अहिर्बुध्नसंहिता/अध्यायः ४१
| ← अध्यायः ४० | अहिर्बुध्नसंहिता अध्यायः ४१ [[लेखकः :|]] |
अध्यायः ४२ → |
स्वरूपतोऽस्त्रधारणतत्प्रयोजनप्रतिपिपादयिषया
मधुकैटभसंहारवर्णनं नाम एकचत्वारिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ।।
भगवता अस्त्राणां स्वरूपतो धारणस्य
कालविशेषप्रयोजनादिप्रश्नः
नारदः -
अस्त्राण्येतानि भगवन् कथितानि स्वरूपतः ।
तान्यधत्त स्वरूपेण देवः पूर्वमितीरितम् ।। ४१-१ ।।
कस्मिन् कदा किमर्थं तत् कृतं विश्वेश्वर प्रभो ।
प्रश्नमेतं परिच्छिन्धि यदि सानुग्रहोऽसि मे ।। ४१-२ ।।
पृष्टस्यार्थस्य परमगुह्यत्वख्यापनमुखेन तत्प्रतिवचनप्रतिज्ञा
अहिर्बुध्न्यः -
परमं ते प्रवक्ष्यामि गुह्यमत्यद्भतं महत् ।
पृच्छते भक्तियुक्ताय परमात्मनि नारद ।। ४१-३ ।।
प्रलयावसाने भगवतः सिसृक्षोदयः
पुरा कल्पावसाने तु भगवान् पुरुषोत्तमः ।
जगत् स्रष्टुं मनश्चक्रे लीलारससमुत्सुकः ।। ४१-४ ।।
प्. ३९३) प्रकृतिपुरुषमहदादिविशेषान्तजगत्सृष्टिः
प्रथमं जनयामास प्रधानपुरुषौ स्वतः ।
महदादि विशेषान्तं जनयित्वा ततो हरिः ।। ४१-५ ।।
अण्डोत्पादनपूर्वकं चतुर्मुखसृष्टिः
तैः सर्वैरण्डमुत्पाद्य तस्मिन् ब्रह्माणमासृजत् ।
प्रजासृष्ट्यर्थं चतुर्मुखाय वेदोपदेशः
प्रजाः सृजेति वेदांश्च तस्मै प्रादाज्जनार्दनः ।। ४१-६ ।।
चतुर्मुखस्य प्रजासृष्ट्यारम्भः
ततः प्रजाः स विविधाः स्रष्टुं समुपचक्रमे ।
तत्र बलदर्पितमधुकैटभोत्पत्तिः
एतस्मिन्नन्तरे दैत्यौ ब्रह्मसृष्टेरनन्तरम् ।। ४१-७ ।।
बलवन्तौ तु तस्योर्वोर्जज्ञाते मधुकैटभौ ।
मदोन्मत्तौ महाकायौ दानवौ बलदर्पितौ ।। ४१-८ ।।
मधुकैटभाभ्यां चतुर्मुखाद्वेदापहरणम्
तौ दृष्ट्वा सृष्ट्युपक्रान्तं ब्रह्माणममितद्युतिम् ।
प्रविश्य मायया तस्माद्वेदाञ्जगृहतुस्तदा ।। ४१-९ ।।
वेदापहाराच्चतुर्मुखस्य सृष्ट्यसामर्थ्यम्
ततः स्रष्टुं प्रजाः सर्वा न शशाक प्रजापतिः ।
निर्विण्णस्य चतुर्मुखस्य चिन्ताप्रकारः
प्. ३९४) परं निर्वेदमापन्नो बभूवाथ प्रजापतिः ।। ४१-१० ।।
प्रजाः सृजेति भगवान् व्यादिदेश स मां हरिः ।
न शक्यते विना वेदैः स्रष्टुं नानाविधाः प्रजाः ।। ४१-११ ।।
दानवाभ्यामिमे वेदा हृता मत्तोऽद्य मायया ।
किमन्यत् कार्यमित्येष परां चिन्तामुपेयिवान् ।। ४१-१२ ।।
कृतनिश्चयस्य चतुर्मुखस्य क्षीराब्धिगमनम्
ततो वेधा विनिश्चित्य मनसा कार्यमात्मनः ।
क्षीराब्धेरुत्तरं तीरं जगाम कमलोद्भवः ।। ४१-१३ ।।
चतुर्मुखेन भगवतः स्तुतिः
तत्र तुष्टाव देवेशं पुण्डरीकाक्षमच्युतम् ।
ओं नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे ।। ४१-१४ ।।
असीमानन्दकन्दाय भूरिभूम्ने महात्मने ।
अचिन्त्यशक्तिरूपाय बिभ्रते भुवनानि ते ।। ४१-१५ ।।
असीमैश्वर्यवीर्याय तेजसां निधये नमः ।
विश्वान्तर्यामिणे तुभ्यं शुद्धसत्त्वैकमूर्तये ।। ४१-१६ ।।
अनवद्याखिलाधारभूषणाय नमो नमः ।
शङ्खचक्रगदाखड्गशार्ङ्गायुधधराय ते ।। ४१-१७ ।।
प्. ३९५) श्रीमते पुष्कराक्षाय पुरुषाय नमो नमः ।
विष्वक्सेनमुखैर्दिव्यैः सेव्यमानाय सूरिभिः ।। ४१-१८ ।।
दिव्यानन्दमयव्योमनिलयाय नमो नमः ।
सर्गोपसर्गरक्षाभिः क्रीडते जगतां सदा ।। ४१-१९ ।।
महाविभूतये तुभ्यं नमो निखिलमूर्तये ।
स्वसमाश्रितवात्सल्यकृतव्यूहविभूतये ।। ४१-२० ।।
विश्वविद्वेषिविध्वंसकृतदीक्षाय ते नमः ।
तापत्रयाभितप्ताघनाशनस्मरणाय ते ।। ४१-२१ ।।
नमोऽचिन्त्यस्वरूपाय विष्णवे कर्मसाक्षिणे ।
भगवता चतुर्मुखाय दर्शनप्रदानम्
इति तस्य स्तुतिं श्रुत्वा भगवान् पुरुषोत्तमः ।। ४१-२२ ।।
आविर्बभूव पुरतः प्रसन्नः पद्मलोचनः ।
चतुर्मुखेन स्ववृत्तान्तनिवेदनम्
तं दृष्ट्वा परमप्रीतः प्रणम्य परमाद्भुतम् ।। ४१-२३ ।।
व्यजिज्ञपदमेयात्मा स्ववृत्तं विनयान्वितः ।
भगवता मधुकैटभस्मरणम्
एतं दानवयोः श्रुत्वा व्यतिक्रममरिंदमः ।। ४१-२४ ।।
मन्दं प्रहस्य भगवान् सस्मार मधुकैटभौ ।
प्. ३९६) मधुकैटभयोस्तत्रागमनम्
तौ तस्य स्मृतिमात्रेण द्वारमाजग्मतुस्तदा ।। ४१-२५ ।।
मधुकैटभौ प्रति भगवद्वचनम्
ततः समागतौ दृष्ट्वा तत्रैव बलदर्पितौ ।
मेघगम्भीरनिर्घोषमुवाच मधुसूदनः ।। ४१-२६ ।।
युवाभ्यामाहृता वेदा मद्दत्ता ब्रह्मणो मुखात् ।
माययेति श्रुतं नैवं युज्यते कर्तुमत्र वै ।। ४१-२७ ।।
तत् तस्मै सकला वेदा दीयन्तां परमेष्ठिने ।
भगवद्वचनतिरस्करणपूर्वकं मधुकैटभयोः प्रतिवचनम्
एवमुक्तौ भगवता दुर्मदान्धौ महासुरौ ।। ४१-२८ ।।
प्रत्यूचतुरिमांस्तस्मै ददावो नैव सर्वथा ।
आवामेवाचिरात् सर्वाः स्रक्ष्यावो विविधाः प्रजाः ।। ४१-२९ ।।
वेदैर्विनैव भगवन् किमत्र परमेष्ठिना ।
भगवता मधुकैटभयोर्हननाय विष्वक्सेनादेशनम्
स तयोर्वचनं श्रुत्वा कोपसंरक्तलोचनः ।। ४१-३० ।।
दुरात्मानौ तु तौ हन्तुं मतिं चक्रे जगत्पतिः ।
एतौ निहत्य दुर्दान्तौ पापावद्य मदोद्धतौ ।। ४१-३१ ।।
आदाय वेदानेतस्मै ब्रह्मणे प्रतिपादय ।
इति शेषाशनं देवो व्यादिदेश कृताञ्जलिम् ।। ४१-३२ ।।
प्. ३९७) ततः समरसंनहनम्
स तथेति समानीय सर्वाः सेनाश्च वैष्णवीः ।
निर्जगाम ततो योद्धुं संनद्धौ तौ च दानवौ ।। ४१-३३ ।।
निर्मिमाते तदा सेनां महतीं तौ च मायया ।
द्वयोः सेनयोस्तुमुलसंग्रामः
उभयोः पक्षयोर्युद्धं तुमुलं समपद्यत ।। ४१-३४ ।।
अदृष्टमश्रुतचरमभूत् तत् समरं तदा ।
विष्वक्सेनेन भगवत्सकाशे मधुकैटभयोरजययत्वनिवेदनम्
चिरेणाजययतां ज्ञात्वा दुष्टदानवयोर्युधि ।। ४१-३५ ।।
विष्वक्सेनस्तु देवाय न्यवेदयदवारितः ।
भगवतः सर्वास्त्राणां स्वरूपतो धारणपूर्वकं युद्धाय
निर्गमनम्
ततस्तु परमक्रुद्धो निर्जगाम जनार्दनः ।। ४१-३६ ।।
युध्यमानौ तु तौ दृष्ट्वा चक्ररूपी स्वयं हरिः ।
बिभ्रद् द्विषष्टिभिर्हस्तैस्तस्थौ दिव्यास्त्रसंहतिम् ।। ४१-३७ ।।
सर्वास्त्रस्वरूपधारिभगवद्रूपवर्णनम्
तं दृष्ट्वा परमक्रुद्धं सहस्रादित्यसंनिभम् ।
ज्वलद्भिरस्त्रैर्हस्ताग्रधार्यमाणैश्च वेष्टितम् ।। ४१-३८ ।।
पिङ्गलोर्ध्वमुखैः केशैरुपेतमतिभीषणम् ।
अण्डान्तव्याप्तवपुषं जपाकुसुमसंनिभम् ।। ४१-३९ ।।
प्. ३९८) पिङ्गलाघूर्णमानोग्रवृत्तनेत्रत्रयान्वितम् ।
भुग्नभ्रुकुटिसंनद्धभीषणाननशोभितम् ।। ४१-४० ।।
दष्टोष्ठमुज्ज्वलद्दंष्ट्रानिर्यत्स्खलितपावकम् ।
महाजलधिसंकाशं द्विषष्टिभुजपञ्जरम् ।। ४१-४१ ।।
रक्ताम्बरधरं भीममालीढस्थितिमण्डितम् ।
हारकेयूरताटङ्ककटकादिविभूषणैः ।। ४१-४२ ।।
उपेतं किङ्किणीजालक्वणत्कारनिनादितम् ।
आश्चर्यरूपमतुलमेवंभूतं महाद्युतिम् ।। ४१-४३ ।।
तद्रूपदर्शनाद् दैत्यसैन्यानां निःशेषं विलयः
कल्पान्तजृम्भिताम्भोधिकल्पास्ते दैत्यसैनिकाः ।
नेशुर्निरीक्ष्य निःशेषं शिष्टौ तौ दानवौ परम् ।। ४१-४४ ।।
आगच्छन्तौ सुसंभ्रान्तौ दृष्ट्वा तावुद्यतायुधौ ।
प्राहिणोद् भीषणं चक्रं तद्वधाय महाद्युतिः ।। ४१-४५ ।।
चक्रेण मधुकैटभयोः शिरश्छेदः
तयोश्चिच्छेद शिरसी तत्क्षणाच्चक्रमुत्तमम् ।
ताभ्यां वेदानुपादाय देवायैतान्न्यवेदयत् ।। ४१-४६ ।।
ब्रह्मणे वेदप्रदानपूर्वकं भगवतस्तिरोधानम्
देवोऽपि ब्रह्मणे दत्त्वा पुनरन्तर्दधे हरिः ।
प्. ३९९) ब्रह्मणा यथापूर्वं प्रजासृष्टिः
लब्धवेदः पुनर्धाता प्रजाश्चक्रे यथापुरम् ।
उपसंहारः
इत्थं भगवतो रूपं चक्ररूपस्य चक्रिणः ।। ४१-४७ ।।
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम्
स्वरूपतोऽस्त्रधारणतत्प्रयोजनप्रतिपिपादयिषया
मधुकैटभसंहारवर्णनं नाम एकचत्वारिंशोऽध्यायः ।। ४१ ।।
आदितः श्लोकाः २५९१