अहिर्बुध्नसंहिता/अध्यायः ४३
| ← अध्यायः ४२ | अहिर्बुध्नसंहिता अध्यायः ४३ [[लेखकः :|]] |
अध्यायः ४४ → |
जलंधरवधोपायचिन्तनं नाम त्रिचत्वारिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् |
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ||
कृत्स्नस्य जगच्चक्रमयत्वकथंताप्रश्नः
नारदः -
पृच्छामि त्वां पुनरिदं शंस मे सकलेश्वर |
प्रोक्तमेतत् पुरा सर्वं जगच्चक्रमयं त्वया || ४३-१ ||
तत् कथं स्पष्टमाचक्ष्व कदा देवेन दर्शितम् |
वेत्ता त्वमेव नान्योऽस्ति त्वदृते भुवनत्रये || ४३-२ ||
अध्यायद्वयेन तदुत्तरकथनायाख्यायिकाकथने प्रथमं
देवादीनां धर्ममार्गप्रवर्तकत्वनिरूपणम्
अहिर्बुध्न्यः -
सुराश्च मुनयः सर्वे मनुस्तत्सूनवस्तथा |
राजानः सर्ववर्णाश्च धर्ममार्गप्रवर्तकाः || ४३-३ ||
दानवादीनां धर्मविघातकत्वम्
प्. ४१४) तथैव दानवाः सर्वे भूतवेतालराक्षसाः |
क्रूरा नराश्च पशवो भीमरूपाश्च दस्यवः || ४३-४ ||
तथैव चासुरीं प्राप्ता योनिमन्ये जना मुने |
एते सर्वे सदा धर्मविध्वंसं कुर्वते भृशम् || ४३-५ ||
पापिनां विनाशोपायचिन्तयाहिर्बुध्न्यस्य मेरुशिखरगमनम्
अतस्ते पापकर्माणः केन नश्येयुरित्यहम् |
परां चिन्तामुपारूढो मेरुकूटमुपागतः || ४३-६ ||
तत्र समाधिमास्थितस्य तस्य तेजोविशेषदर्शनम्
तस्मिन् समाधिमास्थाय समासीनस्य मे क्षणात् |
आविर्बभूव दुर्दर्शं महः परमभास्वरम् || ४३-७ ||
भीतिवशात् आथर्वणमन्त्रोच्चारणपूर्वकं पुनस्तद्दर्शनम्
ततस्तद्दर्शनान्मन्त्रमाथर्वणमुदैरयम् |
तमुच्चरन् महामन्त्रमद्राक्षं तन्महः पुनः || ४३-८ ||
तेजोमध्ये सुदर्शनपुरुषसाक्षात्कारपूर्वकं प्रश्नः
तस्मिन् विदीप्ते महसि पुरुषं कृष्णपिङ्गलम् |
ऊर्ध्वरेतं विरूपाक्षं सहस्रादित्यसंनिभम् || ४३-९ ||
सहस्रारसमायुक्तचक्रमध्यस्थितं परम् |
ज्वालामालासुदुर्दर्शं सुदर्शनमनाकुलम् || ४३-१० ||
प्. ४१५) दृष्ट्वा कस्त्वं कुतः कस्येत्यपृच्छमकुतोभयम् |
प्रीतेन भगवता स्वस्वरूपख्यापनम्
ततः प्रीतः स भगवानवदत् तेजसां निधिः || ४३-११ ||
अहं सुदर्शनो नाम्ना ख्यातोऽद्य प्रभृतीश्वर |
दुरालोको महालोको यत् तवाहं सुदर्शनः || ४३-१२ ||
वैकुण्ठात् स्वागमनस्याहिर्बुध्न्यानुजिघृक्षाहेतुकत्वादिकथनम्
वैकुण्ठधामनिलयस्त्वां द्रष्टुं समुपागतः |
त्रिभावभावनायुक्तैरदृष्टचरमद्भुतम् || ४३-१३ ||
नित्यमन्तर्हितं गुह्यं सर्वलोकनमस्कृतम् |
प्रमथ्य मतिमन्थानादुद्धृतं वेदसागरात् || ४३-१४ ||
पीयूषमिव दुग्धाब्धेर्यत् त्वया परमेश्वर |
अतो मन्त्रतनुः प्राप्तो भवन्तं किं करोमि ते || ४३-१५ ||
अन्तरं नैव पश्यामि तव दामोदरस्य च |
अतो यथात्र वर्तेय तथैव त्वयि शंकर || ४३-१६ ||
ततोऽहिर्बुध्न्येन भगवति स्वाभिप्रेतनिवेदनम्
इत्युक्त्वा विरते तस्मिन् सहस्रादित्यसंनिभे |
ततोऽहं विस्मितोऽवोचं तमप्रतिमतेजसम् || ४३-१७ ||
भूयांसो भुवने पापा धर्मव्यासेधकारिणः |
तेषां निग्रहमाकाङ्क्षन्नुपायैर्नाशयाम्यहम् || ४३-१८ ||
प्. ४१६) इति चिन्तापरे योगमास्थिते मयि मन्त्रराट् |
त्वं चाविरासीस्तत्कार्यं निर्वृत्तमिति मे मतिः || ४३-१९ ||
दैत्यादिविनाशनप्रार्थना
अतस्तैः पीड्यमानेषु साधुषु स्मृतिमात्रतः |
आगन्तव्यं प्रयत्नेन साध्यं साधय च प्रभो || ४३-२० ||
भगवता तथेत्युक्ते स्वस्य कैलासगमनम्
तथेत्युक्त्वा गतः सोऽहमपि कैलासमन्वगाम् |
अत्रान्तरे जलंधरवधार्थमिन्द्रस्य मन्त्रालोचना
ततो जलंधराख्येन दानवेन निपीडितः || ४३-२१ ||
वासवो मन्त्रयांचक्रे सह सर्वैर्मरुद्गणैः |
शस्त्रैरस्त्रैरजययत्वं दानवस्य दुरात्मनः || ४३-२२ ||
निरीक्ष्य केन तं पापं नाशयामीत्यचोदयत् |
तत्र वायुना स्वाभिप्रायविनिवेदनम्
ततो वायुः समुत्थाय पुरंदरमथाब्रवीत् || ४३-२३ ||
सत्यमस्त्रैस्तथा शस्त्रैरजययोऽयं महासुरः |
धात्रा दत्तवरो दृप्तो बलवीर्यसमन्वितः || ४३-२४ ||
दिधक्षति जगत् सर्वं धूमकेतुरिवोत्थितः |
सर्वलोकेश्वरे श्रीमत्यप्रमेये महाद्युतौ || ४३-२५ ||
देवदेवे महादेवे शंकरे भूतभावने |
तस्मिन्नत्याहितं तेन नृशंसेन सुरारिणा || ४३-२६ ||
प्. ४१७) तस्मिन् परमसंक्रुद्धो वर्तते तेन शंकरः |
अतस्तमभिगच्छामो वधार्थं दुष्टचारिणः || ४३-२७ ||
बृहस्पतिमुखेनैव तं देवं प्रार्थयामहे |
स एव तत्र वक्तव्यं जानाति भगवानिति || ४३-२८ ||
वायुवचनमङ्गीकृत्य शंकरं गन्तुं शक्रेण बृहस्पतिप्रचोदनम्
विरते पवने तस्मिन् बाढमित्याह वासवः |
बृहस्पतिमथासीनं ज्वलितानलसंनिभम् || ४३-२९ ||
अभ्यगच्छन्महातेजा भगवान् पाकशासनः |
जलंधरवधार्थं त्वमभिगच्छ पिनाकिनम् || ४३-३० ||
स तस्मिन् परमक्रुद्धो निहनिष्यत्यसंशयम् |
सुरकार्येषु सर्वेषु भवानेव परायणम् || ४३-३१ ||
अतोऽभिगम्यतां देवः कैलासे चन्द्रशेखरः |
इन्द्रवचनात् बृहस्पतेः कैलासगमनम्
इत्युक्तवचने तस्मिन् पुरुहूते सुरेश्वरे || ४३-३२ ||
तथेति तत् प्रतिश्रुत्य वाक्पतिः शक्रपूजितः |
कैलासशिखरं प्रायात् प्रहृष्टेनान्तरात्मना || ४३-३३ ||
तत्र शंकरदर्शनम्
तत्रासीनं सुरैः सार्धमास्थाने सुमनोहरे |
प्. ४१८) मामप्सरःप्रयुक्ते तु नृत्ये विस्मितमानसम् || ४३-३४ ||
सोऽपश्यदाराद्भगवानुद्यद्भास्करसंनिभः |
प्रणिपत्य समुत्थाय मामस्तौषीत् स वाक्पतिः || ४३-३५ ||
जलंधरवधार्थं बृहस्पतिना शंकरस्तुतिः
प्रसीद देवदेवेश प्रसीद जगतः पते |
प्रसीद सर्वगीर्वाणपालनान्तकर प्रभो || ४३-३६ ||
प्रसीद भगवन् देव प्रसीद सुरवन्दित |
प्रसीद विश्वविज्ञानवारिधे परमेश्वर || ४३-३७ ||
नमस्ते व्योमनिलय नमस्ते नागभूषण |
नमः परमकल्याण नमस्त्रिपुरदारण || ४३-३८ ||
त्वं धाता त्वं वषट्कारस्त्वं हविस्त्वं हुताशनः |
सदसत्त्वं त्वमोंकारस्त्वमिन्द्रस्त्वं यमस्तथा || ४३-३९ ||
त्वं पाशपाणिस्त्वं सोमो निर्-ऋतिस्त्वं मरुत् तथा |
त्वमादित्यो वसुश्च त्वं त्वं विश्वं विश्वतोमुख || ४३-४० ||
त्वमव्यक्तं महांश्च त्वं त्वमहंकार एव च |
भूतानि त्वं सुसूक्ष्माणि विद्याविद्ये तथा भवान् || ४३-४१ ||
किमत्र बहुनोक्तेन चराचरमिदं जगत् |
त्वमेव भूतनाथेश सर्वकारणकारण || ४३-४२ ||
प्. ४१९) क्षितिसलिलसमीरव्योमतेजःसहस्र-
द्युतिशशियजमानैः पूर्णदेहाय तुभ्यम् |
परममुनिमनोभिर्मृग्यमाणाय नित्यं
भवभयविनिहन्त्रे विश्वमूर्ते नमस्ते || ४३-४३ ||
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
जलंधरवधोपायचिन्तनं नाम त्रिचत्वारिंशोऽध्यायः || ४३ ||
आदितः श्लोकाः २७१६