सामग्री पर जाएँ

अहिर्बुध्नसंहिता/अध्यायः ४२

विकिस्रोतः तः
← अध्यायः ४१ अहिर्बुध्नसंहिता
अध्यायः ४२
[[लेखकः :|]]
अध्यायः ४३ →
अहिर्बुध्नसंहितायाः अध्यायाः

काशीराजश्रुतकीर्त्युपाख्यानवर्णनं नाम
द्विचत्वारिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् |
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ||

अङ्गमन्त्राणामुत्पत्तिदेवताप्रयोजनशक्तिध्येयप्रश्नाः

नारदः -

भगवन् सर्वधर्मज्ञ सर्वभूतनमस्कृत |
श्रोतव्यं यद्यदस्माभिः श्रुतं तत् तदशेषतः || ४२-१ ||

इदं त्विदानीं पृच्छामि शंस मे मनसि स्थितम् |
कुतोऽमुष्याङ्गमन्त्राणामुत्पत्तिः का च देवता || ४२-२ ||

किमर्थं कीदृशी शक्तिः किं ध्येयं ब्रूहि तत्त्वतः |

पृष्टस्यार्थस्य गुह्यत्वख्यापनमुखेनोत्तरकथनारम्भः

अहिर्बुध्न्यः -

श्रूयतामवधानेन तदेतद् गुह्यमुत्तमम् || ४२-३ ||

उत्पत्तिप्रश्नस्योत्तरम्

आथर्वणान्मया वेदान्महामन्त्रपरिष्कृतात् |
समुद्धृतः षडर्णोऽयं कौस्तुभः सागरादिव || ४२-४ ||

प्. ४०१) तथा तस्मादिमे मन्त्राः प्रोद्धृताः सकला मुने |

देवताप्रश्नस्योत्तरम्

स्वयमेवाङ्गमन्त्राणामपि देवः सुदर्शनः || ४२-५ ||

प्रयोजनशक्तिप्रश्नयोरुत्तरम्

सुदर्शनमहामन्त्रनिष्ठस्याङ्गावनं परम् |
कार्यमेषां षडर्णेन तथामी समशक्तयः || ४२-६ ||

ध्येयप्रश्नस्योत्तरम्

एषामष्टभुजो देवः पूर्वोक्तेनैव वर्त्मना |
ध्येयः सर्वं समाख्यातं किमन्यच्छ्रोतुमिच्छसि || ४२-७ ||

निवर्तकास्त्रप्रयोगावसरप्रश्नः

नारदः -

भगवन् परमोदार नित्यतृप्त दयानिधे |
नित्यज्ञानक्रियैश्वर्यविश्वविज्ञानवारिधे || ४२-८ ||

सुदर्शनमहायन्त्रमन्त्रशक्तिक्रियादिषु |
यद् वक्तव्यं विशेषेण तदुक्तं भवता विभो || ४२-९ ||

प्रवर्तकानामस्त्राणामुत्पत्तिः कथिता पुरा |
स्वरूपशक्ती च तथा प्रयोगश्च महाद्युते || ४२-१० ||

निवर्तकानां तु पुनः कदा क्व विषये गुरो |
प्रयोगः परमं मेऽत्र संशयं छेत्तुमर्हसि || ४२-११ ||

प्. ४०२) तदुत्तरकथनप्रतिज्ञा

अहिर्बुध्न्यः -

श्रूयतामवधानेन प्रयोगावसरं मु |
निवर्तकानामस्त्राणां सम्यक् कथयतो मम || ४२-१२ ||

तत्प्रयोगावसरकथनम्

परप्रयुक्तैर्दिव्यास्त्रैरभिचारैश्च तत्कृतैः |
महत्यभिभवे प्राप्ते तं विद्यात् तपसां निधे || ४२-१३ ||

पराभिचाराभिभवज्ञानोपायप्रश्नः

नारदः -

पराभिचाराभिभवः कैर्लिङ्गैरवगभ्यते |
राज्ञां च मन्त्रिणां चैव तथान्येषां नृणामपि || ४२-१४ ||

तज्ज्ञानोपायलिङ्गनिरूपणम्

अहिर्बुध्न्यः -

लक्ष्यते लक्षणैरेतैर्नृपाणामाभिचारिकी |
विकृतिः प्रस्तुताकाले दारुणा सर्वगोचरा || ४२-१५ ||

अकाण्ड एव नश्यन्ति वाजिवारणमन्त्रिणः |
तीव्रामयपरीताङ्गः पीड्यते नृपतिः स्वयम् || ४२-१६ ||

पतन्त्यशनयस्तस्य विषये घोरदर्शनाः |
अल्पसस्या वसुमती विनश्यन्ति गवां गणाः || ४२-१७ ||

प्. ४०३) भवन्ति तस्य विषये पुनः पुनरवग्रहाः |
तीव्रामयगृहीताश्च महिष्यस्तस्य भूपतेः || ४२-१८ ||

प्रभवन्त्यहिवल्मीकाः प्रासादे द्वारि मण्डपे |
निपतन्ति महोल्काश्च भृशं भीमस्वनान्विताः || ४२-१९ ||

मन्त्रिणश्च विरुध्यन्ते मत्सरेण परस्परम् |
रजन्यां राजते भीममैन्द्रं धनुरनभ्रजम् || ४२-२० ||

इतस्ततो वह्निभयं नगरे जायते भृशम् |
प्रविश्य गर्भभवनं क्रोष्टारश्चानिवारिताः || ४२-२१ ||

क्रोशन्ति संध्ययोर्भीमा दीप्तायां दिशि विस्वरम् |
रुन्धन्ति नगरं राज्ञः शत्रवो बलदर्पिताः || ४२-२२ ||

कृत्याकृत्यं न जानाति स्वयं स्तैमित्यमास्थितः |
स्वप्नेऽपि पश्यत्यात्मानं मुण्डितं नीलवाससम् || ४२-२३ ||

तथेन गर्दभयुजा व्रजन्तं दक्षिणां दिशम् |
इत्यादिलिङ्गैर्जानीयादभिचारं सपत्नजम् || ४२-२४ ||

पराभिचारजा कृत्या राजानं प्रविशेद्यदि |
तां दृष्ट्वा क्षिप्रमेवासौ विनश्यति न संशयः || ४२-२५ ||

पुत्रांश्च मन्त्रिणश्चापि महिषीं नगरं तथा |
ज्वालामालाविला कृत्या सर्वं नाशयति क्षणात् || ४२-२६ ||

पराभिचारनिवर्तनाय निवर्तकास्त्रधारिसुदर्शनप्रीणनम्

एवं पराभिचारेण पीडिते नृपतौ स्वयम् |

प्. ४०४) निवर्तकास्त्रसहितं भगवन्तं महाद्युतिम् || ४२-२७ ||

चक्रस्वरूपिणं देवं भक्त्या संतोषयेत् ततः |
रजतेन सुवर्णेन शिलया ताम्रकेण वा || ४२-२८ ||

सुदर्शनार्चां निर्माय पूजयेत् सनिवर्तकम् |
समालिख्य पटे वापि ध्यायेत् त्रैलोक्यपूजितम् || ४२-२९ ||

एवं निर्माणतो ध्यानात् पूजया वन्दनेन वा |
प्रतिष्ठया वा स्तोत्रेण देवं संप्रीणयेन्नृपः || ४२-३० ||

एवमन्ये तथा कुर्युरमात्या वा नरा मुने |

प्रीतेन सुदर्शनेन पराभिचारनिर्दहनम्

ततः प्रीतः स भगवाननादिनिधनो विभुः || ४२-३१ ||

अभिचारान् परकृतानाश्रितानुग्रहेण तु |
भस्मीकरोति स्मृत्यैव तत्प्रयुक्तान्यपि क्षणात् || ४२-३२ ||

दिव्यास्त्राण्युपसंहारैरस्त्रैर्वारयतीश्वरः |

परप्रयुक्तकृत्यायास्तत्प्रयोक्तुश्च विनाशनम्

परप्रयुक्तां कृत्यां तु संप्राप्तामतिभीषणाम् || ४२-३३ ||

स्वयं निर्गत्य देवोऽसौ चक्ररूपी जगत्पतिः |
भस्मसात् कुरुते तं च प्रयोक्तारं ततः परम् || ४२-३४ ||

काशीराजेतिहासोदाहरणम्

तथैव काशीराजाख्यो वाराणस्यां वसन्नृपः |
विश्वेश्वरं महादेवमर्चयित्वा समाहितः || ४२-३५ ||

प्. ४०५) कृष्णोद्देशेन कृत्यां वै जनयामास मोहितः |
सा समुत्पादिता कृत्या विकटा भीमदर्शना || ४२-३६ ||

द्वारकां समनुप्राप्य कृष्णाभ्यासं ययौ तदा |
तामापतन्तीं संप्रेक्ष्य ज्वालामालाविलाननाम् || ४२-३७ ||

प्रेषयामास भगवान् सुदर्शनमनुत्तमम् |
सा तमापतितं दृष्ट्वा सहस्रादित्यसंनिभम् || ४२-३८ ||

यथागतं प्रदुद्राव प्रयोक्तारं भयातुरा |
स तां निहत्य तं चापि काशीराजं पुरीं तथा || ४२-३९ ||

आजगाम पुनश्चक्रं विष्णुपार्श्वं महाद्युति |

श्रुतकीर्त्युपाख्यानोदाहरणम्

एवमन्यत् पुरावृत्तमितिहासं शृणुष्व मे || ४२-४० ||

राज्ञा श्रुतकीर्तिना धर्मेण सप्तद्वीपमहीपरिपालनम्

सौराष्ट्राधिपती राजा श्रुतकीर्तिरिति श्रुतः |
निवसन् भद्रशालायां नगर्यामरिमर्दनः || ४२-४१ ||

गजाश्वरथसंपन्नो बलवान् वासवोपमः |
सुदर्शनमहामन्त्रनिष्ठः परमधार्मिकः || ४२-४२ ||

सुदर्शने परां भक्तिमुद्वहन्नर्चनापरः |
बुभुजे तत्प्रसादेन सप्तद्वीपवतीं महीम् || ४२-४३ ||

प्. ४०६) लोकान्तरं जिगीषोस्तस्य सुदर्शनार्चनपूर्वकं
स्वस्तिकाख्यगन्धर्वनगरगमनम्

जेतुं लोकान्तरं चक्रे श्रुतकीर्तिर्मनस्तदा |
चतुरङ्गबलैर्युक्तः समभ्यर्च्य सुदर्शनम् || ४२-४४ ||

कामगं स्यन्दनं चित्रमारुरोह महाबलः |
ततः प्रतस्थे प्रथममन्तरिक्षं बलान्वितः || ४२-४५ ||

स्वस्तिकनगरवर्णनम्

तत्र गन्धर्वनगरं विशालं स्वस्तिकाह्वयम् |
वीणाविनोदनेनेत्थं पालितं परमद्युति || ४२-४६ ||

स्वयंप्रवृत्तैः शस्त्रैश्च वार्यमाणारिसैनिकम् |
बहिर्निरिन्धनेनैव वह्निना परिवेष्टितम् || ४२-४७ ||

सुवर्णसालं परमं रत्नगोपुरमण्डितम् |
मणिहर्म्यपरिक्षिप्तं गानस्वनसमाकुलम् || ४२-४८ ||

विमानैस्तैजसैर्जुष्टं दिव्योपवनशोभितम् |
सुवर्णपद्मसरसीसरिद्वापीनिषेवितम् || ४२-४९ ||

सेवितं सुरनारीभिरप्सरोभिश्च सेवितम् |
गन्धर्वैः किंनरैः सिद्धैश्चारणैश्च सदा युतम् || ४२-५० ||

युयुत्सुना श्रुतकीर्तिना तन्नगरोपरोधः

एवंविधं पुरं राजा रुरोध बलदर्पितः |
वीणाविनोदनं योद्धुं महत्या सेनया तदा || ४२-५१ ||

प्. ४०७) गन्धर्वराजेन वाहिनीप्रेषणम्

श्रुत्वा गन्धर्वराजोऽपि मानुषैरुपरोधनम् |
प्रहस्य प्रेषयामास सिद्धगन्धर्ववाहिनीम् || ४२-५२ ||

तत्र तुमुलसंग्रामः

सा तेन बलिना राज्ञा युयुधे निशितैः शरैः |
प्रवृत्तं तन्महद्युद्धं तुमुलं रोमहर्षणम् || ४२-५३ ||

श्रुतकीर्तिना गन्धर्वसैन्यविद्रावणम्

ततो विद्रावयामास भूपतिर्लीलया बलम् |
गान्धर्वं तत् पुनः प्राप स्वपुरीं भयविह्वलम् || ४२-५४ ||

क्रुद्धस्य गन्धर्वराजस्य स्वयं युद्धाय निर्गमनम्

तच्छ्रुत्वा परमक्रुद्धः स्वयं वीणाविनोदनः |
रथं महान्तमास्थाय निर्ययौ सह सैनिकैः || ४२-५५ ||

गन्धर्वराजश्रुतकीर्त्योरष्टदिनपर्यन्तं युद्धप्रवृत्तिः

ततस्तयोरभूद्युद्धं वृत्रवासवयोरिव |
परस्परं निजघ्नुस्ते सैनिकाः विविधैः शरैः || ४२-५६ ||

तत्र संछन्नमाकाशं शरौघैरुभयोरपि |
जयः पराजयो वा स्यान्न तत्र समितौ तयोः || ४२-५७ ||

एवमष्टदिनान्यासीदेकरूपं भयंकरम् |

प्. ४०८) भूपतिना गन्धर्वराजस्य धनुरादिच्छेदो बलविद्रावणं च

ततो गन्धर्वराजस्य घनुश्चिच्छेद भूपतिः || ४२-५८ ||

ध्वजच्छत्रहयांश्चापि सायकैर्नतपर्वभिः |
दिशः प्रस्थापयामास तदीयं सकलं बलम् || ४२-५९ ||

गन्धर्वराजस्य विषादः

शस्त्रैरजययमालोच्य नृपं गन्धर्वराडपि |
पराजितं तु स्वबलं मनुजैर्विषसाद ह || ४२-६० ||

गन्धर्वराजेन मानुषबले गान्धर्वास्त्रप्रयोगः

दिव्यास्त्रैः सूदयाम्येनमिति मत्वा महाद्युतिः |
गान्धर्वमस्त्रं चिक्षेप स तस्मिन् मानुषे बले || ४२-६१ ||

तेन मानुषसैन्यविमोहनम्

तेनैव मोहिता सर्वा श्रुतकीर्तिवरूथिनी |
गान्धर्वास्त्रप्रभावेण तिष्ठत्येव च संयुगे || ४२-६२ ||

सुदर्शनप्रभावेण दिव्यास्त्रं नाप तं नृपम् |

तत्प्रतीकाराशक्तस्य श्रुतकीर्तेः पुरोधसि स्ववृत्तनिवेदनम्

श्रुतकीर्तिस्तदास्त्रेषु दिव्येष्वनभियोगतः || ४२-६३ ||

न शशाक प्रतीकर्तुं स्वपुरोधसमभ्ययात् |
वृत्तं विज्ञापयामास नृपस्तस्मै पुरोधसे || ४२-६४ ||

पुरोधसा सुदर्शनशरणवरणोपदेशपूर्वकं
निखिलास्त्रमन्त्रोपदेशनम्

सोऽभ्यभाषत धर्मज्ञः परमास्त्रविशारदः |

प्. ४०९) श्रुतकीर्तेऽत्र मा भैषीस्तमेव शरणं व्रज || ४२-६५ ||

प्रणतार्तिहरं देवं सुदर्शनवपुर्धरम् |
दिव्यास्त्राणामशेषाणां प्रसूतिं परमेश्वरम् || ४२-६६ ||

एवं भूते महाचक्रे चतुःषष्ट्यरसंयुते |
नेमिद्वयान्विते देवं मध्ये ध्यायस्व भूपते || ४२-६७ ||

द्विषष्टिभुजमत्युग्रं संहारास्त्रधरं परम् |
एवं ध्यात्वा च जप्त्वैतं मन्त्रं सेनां विलोकय || ४२-६८ ||

इत्यस्त्रमन्त्रानखिलांस्तस्मा उपदिदेश सः |

तेन जातबलस्य श्रुतकीर्तेः पुनर्युद्धायागमनम्

प्रतिगृह्याखिलान् मन्त्रान् प्रवर्तकनिवर्तकान् || ४२-६९ ||

पुनरेत्य च संग्रामं स राजा समितिंजयः |

तेन स्वसैनिकमोहविमोचनम्

ध्यात्वा देवं जपन् मन्त्रं स्वसेनां समलोकयत् || ४२-७० ||

ततः संज्ञामवाप्यासौ प्रावर्तत महाहवे |

पुनर्युद्धे श्रुतकीर्तेर्विजयो गन्धर्वलोकवशीकरणं च

पुनः प्रववृते युद्धं सेनयोरुभयोरपि || ४२-७१ ||

दिव्यास्त्रैः समरे राजा जित्वा वीणाविनोदनम् |
तल्लोकं स्ववशं चक्रे चक्रवर्ती बलान्वितः || ४२-७२ ||

प्. ४१०) ततः स्वपुरप्रत्यागमनम्

सत्कृतः सिद्धगन्धर्वैः किंनरैश्चारणैरपि |
भद्रशालां पुनः प्राप स्वपुरीं विजयश्रिया || ४२-७३ ||

समेयिवाञ्शशासोर्वीं दिवं सुरपतिर्यथा |

सुदर्शनप्रभावाद्विस्मितस्य पुनः पुरोधसा सह मन्त्रणप्रकारः

सुदर्शनप्रभावस्य स्मृत्वा विस्मितमानसः || ४२-७४ ||

पुरोधसमुपागम्य ज्वलन्तमिव पावकम् |
मन्त्रयामास तेनैवं राजा राजीवलोचनः || ४२-७५ ||

स्वसंपदो भगवत्प्रसादहेतुकत्वकथनम्

देवप्रसादाज्जगती ममेयं
समुद्रनेमिर्वशमागताद्य |
लोकान्तरं चापि तथैव मन्ये
मयि प्रसादोन्मुख एव देवः || ४२-७६ ||

भगवत्प्रसादात् स्वस्य मोक्षलाभे संशयाभावकथनम्

संसारभीतस्य ममापवर्गं
प्रदास्यते चक्रवपुर्धरोऽयम् |
इत्यत्र शङ्का मम नास्ति काचि-
दतः परं देवमुपास्महे तु || ४२-७७ ||

प्. ४११) राजानं प्रति पुरोधसा सुदर्शनप्रतिष्ठापनाद्युपदेशः

इत्युक्तवन्तं नृपतिं पुरोधाः
कृताञ्जलिं प्राह महानुभावः |
विमानमग्र्यं बहुवर्णकूटं
विधाय चक्रोपपदं ससाध्यम् || ४२-७८ ||

इह प्रतिष्ठाप्य सुचक्रमध्ये
द्विषष्टिबाहुं सनिवर्तकास्त्रम् |
यथोक्तरूपं बहुभूषणाढ्यं
सुदर्शनं पूजय सर्वसिद्ध्यै || ४२-७९ ||

राज्ञा तथैवानुष्ठानम्

इत्येवमुक्तः प्रतिगृह्य मूर्ध्ना
स तस्य वाक्यं परमार्थयुक्तम् |
अकारयत् कारयितव्यदक्ष-
स्तथैव तस्मिन्नगरे स राजा || ४२-८० ||

तदर्थं राज्ञा द्विजानां वृत्तिप्रकल्पनम्

शतं स विंशत्यधिकं द्विजांस्तु
समन्ततो देवनिकेतनात् सः |
ततः प्रतिष्ठाप्य धनानि दत्त्वा
बहूनि बह्वीश्च भुवः स तेभ्यः || ४२-८१ ||

प्. ४१२) विभूतिमन्तं च विधाय देवं
मुमोद राजा समवाप्तकामः |

ततो भगवत्प्रसादाद्राज्ञः परमपुरुषार्थलाभः

महालये तत्र समर्च्य देवं
दिने दिने प्राप्तसमस्तकामः |
ततोऽचिरेणैव विमुक्तसङ्गः
परं पदं प्राप च तत्प्रसादात् || ४२-८२ ||

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
काशीराजश्रुतकीर्त्युपाख्यानवर्णनं नाम
द्विचत्वारिंशोऽध्यायः || ४२ ||

आदितः श्लोकाः २६७३