रामायणम्/अयोध्याकाण्डम्/सर्गः ७८
दिखावट
(अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः ७७ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ७९ → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥ अत्र यात्राम् समीहन्तम् शत्रुघ्नः लक्ष्मण अनुजः । भरतम् शोक सम्तप्तम् इदम् वचनम् अब्रवीत् ॥२-७८-१॥ गतिर् यः सर्व भूतानाम् दुह्खे किम् पुनर् आत्मनः । स रामः सत्त्व सम्पन्नः स्त्रिया प्रव्राजितः वनम् ॥२-७८-२॥ बलवान् वीर्य सम्पन्नो लक्ष्मणो नाम यो अपि असौ । किम् न मोचयते रामम् कृत्वा अपि पितृ निग्रहम् ॥२-७८-३॥ पूर्वम् एव तु निग्राह्यः समवेक्ष्य नय अनयौ । उत्पथम् यः समारूढो नार्या राजा वशम् गतः ॥२-७८-४॥ इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मण अनुजे । प्राग् द्वारे अभूत् तदा कुब्जा सर्व आभरण भूषिता ॥२-७८-५॥ लिप्ता चन्दन सारेण राज वस्त्राणि बिभ्रती । विविधम् विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥२-७८-६॥ मेखला दामभिः चित्रै रज्जु बद्धा इव वानरी । बभासे बहुभिर्बद्धा रज्जुबद्देव वानरी ॥२-७८-७॥ ताम् समीक्ष्य तदा द्वाह्स्थो भृशम् पापस्य कारिणीम् । गृहीत्वा अकरुणम् कुब्जाम् शत्रुघ्नाय न्यवेदयत् ॥२-७८-८॥ यस्याः कृते वने रामः न्यस्त देहः च वः पिता । सा इयम् पापा नृशम्सा च तस्याः कुरु यथा मति ॥२-७८-९॥ शत्रुघ्नः च तत् आज्ञाय वचनम् भृश दुह्खितः । अन्तः पुर चरान् सर्वान् इति उवाच धृत व्रतः ॥२-७८-१०॥ तीव्रम् उत्पादितम् दुह्खम् भ्रातृऋणाम् मे तथा पितुः । यया सा इयम् नृशम्सस्य कर्मणः फलम् अश्नुताम् ॥२-७८-११॥ एवम् उक्ता च तेन आशु सखी जन समावृता । गृहीता बलवत् कुब्जा सा तत् गृहम् अनादयत् ॥२-७८-१२॥ ततः सुभृश सम्तप्तः तस्याः सर्वः सखी जनः । क्रुद्धम् आज्ञाय शत्रुघ्नम् व्यपलायत सर्वशः ॥२-७८-१३॥ अमन्त्रयत कृत्स्नः च तस्याः सर्व सखी जनः । यथा अयम् समुपक्रान्तः निह्शेषम् नः करिष्यति ॥२-७८-१४॥ सानुक्रोशाम् वदान्याम् च धर्मज्ञाम् च यशस्विनीम् । कौसल्याम् शरणम् यामः सा हि नो अस्तु ध्रुवा गतिः ॥२-७८-१५॥ स च रोषेण ताम्र अक्षः शत्रुघ्नः शत्रु तापनः । विचकर्ष तदा कुब्जाम् क्रोशन्तीम् पृथिवी तले ॥२-७८-१६॥ तस्या हि आकृष्यमाणाया मन्थरायाः ततः ततः । चित्रम् बहु विधम् भाण्डम् पृथिव्याम् तत् व्यशीर्यत ॥२-७८-१७॥ तेन भाण्डेन सम्कीर्णम् श्रीमद् राज निवेशनम् । अशोभत तदा भूयः शारदम् गगनम् यथा ॥२-७८-१८॥ स बली बलवत् क्रोधात् गृहीत्वा पुरुष ऋषभः । कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषम् वचः ॥२-७८-१९॥ तैः वाक्यैः परुषैः दुह्खैः कैकेयी भृश दुह्हिता । शत्रुघ्न भय सम्त्रस्ता पुत्रम् शरणम् आगता ॥२-७८-२०॥ ताम् प्रेक्ष्य भरतः क्रुद्धम् शत्रुघ्नम् इदम् अब्रवीत् । अवध्याः सर्व भूतानाम् प्रमदाः क्षम्यताम् इति ॥२-७८-२१॥ हन्याम् अहम् इमाम् पापाम् कैकेयीम् दुष्ट चारिणीम् । यदि माम् धार्मिको रामः न असूयेन् मातृ घातकम् ॥२-७८-२२॥ इमाम् अपि हताम् कुब्जाम् यदि जानाति राघवः । त्वाम् च माम् चैव धर्म आत्मा न अभिभाषिष्यते ध्रुवम् ॥२-७८-२३॥ भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मण अनुजः । न्यवर्तत ततः रोषात् ताम् मुमोच च मन्थराम् ॥२-७८-२४॥ सा पाद मूले कैकेय्या मन्थरा निपपात ह । निह्श्वसन्ती सुदुह्ख आर्ता कृपणम् विललाप च ॥२-७८-२५॥ शत्रुघ्न विक्षेप विमूढ सम्ज्ञाम् । समीक्ष्य कुब्जाम् भरतस्य माता । शनैः समाश्वासयद् आर्त रूपाम् । क्रौन्चीम् विलग्नाम् इव वीक्षमाणाम् ॥२-७८-२६॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।स्रोतः
[सम्पाद्यताम्]