अहिर्बुध्नसंहिता/अध्यायः ३७
| ← अध्यायः ३६ | अहिर्बुध्नसंहिता अध्यायः ३७ [[लेखकः :|]] |
अध्यायः ३८ → |
न्यासापरपर्यायप्रपत्तिनिरूपणं नाम
सप्तत्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ।।
उक्तानुवादपूर्वकं सुदर्शनस्य
षोडशभुजत्वप्रयोजनादिप्रश्नः
नारदः -
आख्यातं भवता सर्वं भगवन् परमेश्वर ।
सौदर्शनस्य यन्त्रस्य मन्त्रस्य स्वस्य च प्रभो ।। ३७-१ ।।
अस्त्राणां चापि माहात्म्यं स्वरूपं लक्षणं तथा ।
आराधनं च योगश्च स्वभावश्च विशेषतः ।। ३७-२ ।।
भुजैः षोडशभिर्वेति प्रोक्तं रूपोपवर्णने ।
तत् कदा केन कर्तव्यं किमर्थं कीदृशं वद ।। ३७-३ ।।
राज्ञामत्याहितादिनिवारणं षोडशभुजत्वस्य प्रयोजनम्
अहिर्बुध्न्यः -
परैरभिभवे प्राप्ते राज्ञां बलसमन्वितैः ।
नगरेषु प्रदग्धेषु राज्ञां विद्राविते बले ।। ३७-४ ।।
प्. ३५४) उपरुद्धेषु भोगेषु तत्तद्विषयवासिनाम् ।
पीड्यमाने परबलैरित्थं राष्ट्रे महामुने ।। ३७-५ ।।
स्थितावनुपपन्नायां राज्ञोऽव्युच्छिन्नवैरिणः ।
कारयेत् षोडशभुजं सुदर्शनमवारितम् ।। ३७-६ ।।
षोडशभुजसुदर्शनविग्रहवर्णनम्
अपारमपरिच्छेद्यमवाङ्मनसगोचरम् ।
रक्तवर्णमुदाराङ्गं पीतकौशेयवाससम् ।। ३७-७ ।।
विद्युत्पुञ्जप्रतीकाशैः केशैरूर्ध्वमुखैर्युतम् ।
पिङ्गलाघूर्णमानोग्रनेत्रत्रितयभीषणम् ।। ३७-८ ।।
दष्टाधरस्फुटालक्ष्यदंष्ट्रानिष्ठ्यूतपावकम् ।
क्वणत्किङ्किणिजालेन काञ्चीदाम्ना विराजितम् ।। ३७-९ ।।
नितम्बलम्बिनोपेतं ज्वलत्कौक्षेयकेण च ।
दधानं किङ्किणीमालां त्वलिमालानिनादिताम् ।। ३७-१० ।।
आपादलम्बिनीं दिव्यां मुक्तारत्नाचितां तथा ।
झणज्झणितमञ्जीरशोभमानपदाम्बुजम् ।। ३७-११ ।।
हारकेयूरताटङ्कमुकुटैरुपशोभितम् ।
अन्यैर्मणिमयैश्चित्रैर्भूषणैः समलंकृतम् ।। ३७-१२ ।।
क्रमेण चक्रपरशुकुन्तदण्डाङ्कुशानि च ।
शस्त्राणि शतवक्त्राणि खड्गशक्ती च बिभ्रतम् ।। ३७-१३ ।।
प्. ३५५) करैरूर्ध्वमुखैर्दीर्घैर्दक्षिणैरष्टभिः परैः ।
वामैः शङ्खधनुःपाशहलवज्राणि च क्रमात् ।। ३७-१४ ।।
गदामुसलशूलानि भीमान्येतानि बिभ्रतम् ।
स्वसमाश्रितशत्रूत्थक्रोधेन महतावृतम् ।। ३७-१५ ।।
भुग्नभ्रूकुटिलं वक्त्रं धारयन्तं विभीषणम् ।
प्रत्यालीढविशेषेण तिष्ठन्तं दीप्तिमालिनम् ।। ३७-१६ ।।
कालाग्निरुद्ररूपेण संहरन्तमिदं जगत् ।
यथोक्तसुदर्शनध्यानस्य निःसापत्न्यसाधनता
एवं सुदर्शनं ध्यायेत् कालात्मानं महाद्युतिम् ।। ३७-१७ ।।
राजा तद्ध्यानमात्रेण निःसपत्नो भवेत् क्षणात् ।
न क्वाप्युपस्थितिस्तेषां सपत्नानां महीतले ।। ३७-१८ ।।
नश्यन्ति शत्रवस्तत्र यत्र यत्र च विद्रुताः ।
सुदर्शनमनाराधयतां राज्ञां शत्रुपराभवादिः
एवमेनमनाराध्य राजानोऽमितविक्रमाः ।। ३७-१९ ।।
सपत्नैरभिभूयन्ते निःश्रीकाश्च भवन्ति वै ।
योगेन न्यासेन वा सुदर्शनाराधनस्यैहिकामुष्मिकफलसाधनता
य एनं पूजयेद्भक्त्या पूर्वोक्तेनैव वर्त्मना ।। ३७-२० ।।
बाह्येन चान्तरेणापि योगाख्येन महामुने ।
न्यासेन वा सुखी सोऽत्र परत्र च न संशयः ।। ३७-२१ ।।
प्. ३५६) उक्तानुवादपूर्वकं न्यासाख्यप्रपत्तिस्वरूपप्रश्नः
नारदः -
बाह्य आभ्यन्तरश्चापि मम योगः पुरोदितः ।
न्यासाख्यं साधनं प्रोक्तं तन्मे ब्रूहि महेश्वर ।। ३७-२२ ।।
न्यासस्य परमरहस्यत्वख्यापनम्
अहिर्बुध्न्यः -
एतन्महोपनिषदं देवानां गुह्यमुत्तमम् ।
अभीष्टार्थप्रदं सद्यः सर्वपापप्रणाशनम् ।। ३७-२३ ।।
अवाच्यमेतत् सर्वस्मै नाभक्ताय कदाचन ।
भक्तोऽसि मे स्थिरश्चेति वक्ष्यामि हितकाम्यया ।। ३७-२४ ।।
न्यासस्य सर्वफलसाधनत्वोपपादनम्
यद्येन कामकामेन नासाद्यं साधनान्तरैः ।
मुमुक्षुणा यत् सांख्येन योगेन न च भक्तितः ।। ३७-२५ ।।
प्राप्यते परमं धाम यतो नावर्तते पुनः ।
तेन तेनाप्यते तत्तन्न्यासेनैव महामुने ।। ३७-२६ ।।
परमात्मा च तेनैव साध्यते पुरुषोत्तमः ।
प्रपत्तेः षडङ्गानि
षोढा हि वेदविदुषो वदन्त्येनं महामुने ।। ३७-२७ ।।
प्. ३५७) आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ।। ३७-२८ ।।
आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः ।
न्यासप्रकरणे शरणशब्दस्य साधनवाचित्वम्
उपाये गृहरक्षित्रोः शब्दः शरणमित्ययम् ।। ३७-२९ ।।
वर्तते सांप्रतं चैष उपायार्थैकवाचकः ।
प्रपत्तिलक्षणम्
अहमस्म्यपराधानामालयोऽकिंचनोऽगतिः ।। ३७-३० ।।
त्वमेवोपायभूतो मे भवेति प्रार्थनामतिः ।
शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम् ।। ३७-३१ ।।
सुदर्शनप्रपत्तौ मन्त्रविशेषकथनम्
भगवन् सर्वविजयिसहस्रारापराजित ।
शरणं त्वां प्रपन्नोऽस्मि श्रीकरं श्रीसुदर्शनम् ।। ३७-३२ ।।
अनेन मन्त्रेण प्रपन्नस्य फलोत्पत्तिप्रतिबन्धकसकलदुरितनिवृत्तिः
अनेनैव प्रपन्नस्य भगवन्तं सुदर्शनम् ।
तस्यानुबन्धाः पाप्मानः सर्वे नश्यन्त्यसंशयम् ।। ३७-३३ ।।
प्रपन्नस्य कृतकृत्यत्वम्
कृतान्यनेन सर्वाणि तपांसि तपतां वर ।
सर्वे तीर्थाः सर्वयज्ञाः सर्वदानानि च क्षणात् ।। ३७-३४ ।।
प्. ३५८) कृतान्यनेन मोक्षश्च तस्य हस्ते न संशयः ।
न्यासमात्रेण तपोयज्ञादिसिद्धिकथंताप्रश्नः
नारदः -
कथं तपांसि यज्ञाश्च तीर्थदानानि सर्वशः ।। ३७-३५ ।।
तस्यैव न्यासमात्रेण सिध्यन्ते तद्वद प्रभो ।
तदुत्तरकथने न्यासस्य सर्वतपोऽतिरिक्ततपस्त्वकथनम्
अहिर्बुध्न्यः -
यानि निःश्रेयसार्थानि चोदितानि तपांसि वै ।। ३७-३६ ।।
तेषां तु तपसां न्यासमतिरिक्तं तपः श्रुतम् ।
नमःशब्देन कृतात्मन्यासस्य स्वध्वरत्वोपपादनम्
समित्साधनकादीनां यज्ञानां न्यासमात्मनः ।। ३७-३७ ।।
नमसा योऽकरोद् देवे स स्वध्वर उदीरितः ।
न्यासस्य परमधर्मत्वे प्रमाणप्रदर्शनम्
यागसाधनभूतेन स्वात्मना वेद्यमीश्वरम् ।। ३७-३८ ।।
अयजत् तानि धर्माणि प्रथमानीति नः श्रुतम् ।
न्यासस्य सर्वयज्ञसमत्वम्
यज्ञरूपधरं देवं यजते स्वात्मनैव यः ।। ३७-३९ ।।
तेन सर्वे कृता यज्ञा भवन्तीह महात्मना ।
न्यासस्य यज्ञत्वनिर्वहणाय यज्ञाङ्गपौष्कल्यरूपणम्
यज्ञरूपधरस्यास्य शरीरं वेदिरिष्यते ।। ३७-४० ।।
प्. ३५९) आस्यमाहवनीयाग्निर्हृदयं दक्षिणानलः ।
अथास्य गार्हपत्याग्निरुदरं श्रुतिचोदितम् ।। ३७-४१ ।।
यजमानो मनस्तत्त्वं बुद्धिः पत्नी प्रकीर्तिता ।
स्वाश्रितप्रत्यनीका ये पशवस्ते प्रकीर्तिताः ।। ३७-४२ ।।
लोमानि बर्हिषस्त्वस्य जीवं हव्यं प्रचक्षते ।
सवनानि शिरोमध्यगात्रपादाः प्रकीर्तिताः ।। ३७-४३ ।।
दश यज्ञायुधान्यस्य ज्ञानकर्मेन्द्रियाण्यपि ।
ऋत्विजः षोडश भुजा देवस्यास्य महामुने ।। ३७-४४ ।।
भक्तरक्षणसंकल्पो दीक्षा देवस्य नारद ।
ऋग्यजुःसामघोषोऽस्य भूषणाराव इष्यते ।। ३७-४५ ।।
सदस्या भूषणान्यस्य दया देवस्य दक्षिणा ।
जुहूर्ध्रुवा स्रुवश्चैव प्राशित्रहरणं तथा ।। ३७-४६ ।।
मेक्षणोपभृतौ वेद इडापात्री तथैव च ।
दारुपात्रं च योक्त्रं च चमसः सृष्टिरेव च ।। ३७-४७ ।।
पिष्टोद्वपन्याज्यस्थाल्याविध्मप्रव्रश्चनं तथा ।
मदन्तीत्यस्य शस्त्रेषु चक्राद्येषु समाश्रिताः ।। ३७-४८ ।।
प्रपन्नस्य कृतकृत्यत्वनिगमनम्
एवंरूपं तमभ्यर्च्य प्रक्षीणाशेषपातकः ।
अनुष्ठितक्रतुशतो भवेदेष न संशयः ।। ३७-४९ ।।
प्. ३६०) यथोक्तक्रमेण सुदर्शनमनाराधयतां
क्लेशप्राप्तिनिगमनम्
एवं बहुविधै रूपैरुपेतं तं सुदर्शनम् ।
कृत्वा तमप्रतिष्ठाप्य राजानो मन्त्रिणोऽपि वा ।। ३७-५० ।।
विनष्टसंपदः सद्यः परिभूताश्च शत्रुभिः ।
अर्चनाभावतो राज्याद् भ्रष्टाश्चिरमुपद्रुताः ।। ३७-५१ ।।
सुदर्शनमनाराधयतां राज्ये ब्रह्महत्यादिदोषोत्पत्तिः
स्वराज्यं ब्रह्महत्यादिदोषैर्दुष्येन्महामुने ।
समिदित्यस्य ऋग्वेदश्रुतिराह (१) दयावती ।। ३७-५२ ।।
सुदर्शनमनाराधयतां राज्ञां प्रजानुरागाभावः
अनभिध्यानतो ह्यस्य विश्वे विषयवासिनः ।
अपरक्ताश्च जायन्ते महाराजे कृतागसि ।। ३७-५३ ।।
राज्ये सुदर्शनानाराधनात् प्रजानामपि बहुदुःखभागिता
अश्रद्दधानाश्चैतस्मिन्निह जन्मनि दुःखिनः ।
_______________
१ अत्रेदं ऋग्वेदश्रुतिद्वयं बोध्यम्- यः समिधा य आहुती यो वेदेन
ददाश मर्तो अग्नये । यो नमसा स्वघ्वरः ।। तस्येदर्वन्तो रंहयन्त
आशवस्तस्य द्युम्नितमं यशः । न तमंहो देवकृतं कुतश्चन न
मर्त्यकृतं नशत् ।। (ऋग्वेदे ८-१९, ६.)
_______________
प्. ३६१) प्रेत्याधोऽधः पतन्त्येव नाप्नुवन्ति सुखं क्वचित् ।। ३७-५४ ।।
सुदर्शनसमाराधनस्य सर्वफलावाप्तिसाधनतानिगमनम्
तद्यज्ञरूपं सुसमाश्रितानां
रक्षाविधाने कृतदीक्षमीशम् ।
सुभीषणं षोडशबाहुयुक्तं
स्वशत्रुपक्षक्षपणप्रवृत्तम् ।। ३७-५५ ।।
यथोक्तरूपं धृतसर्वशस्त्र-
मुपेतमस्त्रैरपि मूर्तिमद्भिः ।
पटे लिखित्वा शिलयाथवार्चां
विधाय लोहैरुत बिम्बमस्य ।। ३७-५६ ।।
समर्चयेद्यो नृपतिः प्रतिष्ठां
विधाय भक्त्याथ सुदर्शनेशम् ।
क्षणेन सिध्यन्ति मनीषितानि
विपक्षनाशश्च भवेदमुष्य ।। ३७-५७ ।।
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
न्यासापरपर्यायप्रपत्तिनिरूपणं नाम सप्तत्रिंशोऽध्यायः ।। ३७ ।।
आदितः श्लोकाः २३७६