रामायणम्/अयोध्याकाण्डम्/सर्गः ५६
दिखावट
(अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२-५६॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः ५५ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ५७ → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२-५६॥ अथ रात्र्याम् व्यतीतायाम् अवसुप्तम् अनन्तरम् । प्रबोधयाम् आस शनैः लक्ष्मणम् रघु नन्दनः ॥२-५६-१॥ सौमित्रे शृणु वन्यानाम् वल्गु व्याहरताम् स्वनम् । सम्प्रतिष्ठामहे कालः प्रस्थानस्य परम् तप ॥२-५६-२॥ स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः । जहौ निद्राम् च तन्द्रीम् च प्रसक्तम् च पथि श्रमम् ॥२-५६-३॥ ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् । पन्थानम् ऋषिणा उद्दिष्टम् चित्र कूटस्य तम् ययुः ॥२-५६-४॥ ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह । सीताम् कमल पत्र अक्षीम् इदम् वचनम् अब्रवीत् ॥२-५६-५॥ आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् । स्वैः पुष्पैः किम्शुकान् पश्य मालिनः शिशिर अत्यये ॥२-५६-६॥ पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् । फल पत्रैः अवनतान् नूनम् शक्ष्यामि जीवितुम् ॥२-५६-७॥ पश्य द्रोण प्रमाणानि लम्बमानानि लक्ष्मण । मधूनि मधु कारीभिः सम्भृतानि नगे नगे ॥२-५६-८॥ एष क्रोशति नत्यूहः तम् शिखी प्रतिकूजति । रमणीये वन उद्देशे पुष्प सम्स्तर सम्कटे ॥२-५६-९॥ मातम्ग यूथ अनुसृतम् पक्षि सम्घ अनुनादितम् । चित्र कूटम् इमम् पश्य प्रवृद्ध शिखरम् गिरिम् ॥२-५६-१०॥ समभूमितले रम्ये द्रुमैर्बहुभिरावृते । पुण्ये रम्स्यामहे तात चित्रकूटस्य कानने ॥२-५६-११॥ ततः तौ पाद चारेण गच्चन्तौ सह सीतया । रम्यम् आसेदतुः शैलम् चित्र कूटम् मनो रमम् ॥२-५६-१२॥ तम् तु पर्वतम् आसाद्य नाना पक्षि गण आयुतम् । बहुमूलफलम् रम्यम् सम्पन्नम् सरसोदकम् ॥२-५६-१३॥ मनोज्Jनोऽयम् तिरिः सौम्य नानाद्रुमलतायतह् । बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥२-५६-१४॥ मनयश्च महात्मानो वसन्त्य शिलोच्चये । अयम् वासो भवेत् तावद् अत्र सौम्य रमेमहि ॥२-५६-१५॥ इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः । अभिगम्याश्रमम् सर्वे वाल्मीकि मभिवादयन् ॥२-५६-१६॥ तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् । आस्यतामिति चोवाच स्वागतम् तु निवेद्य च ॥२-५६-१७॥ ततोऽब्रवीन्महाबाहुर्लकमणम् लक्ष्मणाग्रजः । सम्निवेद्य यथान्याय मात्मानमृष्ये प्रभुः ॥२-५६-१८॥ लक्ष्मण आनय दारूणि दृढानि च वराणि च । कुरुष्व आवसथम् सौम्य वासे मे अभिरतम् मनः ॥२-५६-१९॥ तस्य तत् वचनम् श्रुत्वा सौमित्रिर् विविधान् द्रुमान् । आजहार ततः चक्रे पर्ण शालाम् अरिम् दम ॥२-५६-२०॥ ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् । शुश्रूषमाणम् एक अग्रम् इदम् वचनम् अब्रवीत् ॥२-५६-२१॥ ऐणेयम् माम्सम् आहृत्य शालाम् यक्ष्यामहे वयम् । कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः ॥२-५६-२२॥ मृगम् हत्वाऽऽनय क्षिप्रम् लक्ष्मणेह शुभेक्षणकर्तव्यः शास्त्रदृष्टो हि विधिर्दर्ममनुस्मर ॥२-५६-२३॥ भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा । चकार स यथोक्तम् च तम् रामः पुनरब्रवीत् ॥२-५६-२४॥ इणेयम् श्रपयस्वैतच्च्चालाम् यक्ष्यमहे वयम् । त्वरसौम्य मुहूर्तोऽयम् ध्रुवश्च दिवसोऽप्ययम् ॥२-५६-२५॥ स लक्ष्मणः कृष्ण मृगम् हत्वा मेध्यम् पतापवान् । अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि ॥२-५६-२६॥ तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न शोणितम् । लक्ष्मणः पुरुष व्याघ्रम् अथ राघवम् अब्रवीत् ॥२-५६-२७॥ अयम् कृष्णः समाप्त अन्गः शृतः कृष्ण मृगो यथा । देवता देव सम्काश यजस्व कुशलो हि असि ॥२-५६-२८॥ रामः स्नात्वा तु नियतः गुणवान् जप्य कोविदः । सम्ग्रहेणाकरोत्सर्वान् मन्त्रान् सत्रावसानिकान् ॥२-५६-२९॥ इष्ट्वा देवगणान् सर्वान् विवेशावसथम् शुचिः । बभूव च मनोह्लादो रामस्यामिततेजसः ॥२-५६-३०॥ वैश्वदेवबलिम् कृत्वा रौद्रम् वैष्णवमेव च । वास्तुसम्शमनीयानि मङ्गLआनि प्रवर्तयन् ॥२-५६-३१॥ जपम् च न्यायतः कृत्वा स्नात्वा नद्याम् यथाविधि । पाप सम्शमनम् रामः चकार बलिम् उत्तमम् ॥२-५६-३२॥ वेदिस्थलविधानानि चैत्यान्यायतनानि च । आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥२-५६-३३॥ वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्माम्सैर्यथाविधि । अद्भर्जपैश्च वेदोक्तै र्धर्भैश्च ससमित्कुशैः ॥२-५६-३४॥ तौ तर्पयित्वा भूतानि राघवौ सह सीतया । तदा विविशतुः शालाम् सुशुभाम् शुभलक्षणौ ॥२-५६-३५॥ ताम् वृक्ष पर्णच् चदनाम् मनोज्ञाम् । यथा प्रदेशम् सुकृताम् निवाताम् । वासाय सर्वे विविशुः समेताः । सभाम् यथा देव गणाः सुधर्माम् ॥२-५६-३६॥ अनेक नाना मृग पक्षि सम्कुले । विचित्र पुष्प स्तबलैः द्रुमैः युते । वन उत्तमे व्याल मृग अनुनादिते । तथा विजह्रुः सुसुखम् जित इन्द्रियाः ॥२-५६-३७॥ सुरम्यम् आसाद्य तु चित्र कूटम् । नदीम् च ताम् माल्यवतीम् सुतीर्थाम् । ननन्द हृष्टः मृग पक्षि जुष्टाम् । जहौ च दुह्खम् पुर विप्रवासात् ॥२-५६-३८॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२-५६॥पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।स्रोतः
[सम्पाद्यताम्]