अहिर्बुध्नसंहिता/अध्यायः ४०
| ← अध्यायः ३९ | अहिर्बुध्नसंहिता अध्यायः ४० [[लेखकः :|]] |
अध्यायः ४१ → |
अस्त्रस्वरूपतच्छक्तिनिरूपणं नाम चत्वारिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् |
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ||
उक्तानुवादपूर्वकमस्त्रसंस्थानतच्छक्तिस्वरूपप्रश्नः
नारदः -
भगवन् देवदेवेश विश्वामरवरार्चित |
यद्यन्मया पुरा पृष्टं तत्त्वतस्तत् तदीरितम् || ४०-१ ||
दिव्यास्त्राणां तु सर्वेषां मन्त्ररूपाश्च मूर्तयः |
कथिता भवता सम्यक् पृच्छतो मे सविस्तरम् || ४०-२ ||
किंसंस्थानान्यथास्त्राणि किंशक्तीनि परंतप |
मयि सानुग्रहं चेतस्तव चेद् वक्तुमर्हसि || ४०-३ ||
तदुत्तरकथनाय तेषां परमगुह्यत्वख्यापनम्
अहिर्बुध्न्यः-
तदेतत् परमं गुह्यमवाच्यमतिदुर्लभम् |
अस्त्राणां स्वरूपेण प्रत्यक्षागोचरता
न चाविरासन्नस्त्राणि स्वस्वरूपेण कस्यचित् || ४०-४ ||
सुरासुरैर्नियुज्यन्ते मन्त्ररूपेण तानि वै |
प्. ३७८) देवकार्यार्थमिन्द्रं प्रति कदाचित् तेषां गोचरता
एकदा वृत्रनिधने वासवस्य स्वरूपतः || ४०-५ ||
आविर्बभूवुरेतानि सुरकार्यमिदं त्विति |
मन्त्ररूपेणासाध्ये विषये तेषां स्वस्वरूपाविष्करणम्
मन्त्रस्वरूपैश्चासाध्ये विषये स्वस्वरूपतः || ४०-६ ||
आविष्कुर्वन्ति चास्त्राणि भीषणानि परं मुने |
एषां दर्शनमात्रेण विनश्यन्त्यरिसैनिकाः || ४०-७ ||
भगवता तेषां स्वरूपेण धारणम्
चक्रस्वरूपी भगवांस्तानि धत्ते स्वरूपतः |
तत्स्वरूपतच्छक्तिकथनप्रतिज्ञा
स्वरूपाणि तथा तेषां शक्तीश्च कथयामि ते || ४०-८ ||
१ - नारायणास्त्रम्
शृणु नारायणास्त्रस्य स्वरूपं प्रथमं मुने |
सहस्रधारमत्युग्रं सहस्रार्कसमप्रभम् || ४०-९ ||
तैजसं विस्तृताग्रं तन्मोहिनीकुसुमोपमम् |
२ - पाशुपतास्त्रम्
प्रतिपच्चन्द्रसंकाशमध्याष्टाश्रविदीपितम् || ४०-१० ||
प्. ३७९) शतधारं तडिद्दीप्तमेतत् पाशुपतं मतम् |
३ - ब्राह्मास्त्रम्
सहस्रारसमायुक्तं विद्युत्पुञ्जोपमाकृति || ४०-११ ||
प्रस्तरप्रतिमं मुष्टिग्राह्याग्रं ब्राह्ममीरितम् |
४ - ब्रह्मशिरोऽस्त्रम्
दंष्ट्राकरालं दष्टोष्ठं पिङ्गलाक्षं विभीषकम् || ४०-१२ ||
गृहीतपिङ्गकेशाग्रमेतद् ब्रह्मशिरो मतम् |
५ - विष्णुचक्रास्त्रम्
विष्णुचक्रमिति ख्यातं सहस्रारं सुदर्शनम् || ४०-१३ ||
६ - जृम्भणास्त्रम्
जृम्भणं त्वष्टवक्राङ्गं दण्डमेवं विदुर्बुधाः |
७ - कालपाशास्त्रम्
भीमाकारं पाशमेव कालपाशमिति स्मृतम् || ४०-१४ ||
८ - आग्नेयास्त्रम्
षट्कोणाग्रं ज्वलज्ज्वालमस्त्रमाग्नेयमुत्तमम् |
९ - हयशिरोऽस्त्रम्
ज्वालाविलं वाजिवक्त्रमस्त्रं हयशिरो मतम् || ४०-१५ ||
प्. ३८०) १० - प्रस्वापनास्त्रम्
प्रस्वापनं कुवलयस्तबकस्तम्बसन्निभम् |
११ - तामसास्त्रम्
सतोयतोयदप्रख्यं तामसास्त्रमुदीरितम् || ४०-१६ ||
१२ - कालास्त्रम्
कालास्त्रं भीषणं दण्डं षष्टिघण्टासमाकुलम् |
१३ - दण्डचक्रास्त्रम्
आद्यन्तचक्रयुग्दण्डं दण्डचक्रमिति स्मृतम् || ४०-१७ ||
१४ - कालचक्रास्त्रम्
कालचक्रं चतुष्कोणं पर्यन्तस्थितराशिमत् |
१५ - धर्मचक्रास्त्रम्
धर्मचक्रं सुवृत्तं स्याद् दशयज्ञायुधाङ्कितम् || ४०-१८ ||
१६ - शैवास्त्रम्
शैवं शतमुखाग्निस्तु दण्डवत् परिकीर्त्यते |
१७ - शूलास्त्रम्
शूलं तु त्रिदलं प्रोक्तं तीक्ष्णधारं सुदण्डकम् || ४०-१९ ||
१८ - परश्वस्त्रम्
परशू रौद्रमस्त्रं च तीक्ष्णधारं भयावहम् |
प्. ३८१) १९ - त्रिशूलास्त्रम्
शूलत्रयाङ्कितमुखं त्रिशूलं दण्डवद् भवेत् || ४०-२० ||
२० - घोरास्त्रम्
घोरं नारा च रूपं स्यादस्त्रमाहुर्मनीषिणः |
२१ - अघोरास्त्रम्
कृष्णास्यं पिङ्गनयनं ज्वालाकेशोर्ध्वबन्धनम् || ४०-२१ ||
अघोरास्त्रमिदं प्रोक्तं नाम्ना चैवासिधारकम् |
२२ - संमोहनास्त्रम्
अस्त्रं संमोहनं नाम कमलं नालसंयुतम् || ४०-२२ ||
२३ - ऐषीकास्त्रम्
ऐषीकं शरनालाभमस्त्रमाहुर्विचक्षणाः |
२४ - ऐन्द्रचक्रास्त्रम्
वज्राङ्कितचतुष्कोणं नटाभममितद्युति || ४०-२३ ||
ऐन्द्रचक्राख्यमस्त्रं तत् परवैरिभयंकरम् |
२५ - शुष्काशन्यस्त्रम्
सदा ज्वलितसर्वाङ्गं महिषाकृति भीषणम् || ४०-२४ ||
शुष्काशनिरिदं प्रोक्तमस्त्रमङ्गारसंनिभम् |
प्. ३८२) २६ - आर्द्राशन्यस्त्रम्
तादृशं शुक्लवर्णं तदार्द्राशनिरिति स्मृतम् || ४०-२५ ||
२७ - पैनाकास्त्रम्
पैनाकमस्त्रं परमं धनुस्तक्षकसंनिभम् |
२८ - कङ्कालास्त्रम्
कङ्कालाख्यं भवेदस्त्रं पिशाचाकृति भीषणम् || ४०-२६ ||
२९ - कापालास्त्रम्
कपालमालिकामाहुः कापालास्त्रमनुत्तमम् |
३० - सौरास्त्रम्
सौरमस्त्रं समाख्यातं सूर्यबिम्बपरंपरा || ४०-२७ ||
३१ - वरुणपाशास्त्रम्
अस्त्रं वरुणपाशाख्यं शीताकृति सुदारुणम् |
३२ - संतापनास्त्रम्
लगुडं शङ्कुजालाढ्यं संतापनमिदं विदुः || ४०-२८ ||
३३ - वारुणास्त्रम्
वारुणं जालकाकारं द्वात्रिंशच्छिद्रसंयुतम् |
प्. ३८४) ३४ - धर्मपाशास्त्रम्
सर्वतत्त्वमयं दाम धर्मपाशमिति स्मृतम् || ४०-२९ ||
३५ - ३६ - शक्तिद्वयास्त्रम्
शक्तिरेका प्रसिद्धैव शक्त्यन्तरमथोच्यते |
द्विशिरस्कैकनाला च दशघण्टाविभूषिता || ४०-३० ||
३७ - वायव्यास्त्रम्
वायव्यमस्त्रं सारङ्गः सशृङ्ग इव पठ्यते |
३८ - मौसलास्त्रम्
मौसलं मुसलं प्रोक्तं विद्युद्दण्डमिवोज्ज्वलम् || ४०-३१ ||
३९ - गान्धर्वास्त्रम्
गान्धर्वमस्त्रमादिष्टं वीणादण्डोपमाकृति |
४० - दर्पणास्त्रम्
दर्पणं दर्पणं प्रोक्तमस्त्रं पूर्णेन्दुसंनिभम् || ४०-३२ ||
४१ - शोषणास्त्रम्
शोषणं विकटं शृङ्गमस्त्रं परविशोषणम् |
४२ - पैशाचास्त्रम्
पैशाचमस्त्रं परममुल्कामुखमुदाहृतम् || ४०-३३ ||
प्. ३८४) ४३ - तेजःप्रभास्त्रम्
तेजःप्रभं स्मृतं प्रासप्रतिमं परदारणम् |
४४ - ऐन्द्रास्त्रम्
ऐन्द्रमस्त्रं वज्ररूपं तेजसां निलयं स्मृतम् || ४०-३४ ||
४५ - विलापनास्त्रम्
अस्त्रं विलापनं नाम धाराधरमुदाहृतम् |
४६ - वैद्याधरास्त्रम्
वैद्याधरास्त्रमाहुस्तत् पुष्पमालां तु मोहिनीम् || ४०-३५ ||
४७ - कङ्कालास्त्रम्
अस्त्रं कङ्कालसंज्ञं स्यान्महाघण्टानिनादितम् |
४८ - मोदक्यस्त्रम्
मोदकी नाम परमा वल्लरी पुष्पशालिनी || ४०-३६ ||
४९ - शिखरास्त्रम्
शिखरं नाम खट्वाङ्गमायुधं परिचक्षते |
५० - क्रौञ्चास्त्रम्
क्रौञ्चमस्त्रं महत् पक्षी क्रौञ्चाकृतिरिहोच्यते || ४०-३७ ||
प्. ३८५) ५१ - असिरत्नास्त्रम्
असिरत्नाह्वयं दिव्यमस्त्रं खड्गो महाद्युतिः |
५२ - प्रशमनास्त्रम्
अस्त्रं प्रशमनं नाम प्रोच्यते ध्वजसंनिभम् || ४०-३८ ||
५३ - कन्दर्पदयितास्त्रम्
कन्दर्पदयितं चास्त्रमिक्षुः परमशोभनम् |
५४ - मदनास्त्रम्
मदनं चामरप्रख्यमस्त्रं परभयावहम् || ४०-३९ ||
५५ - सौमनास्त्रम्
सौमनं शिबिकाभं तदस्त्रमस्त्रविदो विदुः |
५६ - सत्यास्त्रम्
स्थूलमुक्ताक्षमालैव सत्यास्त्रं सर्वसाधकम् || ४०-४० ||
५७ - संवर्तकास्त्रम्
अस्त्रं संवर्तकं नाम महाशङ्खः प्रकीर्त्यते |
५८ - मायाधरास्त्रम्
मायाधराह्वयं प्राहुरस्त्रं शाखिनमेव च || ४०-४१ ||
प्. ३८६) ५९ - सोमास्त्रम्
सोमास्त्रमर्धचन्द्राभं सायकं संप्रचक्षते |
६० - त्वाष्ट्रास्त्रम्
त्वाष्ट्रमस्त्रं चैत्यसमं सदण्डमभिधीयते || ४०-४२ ||
६१ - शीतेष्वस्त्रम्
शीतेषुर्नाम कुम्भास्या स्रवन्ती सरिदुत्तमा |
६२ - भगास्त्रम्
त्रिकोणं दण्डवद् विद्याद् भगास्त्रममितद्युति || ४०-४३ ||
६३ - संदामनास्त्रम्
सदामनं समाख्यातं चक्रं निररमुच्यते |
६४ - सत्यवदस्त्रम्
सत्यवत् तन्महाभूतं व्यात्ताननमिदं विदुः || ४०-४४ ||
६५ - वारणास्त्रम्
वारणं नाम सर्पास्यं वारणं परमाङ्कुशम् |
६६ - धृष्टास्त्रम्
धृष्टं कबन्धमुदरं व्यात्ताननमुदाहृतम् || ४०-४५ ||
६७ - भृशाश्वतनयास्त्रम्
भृशाश्वतनयं नाम द्विधारं क्रकचं स्मृतम् |
प्. ३८७) ६८ - सत्यकीर्त्यस्त्रम्
सत्यकीर्तिस्तु मकरो व्यात्तवक्त्रोऽभिधीयते || ४०-४६ ||
६९ - मोहास्त्रम्
मोहः सर्पशिरो व्यात्तवक्त्रमस्त्रं विदुर्बुधाः |
७० - रभसास्त्रम्
रभसं तारसंकाशमस्त्रं सर्वास्त्रसादनम् || ४०-४७ ||
७१ - सर्वनाभास्त्रम्
सर्वनाभाह्वयं चास्त्रं कमण्डलुरिहोच्यते |
७२ - पराङ्मुखास्त्रम्
पराङ्मुखाह्वयं चास्त्रं पञ्चाननशिरो विदुः || ४०-४८ ||
७३ - जृम्भकास्त्रम्
जृम्भकं नाम रक्ताक्षं त्रिपञ्जरमुदीर्यते |
७४ - प्रतिहारास्त्रम्
प्रतिहाराख्यमस्त्रं तु कुन्तः परमभास्वरः || ४०-४९ ||
७५ - अवाङ्मुखास्त्रम्
ऋक्षास्यं भूतमुद्दिष्टमवाङ्मुखसमाह्वयम् |
प्. ३८८) ७६ - धनास्त्रम्
धनाख्यमस्त्रं मुकुटसमानममितद्युति || ४०-५० ||
७७ - धान्यास्त्रम्
धान्यास्त्रमेतत् परमं शालिस्तबकबन्धनम् |
७८ - महाभूतास्त्रम्
वृषाक्षं वृषवक्त्राङ्कं महाभूतं प्रचक्षते || ४०-५१ ||
७९ - कामरूपास्त्रम्
कामरूपं महास्त्रं तु प्रतिसूर्यकसंनिभम् |
८० - दृढनाभास्त्रम्
दृढनाभाख्यमस्त्रं स्यान्नागो बहुफणान्वितः || ४०-५२ ||
८१ - कामरुच्यस्त्रम्
अस्त्रं कामरुचिर्नाम स्वस्तिकं परिचक्षते |
८२ - सुनाभास्त्रम्
सुनाभं क्षुरिका तीक्ष्णा प्रोच्यतेऽस्त्रमनुत्तमम् || ४०-५३ ||
८३ - मकरास्त्रम्
मकरो नाम दिव्यास्त्रं दीपिकादण्डसंनिभम् |
प्. ३८९) ८४ - दशाक्षास्त्रम्
दशाक्षमेतज्जानीयात् कौक्षेयकमवारितम् || ४०-५४ ||
८५ - वेतालास्त्रम्
वृत्तिमन्तं चोष्ट्रमुखं वेतालमभिधीयते |
८६ - दशवक्त्रास्त्रम्
एकस्था दशवक्त्री तु दशवक्त्रमुदाहृतम् || ४०-५५ ||
८७ - रुचिरास्त्रम्
रुचिराख्यं भवेदस्त्रं हलं परमदारुणम् |
८८ - दशकर्णास्त्रम्
दशवर्षा काकमुखी दशकर्णमुदीर्यते || ४०-५६ ||
८९ - योगंधरास्त्रम्
योगंधरं दिवाभीतव्यात्तवक्त्रमिति स्मृतम् |
९० - वारुणास्त्रम्
अमित्रघ्नं वारुणं स्यात् परास्त्रविनिवारणम् || ४०-५७ ||
९१ - अनिद्रास्त्रम्
अनिद्रमस्त्रमुन्निद्रकल्पकं कथयन्ति वै |
प्. ३९०) ९२ - कुठारास्त्रम्
भेत्तारमस्त्रमाख्यातं कुठारं परभेदनम् || ४०-५८ ||
९३ - शतोदरास्त्रम्
शतोदरास्त्रं भूतं स्याच्छतोदरसमन्वितम् |
९४ - सौमनसास्त्रम्
अस्त्रं सौमनसं नाम जपाकुसुममञ्जरी || ४०-५९ ||
९५ - पद्मनाभास्त्रम्
पद्मनाभं महाभूतं पद्मालंकृतनाभिमत् |
९६ - महानाभास्त्रम्
महानाभाख्यमस्त्रं तु बको विकटकंधरः || ४०-६० ||
९७ - ज्यौतिषास्त्रम्
ज्यौतिषं नाम परमं विमानमभिधीयते |
९८ - क्षेपणास्त्रम्
क्रमणं क्षेपणं प्रोक्तं परास्त्रक्रमणं महत् || ४०-६१ ||
९९ - त्रैराशिकास्त्रम्
त्रैराशिर्वानरमुखं सपक्षं नरपादवत् |
१०० - सार्चिर्माल्यस्त्रम्
सार्चिर्मालि महाभूतमेकपाद् बहुहस्तकम् || ४०-६२ ||
प्. ३९१) १०१ - विमलास्त्रम्
विमलास्त्रमिदं विद्यात् स्फाटिकाकारडोलिकाम् |
१०२ - धृतिकास्त्रम्
वराहसिंहमनुजकुक्कुरेभमुखैर्युतम् |
भूतं पुराविदो ब्रूयुर्धृतिकास्त्रं सुदारुणम् || ४०-६३ ||
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम्
अस्त्रस्वरूपतच्छक्तिनिरूपणं नाम चत्वारिंशोऽध्यायः || ४० ||
आदितः श्लोकाः २५४४