अहिर्बुध्नसंहिता/अध्यायः ३८
| ← अध्यायः ३७ | अहिर्बुध्नसंहिता अध्यायः ३८ [[लेखकः :|]] |
अध्यायः ३९ → |
ज्वरादिरोगनिवृत्त्युपायविधानं नाम अष्टात्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ।।
उक्तानुवादपूर्वकं रोगमोचनोपायप्रश्नः
नारदः -
आख्यातं भवता राज्ञां परेभ्यो रक्षणं परम् ।
तथैव सर्वे सर्वज्ञ पुरुषार्थाः समीरिताः ।। ३८-१ ।।
तत्साधनानि चान्यच्च प्रसङ्गात् समुदीरितम् ।
इदं त्विदानीं भगवन् व्याख्याहि मम पृच्छतः ।। ३८-२ ।।
राज्ञां तत्सचिवानां च तथान्येषां नृणामपि ।
रोगाः क्रूरतरास्तेषां पुरुषार्थविरोधिनः ।। ३८-३ ।।
संभवन्ति हि तेषां तु मोचनं केन सिध्यति ।
रोगोत्पत्तितद्विनाशकारणकथनम्
अहिर्बुध्न्यः -
साधु पृष्टं मुने रोगा जायन्ते येन दुःसहाः ।। ३८-४ ।।
शृणु येनैव नश्यन्ति तद् वक्ष्यामि तवाधुना ।
प्. ३६३) प्राकृतप्रलये एकाकिनः परमपुरुषस्य रमणाभावः
प्राकृते सर्वलोकस्य संप्राप्ते प्रतिसंचरे ।। ३८-५ ।।
ब्रह्मायुषि परिक्षीणे नष्टे स्थावरजङ्गमे ।
सर्वभूतेषु भूतादौ प्रलीनेषु महामुने ।। ३८-६ ।।
भूतादाविन्द्रियादौ च तैजसे महति स्थिते ।
ततो महति याते तु प्रकृतिं बुद्धिलक्षणे ।। ३८-७ ।।
तथा च पुरुषे तस्यां प्रलीने पञ्चविंशके ।
तस्यामपि प्रलीनायां पुरुषे पुष्करेक्षणे ।। ३८-८ ।।
स एव सर्वं संहृत्य स्वस्मिन् परमपूरुषः ।
भगवान् पुण्डरीकाक्षः परमात्मा जगन्मयः ।। ३८-९ ।।
एकाकी स तदा नैव रमते स्म सनातनः ।
लीलार्थं पुनः सृष्टिः
स लीलार्थं पुनश्चेदमसृजत् पुष्करेक्षणः ।। ३८-१० ।।
नामरूपव्याकरणम्
स पूर्वं नामरूपाणि चक्रे सर्वस्य सर्वगः ।
लीलोपकरणभूतप्रकृत्या परमात्मनो रमणम्
लीलोपकरणां देवः प्रकृतिं त्रिगुणात्मिकाम् ।। ३८-११ ।।
मायासंज्ञां पुनः सृष्ट्वा तया रेमे जनार्दनः ।
प्रकृत्या जीवपरयोः स्वरूपप्रच्छादनम्
सा तु सर्वाणि भूतानि तत्तच्छक्तिसमन्विता ।। ३८-१२ ।।
प्. ३६४) मोदयन्ती च तन्वाना स्वस्यां भोग्यधियं तथा ।
वर्तते जीवपरयोः स्वरूपाच्छादनाय सा ।। ३८-१३ ।।
प्रकृतिपारवश्याज्जीवस्य संसरणम्
तया विवशमेतत्तु संसरत्यखिलं जगत् ।
प्रकृतेर्देहात्मभ्रमहेतुत्वम्
तयैव प्रथमं देहे करोत्यात्मधियं नरः ।। ३८-१४ ।।
सैवास्वे स्वत्वधीहेतुः
ततः शरीरसंबन्धिपुत्रादौ ममतां गतः ।
अहंकारममकारोत्थवासनादार्ध्यम्
ततोऽहंकारजास्तस्य ममतोत्थाश्च वासनाः ।। ३८-१५ ।।
भवन्ति देहे पुत्रादौ दृढबद्धाश्चिरं मुने ।
तदुत्थवासनानां रागद्वेषद्वारा पुण्यपापहेतुत्वम्
ततः स्वदेहे पुत्रादावुपकार्यपकारिषु ।। ३८-१६ ।।
रागद्वेषौ च भवतस्ताभ्यां सर्वं विचेष्टते ।
कपूयरमणीये च तदुत्थे संचिनोत्ययम् ।। ३८-१७ ।।
ततो जात्यायुर्भोगरूपकर्मविपाकप्राप्तिः
तद्विपाकानथाप्नोति जात्यायुर्भोगलक्षणान् ।
प्रारब्धकर्मफलोपभोगायैव शरीरसृष्टिः
अतः फलोपभोगार्थमुभयेषां च कर्मणाम् ।। ३८-१८ ।।
प्. ३६५) प्रारब्धानामिदं सृष्टं शरीरं च शरीरिणः ।
रोगाणां पापजन्यत्वम्
पाप्मभ्य एव जायन्ते प्रारब्धेष्वामयास्तनौ ।। ३८-१९ ।।
नानाविधा दुःखवरा भुज्यन्ते देहिनापरे ।
तत्र प्रथमं ज्वरशान्त्युपायः
ज्वराभिभूते नृपतौ सचिवेऽन्यजनेऽथवा ।। ३८-२० ।।
महासुदर्शनं यन्त्रं कथितं मन्त्रकोविदैः ।
गुडूचीराज्यसंसिक्ताश्चतुरङ्गुलसंमिताः ।। ३८-२१ ।।
मन्त्रेणानेन जुहुयात् सहस्रं ज्वलितेऽनले ।
चक्राम्बुजं च विन्यस्य स्थण्डिले शालितण्डुलैः ।। ३८-२२ ।।
तत्र पात्रं निधायाज्यं प्रस्थपूर्णं निधाय च ।
तस्यां पलप्रमाणेषु तन्तुष्वारोप्य दीपिकाम् ।। ३८-२३ ।।
तत्राप्येनं समावाह्य मन्त्रेणानेन मन्त्रवित् ।
ततः पश्चिमभागे तु स्थण्डिले मण्डिते शुचौ ।। ३८-२४ ।।
आस्तीर्य कलमांस्तत्र न्यसेन्माहेन्द्रमण्डलम् ।
तन्मध्ये षडरं चक्रं मध्ये तारं च विन्यसेत् ।। ३८-२५ ।।
तन्तुजालेन संवेष्ट्य नवकुम्भं सुशोभनम् ।
चन्द्रचन्दनकाश्मीरमिश्रैरापूर्य वारिभिः ।। ३८-२६ ।।
तद्बहिश्चन्दनाद्यैस्तमर्चयेदक्षतैरपि ।
प्. ३६६) रत्नानि पञ्च पद्मं च दूर्वां हाटकमेव च ।। ३८-२७ ।।
श्यामाकं विष्णुपर्णीं च देवीं चान्तर्विनिक्षिपेत् ।
मध्येकुम्भं समावेष्ट्य क्षौमेण नवमालया ।। ३८-२८ ।।
तं तारमध्ये संस्थाप्य साध्यनामयुते शुभे ।
पूर्णचन्द्रमभिध्यायंस्तत्र चावाहयेत् प्रभुम् ।। ३८-२९ ।।
तं धूपदीपमाल्याद्यैः समभ्यर्च्य यथाविधि ।
शाल्यन्नं दधिमध्वाज्यसर्वव्यञ्जनसंयुतम् ।। ३८-३० ।।
हृद्यं साज्यं गुडं दद्याद् देवाय हविरुत्तमम् ।
बलिं ततो हरेद् दिक्षु विदिक्षु च समाहितः ।। ३८-३१ ।।
शाल्यन्नैः श्वेतपुष्पैश्च धूपदीपादिभिस्तथा ।
दिक्पालानां ततो दद्यात् क्षेत्रेशायापि नारद ।। ३८-३२ ।।
आसने प्राङ्मुखं साध्यमुपवेश्याथ सज्वरम् ।
दर्पणं तस्य संस्थाप्य पुरस्तात् प्रतिबिम्बितम् ।। ३८-३३ ।।
कुम्भमादाय मन्त्रेण दर्पणं सोऽभिषेचयेत् ।
सद्य एव ज्वरान्मुक्तो भवेन्मेघादिवोडुराट् ।। ३८-३४ ।।
अथ द्विजेभ्यो विद्वद्भ्यो वैष्णवेभ्यो विशेषतः ।
निष्कत्रयं हिरण्यस्य द्रोणं चाज्यस्य गां तथा ।। ३८-३५ ।।
कर्पूरं चन्दनं चापि वासांसि विमलान्यपि ।
एतानि दद्यादेकस्मै मुने ब्रह्मविदेऽथवा ।। ३८-३६ ।।
प्. ३६७) ततः स्वस्थो भवेत् सद्यो यावज्जीवं न संशयः ।
एषा चिकित्सा प्रकृतिर्व्याधीनां मात्रया भिदा ।। ३८-३७ ।।
राजयक्ष्मशान्तिः
राजयक्ष्माभिभूते तु नृपादौ मुनिसत्तम ।
मध्वक्ताभिरपामार्गसमिद्भिः खादिरेऽनले ।। ३८-३८ ।।
मन्त्रेणानेन जुहुयात् सहस्रं मन्त्रवित्तमः ।
ततः प्रतीच्ये दिग्भागे पूर्ववत् कल्पितेऽनले ।। ३८-३९ ।।
आढकाज्याभिपूर्णायां पात्र्यां द्विपलतन्तुषु ।
आरोप्य दीपिकां पश्चाद् देवमावाह्य मन्त्रतः ।। ३८-४० ।।
ततः पाश्चात्त्यभागे तु भारशालिपरिष्कृते ।
स्थण्डिले मण्डिते शुद्धे कृत्वा माहेन्द्रमण्डलम् ।। ३८-४१ ।।
पूर्ववत् षडरं चक्रं विन्यस्यारेष्वमुष्य च ।
मन्त्रवर्णानि विन्यस्य साध्यनाम च तारके ।। ३८-४२ ।।
पूर्ववन्मन्त्रितं कुम्भं तत्र संस्थाप्य मण्डले ।
आवाह्य देवमभ्यर्च्य पूर्ववच्चक्ररूपिणम् ।। ३८-४३ ।।
हविश्च पायसं दद्यात् खण्डमध्वाज्यसंयुतम् ।
बलिं च पूर्ववत् कुर्यात् पायसेन विशेषतः ।। ३८-४४ ।।
गुरुक्षेत्रेशविघ्नेशदुर्गादिक्पालकान् प्रति ।
प्रावृत्य कम्बलेनैनं साध्यं प्राङ्मुखमासने ।। ३८-४५ ।।
प्. ३६८) आसीनं मन्त्रतः कुम्भवारिभिश्चाभिषेचयेत् ।
अन्वहं दर्पणाविष्टं स्नापयेच्छायया पुनः ।। ३८-४६ ।।
निष्कद्वयं हिरण्यस्य द्विनिष्कं रजतं तथा ।
कम्बलं स्वधृतं वस्त्रं तिलानां द्रोणमेव च ।। ३८-४७ ।।
कमण्डलुं कांस्यपात्रं छत्रं चोपानहौ तथा ।
एकस्मै ब्राह्मणायैव विदुषे चास्तिकाय वै ।। ३८-४८ ।।
दद्यादेतानि सर्वाणि सर्वसत्कारपूर्वकम् ।
प्रयोक्तारं धनैरेवमभ्यर्च्य प्रयतो भवेत् ।। ३८-४९ ।।
सद्यस्तस्मान्महारोगाद् विमुक्तो नात्र संशयः ।
प्रमेहरोगशान्तिः
एवं प्रमेहरोगेण गृहीते च महामुने ।। ३८-५० ।।
सहस्रं जुहुयान्मन्त्री मन्त्रेणानेन बैल्वकैः ।
माषौदनं हविर्दद्याद् बलिं चानेन कारयेत् ।। ३८-५१ ।।
अभिषेकं स्वयं कुर्यादन्यत् पूर्ववदाचरेत् ।
दद्याद् द्रोणं च माषाणां रजतं पञ्चनिष्ककम् ।। ३८-५२ ।।
एकं चानडुहं सद्यो नीरोगः स्यान्महामुने ।
उदररोगशान्तिः
तथौदरैर्महारोगैर्गुल्मशूलादिभिश्चिरम् ।। ३८-५३ ।।
अभिभूतेषु मर्त्येषु वक्ष्ये प्रतिविधिं शृणु ।
पूर्ववत् कुम्भमभ्यर्च्य सुदर्शननिषेवितम् ।। ३८-५४ ।।
प्. ३६९) तत्पूर्वभागे प्रज्वाल्य ज्वलनं कुण्डमध्यमे ।
समिद्भिरार्कैर्जुहुयादाज्याक्तैर्द्विसहस्रकम् ।। ३८-५५ ।।
तिलैश्च जुहुयात् तद्वन्मन्त्रेणानेन मन्त्रवित् ।
ततः कुम्भोदकं स्पृष्ट्वा सहस्रं च जपेन्मनुम् ।। ३८-५६ ।।
ततो हरेद् बलिं मन्त्री दिक्पालानां यथाक्रमम् ।
भूतप्रेतपिशाचानां क्षेत्रेशस्यापि नारद ।। ३८-५७ ।।
शुक्लौदनैः शुक्लपुष्पैः
पिष्टैः शुक्लध्वजैरपि ।
कुम्भाधिवासितं देवं
पूजयेद् विधिवत् ततः ।। ३८-५८ ।।
हविर्निवेदयेच्छुद्धैरोदनैः कल्पितं बहु ।
शर्करामधुदध्याढ्यं सर्वव्यञ्जनसंयुतम् ।। ३८-५९ ।।
ततः कुम्भोदकं किंचिदादायानेन मन्त्रितम् ।
पाययेद्रोगिणं मन्त्री मन्त्रोच्चारणपूर्वकम् ।। ३८-६० ।।
ततः कुम्भोदकेनैव
प्राङ्मुखं स्नापयेद् बुधः ।
तर्पयेद् ब्राह्मणान् सप्त
यथाशक्ति समाहितः ।। ३८-६१ ।।
गुरुं बहुधनैर्वस्त्रैर्भूषणैर्धान्यराशिभिः ।
सर्वे तस्यौदरा रोगा विनश्यन्ति न संशयः ।। ३८-६२ ।।
ततः स्वस्थो भवेन्मर्त्यो देववन्मोदतेऽनिशम् ।
प्. ३७०) अपस्मारशान्तिः
अपस्माराभिभूते तु नरे प्रतिविधिं शृणु ।। ३८-६३ ।।
भूतले गोमयालिप्ते समे मङ्गलसंयुते ।
तिलभारद्वयं तत्र प्रस्तीर्य चतुरश्रकम् ।। ३८-६४ ।।
द्विहस्तसंमितं तत्र यन्त्रं सौदर्शनं न्यसेत् ।
पूर्वोक्तेन प्रकारेण विनैवाखिलमूर्तिभिः ।। ३८-६५ ।।
सुदर्शनं नृसिंहं च विना मन्त्राभिसंहितम् ।
सौदर्शनं महायन्त्रं मध्ये पूर्वोक्तवर्त्मना ।। ३८-६६ ।।
प्रणिधायोदकुम्भं तु तन्तुभिः परिवेष्टितम् ।
पूर्वोक्तद्रव्यसंयुक्तं कम्बलेनाभिवेष्टितम् ।। ३८-६७ ।।
पूर्वेण मण्डलं वह्निं निधाय विधिवत् ततः ।
अनेन मनुना कुर्याद् द्विसहस्रं तिलाहुतीः ।। ३८-६८ ।।
ततः कुम्भं स्पृशन्मन्त्रमष्टोत्तरसहस्रकम् ।
जपेन्मन्त्राभिपूतेन वारिणानेन मन्त्रवित् ।। ३८-६९ ।।
ग्रहाभिभूतमासीनं प्राङ्मुखं चाभिषेचयेत् ।
ततो मुक्तग्रहस्तेन क्षणेनैव सुखी भवेत् ।। ३८-७० ।।
सर्वे चान्ये ग्रहास्तं तु न क्षमन्ते हि वीक्षितुम् ।
धनधान्यैश्च वासोभिः स गुरुं पूजयेत् ततः ।। ३८-७१ ।।
प्. ३७१) यस्मिन् यन्त्रे तु यद् द्रव्यं तच्च तस्मै निवेदयेत् ।
ब्राह्मणांस्तर्पयेत् पश्चादष्टौ तिलसुवर्णकैः ।। ३८-७२ ।।
रजतैश्चापि महिषीं साधकाय निवेदयेत् ।
ततः स्वस्थो भवेन्मर्त्यो देववन्मोदते भुवि ।। ३८-७३ ।।
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
ज्वरादिरोगनिवृत्त्युपायविधानं नाम अष्टात्रिंशोऽध्यायः ।। ३८ ।।
आदितः श्लोकाः २४४९