अहिर्बुध्नसंहिता/अध्यायः ४२
| ← अध्यायः ४१ | अहिर्बुध्नसंहिता अध्यायः ४२ [[लेखकः :|]] |
अध्यायः ४३ → |
काशीराजश्रुतकीर्त्युपाख्यानवर्णनं नाम
द्विचत्वारिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् |
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ||
अङ्गमन्त्राणामुत्पत्तिदेवताप्रयोजनशक्तिध्येयप्रश्नाः
नारदः -
भगवन् सर्वधर्मज्ञ सर्वभूतनमस्कृत |
श्रोतव्यं यद्यदस्माभिः श्रुतं तत् तदशेषतः || ४२-१ ||
इदं त्विदानीं पृच्छामि शंस मे मनसि स्थितम् |
कुतोऽमुष्याङ्गमन्त्राणामुत्पत्तिः का च देवता || ४२-२ ||
किमर्थं कीदृशी शक्तिः किं ध्येयं ब्रूहि तत्त्वतः |
पृष्टस्यार्थस्य गुह्यत्वख्यापनमुखेनोत्तरकथनारम्भः
अहिर्बुध्न्यः -
श्रूयतामवधानेन तदेतद् गुह्यमुत्तमम् || ४२-३ ||
उत्पत्तिप्रश्नस्योत्तरम्
आथर्वणान्मया वेदान्महामन्त्रपरिष्कृतात् |
समुद्धृतः षडर्णोऽयं कौस्तुभः सागरादिव || ४२-४ ||
प्. ४०१) तथा तस्मादिमे मन्त्राः प्रोद्धृताः सकला मुने |
देवताप्रश्नस्योत्तरम्
स्वयमेवाङ्गमन्त्राणामपि देवः सुदर्शनः || ४२-५ ||
प्रयोजनशक्तिप्रश्नयोरुत्तरम्
सुदर्शनमहामन्त्रनिष्ठस्याङ्गावनं परम् |
कार्यमेषां षडर्णेन तथामी समशक्तयः || ४२-६ ||
ध्येयप्रश्नस्योत्तरम्
एषामष्टभुजो देवः पूर्वोक्तेनैव वर्त्मना |
ध्येयः सर्वं समाख्यातं किमन्यच्छ्रोतुमिच्छसि || ४२-७ ||
निवर्तकास्त्रप्रयोगावसरप्रश्नः
नारदः -
भगवन् परमोदार नित्यतृप्त दयानिधे |
नित्यज्ञानक्रियैश्वर्यविश्वविज्ञानवारिधे || ४२-८ ||
सुदर्शनमहायन्त्रमन्त्रशक्तिक्रियादिषु |
यद् वक्तव्यं विशेषेण तदुक्तं भवता विभो || ४२-९ ||
प्रवर्तकानामस्त्राणामुत्पत्तिः कथिता पुरा |
स्वरूपशक्ती च तथा प्रयोगश्च महाद्युते || ४२-१० ||
निवर्तकानां तु पुनः कदा क्व विषये गुरो |
प्रयोगः परमं मेऽत्र संशयं छेत्तुमर्हसि || ४२-११ ||
प्. ४०२) तदुत्तरकथनप्रतिज्ञा
अहिर्बुध्न्यः -
श्रूयतामवधानेन प्रयोगावसरं मु |
निवर्तकानामस्त्राणां सम्यक् कथयतो मम || ४२-१२ ||
तत्प्रयोगावसरकथनम्
परप्रयुक्तैर्दिव्यास्त्रैरभिचारैश्च तत्कृतैः |
महत्यभिभवे प्राप्ते तं विद्यात् तपसां निधे || ४२-१३ ||
पराभिचाराभिभवज्ञानोपायप्रश्नः
नारदः -
पराभिचाराभिभवः कैर्लिङ्गैरवगभ्यते |
राज्ञां च मन्त्रिणां चैव तथान्येषां नृणामपि || ४२-१४ ||
तज्ज्ञानोपायलिङ्गनिरूपणम्
अहिर्बुध्न्यः -
लक्ष्यते लक्षणैरेतैर्नृपाणामाभिचारिकी |
विकृतिः प्रस्तुताकाले दारुणा सर्वगोचरा || ४२-१५ ||
अकाण्ड एव नश्यन्ति वाजिवारणमन्त्रिणः |
तीव्रामयपरीताङ्गः पीड्यते नृपतिः स्वयम् || ४२-१६ ||
पतन्त्यशनयस्तस्य विषये घोरदर्शनाः |
अल्पसस्या वसुमती विनश्यन्ति गवां गणाः || ४२-१७ ||
प्. ४०३) भवन्ति तस्य विषये पुनः पुनरवग्रहाः |
तीव्रामयगृहीताश्च महिष्यस्तस्य भूपतेः || ४२-१८ ||
प्रभवन्त्यहिवल्मीकाः प्रासादे द्वारि मण्डपे |
निपतन्ति महोल्काश्च भृशं भीमस्वनान्विताः || ४२-१९ ||
मन्त्रिणश्च विरुध्यन्ते मत्सरेण परस्परम् |
रजन्यां राजते भीममैन्द्रं धनुरनभ्रजम् || ४२-२० ||
इतस्ततो वह्निभयं नगरे जायते भृशम् |
प्रविश्य गर्भभवनं क्रोष्टारश्चानिवारिताः || ४२-२१ ||
क्रोशन्ति संध्ययोर्भीमा दीप्तायां दिशि विस्वरम् |
रुन्धन्ति नगरं राज्ञः शत्रवो बलदर्पिताः || ४२-२२ ||
कृत्याकृत्यं न जानाति स्वयं स्तैमित्यमास्थितः |
स्वप्नेऽपि पश्यत्यात्मानं मुण्डितं नीलवाससम् || ४२-२३ ||
तथेन गर्दभयुजा व्रजन्तं दक्षिणां दिशम् |
इत्यादिलिङ्गैर्जानीयादभिचारं सपत्नजम् || ४२-२४ ||
पराभिचारजा कृत्या राजानं प्रविशेद्यदि |
तां दृष्ट्वा क्षिप्रमेवासौ विनश्यति न संशयः || ४२-२५ ||
पुत्रांश्च मन्त्रिणश्चापि महिषीं नगरं तथा |
ज्वालामालाविला कृत्या सर्वं नाशयति क्षणात् || ४२-२६ ||
पराभिचारनिवर्तनाय निवर्तकास्त्रधारिसुदर्शनप्रीणनम्
एवं पराभिचारेण पीडिते नृपतौ स्वयम् |
प्. ४०४) निवर्तकास्त्रसहितं भगवन्तं महाद्युतिम् || ४२-२७ ||
चक्रस्वरूपिणं देवं भक्त्या संतोषयेत् ततः |
रजतेन सुवर्णेन शिलया ताम्रकेण वा || ४२-२८ ||
सुदर्शनार्चां निर्माय पूजयेत् सनिवर्तकम् |
समालिख्य पटे वापि ध्यायेत् त्रैलोक्यपूजितम् || ४२-२९ ||
एवं निर्माणतो ध्यानात् पूजया वन्दनेन वा |
प्रतिष्ठया वा स्तोत्रेण देवं संप्रीणयेन्नृपः || ४२-३० ||
एवमन्ये तथा कुर्युरमात्या वा नरा मुने |
प्रीतेन सुदर्शनेन पराभिचारनिर्दहनम्
ततः प्रीतः स भगवाननादिनिधनो विभुः || ४२-३१ ||
अभिचारान् परकृतानाश्रितानुग्रहेण तु |
भस्मीकरोति स्मृत्यैव तत्प्रयुक्तान्यपि क्षणात् || ४२-३२ ||
दिव्यास्त्राण्युपसंहारैरस्त्रैर्वारयतीश्वरः |
परप्रयुक्तकृत्यायास्तत्प्रयोक्तुश्च विनाशनम्
परप्रयुक्तां कृत्यां तु संप्राप्तामतिभीषणाम् || ४२-३३ ||
स्वयं निर्गत्य देवोऽसौ चक्ररूपी जगत्पतिः |
भस्मसात् कुरुते तं च प्रयोक्तारं ततः परम् || ४२-३४ ||
काशीराजेतिहासोदाहरणम्
तथैव काशीराजाख्यो वाराणस्यां वसन्नृपः |
विश्वेश्वरं महादेवमर्चयित्वा समाहितः || ४२-३५ ||
प्. ४०५) कृष्णोद्देशेन कृत्यां वै जनयामास मोहितः |
सा समुत्पादिता कृत्या विकटा भीमदर्शना || ४२-३६ ||
द्वारकां समनुप्राप्य कृष्णाभ्यासं ययौ तदा |
तामापतन्तीं संप्रेक्ष्य ज्वालामालाविलाननाम् || ४२-३७ ||
प्रेषयामास भगवान् सुदर्शनमनुत्तमम् |
सा तमापतितं दृष्ट्वा सहस्रादित्यसंनिभम् || ४२-३८ ||
यथागतं प्रदुद्राव प्रयोक्तारं भयातुरा |
स तां निहत्य तं चापि काशीराजं पुरीं तथा || ४२-३९ ||
आजगाम पुनश्चक्रं विष्णुपार्श्वं महाद्युति |
श्रुतकीर्त्युपाख्यानोदाहरणम्
एवमन्यत् पुरावृत्तमितिहासं शृणुष्व मे || ४२-४० ||
राज्ञा श्रुतकीर्तिना धर्मेण सप्तद्वीपमहीपरिपालनम्
सौराष्ट्राधिपती राजा श्रुतकीर्तिरिति श्रुतः |
निवसन् भद्रशालायां नगर्यामरिमर्दनः || ४२-४१ ||
गजाश्वरथसंपन्नो बलवान् वासवोपमः |
सुदर्शनमहामन्त्रनिष्ठः परमधार्मिकः || ४२-४२ ||
सुदर्शने परां भक्तिमुद्वहन्नर्चनापरः |
बुभुजे तत्प्रसादेन सप्तद्वीपवतीं महीम् || ४२-४३ ||
प्. ४०६) लोकान्तरं जिगीषोस्तस्य सुदर्शनार्चनपूर्वकं
स्वस्तिकाख्यगन्धर्वनगरगमनम्
जेतुं लोकान्तरं चक्रे श्रुतकीर्तिर्मनस्तदा |
चतुरङ्गबलैर्युक्तः समभ्यर्च्य सुदर्शनम् || ४२-४४ ||
कामगं स्यन्दनं चित्रमारुरोह महाबलः |
ततः प्रतस्थे प्रथममन्तरिक्षं बलान्वितः || ४२-४५ ||
स्वस्तिकनगरवर्णनम्
तत्र गन्धर्वनगरं विशालं स्वस्तिकाह्वयम् |
वीणाविनोदनेनेत्थं पालितं परमद्युति || ४२-४६ ||
स्वयंप्रवृत्तैः शस्त्रैश्च वार्यमाणारिसैनिकम् |
बहिर्निरिन्धनेनैव वह्निना परिवेष्टितम् || ४२-४७ ||
सुवर्णसालं परमं रत्नगोपुरमण्डितम् |
मणिहर्म्यपरिक्षिप्तं गानस्वनसमाकुलम् || ४२-४८ ||
विमानैस्तैजसैर्जुष्टं दिव्योपवनशोभितम् |
सुवर्णपद्मसरसीसरिद्वापीनिषेवितम् || ४२-४९ ||
सेवितं सुरनारीभिरप्सरोभिश्च सेवितम् |
गन्धर्वैः किंनरैः सिद्धैश्चारणैश्च सदा युतम् || ४२-५० ||
युयुत्सुना श्रुतकीर्तिना तन्नगरोपरोधः
एवंविधं पुरं राजा रुरोध बलदर्पितः |
वीणाविनोदनं योद्धुं महत्या सेनया तदा || ४२-५१ ||
प्. ४०७) गन्धर्वराजेन वाहिनीप्रेषणम्
श्रुत्वा गन्धर्वराजोऽपि मानुषैरुपरोधनम् |
प्रहस्य प्रेषयामास सिद्धगन्धर्ववाहिनीम् || ४२-५२ ||
तत्र तुमुलसंग्रामः
सा तेन बलिना राज्ञा युयुधे निशितैः शरैः |
प्रवृत्तं तन्महद्युद्धं तुमुलं रोमहर्षणम् || ४२-५३ ||
श्रुतकीर्तिना गन्धर्वसैन्यविद्रावणम्
ततो विद्रावयामास भूपतिर्लीलया बलम् |
गान्धर्वं तत् पुनः प्राप स्वपुरीं भयविह्वलम् || ४२-५४ ||
क्रुद्धस्य गन्धर्वराजस्य स्वयं युद्धाय निर्गमनम्
तच्छ्रुत्वा परमक्रुद्धः स्वयं वीणाविनोदनः |
रथं महान्तमास्थाय निर्ययौ सह सैनिकैः || ४२-५५ ||
गन्धर्वराजश्रुतकीर्त्योरष्टदिनपर्यन्तं युद्धप्रवृत्तिः
ततस्तयोरभूद्युद्धं वृत्रवासवयोरिव |
परस्परं निजघ्नुस्ते सैनिकाः विविधैः शरैः || ४२-५६ ||
तत्र संछन्नमाकाशं शरौघैरुभयोरपि |
जयः पराजयो वा स्यान्न तत्र समितौ तयोः || ४२-५७ ||
एवमष्टदिनान्यासीदेकरूपं भयंकरम् |
प्. ४०८) भूपतिना गन्धर्वराजस्य धनुरादिच्छेदो बलविद्रावणं च
ततो गन्धर्वराजस्य घनुश्चिच्छेद भूपतिः || ४२-५८ ||
ध्वजच्छत्रहयांश्चापि सायकैर्नतपर्वभिः |
दिशः प्रस्थापयामास तदीयं सकलं बलम् || ४२-५९ ||
गन्धर्वराजस्य विषादः
शस्त्रैरजययमालोच्य नृपं गन्धर्वराडपि |
पराजितं तु स्वबलं मनुजैर्विषसाद ह || ४२-६० ||
गन्धर्वराजेन मानुषबले गान्धर्वास्त्रप्रयोगः
दिव्यास्त्रैः सूदयाम्येनमिति मत्वा महाद्युतिः |
गान्धर्वमस्त्रं चिक्षेप स तस्मिन् मानुषे बले || ४२-६१ ||
तेन मानुषसैन्यविमोहनम्
तेनैव मोहिता सर्वा श्रुतकीर्तिवरूथिनी |
गान्धर्वास्त्रप्रभावेण तिष्ठत्येव च संयुगे || ४२-६२ ||
सुदर्शनप्रभावेण दिव्यास्त्रं नाप तं नृपम् |
तत्प्रतीकाराशक्तस्य श्रुतकीर्तेः पुरोधसि स्ववृत्तनिवेदनम्
श्रुतकीर्तिस्तदास्त्रेषु दिव्येष्वनभियोगतः || ४२-६३ ||
न शशाक प्रतीकर्तुं स्वपुरोधसमभ्ययात् |
वृत्तं विज्ञापयामास नृपस्तस्मै पुरोधसे || ४२-६४ ||
पुरोधसा सुदर्शनशरणवरणोपदेशपूर्वकं
निखिलास्त्रमन्त्रोपदेशनम्
सोऽभ्यभाषत धर्मज्ञः परमास्त्रविशारदः |
प्. ४०९) श्रुतकीर्तेऽत्र मा भैषीस्तमेव शरणं व्रज || ४२-६५ ||
प्रणतार्तिहरं देवं सुदर्शनवपुर्धरम् |
दिव्यास्त्राणामशेषाणां प्रसूतिं परमेश्वरम् || ४२-६६ ||
एवं भूते महाचक्रे चतुःषष्ट्यरसंयुते |
नेमिद्वयान्विते देवं मध्ये ध्यायस्व भूपते || ४२-६७ ||
द्विषष्टिभुजमत्युग्रं संहारास्त्रधरं परम् |
एवं ध्यात्वा च जप्त्वैतं मन्त्रं सेनां विलोकय || ४२-६८ ||
इत्यस्त्रमन्त्रानखिलांस्तस्मा उपदिदेश सः |
तेन जातबलस्य श्रुतकीर्तेः पुनर्युद्धायागमनम्
प्रतिगृह्याखिलान् मन्त्रान् प्रवर्तकनिवर्तकान् || ४२-६९ ||
पुनरेत्य च संग्रामं स राजा समितिंजयः |
तेन स्वसैनिकमोहविमोचनम्
ध्यात्वा देवं जपन् मन्त्रं स्वसेनां समलोकयत् || ४२-७० ||
ततः संज्ञामवाप्यासौ प्रावर्तत महाहवे |
पुनर्युद्धे श्रुतकीर्तेर्विजयो गन्धर्वलोकवशीकरणं च
पुनः प्रववृते युद्धं सेनयोरुभयोरपि || ४२-७१ ||
दिव्यास्त्रैः समरे राजा जित्वा वीणाविनोदनम् |
तल्लोकं स्ववशं चक्रे चक्रवर्ती बलान्वितः || ४२-७२ ||
प्. ४१०) ततः स्वपुरप्रत्यागमनम्
सत्कृतः सिद्धगन्धर्वैः किंनरैश्चारणैरपि |
भद्रशालां पुनः प्राप स्वपुरीं विजयश्रिया || ४२-७३ ||
समेयिवाञ्शशासोर्वीं दिवं सुरपतिर्यथा |
सुदर्शनप्रभावाद्विस्मितस्य पुनः पुरोधसा सह मन्त्रणप्रकारः
सुदर्शनप्रभावस्य स्मृत्वा विस्मितमानसः || ४२-७४ ||
पुरोधसमुपागम्य ज्वलन्तमिव पावकम् |
मन्त्रयामास तेनैवं राजा राजीवलोचनः || ४२-७५ ||
स्वसंपदो भगवत्प्रसादहेतुकत्वकथनम्
देवप्रसादाज्जगती ममेयं
समुद्रनेमिर्वशमागताद्य |
लोकान्तरं चापि तथैव मन्ये
मयि प्रसादोन्मुख एव देवः || ४२-७६ ||
भगवत्प्रसादात् स्वस्य मोक्षलाभे संशयाभावकथनम्
संसारभीतस्य ममापवर्गं
प्रदास्यते चक्रवपुर्धरोऽयम् |
इत्यत्र शङ्का मम नास्ति काचि-
दतः परं देवमुपास्महे तु || ४२-७७ ||
प्. ४११) राजानं प्रति पुरोधसा सुदर्शनप्रतिष्ठापनाद्युपदेशः
इत्युक्तवन्तं नृपतिं पुरोधाः
कृताञ्जलिं प्राह महानुभावः |
विमानमग्र्यं बहुवर्णकूटं
विधाय चक्रोपपदं ससाध्यम् || ४२-७८ ||
इह प्रतिष्ठाप्य सुचक्रमध्ये
द्विषष्टिबाहुं सनिवर्तकास्त्रम् |
यथोक्तरूपं बहुभूषणाढ्यं
सुदर्शनं पूजय सर्वसिद्ध्यै || ४२-७९ ||
राज्ञा तथैवानुष्ठानम्
इत्येवमुक्तः प्रतिगृह्य मूर्ध्ना
स तस्य वाक्यं परमार्थयुक्तम् |
अकारयत् कारयितव्यदक्ष-
स्तथैव तस्मिन्नगरे स राजा || ४२-८० ||
तदर्थं राज्ञा द्विजानां वृत्तिप्रकल्पनम्
शतं स विंशत्यधिकं द्विजांस्तु
समन्ततो देवनिकेतनात् सः |
ततः प्रतिष्ठाप्य धनानि दत्त्वा
बहूनि बह्वीश्च भुवः स तेभ्यः || ४२-८१ ||
प्. ४१२) विभूतिमन्तं च विधाय देवं
मुमोद राजा समवाप्तकामः |
ततो भगवत्प्रसादाद्राज्ञः परमपुरुषार्थलाभः
महालये तत्र समर्च्य देवं
दिने दिने प्राप्तसमस्तकामः |
ततोऽचिरेणैव विमुक्तसङ्गः
परं पदं प्राप च तत्प्रसादात् || ४२-८२ ||
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
काशीराजश्रुतकीर्त्युपाख्यानवर्णनं नाम
द्विचत्वारिंशोऽध्यायः || ४२ ||
आदितः श्लोकाः २६७३