रामायणम्/अयोध्याकाण्डम्/सर्गः ६०
दिखावट
(अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः ५९ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ६१ → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥ ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः । धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२-६०-१॥ नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः । तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२-६०-२॥ निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि । अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥२-६०-३॥ बाष्प वेगौपहतया स वाचा सज्जमानया । इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥२-६०-४॥ त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा । व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२-६०-५॥ लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने । आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः ॥२-६०-६॥ विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव । विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा ॥२-६०-७॥ न अस्या दैन्यम् कृतम् किम्चित् सुसूक्ष्मम् अपि लक्षये । उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥२-६०-८॥ नगर उपवनम् गत्वा यथा स्म रमते पुरा । तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥२-६०-९॥ बाला इव रमते सीता बाल चन्द्र निभ आनना । रामा रामे हि अदीन आत्मा विजने अपि वने सती ॥२-६०-१०॥ तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् । अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् ॥२-६०-११॥ परि पृच्चति वैदेही ग्रामामः च नगराणि च । गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥२-६०-१२॥ रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती । अयोध्याक्रोशमात्रे तु विहारमिव सम्श्रिता ॥२-६०-१३॥ इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् । कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥२-६०-१४॥ ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् । ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥२-६०-१५॥ अध्वना वात वेगेन सम्भ्रमेण आतपेन च । न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥२-६०-१६॥ सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् । वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥२-६०-१७॥ अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ । अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥२-६०-१८॥ नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी । इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥२-६०-१९॥ गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता । न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२-६०-२०॥ न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः । इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२-६०-२१॥ विधूय शोकम् परिहृष्ट मानसा । महर्षि याते पथि सुव्यवस्थिताः । वने रता वन्य फल अशनाः पितुः । शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२-६०-२२॥ तथा अपि सूतेन सुयुक्त वादिना । निवार्यमाणा सुत शोक कर्शिता । न चैव देवी विरराम कूजितात् । प्रिय इति पुत्र इति च राघव इति च ॥२-६०-२३॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।स्रोतः
[सम्पाद्यताम्]