुयाज्ज्वलितेऽनले।| ४७-५९।|

मदनादिवर्गे मन्त्रविशेषविधिः

मदनाद्यस्त्रवर्गस्य शान्तिं कुर्यात् समाहितः।
अतो देवेति सूक्तेन तथा विष्णोर्नुकं त्विति।| ४७-६०।|

रभसादिवर्गे मन्त्रविशेषविधिः

रभसाद्यस्त्रजातानि भवा मित्रेति पञ्चभिः।
प्रत्येकं शमयेदृग्भिरिति वैदिकशासनम्।| ४७-६१।|

प्. ५५४) योगंधरादिवर्गे मन्त्रविशेषविधिः

योगंधरादेरस्त्रस्य शान्तिः कार्या समाहितैः।
सूक्तेनानेन चैकैकमतो देवा अवन्त्विति।| ४७-६२।|

धनादिवर्गे मन्त्रविशेषविधिः

धनधान्यादिवर्गस्थं मन्त्रजातं विचक्षणः।
जुषस्व नेति सूक्तेन शमयेत् परमेण तत्।| ४७-६३।|

अन्येष्वस्त्रेषु मन्त्रविशेषविधिः

अस्त्राण्यन्यान्यनुक्तानि विष्णुसूक्तेन तर्पयेत्।
सूक्तैरेतैर्महायन्त्रविनियुक्तैश्च पावनैः।| ४७-६४।|

सर्वयन्त्रमयं देवं स्तुतिहोमैः समर्चयेत्।

तर्पणान्ते सहस्रब्राह्मणभोजनविधिः

ततो देवान् समभ्यर्च्य ब्राह्मणांस्तदनन्तरम्।| ४७-६५।|

सहस्रं भोजयेच्छुद्धैरोदनैः पायसैरपि।

ततोऽस्त्रमन्त्रजलैः राज्ञोऽभिषेकविधिः

ततो राजासनारूढं राजानं शान्तमानसम्।| ४७-६६।|

ऋत्विग्भिराहृतैः सर्वैरस्त्रमन्त्रजलैः शुभैः।
गुरुस्तन्मूलमन्त्रेण मन्त्रितैरभिषेचयेत्।| ४७-६७।|

प्. ४५५) रुग्णस्य तु राज्ञः प्रोक्षणविधिः

प्रोक्षयेदामयाविष्टो यदि राजा भवेन्मुने।

मण्डपान्तःस्थकुम्भतोयाभिषेचनावश्यकता

अवश्यं मण्डपान्तःस्थकुम्भतोयाभिषेचनम्।
कुर्यान्निरामयोऽनाधिर्विजयी भवति क्षणात्।| ४७-६८।|

यथोक्तमहाशान्तिफलकीर्तनम्

आरोग्यमायुर्विजयो विभूति-
र्वशित्वमास्तिक्यममर्त्यता च।
सर्वार्थसिद्धिर्वसुधाधिपत्यं
भवन्ति निःसंशयमेव राज्ञः।| ४७-६९।|

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
महाशान्तिविधानं नाम सप्तचत्वारिंशोऽध्यायः।| ४७।|

आदितः श्लोकाः २९३६