सामग्री पर जाएँ

अहिर्बुध्नसंहिता/अध्यायः ३९

विकिस्रोतः तः
← अध्यायः ३८ अहिर्बुध्नसंहिता
अध्यायः ३९
[[लेखकः :|]]
अध्यायः ४० →
अहिर्बुध्नसंहितायाः अध्यायाः

सर्वफलसाधनभूतमहाभिषेकविधानं नाम
एकोनचत्वारिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् |
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ||

केन प्रयोगेण सर्वार्थसिद्धिरिति प्रश्नः

नारदः -

भगवन् ब्रूहि सर्वज्ञ येनैकेनैव कर्मणा |
सर्वरोगा विनश्यन्ति केन सर्वे च शत्रवः || ३९-१ ||

केन सर्वार्थसिद्धिः स्याज्जगत् केन वशं भवेत् |
विभूतिर्विमला केन प्राप्यते कर्मणा वद || ३९-२ ||

तदुत्तरकथनारम्भः

अहिर्बुध्न्यः -

श्रूयतां चावधानेन गुह्यमेतन्महामुने |
येनैकेन प्रयोगेण सर्वार्थाः संभवन्ति हि || ३९-३ ||

महाभिषेकाख्यकर्मविधिः

राज्ञश्च मन्त्रिणां चैव सर्वेषामधिकारिणाम् |

प्. ३७३) पदात् स्वस्मादुपारोढुकामानां परमं पदम् || ३९-४ ||

अन्येषां लौकिकानां च यत् किंचिद् वाञ्छतां तथा |
कार्यं महाभिषेकाख्यं कर्म सर्वार्थसाधकम् || ३९-५ ||

तदङ्गतया स्थानादिविशेषविधिः

वासुदेवालयोद्यानमण्डपे मन्दिरेऽथवा |
समे पवित्रिततले मङ्गलाष्टकसंयुते || ३९-६ ||

विकीर्य कलमांस्तत्र नवभाराभिसंमितान् |
माहेन्द्रमण्डलं न्यस्य बाह्यतो जातिपुष्पकैः || ३९-७ ||

मध्ये सौदर्शनं यन्त्रमुक्तेनैव तु वर्त्मना |
विन्यसेद् गन्धपुष्पैश्च तन्मध्ये च सुशोभनम् || ३९-८ ||

तन्मध्ये विन्यसेन्मन्त्री यन्त्रबिम्बमनुत्तमम् |
तस्याग्रे मूलमन्त्रेण कुम्भं तन्तुपरिष्कृतम् || ३९-९ ||

आवाहयेद् गन्धतोये नवरत्नसमन्वितम् |
चन्दनागुरुकर्पूरकाश्मीरक्षोदमण्डितम् || ३९-१० ||

अक्षतैश्च परिक्षिप्तं शुद्धक्षौमाभिवेष्टितम् |
गन्धवत्कुसुमाकीर्णं धूपदीपसमन्वितम् || ३९-११ ||

मुखान्तरे तथा कार्ये कुम्भकुण्डे स्वलंकृते |
प्रतिष्ठाप्याष्टदिग्भागे पूर्णकुम्भानलंकृतान् || ३९-१२ ||

आचक्रायेतिमन्त्राद्यैरग्निप्राकारकान्तकैः |
प्. ३७४) प्रागादि विन्यसेन्मन्त्रैः प्रत्येकं पूजयेत् ततः || ३९-१३ ||

प्रागादिदिक्षु मध्ये चाग्निकुण्डविधिः

सर्वत्र कुम्भप्राग्भागेष्वग्निकुण्डानि विन्यसेत् |
प्रासादलक्षणं कुण्डं मध्ये कुर्यात् स्वलंकृतम् || ३९-१४ ||

प्रागाद्यग्निकुण्डानां लक्षणकथनम्

प्राच्यां दिशि चतुष्कोणमाग्नेययां तु त्रिकोणकम् |
याम्ये त्वर्धेन्दुसंकाशं नैर्-ऋत्यां योनिसंनिभम् || ३९-१५ ||

वारुण्यां पद्मसंकाशं वायव्यामष्टकोणकम् |
वृत्तमुत्तरदिग्भागे चैशान्यां तु षडश्रकम् || ३९-१६ ||

दिशां होमेषु वैष्णवर्त्विग्वरणम्

वैष्णवानृत्विजश्चाष्टौ दिशां होमेषु योजयेत् |
मध्ये तु साधको मन्त्री जुहुयाज्ज्वलितेऽनले || ३९-१७ ||

होमे द्रव्यसंख्ययोर्विधिः

प्रत्येकं जुहुयादाज्यैरष्टोत्तरसहस्रकम् |

होमे मन्त्रविधिः

सर्वत्र मूलमन्त्रेण जुहुयाद् ध्यानपूर्वकम् || ३९-१८ ||

कुम्भाभिमन्त्रणविधिः

होमान्ते देवमभ्यर्च्य सर्वकुम्भेषु साधकः |

प्. ३७५) स्पृष्ट्वा तु ताञ्जपेन्मन्त्रं साध्यनामपुटीकृतम् || ३९-१९ ||

अष्टोत्तरसहस्रं तु सर्वत्र विधिवत् ततः |
निवेशयेन्महायन्त्रसंमुखं साध्यमासने || ३९-२० ||

प्रथमं प्रागादिकुम्भजलैरभिषेकः

ततो भेरीनिनादैश्च शङ्खकाहलनिस्वनैः |
सहितं स्नापयेदेनं प्राच्याद्यैः कुम्भवारिभिः || ३९-२१ ||

ततः पूर्णकुम्भजलेनाभिषेकः

पश्चान्मध्यममादाय पूर्णकुम्भं स्वलंकृतम् |
तद्वारिणाभिषिच्यान्ते मन्त्रं मन्त्रीजपेत् स्वयम् || ३९-२२ ||

यथोक्ताभिषेकेण सर्वकामावाप्तिः

ततस्तेनाभिषेकेण निर्धूताशेषकिल्बिषः |
राजते हिमसंरोधान्निर्मुक्त इव भास्करः || ३९-२३ ||

सर्वे तमनघं कामा वृणते स्वयमेव हि |
विना राजानमेतेन कुर्याच्चान्याभिषेचनम् || ३९-२४ ||

एवं महाभिषेके तु कृते पूर्णे महात्मना |
यस्य यद् वाञ्छितं तस्य हस्तस्थं तन्न संशयः || ३९-२५ ||

आयुष्कामी तथायुष्यमारोग्यार्थी तदश्नुते |
प्. ३७६) अर्थार्थी चार्थमाप्नोति पशुकामस्तथा पशून् || ३९-२६ ||

अपुत्रः पुत्रमाप्नोति निर्गुणो गुणवान् भवेत् |
कन्यार्थी लभते कन्यां जिगीषुर्जयमश्नुते || ३९-२७ ||

स्वपदं पदहीनस्तु पदार्थी परमं पदम् |
अन्नकामश्च बह्वन्नं यशोऽर्थी चाश्नुते यशः || ३९-२८ ||

किमत्र बहुनोक्तेन यद्यन्मनसि वर्तते |
तत्तत् सद्यः समाप्नोति नात्र कार्या विचारणा || ३९-२९ ||

अन्ते साधकार्चनविधिः

एवं कृताभिषेकस्तु पूर्णकामोऽथ मानवः |
सुवर्णैर्बहुरत्नैश्च वस्त्रैर्माल्यानुलेपनैः || ३९-३० ||

अर्चयेत् साधकं सम्यग् दद्याद्धेनुं सवत्सकाम् |
तस्मै शिष्टं च यद् द्रव्यमभिषेकपरिच्छदम् || ३९-३१ ||

तच्च दद्यात् तथा पात्रीं पायसेनाभिपूरिताम् |

ऋत्विजां ब्राह्मणानां च परितोषणविधिः

प्रत्येकं निष्कदानेन तोषयेदृत्विजोऽखिलान् |
तर्पयेद् ब्राह्मणानन्यान् यथाशक्ति समाहितः || ३९-३२ ||

इति श्रीपञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
सर्वफलसाधनभूतमहाभिषेकविधानं नाम
एकोनचत्वारिंशोऽध्यायः || ३९ ||

आदितः श्लोकाः २४८१