अहिर्बुध्नसंहिता/परिशिष्टम्
| ← अध्यायः ६० | अहिर्बुध्नसंहिता परिशिष्टम् [[लेखकः :|]] |
अहिर्बुध्न्यसंहितापरिशिष्टं सुदर्शन सहस्रनामस्तोत्रम्
(१) सुदर्शनसहस्रनामस्तोत्रम्
प्रणम्य शिरसा देवं नारायणमशेषगम् ।
रमावक्षोजकस्तूरीपङ्कमुद्रितवक्षसम् ।। १ ।।
सर्वशास्त्रार्थतत्त्वज्ञः पाराशर्यस्तपोधनः ।
हिताय सर्वजगतां नारदं मुनिमब्रवीत् ।। २ ।।
ज्ञानविद्याविशेषज्ञं कर्पूरधवलाकृतिम् ।
वीणावादनसंतुष्टमानसं मरुतां परम् ।। ३ ।।
हिरण्यगर्भसंभूतं हिरण्याक्षादिसेवितम् ।
पुण्यराशिं पुराणज्ञं पावनीकृतदिक्तटम् ।। ४ ।।
व्यास उवाच -
देवर्षे नारद श्रीमन् साक्षाद् ब्रह्माङ्गसंभव ।
___________________
१ यद्यपीदं स्तोत्रं षष्ट्यध्यायात्मिकायामस्यामहिर्बुध्न्य-
संहितायां नान्तर्भावयितुं शक्यं, विनाप्यनेन
षष्ट्यध्यायानां पूर्णत्वात्; अथापि प्रथमाध्यायोपदर्शितरीत्या
विंशत्युत्तरशताध्यायात्मकतया
चत्वारिंशदुत्तरशतद्वयाध्यायात्मकतया चावगम्यमानयोः
अहिर्बुध्न्यसंहितयोरन्यतरत्र शक्यमन्तर्भावयितुम्, स्तोत्रस्यास्या-
हिर्बुध्न्यसंहितान्तर्भावस्यैवोपदेशपरम्परयावगतत्वात्, अन्ते
तथैव लेखदर्शनाच्च ।
यद्यपीदं परमरहस्यभूतं स्तोत्रं, तथापि विक्रीते करिणि
किमङ्कुशे विवादः इति न्यायेन संहितायामेव तन्त्ररहस्यभूतायां
कार्त्स्न्येन प्रकाशितायां किमनेनाप्रकाशितेनेति समीक्षिकया
कुलपरम्परया समागतमेकमेव तालपत्रमयं
पुस्तकमादर्शीकृत्य समारब्धं मुद्रणम् । अत्रान्तरे
अडयार्पुस्तकालयस्थं देवनागराक्षरलिखितं पुस्तकान्तरमप्यत्र
सहायोऽभूदिति युक्तमस्याहिर्बुध्न्यसंहितापरिशिष्टत्वेन मुद्रणमिति
कृत्वात्र प्रकाश्यते ।
___________________
प्. ६१६) भवानशेषविद्यानां पारगस्तपसां निधिः ।। ५ ।।
वेदान्तपारगः सर्वशास्त्रार्थप्रतिभोज्ज्वलः ।
परब्रह्मणि निष्णातः सच्चिदानन्दविग्रहः ।। ६ ।।
जगद्धिताय जनितः साक्षादेव चतुर्मुखात् ।
हन्यन्ते भवता दैत्या दैत्यारिभुजविक्रमैः ।। ७ ।।
कालोऽनुग्रहकर्ता त्वं त्रैलोक्यं त्वद्वशेऽनघ ।
मनुष्या ऋषयो देवास्त्वया जीवन्ति सत्तम ।। ८ ।।
कर्तृत्वे लोककार्याणां वरत्वे परिनिष्ठित ।
पृच्छामि त्वामशेषज्ञं निदानं सर्वसंपदाम् ।। ९ ।।
सर्वसंसारनिर्मुक्तं चिद्घनं शान्तमानसम् ।
यः सर्वलोकहितकृद्यं प्रशंसन्ति योगिनः ।। १० ।।
इदं चराचरं विश्वं धृतं येन महामुने ।
स्पृहयन्ति च यत्प्रीत्या यस्मै ब्रह्मादिदेवताः ।। ११ ।।
निर्माणस्थितिसंहारा यतो विश्वस्य सत्तम ।
यस्य प्रसादाद् ब्रह्माद्या लभन्ते वाञ्छितं फलम् ।। १२ ।।
दारिद्र्यनाशो जायेत यस्मिन् श्रुतिपथं गते ।
विवक्षितार्थनिर्वाहा मुखान्निःसरतीह गीः ।। १३ ।।
नृपाणां राज्यहीनानां येन राज्यं भविष्यति ।
अपुत्रः पुत्रवान् येन वन्ध्या पुत्रवती भवेत् ।। १४ ।।
शत्रूणामचिरान्नाशो ज्ञानं ज्ञानैषिणामपि ।
चातुर्वर्गफलं यस्य क्षणाद् भवति सुव्रत ।। १५ ।।
प्. ६१७) भूतप्रेतपिशाचाद्या यक्षराक्षसपन्नगाः ।
भूतज्वरादिरोगाश्च यस्य स्मरणमात्रतः ।। १६ ।।
मुच्यन्ते मुनिशार्दूल येनाखिलजगद्धृतम् ।
तदेतदिति निश्चित्य सर्वशास्त्रविशारद ।। १७ ।।
सर्वलोकहितार्थाय ब्रूहि मे सकलं गुरो ।
इत्युक्तस्तेन मुनिना व्यासेनामिततेजसा ।। १८ ।।
बद्धाञ्जलिपुटो भूत्वा सादरं नारदो मुनिः ।
नमस्कृत्य जगन्मूलं लक्ष्मीकान्तं परात् परम् ।। १९ ।।
उवाच परमप्रीतः करुणामृतधारया ।
आप्याययन् मुनीन् सर्वान् व्यासादीन् ब्रह्मतत्परान् ।। २० ।।
नारदः -
बहिरन्तस्तमश्छेदि ज्योतिर्वन्दे सुदर्शनम् ।
येनाव्याहतसंकल्पं वस्तु लक्ष्मीधरं विदुः ।। २१ ।।
ओं अस्य श्रीसुदर्शनसहस्रनामस्तोत्रमहामन्त्रस्य अहिर्बुध्न्यो
भगवानृषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनमहाविष्णुर्देवता, रं
बीजम्, हुं शक्तिः, फट् कीलकम्, रां रीं रूं रैं रौं रः इति
मन्त्रः, श्रीसुदर्शनप्रसादसिद्ध्यर्थे जपे विनियोगः । ओं रां
अङ्गुष्ठाभ्यां नमः, ओं रीं तर्जनीभ्यां नमः, ओं रूं
मध्यमाभ्यां नमः, ओं रैं अनामिकाभ्यां नमः, ओं रौं
कनिष्ठिकाभ्यां, ओं रः करतलकरपृष्ठाभ्यां नमः ।
प्. ६१८) एवं हृदयादिन्यासः - ओं रां ज्ञानाय हृदयाय नमः, ओ
रीं ऐश्वर्याय शिरसे स्वाहा, ओं रूं शक्त्यै शिखायै वषट्, ओं
रैं बलाय कवचाय हुं, ओं रौं वीर्यायास्त्राय फट्, ओं रः तेजसे
नेत्राभ्यां वौषट् ।
अथ दिग्बन्धः - ओं ठं ठं पूर्वां दिशं चक्रेण
बध्नामि नमश्चक्राय हुं फट् स्वाहा, ओं ठं ठं आग्नेयीं
दिशं ०, ओं ठं ठं याम्यां दिशं ०, ओं ठं ठं नैर्-ऋतीं
दिशं ०, ओं ठं ठं वारुणीं दिशं ०, ओं ठं ठं वायवीं
दिशं ०, ओं ठं ठं कौबेरीं दिशं ०, ओं ठं ठं ऐशानीं
दिशं ०, ओं ठं ठं ऊर्ध्वां दिशं ०, ओं ठं ठं अधरां
दिशं ०, ओं ठं ठं सर्वां दिशं चक्रेण बध्नामि
नमश्चक्राय हुं फट् स्वाहा । इति दिग्बन्धः ।
ध्यानम् -
कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं
रक्ताक्षं पिङ्गकेशं रिपुकुलभयदं भीमदंष्ट्राट्टहासम् ।
शङ्खं चक्रं गदाब्जं पृथुतरमुसलं चापपाशाङ्कुशादीन्
बिभ्राणं दोर्भिराद्यं मनसि मुररिपोर्भावये चक्रराजम् ।।
शङ्खं चक्रं गदाब्जं शरमसिमिषुधिं चापपाशाङ्कुशादीन्
बिभ्राणं वज्रखेटं हलमुसललसत्कुन्तमत्युग्रदंष्ट्रम् ।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं
ध्यायेत् षट्कोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् ।।
ककारादीनि षोडश नामानि
प्. ६१९) कल्याणगुणसंपन्नः कल्याणवसनोज्ज्वलः ।
कल्याणाचलगम्भीरः कल्याणजनरञ्जकः ।। १ ।।
कल्याणदोषनाशश्च कल्याणरुचिराङ्गकः ।
कल्याणाङ्गदसंपन्नः कल्याणाकारसंनिभः ।। २ ।।
करालवदनोऽत्रासी करालाङ्गोऽभयंकरः ।
करालतनुजोद्दामः करालतनुभेदकः ।। ३ ।।
करञ्जवनमध्यस्थः करञ्जदधिभोजनः ।
करञ्जासुरसंहर्ता करञ्जमधुराङ्गकः ।। ४ ।।
खकारादीनि दश
खञ्जनानन्दजनकः खञ्जनाहारजूषितः ।
खञ्जनायुधभृद् दिव्यखञ्जनाखण्डगर्वहृत् ।। ५ ।।
खरान्तकः खररुचिः खरदुःखैरसेवितः ।
खरान्तकः खरोदारः खरासुरविभञ्जनः ।। ६ ।।
गकारादीनि द्वादश
गोपालो गोपतिर्गोप्ता गोपस्त्रीनाथरञ्जकः ।
गोजारुणतनुर्गोजो गोजारतिकृतोत्सवः ।। ७ ।।
गम्भीरनाभिर्गम्भीरो गम्भीरार्थसमन्वितः ।
गम्भीरवैद्यमरुतो गम्भीरगुणभूषितः ।। ८ ।।
घकारादीन्येकादश
घनरावो घनरुचिर्घनगम्भीरनिस्वनः ।
प्. ६२०) घनाघनौघनाशी च घनसंतानदायकः ।। ९ ।।
घनरोचिर्घनचरो घनचन्दनचर्चितः ।
घनहेतिर्घनभुजो घनोऽखिलसुरार्चितः ।। १० ।।
ङकारादीनि चत्वारि
ङकारावधिविभवो ङकारो मुनिसंमतः ।
ङकारवीतसहितो ङकाराकारभूषितः ।। ११ ।।
चकारादीनि षट्पञ्चाशत्
चक्रराजश्चक्रपतिश्चक्राधीशः सुचक्रभूः ।
चक्रसेव्यश्चक्रधरश्चक्रभूषणभूषितः ।। १२ ।।
चक्रराजरुचिश्चक्रश्चक्रपालनतत्परः ।
चक्रधृच्चक्रवरदश्चक्रभूषणभूषितः ।। १३ ।।
सुचक्रधीः सुचक्राख्यः सुचक्रगुणभुषितः ।
विचक्रश्चक्रनिरतश्चक्रसंपन्नवैभवः ।। १४ ।।
चक्रदोश्चक्रदश्चक्रश्चक्रराजपराक्रमः ।
चक्रनादश्चक्रचरश्चक्रगश्चक्रपाशकृत् ।। १५ ।।
चक्रव्यापी चक्रगुरुश्चक्रहारी विचक्रभृत् ।
चक्राङ्गश्चक्रमहितश्चक्रवाकगुणाकरः ।। १६ ।।
आचक्रश्चक्रधर्मज्ञश्चक्रकश्चक्रमर्दनः ।
आचक्रनियमश्चक्रः सर्वपापविधूननः ।। १७ ।।
चक्रज्वालश्चक्रधरश्चक्रपालितविग्रहः ।
प्. ६२१) चक्रवर्ती चक्रदायी चक्रकारी मदापहः ।। १८ ।।
चक्रकोटिमहानादश्चक्रकोटिसमप्रभः ।
चक्रराजावनचरश्चक्रराजान्तरोज्ज्वलः ।। १९ ।।
चञ्चलारातिदमनश्चञ्चलस्वान्तरोमकृत् ।
चञ्चलो मानसोल्लासी चञ्चलाचलभासुरः ।। २० ।।
चञ्चलारातिनिरतश्चञ्चलाधिकचञ्चलः ।
छकारादीनि नव
छाययाखिलतापघ्नश्छायामदविभञ्जनः ।। २१ ।।
छायाप्रियोऽधिकरुचिश्छायावृक्षसमाश्रयः ।
छायान्वितश्छाययार्च्यश्छायाधिकसुखप्रदः ।। २२ ।।
छायाम्बरपरीधानश्छायात्मजनमुञ्चितः ।
जकारादीनि षोडश
जलजाक्षीप्रियकरो जलजानन्ददायकः ।। २३ ।।
जलजासिद्धिरुचिरो जलजालसमो भरः ।
जलजालापसंस्तुत्यो जलजाताय मोदकृत् ।। २४ ।।
जलजाहारचतुरो जलजाराधनोत्सुकः ।
जनकस्तुतिसंतुष्टो जनकाराधिताधिकः ।। २५ ।।
जनकामोदनपरो जनकानन्ददायकः ।
जनकाध्यानसंतुष्टहृदयो जनकार्चितः ।। २६ ।।
जनकानन्दजननो जनकृद्धृदयाम्बुजः ।
प्. ६२२) झकारादीनि चत्वारि
झञ्झामारुतवेगाढ्यो झञ्झामारुतसंगरः ।। २७ ।।
झञ्झामारुतसंरावो झञ्झामारुतविक्रमः ।
ञकारादिनी द्वे
ञकाराम्बुजमध्यस्थो ञकारकृतसंनिधिः ।। २८ ।।
टकारादीनि नव
टङ्कधारी टङ्कवपुष्टङ्कसंहारकारकः ।
टङ्कच्छिन्नसुवर्णाभष्टङ्कारधनुरुज्ज्वलः ।। २९ ।।
टङ्काराग्निसमाकारष्टङ्काररवमेदुरः ।
टङ्कारकीर्तिभरितष्टङ्कारानन्दवर्धनः ।। ३० ।।
डकारादीन्येकोनविंशतिः
डम्भसंहतिसंहर्ता डम्भसंततिवर्धनः ।
डम्भधृग् डम्भहृदयो डम्भदण्डनतत्परः ।। ३१ ।।
डिम्भधृग् डिम्भकृड्डिम्भो डिम्भसूदनतत्परः ।
डिम्भपापहरो डिम्भसंभावितपदाम्बुजः ।। ३२ ।।
डिम्भरोद्यत्कटम्बाजो डमरुध्यानतत्परः ।
डमरूद्भवसंहर्ता डमरूद्भवनन्दनः ।। ३३ ।।
डाडिमीवनमध्यस्थो डाडिमीकुसुमप्रियः ।
डाडिमीफलसंतुष्टो डाडिमीफलवर्जितः ।। ३४ ।।
प्. ६२३) ढकारादीन्यष्टौ
ढक्कामनोहरवपुर्ढक्कारवविराजितः ।
ढक्कावाद्येषु निरतो ढक्काधारणतत्परः ।। ३५ ।।
ढकारबीजसंपन्नो ढकाराक्षरमेदुरः ।
ढकारमध्यसदनो ढकारविहितान्त्रकः ।। ३६ ।।
णकारादीनि चत्वारि
णकारबीजवसतिर्णकारवसनोज्ज्वलः ।
णकारातिगभीराङ्गो णकाराराधनप्रियः ।। ३७ ।।
तकारादीनि चतुर्दश
तरलाक्षीमहाहर्ता तारकासुरहृत्तरिः ।
तरलोज्ज्वलहाराढ्यस्तरलस्वान्तरञ्जकः ।। ३८ ।।
तारकासुरसंसेव्यस्तारकासुरमानितः ।
तुरङ्गवदनस्तोत्रसंतुष्टहृदयाम्बुजः ।। ३९ ।।
तुरङ्गवदनः श्रीमांस्तुरङ्गवदनस्तुतः ।
तमः पटलसंछन्नस्तमः संततिमर्दनः ।। ४० ।।
तमोनुदो जलशयस्तमःसंवर्धनो हरः ।
थकारादीनि चत्वारि
थवर्णमध्यसंवासी थवर्णवरभूषितः ।। ४१ ।।
थवर्णबीजसंपन्नस्थवर्णरुचिरालयः ।
प्. ६२४) दकारादीनि दश
दरभृद् दरसाराक्षो दरहृद् दरवञ्चकः ।। ४२ ।।
दरफुल्लाम्बुजरुचिर्दरचक्रविराजितः ।
दधिसंग्रहणव्यग्रो दधिपाण्डरकीर्तिभृत् ।। ४३ ।।
दध्यन्नपूजनरतो दधिवामनमोदकृत् ।
धकारादीनि चतुर्विंशतिः
धन्वी धनप्रियो धन्यो धनाधिपसमञ्चितः ।। ४४ ।।
धरो धरावनरतो धनधान्यसमृद्धिदः ।
धनंजयो धानाध्यक्षो धनदो धनवर्जितः ।। ४५ ।।
धनग्रहणसंपन्नो धनसंमतमानसः ।
धनराजवनासक्तो धनराजयशोभरः ।। ४६ ।।
धनराजमदाहर्ता धनराजसमीडितः ।
धर्मकृद्धर्मघृद्धर्मी धर्मनन्दनसंनुतः ।। ४७ ।।
धर्मराजो धनासक्तो धर्मज्ञाकल्पितस्तुतिः ।
नकारादीनि षोडश
नरराजवनायत्तो नरराजाय निर्भरः ।। ४८ ।।
नरराजस्तुतगुणो नरराजसमुज्ज्वलः ।
नवतामरसोदारो नवतामरसेक्षणः ।। ४९ ।।
नवतामरसाहारो नवतामरसारुणः ।
नवसौवर्णवसनो नवनाथदयापरः ।। ५० ।।
प्. ६२५) नवनाथस्तुतनदो नवनाथसमाकृतिः ।
नालिकानेत्रमहितो नालिकावलिराजितः ।। ५१ ।।
नालिकागतिमध्यस्थो नालिकासनसेवितः ।
पकारादीनिन्यष्टादश
पुण्डरीकाक्षरुचितः पुण्डरीकमदापहः ।। ५२ ।।
पुण्डरीकमुनिस्तुत्यः पुण्डरीकसुहृद्द्युतिः ।
पुण्डरीकप्रभारम्यः पुण्डरीकनिभाननः ।। ५३ ।।
पुण्डरीकाक्षसन्मानः पुण्डरीकदयापरः ।
परः परागतिवपुः परानन्दः परात् परः ।। ५४ ।।
परमानन्दजनकः परमान्नाधिकप्रियः ।
पुष्कराक्षकरोदारः पुष्कराक्षः शिवंकरः ।। ५५ ।।
पुष्करव्रातसहितः पुष्करारवसंयुतः ।
अथ फकारादीनि नव
फट्कारतः स्तूयमानः फट्काराक्षरमध्यगः ।। ५६ ।।
फट्कारध्वस्तदनुजः फट्कारासनसंगतः ।
फलहारः स्तुतफलः फलपूजाकृतोत्सवः ।। ५७ ।।
फलदानरतोऽत्यन्तफलसंपूर्णमानसः ।
बकारादीनि षोडश
बलस्तुतिर्बलाधारो बलभद्रप्रियंकरः ।। ५८ ।।
बलवान् बलहारी च बलयुग्वैरिभञ्जनः ।
बलदाता बलधरो बलराजितविग्रहः ।। ५९ ।।
बलाद्बलो बलकरो बलासुरनिषूदनः ।
बलरक्षणनिष्णातो बलसंमोददायकः ।। ६० ।।
बलसंपूर्णहृदयो बलसंहारदीक्षितः ।
भकारादीनि चतुर्विंशतिः
बह्वस्तुतो भवपतिर्भवसंतानदायकः ।। ६१ ।।
भवध्वंसी भवहरो भवस्तम्भनतत्परः ।
भवरक्षणनिष्णातो भवसंतोषकारकः ।। ६२ ।।
भवसागरसंछेत्ता भवसिन्धुसुखप्रदः ।
भद्रदो भद्रहृदयो भद्रकार्यसमाश्रितः ।। ६३ ।।
भद्रश्रीचर्चिततनुर्भद्रश्रीदानदीक्षितः ।
भद्रपादप्रियो भद्रो ह्यभद्रवनभञ्जनः ।। ६४ ।।
भद्रश्रीगानसरसो भद्रमण्डलमण्डितः ।
भरद्वाजस्तुतपदो भरद्वाजसमाश्रितः ।। ६५ ।।
भरद्वाजाश्रमरतो भरद्वाजदयाकरः ।
मकारादीनि त्रिपञ्चाशत्
मसारनीलरुचिरो मसारचरणोज्ज्वलः ।। ६६ ।।
मसारसारसत्कार्यो मसारांशुकभूषितः ।
माकन्दवनसंचारी माकन्दजनरञ्जकः ।। ६७ ।।
माकन्दानन्दमन्दारो माकन्दानन्दबन्धुरः ।
प्. ६२७) मण्डलो मण्डलाधीशो मण्डलात्मा सुमण्डलः ।। ६८ ।।
मण्डेशो मण्डलान्तमण्डलार्चितमण्डलः ।
मण्डलावनन्ष्णातो मण्डलावरणी घनः ।। ६९ ।।
मण्डलस्थो मण्डललाग्र्यो मण्डलाभरणाङ्कितः ।
मधुदानवसंहर्ता मधुमञ्जुलवाग्भरः ।। ७० ।।
मधुदानाधिकरतो मधुमङ्गलवैभवः ।
मधुजेता मधुकरो मधुरो मधुराधिपः ।। ७१ ।।
मधुवारणसंहर्ता मधुसंतानकारकः ।
मधुमासातिरुचिरो मधुमासविराजितः ।। ७२ ।।
मधुपुष्टो मधुतनुर्मधुगो मधुसंवरः ।
मधुरो मधुराकारो मधुराम्बरभूषितः ।। ७३ ।।
मधुरानगरीनाथो मधुरासुरभञ्जनः ।
मधुराहारनिरतो मधुराह्लाददक्षिणः ।। ७४ ।।
मधुराम्भोजनयनो मधुरधिपसंगतः ।
मधुरानन्दचतुरो मधुरारातिसंगतः ।। ७५ ।।
मधुराभरणोल्लासी मधुराङ्गदभूषितः ।
मृगराजवनीसक्तो मृगमण्डलमण्डितः ।। ७६ ।।
मृगादरो मृगपतिर्मृगारातिविदारणः ।
यकारादीनि दश
यज्ञप्रियो यज्ञवपुर्यज्ञसंप्रीतमानसः ।। ७७ ।।
प्. ६२८) यज्ञसंताननिरतो यज्ञसंभारसंभ्रमः ।
यज्ञयज्ञो यज्ञपदो यज्ञसंपादनोत्सुकः ।। ७८ ।।
यज्ञशालाकृतावासो यज्ञसंभावितान्नकः ।
रेफादीनि विंशतिः
रसेन्द्रो रससंपन्नो रस राजो रसोत्सुकः ।। ७९ ।।
रसान्वितो रसधरो रसचेलो रसाकरः ।
रसजेता रसश्रेष्ठो रसराजाभिरञ्जितः ।। ८० ।।
रसतत्त्वसमासक्तो रसदारपराक्रमः ।
रसराजो रसधरो रसेशो रसवल्लभः ।। ८१ ।।
रसनेता रसावासो रसोत्करविराजितः ।
लकारादीन्यष्टौ
लवङ्गपुष्पसंतुष्टो लवङ्गकुसुमोचितः ।। ८२ ।।
लवङ्गवनमध्यस्थो लवङ्गकुसुमोत्सुकः ।
लतावलिसमायुक्तो लतारसमर्चितः ।। ८३ ।।
लताभिरामतनुभृल्लतातिलकभूषितः ।
वकारादीनि सप्तदश
वीरस्तुतपदाम्भोजो विराजगमनोत्सुकः ।। ८४ ।।
विराजपत्रमध्यस्थो विराजरससेवितः ।
वरदो वरसंपन्नो वरसमुन्नतः ।। ८५ ।।
वरस्तुतिर्वर्धमानो वरधृद् वरसंभवः ।
प्. ६२९) वरदानरतो वर्यो वरदानसमुत्सुकः ।। ८६ ।।
वरदानार्द्रहृदयो वरवारणसंयुतः ।
शकारादीनि पञ्चविंशतिः
शारदास्तुतपादाब्जः शारदाम्भोजकीर्तिभृत् ।। ८७ ।।
शारदाम्भोजनयनः शारदाध्यक्षसेवितः ।
शारदापीठवसतिः शारदाधिपसंनुतः ।। ८८ ।।
शारदावासदमनः शारदावासभासुरः ।
शतक्रतुस्तूयमानः शतक्रतुपराक्रमः ।। ८९ ।।
शतक्रतुसमैश्वर्यः शतक्रतुमदापहः ।
शरचापधरः श्रीमान् शरसंभववैभवः ।। ९० ।।
शरपाण्डरकीर्तिश्रीः शरत्सारसलोचनः ।
शरसंगमसंपन्नः शरमण्डलमण्डितः ।। ९१ ।।
शरातिगः शरधरः शरलालनलालसः ।
शरोद्भवसमाकारः शरयुद्धविशारद ।। ९२ ।।
शरबृन्दावनरतिः शरसंमतविक्रमः ।
षकारादीनि षोडश
षट्पदः षट्पदाकारः षट्पदावलिसेवितः ।। ९३ ।।
षट्पदाकारमधुरः षट्पदी षट्पदोद्धतः ।
षडङ्गवेदविनुतः षडङ्गपदमेदुरः ।। ९४ ।।
षट्पद्मकवितावासः षड्बिन्दुरचितद्युतिः ।
षड्बिन्दुमध्यवसतिः षड्बिन्दुविशदीकृतः ।। ९५ ।।
प्. ६३०) षडाम्नायस्तृयमानः षडाम्नायान्तरस्थितः ।
षट्छक्तिमङ्गलवृतः षट्चक्रकृतशेखरः ।। ९६ ।।
सकारादीनि विंशतिः
सारसारसरक्ताङ्गः सारसारसलोचनः ।
सारदीप्तिः सारतनुः सारसाक्षकरप्रियः ।। ९७ ।।
सारदीपी सारकृपः सारसावनकृज्ज्वलः ।
सारङ्गसारदमनः सारकल्पितकुण्डलः ।। ९८ ।।
सारसारण्यवसतिः सारसारवमेदुरः ।
सारगानप्रियः सारः सारसारसुपण्डितः ।। ९९ ।।
सद्रक्षकः सदामोदी सदानन्दनदेशिकः ।
सद्वैद्यवन्द्यचरणः सद्वैद्योज्ज्वलमानसः ।। १०० ।।
हकारादीनि चतुःषष्टिः
हरिजेता हरिरथो हरिसेवापरायणः ।
हरिवर्णो हरिचरो हरिगो हरिवत्सलः ।। १०१ ।।
हरिद्रो हरिसंस्तोता हरिध्यानपरायणः ।
हरिकल्पान्तसंहर्ता हरिसारसमुज्ज्वलः ।। १०२ ।।
हरिचन्दनलिप्ताङ्गो हरिमानससंमतः ।
हरिकारुण्यनिरतो हंसमोचनलालसः ।। १०३ ।।
हरिपुत्राभयकरो हरिपुत्रसमञ्चितः ।
हरिधारणसांनिध्यो हरिसंमोददायकः ।। १०४ ।।
हेतिराजो हेतिधरो हेतिनायकसंस्तुतः ।
प्. ६३१) हेतिर्हरिर्हेतिवपुर्हेतिहा हेतिवर्धनः ।। १०५ ।।
हेतिहन्ता हेतियुद्धकरो हेतिविभूषणः ।
हेतिदाता हेतिपरो हेतिमार्गप्रवर्तकः ।। १०६ ।।
हेतिसंततिसंपूर्णो हेतिमण्डलमण्डितः ।
हेतिदानपरः सर्वहेत्युग्रपरिभूषितः ।। १०७ ।।
हंसरूपी हंसगतिर्हंससंनुतवैभवः ।
हंसमार्गरतो हंसरक्षको हंसनायकः ।। १०८ ।।
हंसदृग्गोचरतनुर्हंससंगीततोषितः ।
हंसजेता हंसपतिर्हंसगो हंसवाहनः ।। १०९ ।।
हंसजो हंसगमनो हंसराजसुपूजितः ।
हंसवेगो हंसधरो हंससुन्दरविग्रहः ।। ११० ।।
हंसवत् सुन्दरतनुर्हंससंगतमानसः ।
हंसस्वरूपसारज्ञो हंससंनतमानसः ।। १११ ।।
हंससंस्तुतसामर्थ्यो हरिरक्षणतत्परः ।
हंससंस्तुतमाहात्म्यो हरपुत्रपराक्रमः ।। ११२ ।।
क्षकारादीनि द्वादश नामानि
क्षीरार्णवसमुद्भूतः क्षीरसंभवभावितः ।
क्षीराब्धिनाथसंयुक्तः क्षीरकीर्तिविभासुरः ।। ११३ ।।
क्षणदारवसंहर्ता क्षणदारवसंमतः ।
क्षणदाधीशसंयुक्तः क्षणदानकृतोत्सवः ।। ११४ ।।
क्षीराभिषेकसंतुष्ट क्षीरपानाभिलाषुकः ।
प्. ६३२) क्षीराज्यभोजनासक्तः क्षीरसंभववर्णकः ।। ११५ ।।
फलश्रुतिः
इत्येतत् कथितं दिव्यं सर्वपापप्रणाशनम् ।
सर्वशत्रुक्षयकरं सर्वसंपत्प्रदायकम् ।। ११६ ।।
सर्वसौभाग्यजनकं सर्वमङ्गलकारकम् ।
सर्वादारिद्र्यशमनं सर्वोपद्रवनाशनम् ।। ११७ ।।
सर्वशान्तिकरण् गुह्यं सर्वरोगनिवारणम् ।
अतिबन्धग्रहहरं सर्वदुःखनिवारकम् ।। ११८ ।।
नाम्नां सहस्रं दिव्यानां चक्रराजस्य तत्पतेः ।
नामानि हेतिराजस्य ये पठन्तीह मानवाः ।
तेषां भवन्ति सकलाः संपदो नात्र संशयः ।। ११९ ।।
इत्यहिर्बुध्न्यसंहितायां तन्त्ररहस्ये व्यासनारदसंवादे
श्रीसुदर्शनसहस्रनामस्तोत्रं संपूर्णम् (१)
________________
१ यथोक्तानां नाम्नां परिगणने, तेषां संख्या षष्ट्युत्तराणि
पञ्चशतानि नातिक्रामति । तत्र किमेतावत्स्वेव नामसु
सहस्रनामशब्द औपचारिकः प्रयुक्तः, उत मध्ये मध्ये
ग्रन्थलोपान्नामसहस्रसंख्याया अपूर्तिरिति । प्रबलतरेण प्रमाणेन
विना सहस्रनामशब्दस्यौपचारिकत्वकल्पनानौचित्यं
ग्रन्थलोपावश्यकतामुद्भावयति । आदर्शीकृतयोरज्ञातपरस्पर-
वृत्तान्तयोर्भिन्नदेशादानीतयोर्द्वयोर्मातृकाकोशयोर्दैवादापतित-
मैकरूप्यं तु ग्रन्थलोपसद्भावशङ्कां प्रतिरुणद्धि ।