अहिर्बुध्नसंहिता/अध्यायः ४५
| ← अध्यायः ४४ | अहिर्बुध्नसंहिता अध्यायः ४५ [[लेखकः :|]] |
अध्यायः ४६ → |
कुशध्वजोपाख्यानवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि।|
अध्यात्मविद्यादिविषयकः प्रश्नः
नारदः -
भगवन्निदमाख्यातं पुरस्तात् परमेश्वर।
अध्यात्मविद्याविद्या च परविद्या स्वरूपतः।| ४५-१।|
ताभिः किं साध्यते देव ताभिः किं वा निवर्त्यते।
त्वमेवैतद्विजानासि तन्ममाचक्ष्व विस्तरात्।| ४५-२।|
अविद्याकार्यनिरूपणम्
अहिर्बुध्न्यः -
परमं गुह्यमेतत् ते कथयामि यथा शृणु।
अविद्यया परं रूपं जीवात्मपरमात्मनोः।| ४५-३।|
संछाद्यते तयोस्तत्त्ववेदनं तु निवर्त्यते।
अध्यात्मज्ञानकार्यनिरूपणम्
अध्यात्मयोगाधिगमात् परं ज्ञानं प्रजायते।| ४५-४।|
प्. ४३१) निवर्त्यते तथानादिः संसारो बन्धनात्मकः।
परविद्याकार्यनिरूपणम्
परस्वरूपविज्ञानादपुनर्भवलक्षणा।| ४५-५।|
साध्यते परमा मुक्तिः सदानन्दफलानघ।
अनादिकालसिद्धानि प्राक्तनान्यमुना मुने।| ४५-६।|
भविष्याणि च कर्माणि निरस्यन्ते सवासनम्।
प्रारब्धकर्मणां भोगैकनाश्यत्वम्
न विनश्यति भोगेन विना प्रारब्धकर्म यत्।| ४५-७।|
एतत् सर्वं समासेन भवतः कथितं मया।
प्रारब्धकर्मविनाशककर्मविशेषसदसद्भावप्रश्नः
नारदः -
प्रारब्धकर्म भगवन् नाश्यते केन कर्मणा।| ४५-८।|
न विनश्यति वा किंस्विदेतत् केनापि कर्मणा।
तत्प्रतिविवक्षया कुशध्वजेतिहासोदाहरणम्
अहिर्बुध्न्यः -
त्रेतायुगे पुरावृत्तमितिहासमिमं शृणु।| ४५-९।|
आसीत् कुशध्वजो नाम जनकेषु महीपतिः।
ब्रह्मवित् परमोदारः प्रजापालनतत्परः।| ४५-१०।|
प्. ४३२) कुशध्वजस्य महामोहेन भृशं पीडा
तस्य भूमण्डलं सर्वं शासतः पृथिवीपतेः।
एकदा तु महामोहः प्रादुरासाङ्गतापनः।| ४५-११।|
कल्पान्तरं भृशं तेन पीडितोऽपि महीपतिः।
यास्यतीति स्वयं नैनं व्यजीगणदमित्रहा।| ४५-१२।|
उदासीनस्यापि तस्य मुहुर्मुहुः पीडातिशयः
पुनश्च पीडितस्तेन वारं वारं विशां पतिः।
नितरां पीडितस्य तस्य चिन्ताप्रकारः
अचिन्तयत् तदा चेत्थमयमाकस्मिको बली।| ४५-१३।|
मुहुरध्यात्मनिरतं बाधते मामनाथवत्।
न शाम्यति स्वयं केन कारणेनैतदागतम्।| ४५-१४।|
तस्य स्वकुलगुरुयाज्ञवल्क्याभिगमनम्
इति चिन्तापरो राजा जगाम गुरुमन्दिरम्।
ब्रह्मघोषयुतं पुण्यं हविर्धूमाधिवासितम्।| ४५-१५।|
प्रविश्यान्तः समासीनमग्न्यगारे तपोनिधिम्।
ब्रह्मविद्भिः परिवृतं विवस्वन्तमिवापरम्।| ४५-१६।|
याज्ञवल्क्यं कुलगुरुं ददर्श विनयान्वितः।
कुशध्वजेन स्ववृत्तान्तनिवेदनम्
तं प्रणम्य महात्मानमिदं वचनमब्रवीत्।| ४५-१७।|
प्. ४३३) त्वत्त एव मया विद्या परा प्राप्ता तथापरा।
परविद्यानलेनैव दग्धं कर्माखिलं मम।| ४५-१८।|
पूर्वापरं विना कर्म प्रारब्धमिति च श्रुतम्।
राज्यलाभः फलं प्राप्तं प्रारब्धस्य तु कर्मणः।| ४५-१९।|
इति मे वर्तमानस्य दुःसहः स्मृतिभञ्जनः।
प्रावर्तत महामोहो मद्गात्रपरितापनः।| ४५-२०।|
केनैतदागतं कष्टं केन वा शंस शाम्यति।
याज्ञवल्क्यस्य प्रतिवचनम्
तेनैवमुक्तो भगवान् व्याजहार कुशध्वजम्।| ४५-२१।|
शरीरसृष्टेः फलभोगार्थत्वम्
सुखदुःखोपभोगाय देहिनां देहकल्पनम्।
ब्रह्मविच्छरीरस्यापि तथात्वम्
अपि ब्रह्मविदां देहस्तथैवेत्यवधारय।| ४५-२२।|
तत् तवापि शरीरेण भोक्तव्यं कर्मणः फलम्।
क्रियन्ते यानि कर्माणि शरीरेण तवापि तु।| ४५-२३।|
तेषां फलानि भुज्यन्ते केवलं न कदाचन।
महामोहस्य पापफलत्वम्
अतः पापफलं विद्धि प्राप्तमेतन्महीपते।| ४५-२४।|
प्. ४३४) तत्कारणभूतपापनिरूपणप्रतिज्ञा
शृणु येनागतो मोहस्तत्त्वतः कथयाम्यहम्।
उन्मादश्च महोन्मादश्चित्ताक्षेपश्च मूर्छना।| ४५-२५।|
संज्ञान्तकारी विक्षोभः प्रलापी स्मृतिभञ्जकः।
अष्टौ दोषा महापापैर्जायन्ते प्राणिहिंसकाः।| ४५-२६।|
राज्ञामुन्मादादिदोषोत्पत्तिकारणनिरूपणम्
ब्रह्मघ्नादण्डनविधेरसत्ये सत्यतामतेः।
स्वाराध्यदेवताबिम्बोपेक्षणान्नृपतेर्वधात्।| ४५-२७।|
ब्रह्मदेयापहारेण ब्राह्मणातङ्कनिर्मितेः।
मर्यादाभङ्गकरणादगम्यागमनादपि।| ४५-२८।|
एतैर्नृपाणां जायन्ते दोषास्ते कारणैर्नृप।
युद्धादन्यत्र राजवधात् कुशध्वजस्य महामोहप्राप्तिकथनम्
अयुद्धे न्यवधीः पूर्वं महाराजं सुधार्मिकम्।| ४५-२९।|
एतद्देहोपभोग्येन पापेनानेन भूपते।
प्राप्तेयं मूर्छना पापा भवन्तं भयदायिनी।| ४५-३०।|
सुदर्शनमहिम्नाष्टानामपि दोषाणां निश्चयेन नाश्यत्वम्
सौदर्शनप्रभावेण दोषाश्चाष्टविधा अमी।
विनश्यन्ति न संदेहस्तेन तच्च प्रणश्यति।| ४५-३१।|
प्. ४३५) सुदर्शनप्रसादसंपादनयत्नोपदेशः
अतस्तत्साधने यत्नं कुरुष्वाङ्ग विचारयन्।
प्रथमं मण्डपादिनिर्माणम्
प्रथमं मण्डपं तुङ्गं सर्वमङ्गलसंयुतम्।| ४५-३२।|
बहुस्तम्भसमाकीर्णं तुङ्गतोरणमण्डितम्।
शुक्लक्षौमवितानाढ्यं किङ्किणीजालभूषितम्।| ४५-३३।|
बहुध्वजसमाकीर्णं पताकाभिरलंकृतम्।
मुक्तादामसमाकीर्णं बहुमाल्यपरिष्कृतम्।| ४५-३४।|
क्षौमाभिवेष्टितस्तम्भं दीपिकासमलंकृतम्।
षट्त्रिंशत्पदविस्तारं चतुःपञ्चाशता पदैः।| ४५-३५।|
आयामैः संमितं रम्यं मङ्गलाष्टकसंयुतम्।
चन्दनागरुधूपेन वासितं विश्वतः शिवम्।| ४५-३६।|
सरस्वतीतीरे मण्डपनिर्माणविधिः
एवमेव सरस्वत्यास्तटे शुद्धे पुराद् बहिः।
शीघ्रं कारय कल्याण मा भैषीर्मा विचारणा।| ४५-३७।|
तत्र स्वागमनप्रतिज्ञा
तत्रैव चागमिष्यामि करिष्ये कर्म शान्तिकम्।
यथोपदेशं राज्ञोऽनुष्ठानम्
एवमुक्तवति प्राज्ञे गुरौ राजा विनिर्ययौ।| ४५-३८।|
प्. ४३६) ततः स परमप्रीतः समाहूय च किंकरान्।
यथोक्तलक्षणं तत्र मण्डपं समकारयत्।| ४५-३९।|
याज्ञवल्क्यस्य तन्मण्डपगमनम्
स्वप्रभावेण तद्दोषं शक्तः शमयितुं मुनिः।
तथापि राजधर्मोऽयमिति बुद्ध्या विचिन्त्य सः।| ४५-४०।|
जगाम मण्डपं तत्र शुक्लपक्षे शुभे दिने।
मण्डपस्य पश्चिमभागे राजासनकल्पनम्
शिल्पिनः स समाहूय राजासनमकल्पयत्।| ४५-४१।|
अस्य पश्चिमदिग्भागे तृतीये समलंकृते।
प्राग्भागद्वयमध्ये होमकुण्डकल्पनम्
प्राग्भागद्वयमध्येऽस्य होमकुण्डान्यकारयत्।| ४५-४२।|
विमानलक्षणोपेतवेदिकास्थलमूर्धसु।
चक्राकृतीनि कुण्डानि कल्पयामास सादरम्।| ४५-४३।|
मध्ये अष्टदिक्षु च कुण्डकल्पना
तादृशं कुण्डयुग्मं तु मध्ये कृत्वा ततो बहिः।
अष्टासु दिक्षु कुण्डानि तथैव समकारयत्।| ४५-४४।|
प्रतिकुण्डमेकैकस्य, मध्ये द्वयोश्च कुम्भयोः स्थापनम्
प्रतिकुण्डं परिस्तीर्य कलमान् भारसंमितान्।
स्थापयामास कुण्डानां पूर्वपार्श्वेषु सर्वतः।| ४५-४५।|
प्. ४३७) कुम्भानि राजतान्यष्टौ सौवर्णे मध्यमे उभे।
गन्धतोयेन पूर्णानि नवरत्नयुतानि च।| ४५-४६।|
याज्ञवल्क्येन स्वयं कुम्भार्चनम्
ततः स्वयं मुनिः सार्धं शतानन्देन धीमता।
क्षौमैस्तन्तुभिरावेष्ट्य गन्धपुष्पैस्तथाक्षतैः।| ४५-४७।|
अलंकृत्य च कुम्भेषु देवमावाह्य सादरम्।
अर्चयामास मन्त्रेण धूपदीपप्रसूनकैः।| ४५-४८।|
यन्त्रप्रतिष्ठाविलेखनादि
महायन्त्रं प्रतिष्ठाप्य मध्येकुम्भद्वयं गुरुः।
देवं विना महायन्त्रं सर्वमन्त्रसमन्वितम्।| ४५-४९।|
पटे विलिख्य पूर्वोक्तं सर्वदिव्यास्त्रसंयुतम्।
राजासने विकीर्यैतत् ततस्तत् सोत्तरच्छदम्।| ४५-५०।|
आरोपयामास तदा राजानममितौजसम्।
स यन्त्रपटसंयुक्तं वितानं तस्य चाकरोत्।| ४५-५१।|
निर्माय च सुवर्णेन मणिजालपरिष्कृतम्।
यथोक्तलक्षणं यन्त्रं दर्पणे च न्यवेशयत्।| ४५-५२।|
तथैव गोरोचनया भूर्जपत्रे सुसंस्कृते।
सुवर्णसूच्या संलिख्य यन्त्रं दिव्यास्त्रवर्जितम्।| ४५-५३।|
प्. ४३८) शिरस्यधारयद्राज्ञो यन्त्रमेतत् सुमन्त्रितम्।
सौदर्शनेन तिलकं भस्मना चाप्यकारयत्।| ४५-५४।|
ततश्चाष्टौ समाहूय ऋत्विजो मन्त्रनिष्ठितान्।
संयतान् वैष्णवान् विप्रान् दिशाकुण्डेष्वयोजयत्।| ४५-५५।|
ततो यवनिकां कृत्वा मण्डपस्य समन्ततः।
अलंकृतेषु कुण्डेषु सौवर्णैश्च परिच्छदैः।| ४५-५६।|
विधाय विहितं पूर्वमृत्विग्भिः सहितो गुरुः।
शतानन्देन सहितो जुहाव ज्वलितेषु सः।| ४५-५७।|
नृत्तवादित्रसंयुक्तं ब्रह्मघोषसमायुतम्।
पुण्याहं पूर्वमकरोद्धोमकर्म समाहितः।| ४५-५८।|
प्रधानकर्मणो युक्तौ शतानन्दो गुरुस्तथा।
दिशाहोमेषु संयुक्ता ऋत्विजः सर्व एव ते।| ४५-५९।|
आज्यैर्विशुद्धैर्नियुतं होमान् संकल्प्य सादरम्।
अकरोदयुतं नित्यमेवं दशदिनं कृतम्।| ४५-६०।|
गुरुणानुदिनं स्नातो मन्त्रितैः कुम्भवारिभिः।
मुक्तग्रहो विशुद्धात्मा विज्वरः प्रीतमानसः।| ४५-६१।|
पूर्णे दशदिने राजा रत्नैर्बहुसुवर्णकैः।
आराधयामास गुरुं मण्डपं सपरिच्छदम्।| ४५-६२।|
निवेद्य गुरवे सर्वानृत्विजः समतर्पयत्।
धनैश्च बहुभिर्धान्यैः प्रतिष्ठाभिः समाहितः।| ४५-६३।|
प्. ४३९) प्रशशास महीमेनां दिवि देवेन्द्रवत् सुधीः।
अन्येषामपि भूतानामयमेव विधिः स्मृतः।| ४५-६४।|
पञ्चाशन्नियुतैर्होमैर्द्वापरे स विधीयते।
कलौ च कोटिहोमेन विधिरेष महीक्षिताम्।
प्रारब्धमेवं भोक्तव्यं कर्म ब्रह्मविदामपि।| ४५-६५।|
इति श्रीपञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
कुशध्वजोपाख्यानवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः।| ४५।|
आदितः श्लोकाः २८३७