अहिर्बुध्नसंहिता/अध्यायः ४६
| ← अध्यायः ४५ | अहिर्बुध्नसंहिता अध्यायः ४६ [[लेखकः :|]] |
अध्यायः ४७ → |
सुदर्शनहोमाङ्गद्रव्यपरिमाणादिनिरूपणं नाम
षट्चत्वारिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि।|
राज्ञो होममण्डपानागमने कर्तव्यक्रमः
नारदः -
दैवाद्वा मानुषाद्वापि भूतादिभिरथापि वा।
दर्पात् प्रतिबलाद्वान्यैरन्तरायैर्महीपतिः।| ४६-१।|
यदि न प्राप्नुयादेव होममण्डपमादितः।
ततः कथं महीभर्तुर्निवर्त्यन्ते महाग्रहाः।| ४६-२।|
अहिर्बुध्न्यः -
शृणु राजा न चेत् कुर्यात् पुरोधाः कुरुतात् कृती।
स एव राज्ञः सर्वस्वमदृष्टार्थोपपादने।| ४६-३।|
पुरोहितलक्षणम्
धार्मिकः श्रुतिसंपन्नः सुशीलः सत्यवाक् शुचिः।
अभिजातोऽनहंकारस्तितिक्षुः स्मृतिमान् वशी।| ४६-४।|
देशकालविभागज्ञः शास्त्रदृष्टिरतन्द्रितः।
प्. ४४१) अप्रधृष्योऽप्रमादी च वदान्यो नयकोविदः।| ४६-५।|
उपायोपेयविन्मन्त्री यायजूको ह्यलोलुपः।
दैववित् प्रियवादी च वैदिकः सत्त्ववान् प्रभुः।| ४६-६।|
विष्णुभक्तस्तपस्वी च कार्यवित् कर्मठोऽनघः।
हिताहिताप्तिहानेच्छुर्नृपाणां सर्वसंमतः।| ४६-७।|
पुरोधस एव राज्ञः सर्वकार्यकर्तृत्वम्
ईदृशो दुर्लभो राज्ञां गुरुकल्पः पुरोहितः।
ईदृशो हि क्षमो राज्ञामघौघविनिवारणे।| ४६-८।|
अतः स एव राज्ञां हि रक्षाविधिमथार्हति।
एवंविधो गुरुर्यस्य स सम्राद् नृपतिर्भवेत्।| ४६-९।|
दीर्घायुर्निःसपत्नः स्यादरोगः परवीरहा।
अवग्रहाद्या जायन्ते पीडास्तद्विषये न हि।| ४६-१०।|
तादृशपुरोहिताभावे राज्ञोऽनिष्टकथनम्
तं विनान्यो भवेद्राज्ञो गुरुर्वाथ पुरोहितः।
विपरीतं भवेत् तस्य महीभर्तुर्न संशयः।| ४६-११।|
कुम्भादीनां परिमाणादिप्रश्नः
नारदः -
परिमाणं च कुम्भानां स्रुक्स्रुवाणां च लक्षणम्।
ऋत्विजः कीदृशो ह्यस्य प्रकारश्चाखिलं वद।| ४६-१२।|
प्. ४४२) उत्तमपरिमाणम्
अहिर्बुध्न्यः -
शुद्धैर्गन्धोदकैर्भारपरिमाणैः सुपूरितान्।
सौवर्णराजतान् कुम्भान् कारयेदिदमुत्तमम्।| ४६-१३।|
मध्यमपरिमाणम्
अर्धभारभृतान् कुम्भान् मध्यमोऽयं विधिः स्मृतः।
अधमपरिमाणम्
तदर्धेनाधमे पक्षे पूरयेदेष निर्णयः।| ४६-१४।|
यथाविधि स्रुगादिनिर्माणम्
यथाविधि विधेयौ तु स्रुक्स्रुवौ मुनिसत्तम।
ऋत्विक्संख्या
ऋत्विजः सात्त्विकानष्टौ वृणुयाद्वैष्णावांस्ततः।| ४६-१५।|
अङ्गमन्त्रादिविधिः
अङ्गमन्त्रैश्च गायत्र्या वह्निप्राकारकेण च।
प्रधानकुण्डयोश्चापि गुरुकल्पौ समाहितौ।| ४६-१६।|
वृणुयान्मूलमन्त्रेण सर्वे रक्षामनौ रताः।
शमीसमिद्भिर्दूर्वाभिस्तिलैराम्रदलैस्तथा।| ४६-१७।|
चरुणा पायसापूपैः पालाशैर्जुहुयात् क्रमात्।
प्. ४४३) शुद्धेन सर्पिषा मध्यकुण्डयोर्हावयेद् गुरुः।| ४६-१८।|
अथवा सर्वकुण्डेषु शुद्धेनाज्येन हावयेत्।
गुरुणैवाभिनिर्वर्त्ये प्रतीकारविधाविह।| ४६-१९।|
शयनासनयानादौ राज्ञः स्वैरविधावपि।
पूर्वोक्तेन विधानेन वितानादिकमाचरेत्।| ४६-२०।|
होमान्ते राज्ञोऽभिषेकः
होमावसानसमये प्रयोगेऽप्यत्र तद्गुरुः।
तत्र राजानमाहूय पूर्ववन्मन्त्रितासने।| ४६-२१।|
स्थापयित्वाभिषेकादिसस्कारं गुरुराचरेत्।
गुर्वादिप्रीणनम्
ततः स्वस्थमनाः सद्यो विमुक्तग्रहबन्धनः।| ४६-२२।|
यथार्हं गुरवे दद्यात् स्वचिह्नानि प्रणम्य च।
भूषणानि महार्हाणि मुक्तामणिमयानि च।| ४६-२३।|
मणिपीठसुवर्णानि रत्नानि विविधानि च।
भुवश्च भूयसीर्दत्वा ऋत्विजस्तर्पयेत् ततः।| ४६-२४।|
एकैकमृत्विजः सर्वे शतेनार्च्याः सुवर्णकैः।
प्रत्येकं दशभिर्गोभिर्वासोभिर्विविधैरपि।| ४६-२५।|
प्रधानहोमकर्त्रे विशेषतो दक्षिणादानम्
प्रधानहोमकर्त्रे तु देशिकाय विशेषतः।
प्. ४४४) दद्याद् बहु धनं पूर्णमेकमश्वं सवाहनम्।| ४६-२६।|
अलंकारेण सहितं मण्डपं सपरिच्छदम्।
ततो ब्राह्मणतर्पणम्
ब्राह्मणानां ततस्तृप्तिं कुर्यात् प्रीतमना नृपः।| ४६-२७।|
राज्ञा स्वेनाभिनिर्वृत्ते कर्मण्यस्मिन् यथोदिते।
प्रयोगे देशिकायैव दद्यान्मन्त्रविदे वसु।| ४६-२८।|
पुरोधसा कृतं सर्वमेष धर्मः सनातनः।
राजोदाहरणे तावत् सविशेषमुदीरितम्।| ४६-२९।|
अन्येषामपि सर्वेषामेष एव विधिः स्मृतः।
पूर्णाहुतिं ततः कुर्याद्वैष्णव्यर्चा समाहितः।
राज्ञोऽभ्युदयमाकाङ्क्षन् देशिको मन्त्रवित्तमः।| ४६-३०।|
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
सुदर्शनहोमाङ्गद्रव्यपरिमाणादिनिरूपणं नाम
षट्चत्वारिंशोऽध्यायः।| ४६।|
आदितः श्लोकाः २८६७