अहिर्बुध्नसंहिता/अध्यायः ४४
| ← अध्यायः ४३ | अहिर्बुध्नसंहिता अध्यायः ४४ [[लेखकः :|]] |
अध्यायः ४५ → |
सुदर्शनस्वरूपप्रदर्शनं नाम चतुश्चत्वारिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ।।
स्तुतिप्रीतेन शंकरेणागमनकारणप्रश्नः
अहिर्बुध्न्यः-
इति स्तुवन्तं कुशलमाभाष्येदमवादिषम् ।
किमागमनकार्यं ते वद वाचस्पते इति ।। ४४-१ ।।
बृहस्पतिना शंकराय सुरकार्यनिवेदनम्
इत्युक्तः सकलं प्राह समागमनकारणम् ।
शंभो कृपानिधे देव श्रूयतामिदमादरात् ।। ४४-२ ।।
सर्वलोकेषु सर्वेश तव सानुग्रहं मनः ।
अतस्त्रिदशकार्यार्थं त्वामहं शरणं गतः ।। ४४-३ ।।
जलंधर इति ख्यातो दानवो दुष्टचेष्टितः ।
अनिशं बाधते देवान् ब्रह्मदत्तवरो बली ।। ४४-४ ।।
अशक्तास्तद्वधे सर्वे सुराः सुरपतिस्तथा ।
मन्त्रयांचक्रिरे सर्वे संभूयैतन्मरुद्गणाः ।। ४४-५ ।।
वरेण महता दृप्तो दुर्वारो रणमूर्धनि ।
प्. ४२१) महासुरो महादेवादृते नासौ विनश्यति ।। ४४-६ ।।
एवं संमन्त्र्य शक्रो मामवादीत् समरुद्गणः ।
महासुरवधोपायं भगवन्तं त्रिलोचनम् ।। ४४-७ ।।
अन्तरेण न पश्यामि तं गच्छ शरणं शिवम् ।
सुरकार्यार्थमेतत् त्वं प्रार्थयेथाः पिनाकिनम् ।। ४४-८ ।।
इत्युक्तः पुरुहूतेन त्वत्सकाशमिहागतः ।
तद्यथैते सुराः सर्वे सुखिनो निरुपद्रवाः ।। ४४-९ ।।
भवेयुः पार्वतीनाथ तथैवाशु विधीयताम् ।
शंकरेण जलंधरवधप्रतिज्ञा
इत्युक्तोऽहं तदा तेन चिन्तारूढोऽभवं मुने ।। ४४-१० ।।
तदेतदभिवीक्ष्याहमवोचं वचसां पतिम् ।
जलंधरमहं क्रूरं हनिष्ये पापकारिणम् ।। ४४-११ ।।
स्वस्य दैत्यनिग्रहसामर्थ्ये सुदर्शनप्रसादस्य हेतुत्वख्यापनम्
समाधिस्थस्य मे दृष्टः सुदर्शनवपुर्धरः ।
मन्त्रो मन्त्रविदां श्रेष्ठ सर्वमन्त्रसमुद्भवः ।। ४४-१२ ।।
सर्वार्थसाधको नित्यः सर्वदुष्टभयंकरः ।
सर्वत्राणप्रवीणोऽयं चतुर्वर्गफलप्रदः ।। ४४-१३ ।।
स्वविद्यारक्षणरतः परविद्यानिवारणः ।
प्. ४२२) आथर्वणोऽपि षट्कार्णः षट्कर्णश्रुत्यगोचरः ।। ४४-१४ ।।
अदृश्यं महसः पुञ्जं दुर्निरीक्षं तदा मया ।
मन्त्रमुच्चरता तस्मिंश्चक्रवर्ति सुदर्शनम् ।। ४४-१५ ।।
दृष्टं तेनैवमुक्तं च प्रीतोऽहं मनुदर्शनात् ।
परमव्योमनिलयो भगवन्नित्यकिंकरः ।। ४४-१६ ।।
कार्यं तवांशेनागत्य करिष्ये मन्त्रतः स्मृतः ।
इत्युक्त्वासौ गतो देवः सुदर्शनवपुर्धरः ।। ४४-१७ ।।
तेनैव तं दुरात्मानमपनेष्यामि मा चिरम् ।
सौदर्शनविद्याग्रहणाय शंकरं प्रति बृहस्पतेः प्रार्थना
इत्युक्तः परमप्रीतो बृहस्पतिरपि त्वरन् ।। ४४-१८ ।।
प्रणम्य च पुनः प्राह यदि सानुग्रहो मयि ।
सौदर्शनीमिमां विद्यां देहि मे भगवन्निति ।। ४४-१९ ।।
शंकरेण तस्मै तदुपदेशः
ततोऽहं महते तस्मै विद्यां प्रादां महात्मने ।
लब्धविद्येन बृहस्पतिना हिमवत्तटे तत्पुरश्चरणम्
तां लब्ध्वा परमप्रीतो जगाम हिमवद्गिरिम् ।। ४४-२० ।।
तस्मिञ्जजाप भगवान् मन्त्रमेतमनुत्तमम् ।
बृहस्पतिना सुदर्शनसाक्षात्कारः
ततोऽस्य संनिधिं चक्रे परमाश्चर्यरूपधृत् ।। ४४-२१ ।।
प्. ४२३) चक्रवर्ती स भगवान् सौम्यरूपः सुदर्शनः ।
विस्मितेन बृहस्पतिना तस्य द्विभुजत्वकारणप्रश्नः
तं दृष्ट्वा दीप्तवपुषं प्रसन्नं कुङ्कुमप्रभम् ।। ४४-२२ ।।
द्विभुजं सर्वभूतानामनुग्रहकरं परम् ।
शङ्खचक्रधरं देवं दिव्यमाल्यविभूषितम् ।। ४४-२३ ।।
पीतकौशेयवसनं नेत्रद्वयविराजितम् ।
आधारं सर्वशक्तीनामस्त्राणां च परंतपम् ।। ४४-२४ ।।
तं दृष्ट्वा विस्मयाविष्टः पप्रच्छ प्रणिपत्य सः ।
किमिदं भगव/ल्लोके प्रथितोऽष्टभुजो भवान् ।। ४४-२५ ।।
मनुष्यरूपसंस्थानः प्रादुरासीः पुरो मम ।
सुदर्शनेन प्रतिवचनम्
श्रूयतामित्युपामन्त्र्य प्रत्युवाच सुदर्शनः ।। ४४-२६ ।।
अनन्तेषु सौदर्शनव्यूहेषु चतुर्णां प्राधान्यम्
व्यूहाः सहस्रशः सन्ति मम कॢप्ता यथेच्छया ।
तेषां प्रधानतो व्यूहाश्चत्वारो मम वाक्पते ।। ४४-२७ ।।
तेषां परिगणनम्
द्विभुजं प्रथमं विद्धि ततोऽष्टभुजमेव माम् ।
ततः षोडशहस्तं तु मां द्विषष्टिभुजं ततः ।। ४४-२८ ।।
व्यूहान्तराणामुपासकानुग्रहार्थत्वम्
व्यूहान्तराण्यनेकानि तान्युपासककामतः ।
प्. ४२४) व्यूहचतुष्टयस्य स्वाभाविकत्वं नित्यत्वं सात्त्विकत्वं च
स्वाभाविकमिदं रूपं नित्यमत्यन्तसात्त्विकम् ।। ४४-२९ ।।
अपक्षयविनाशादिरहितं परमं मम ।
अन्येषामुपासकानुग्रहार्थत्वनिगमनम्
अन्यान्यनुग्रहार्थानि मच्चित्तानामिति स्थितिः ।। ४४-३० ।।
स्वस्यात्यद्भुतरूपान्तरास्तित्वप्रतिपादनम्
अन्यद्विश्वमयं रूपमदृष्टं देवदानवैः ।
अमीमांस्यममर्यादमचक्षुर्गोचरं स्वतः ।। ४४-३१ ।।
यथा देवो हृषीकेशस्तथाहमपि वाक्यते ।
बृहस्पतिना तद्रूपदर्शनप्रार्थना
इत्युक्तवन्तं तं देवं सुदर्शनवपुर्धरम् ।। ४४-३२ ।।
प्रणिपत्याब्रवीदेनं वाक्पतिर्वदतां वरः ।
यत्ते विश्वमयं रूपमचाक्षुषमसीमकम् ।। ४४-३३ ।।
योगदृष्ट्या प्रपश्यामि तन्मे दर्शय सांप्रतम् ।
भगवता जगच्चक्रात्मकस्वस्वरूपप्रदर्शनम्
भगवानपि विश्वात्मा स्वकीयं रूपमूर्जितम् ।। ४४-३४ ।।
दर्शयामास गुरवे योगारूढाय नारद ।
स विस्मितमना देवं वीक्षांचक्रे पुरः स्थितम् ।। ४४-३५ ।।
तद्रूपवर्णनम्
प्. ४२५) विश्वोदराक्रान्तसुभीमदेह-
मपूर्वरूपं करणातिदूरम् ।
समुद्यदुर्जत्करशृङ्गसङ्गि-
परःसहस्राद्भुतचक्रमालम् ।। ४४-३६ ।।
पदावलम्बिस्फुरदण्डमाला-
विराजमानं स्थितमात्मभूम्नि ।
युगान्तकालज्वलितार्कजाल-
रुचिप्रभोत्तुङ्गकिरीटशोभम् ।। ४४-३७ ।।
महार्णवावर्तविघूर्णमान-
पिशङ्गनेत्रं सुरसंघजुष्टम् ।
विशुद्धदंष्ट्रान्तरलग्नलोकं
जगद् ग्रसन्तं भ्रुकुटीकरालम् ।। ४४-३८ ।।
शशाङ्कतारागणकीर्णविष्णु-
पदाभहाराङ्कितवक्षसं तम् ।
समुद्यदुज्जृम्भितदीप्तिमाल-
महास्त्रजालं धृतसर्वशस्त्रम् ।। ४४-३९ ।।
प्. ४२६) तेजोमयं दीप्तिकणायमान-
युगान्तकालार्कशशाङ्कवह्निम् ।
स्वदेहसंपूर्णदेगन्तराल-
मलक्षितव्योममहीतलं च ।। ४४-४० ।।
अदृष्टपूर्वरूपदर्शनात् बृहस्पतेर्मोहाधिगमः
झणज्झणत्कारितनूपुरादि-
विभूषणारावविकीर्णविश्वम् ।
अदृष्टपूर्वं परमप्रमेयं
निरीक्ष्य चामूमुहदादिदेवम् ।
लब्धसंज्ञेन तेन सुदर्शनस्तुतिः
ततः स संज्ञां प्रतिलभ्य कृच्छ्रात्
तुष्टाव देवं धिषणो माहात्मा ।। ४४-४१ ।।
ओं
नमो नमस्ते भगवन्नजयय
सुदर्शन ज्ञानमयस्वरूप ।
सदा स्फुटाशेषसमस्तशक्ते
धृताखिलस्थावरजङ्गमाय ।। ४४-४२ ।।
प्. ४२७) अवार्यवीर्याय च भूरिधाम्ने
समस्तकल्याणगुणार्णवाय ।
विशुद्धतेजोमयमूर्तये ते
नमो नमश्चक्रवपुर्धराय ।। ४४-४३ ।।
नमो जयायातुलविक्रमाय
समाश्रितत्राणसुदीक्षिताय ।
सहस्रचक्राय सहस्रनाम्ने
नमः सहस्रारवपुर्धराय ।। ४४-४४ ।।
जगज्जनिस्थितिहरणैकहेतवे
भवार्णवोत्तरणसुनाविकाय ते ।
मरुद्गणप्रतिभटदैत्यदानव-
प्रमाथिने निभृतसुतेजसे नमः ।। ४४-४५ ।।
मधुरिपुमनसो यथा यथा
प्रथमत एव मनीषितं विभो ।
तव पदसरसीरुहं यतो
जगति करोति मनीषितं तथा ।। ४४-४६ ।।
स्मृतिध्वस्ताशेषाश्रितजनमहापापनिचय-
प्रवाहागाधाब्धिप्लवचरणपङ्केरुहयुग ।
त्वदीयार्चिर्वारांनिधिकणकृतात्माङ्गदिनकृ-
च्छशाङ्कस्वाहेशस्तुतपरमधाम्ने नम इदम् ।। ४४-४७ ।।
प्. ४२८) जगत्कालसंवर्तचक्रात्मने ते
चतुर्वक्त्रमुख्यामरेड्याय नित्यम् ।
नमो नित्यगोविन्दसेवारसाप्ता-
तुलानन्दसंदोहपूर्णात्मने स्तात् ।। ४४-४८ ।।
सकलसुरास्त्रमुख्यसततस्मृतनैकजनि-
प्रभृतिमहापदाननिकरश्रुतिहृष्टमनः ।
सकलसुरासुरेशमणिमौलिमरीचिघटा-
घटितपदारविन्दयुगलाय नमो भवते ।। ४४-४९ ।।
कलामुहूर्तनाडिकाद्युपाधिकालहीन ते ।
नमः क्षयर्द्धिजन्मनाशवर्जितात्ममूर्तये ।। ४४-५० ।।
वन्दे वरेण्यमपि वाङ्मनसाति भूमि-
मस्पृष्टहेयगुणमाश्रितवत्सलं त्वाम् ।
अक्षीणपुण्यजनलम्भ्यमशेषवन्द्यं
विद्यामयं परमभौतिकदिव्यदेहम् ।। ४४-५१ ।।
तद्रूपोपसंहरणप्रार्थना
त्वां तत्त्वतो न विदूरीश जगत्यमुष्मिन्
मर्त्येषु नैव विबुधेषु न चापरेषु ।
वेदाः परं विदुरतोऽप्युपसंहराद्य
रूपं भयावहमदृष्टचरं प्रसीद ।। ४४-५२ ।।
सुदर्शनेनाष्टभुजेन भूत्वा स्वस्वरूपस्यातिगुह्यत्वकथनम्
इत्युक्तस्तेन गुरुणा भगवांश्चक्ररूपधृत् ।
प्. ४२९) आविर्बभूव तस्याग्रे तदा ह्यष्टभुजः प्रभुः ।। ४४-५३ ।।
प्रसन्नवदनः श्रीमान् व्याजहार गुरुं तदा ।
तदेतद् दर्शितं रूपमदृष्टं देवदानवैः ।। ४४-५४ ।।
सत्यं मां न परो वेत्ति विना देवं जनार्दनम् ।
सुदर्शनस्य भगवत्क्रियाशक्तिस्वरूपत्वनिरूपणम्
गुह्यमेतत् क्रियाशक्तिरहं देवस्य शार्ङ्गिणः ।। ४४-५५ ।।
अतस्तत्कार्यमखिलं मयैव क्रियते मुने ।
जगज्जन्मादि सकलमित्युक्त्वान्तरधीयत ।। ४४-५६ ।।
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
सुदर्शनस्वरूपप्रदर्शनं नाम चतुश्चत्वारिंशोऽध्यायः ।। ४४ ।।
आदितः श्लोकाः २७७२