अमरुशतकम्

विकिस्रोतः तः
Jump to navigation Jump to search

 This edition is based on the one in Kāvya-saṅgraha edited by Jīvānanda Vidyāsāgara. It has been compared with the Motilal Banarsidass edition (1983) containing the commentary of Arjunavarmadeva. The number in parentheses at the end of the last line of each verse is the number of the verse in the Motilal edition. There seems to be a great deal of variation in the order and numbering of the verses between the editions and the commentators. The order of the verses found in the Kāvya-saṅgraha forms the backbone of the order of the verses presented here, even though Arjunavarmadeva considers some of the verses found in that edition to be interpolations. Those suspect verses have been noted in the footnotes.

 The parentheses in between verses contain citations for the major anthologies. These have been taken from Sures Chandra Banerji's edition of Śrīdharadāsa's Sadukti-karṇāmṛta. The abbreviations for those anthologies are the following:

su. = subhāṣitaratnakoṣa,

sad. = saduktikarṇāmṛta,

subh. = subhāṣitāvalī,

sū. = sūktimuktāvalī,

pad. = padyāvalī,

śā. = śārṅgadharapaddhati

(These equivalences have been taken from the Banerji edition of Sad-ukti-karṇāmṛta and the De edition of Padyāvalī.)

Main Text
सु. = सुभाषितरत्नकोष
सद्. = सदुक्तिकर्णामृत
सुभ्. = सुभाषितावली
सू. = सूक्तिमुक्तावली
पद्. = पद्यावली
शा. = शार्ङ्गधरपद्धति


ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ-

प्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः ।

त्वां पातु मञ्जरितपल्लवकर्णपूर-

लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥१॥ (१)

 

(सु. १००, सद्. १२३)

 

क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंशुकान्तं

गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।

आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः

कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥२॥ (२)

 

(हरबाणः॑ सु. ४९, सद्. ७६)

 

आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं

किञ्चिन्मृष्टविशेषकं तनुतरैः खेदाम्भसां शीकरैः ।

तन्व्या यत्सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये

तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्दैवतैः ॥३॥ (३)

 

(विपरीतरतम्- सद्. ११४१, शा. ३७०२)

 

अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः

क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः ।

हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः

कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥४॥ (४)

 

(वासकसज्जा॑ सु. ५०८॑ सद्. ६५८)

 

दत्तोऽस्याः प्रणयस्त्वयैव भवता चेयं चिरं लालिता

दैवाद् अद्य किल त्वमेव कृतवान् अस्या नवं विप्रियम् ।

मन्युर्दुःसह एष यात्युपशमं नो सान्त्ववादैः स्फुटं

हे निस्त्रंश विमुक्तकण्ठकरुणं तावत्सखी रोदितु ॥५॥(६)

 

लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो

निराहाराः स्कह्यः सततरुदितोच्छूणनयनाः ।

परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्

तवावस्था चेयं विसृज कठिने मानमधुना ॥६॥ (७)

 

(सखीप्रबोधः॑ सद्. ७१३, रसार्णवसुधाकर २.२०६अ)

 

नार्यस्तन्वि हठाद्धरन्ति रमणं तिष्ठन्ति नो वारितास्

तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः ।

कान्तः केलिरुचिर्युवा सहृदयस्तादृक्पतिः कातरए

किं नो बर्करकर्करैः प्रियशतैराक्रम्य विक्रीयते ॥७॥(८)

 

  • मोतीलाल-बनार्सीदास-सम्पादने (१९८३)॒


नार्यो मुग्धशठा हरन्ति रमणं तिष्ठन्ति नो वारितास्

 

...

कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं

नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः ।

भूयोऽप्येवमिति स्खलन् मृदुगिरा संसूच्य दुश्चेष्टितं

धन्यो हन्यत एव निह्नुतिपरः प्रेयान् रुदत्या हसन् ॥८॥ (९)

 

(शठनायकः, सद्. ८८२, सू. ८५.३, सुभ्. १३५१)

 

प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेऽथवा

किमुत सकले जाते वाह्निप्रिय त्वमिहैष्यसि ।

इति दिनशतप्राप्यं देशं प्रियस्य यियासतो

हरति गमनं बालालापैः सबाष्पगलज्जलैः ॥९॥ (१२)

 

(प्रस्थानभङ्गः - सु. ५३२, सद्. ९२१, सुभ्. १०४८, शा. ३३८९, सू. ३७.७)

 

याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते

नो कार्या नितरां कृशामि कथयत्येवं सबाष्पे मयि ।

लज्जामन्थरतारकेण निपतद्धाराश्रुणा चक्षुषा

दृष्ट्वा मां हासितेन भाविमरणोत्साहस्तया सूचितः ॥१०॥(१०)

 

धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं

दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता ।

अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितं

ग्रामीणैर्व्रजतो जनस्य वसतिर्ग्रामे निषिद्धा यथा ॥११॥(१३)

 

(वर्षापथिकः, सद्. ९१५)

 

कथमपि सखि क्रीडाकोपाद् व्रजेति मयोदिते

कठिनहृदयस्त्यक्त्वा शय्यां बलाद् गत एव सः ।

इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणे जने

पुनरपि हतव्रीडं चेतः प्रयाति करोमि किम् ॥१२॥(१५)

 

दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वचस्

तत्प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं वधूः ।

कर्णालङ्कृतिपद्मरागशकलं विन्यस्य चञ्चूपुटे

व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥१३॥ (१६)

 

(शुकोक्तिव्रीडा, कुवल्. १७३, सु. ६२१, सद्. ११८०, सुभ्. २२१४, शा. ३७४३)

 

अज्ञानेन पराङ्मुखीं परिभवाद् आश्लिष्य मां दुःखितां

किं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दशाम् ।

पश्यैतद् दयिताकुचव्यतिकरोन् मृष्टाङ्गरागारुणं

वक्षस्ते मलतैलपङ्कशवलैर्वेणीपदैरङ्कितम् ॥१४॥(१७)

 

(खण्डिता)

 

एकत्रासनसंस्थितिः परिहता प्रतुद्गमाद् दूरतस्

ताम्बूलानयनच्छलेन रभसाशेल्षोऽपि संविघ्नितः ।

आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके

कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥१५॥ (१८)

 

(मानिनी, सद्. ६९२, रसार्णवसुधाकर २.६७ग्)

 

दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चाद् उपेत्यादराद्

एकस्या नयने पिद्याय विहितक्रीडानुबन्धच्छलः ।

ईषद्वक्रिमकन्धरः सपुलकः प्रेमोल्लसन्मानसाम्

अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥१६॥(१९)

 

(शठनायकः, सु. ६०३, सद्. ८८१)

 

चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे

निभृतकितवाचारेत्युक्त्वा रुषा पुरुषीकृते ।

व्रजति रमणे निःश्वस्योच्चैः स्तनस्थितहस्तया

नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता ॥१७॥(२०)

 

(मानिनायकः, सद्. ८९६)

 

काञ्च्या गाढतरावरुद्धवसनप्रान्ता किमर्थं पुनर्

मुग्धाक्षी स्वैप्तीति तत्परिजनं स्वैरं प्रिये पृच्छति ।

मातः स्वप्तुमपीह वारयति मामित्याहितक्रोधया

पर्यस्य स्वपितिच्छलेन शयने दत्तोऽवकाशस्तया ॥१८॥(२१)

 

(शयनाधिरोहनम्, सद्. १०९४, सुभ्. २०८१, सू. ७७.११)

 

एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर्

अन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।

दम्पत्योः शनकैरपाङ्गवलनान् मिश्रीभवच्चक्षुषोर्

भग्नो मानकलिः सहासरभसं व्यासक्तकण्ठग्रहम् ॥१९॥(२३)

 

(मानभङ्गः, सद्. ७२३)

 

पश्यामो मयि किं प्रपद्यत इति स्थैर्यं मयालम्बितं

किं मामालपतीत्ययं खल शठः कोपस्तयाप्याश्रितः ।

इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे

सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥२०॥(२४)

 

(उच्चावचं, कुवल्., १८५॑ सद्. १३६६)

 

परिम्लाने माने मुखशशिनि तस्याः करधृते

मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे ।

तया पक्ष्मप्रान्तव्रजपुटनिरुद्धेन सहसा

प्रसादो बाष्पेन स्तनतटविशीर्णेन कथितः ॥२१॥(२५)

 

(उच्चावचं, सद्. १३६७, सुभ्. १६०८, सू. ५८.१)

 

तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं

किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते ।

इत्युक्ते क्व तद् इत्युदीर्य सहसा तत्सम्प्रमार्ष्टुं मया

साश्लिष्टा रभसेन तत्सुखवशात्तन्व्यापि तद् विस्मृतम् ॥२२॥(२६)

 

त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं

लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकां संस्पृशि ।

शय्योपान्तनिविष्टसस्मितमुखीनेत्रोत्सवानन्दितो

निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥२३॥(२७)

भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते

कार्कश्यं गमितेऽपि चेतसि तनूरोमाञ्चमालम्बते ।

रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते

दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥२४॥(२८)

 

(अनुरक्तमानिनी, सु. ६९५, सद्. ७०२, सुभ्. १५८०॑ उण्. ५.२५)

 

कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ

स्वस्ति स्वस्ति निमीलयामि नयने यावन् न शून्या दिशः ।

आयाता वयमागमिष्यति सुहृद्वर्गस्य भाग्योदयैः

सन्देशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥२५॥

 

(यात्राक्षेपः, सद्.७३१ (वीरस्य))

 

सा पत्युः प्रथमापराधसमये सख्योपदेशं विना

नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।

स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला

बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥२६॥(२९)

 

(मुग्धा॑ सद्.४९८)

 

भवतु विदितं छद्मालापैरलं प्रिय गम्यतां

तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः ।

तव यथा तथाभूतं प्रेम प्रपन्नमिमां दशां

प्रकृतिचपले का नः पीडा गते हतजीविते ॥२७॥ (३०)

 

(मानिनीवाक्यम्॑ सद्. ७०८॑ पद्. २२३)

 

उरसि निहितस्तारो हारः कृता जघने घने

कलकलवती काञ्ची पादौ क्वणन्मणिनूपुरौ ।

प्रियमभिसरस्येवं मुग्धे समाहतडिण्डिमा

यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥२८॥(३१)

 

प्रातः प्रातरुपागतेन जनिता निर्निद्रिता चक्षुषोर्

मन्दायां मयि गौरवव्यपगमाद् उत्पादितं लाघवम् ।

किं मुग्धे न मया कृतं रमणधीर्मुक्ता त्वया गम्यतां

दुस्थं तिष्ठसि यच्च पथ्यमधुना कर्तास्मि तच्छ्रोष्यसि ॥२९॥(३३)

 

सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः

सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।

साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं

दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥३०॥(३४)

 

(अनुकूलनायकः, सु. ४८१, सद्. ८७२, सुभ्. १३४६, स्.क्. ३.४२)

प्रस्थानं वलयैः कृतं प्रियसखैरजस्रं गतं

धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।

गन्तुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता

गन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमु त्यज्यते ॥३१॥ (३५)

 

(प्रोषितभर्तृकावचनम्॑ सुभ्. ११५१॑ शा. ३४२४॑ सद्. ७४१॑ सू. ३७.१९)

 

सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती

मामामुञ्च शठेति कोपवचनैरानर्तितभ्रूलता ।

शीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी

प्राप्तं तैरमृतं मुधैव मथितो मूढैः सुरैः सागरः ॥३२॥(३६)

 

(चुम्बनम्, सद्. ११०५, सुभ्. १३०३, शा. ३६६८)

 

सुप्तोऽयं सखि सुप्यतामिति गताः सख्यस्ततोऽनन्तरं

प्रेमावासितया मया सरलया न्यस्तं मुखं तन्मुखे ।

ज्ञातेऽलीकनिमीलने नयनयोर्धूर्तस्य रोमाञ्चितो

लज्जासीन् मम तेन साप्यपहृता तत्कालयोग्यैः क्रमैः ॥३३॥(३७)

 

कोपो यत्र भ्रूकुटिरचना निग्रहो यत्र मौनं

यत्रान्योन्यस्मितमनुनयो यत्र दृष्टिः प्रसादः ।

तस्य प्रेम्णस्तद् इदमधुना वैषमं पश्य जातं

त्वं पादान्ते लुठसि नहि मे मन्युमोक्षः खलायाः ॥३४॥(३८)

 

(नायके मानिनी, सद्. ७०९)

 

सुतनु जहिहि कोपं पश्य पादानतं मां

न खलु तव कदाचित्कोप एवं विधोऽभूत् ।

इति निगदति नाथे तिर्यगामीलिताक्ष्या

नयनजलमनल्पं मुक्तमुक्तं न किञ्चित् ॥३५॥(३९)

 

(मानभङ्गः, सद्. ७२५)

 

गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा

सान्द्रस्नेहरसातिरेकविगलत्श्रीमन्नितम्बाम्बरा ।

मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी

सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥३६॥(४०)

 

पटालग्ने पत्यौ नमयति मुखं जातविनया

हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।

न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना

ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥३७॥(४१)

 

(नवोढा॑ सद्. ५१२, सुभ्. २०५६, शा. ३६७३॑ विष्णुदास् उ.ण्. ५.१९)

 

गते प्रेमाबन्धे प्रणयबहुमाने विगलिते

निवृत्ते सद्भावे जन इव जने गच्छति पुरः ।

तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसान्

न जाने को हेतुर्दलति शतधा यन् न हृदयम् ॥३८॥(४३)

 

(उच्चावचं, सु. ६९७, सद्. १३६८, सुभ्. ११४१, शा. ३५४५, सू. ८४.१, रसार्णवसुधाकर २.२६३च्)

 

चिरविरहिणोरुत्कण्ठार्तिश्लथीकृतगात्रयोर्

नवमिव जगज् जातं भूयश्चिराद् अभिनन्दतोः ।

कथमपि दिने दीर्घे याते निशामधिरूढयोः

प्रसरति कथा बह्वी यूनोर्यथा न तथा रतिः ॥३९॥(४४)

 

दीर्घा वन्दनमालिका विरचिता हृष्ट्यैव नेन्दीवरैः

पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः ।

दत्तः स्वेदमुचा पयोधरयुगे नार्घ्यो न कुम्भाम्भसा

स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥४०॥(४५)

 

कान्ते सागसि शायिते प्रियसखीवेशं विधायागते

भ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्सङ्गमाकाङ्क्षया ।

मुग्धे दुष्करमेतद् इत्यतितरामुक्त्वा सहासं बलाद्

आलिङ्ग्य छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥४१॥(४६)

 

आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादरात्

व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते ।

मय्यालापवति प्रतीपवचनं सख्या सहाभाषते

तस्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥४२॥(४७)

 

सा यावन्ति पदान्यलीकवचनैरालीजनैः शिक्षिता

तावन्त्येव कृतागसो द्रुततरं व्याहृत्य पत्युः पुरः ।

प्रारब्धा पुरतो यथा मनसिजस्याज्ञा तथा वर्तितुं

प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥४३॥(४८)

 

दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं

संश्लिष्यत्यरुणं गृहीतवसने किञ्चिन् नतभ्रूलतम् ।

मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं

चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥४४॥(४९)

 

अङ्गानामतितानवं कथमिदं कम्पश्च कस्मात्कुतो

मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति ।

तन्व्या सर्वमिदं स्वभावजमिति व्याहृत्य पक्ष्मान्तर

व्यापी बाष्पभरस्तया चलितया निःश्वस्य मुक्तोऽन्यतः ॥४५॥(५०)

 

पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः

प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः ।

स्फुटो रेखान्यासः कथमपि स तादृक् परिणतो

गता येन व्यक्तं पुनरवयवैः सैव तरुणी ॥४६॥(५१)*अस्य श्लोकस्य परार्धः॒

ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा

मनस्विन्या रूढप्रणयसहसोद्गद्गदगिरा ।

अहो चित्रं चित्रं स्फुटमिति निगद्याश्रुकलुषं

रुषा ब्रह्मास्त्रं मे शरसि निहितो वामचरणः ॥

(गोत्रस्खलितम्, सद्. ६८६)

 

कठिनहृदये मुञ्च भ्रान्तिं व्यलीककथाश्रितां

पिशुनवचनैर्दुखं नेतुं न युक्तमिमं जनम् ।

किमिदमथवा सत्यं मुग्धे त्वया हि विनिश्चितं

यद् अभिरुचितं तन् मे कृत्वा प्रिये सुखमास्यताम् ॥४७॥(५३)

 

मन्दं मुद्रितपांशवः परिपतज्झङ्कारझञ्झामरुद्

वेगध्वस्तकुटीरकान्तरगतच्छिद्रेषु लब्धान्तराः ।

कर्मव्यग्रकुटुम्बिनीकुचतटस्वेदच्छिदः प्रावृषः

प्रारम्भे निपतन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥४८॥*प्रक्षिप्तोऽयं श्लोक इति अर्जुनवर्मदेवपादाः।

पीतस्तुषारकिरणो मधुनैव सार्धम्

अन्तः प्रविश्य चषके प्रतिबिम्बवर्ती ।

मानान्धकारमपि मानवतीजनस्य

नूनं बिभेद यद् असौ प्रससाद सद्यः ॥४९॥*रुद्रमदेवकुमारस्य टीकायामप्येष श्लोको दृश्यते।

(मधुपानम्, सद्. १०८९, सुभ्. २०२२, शा. ३६४८)

 

नभसि जलदलक्ष्मीं सम्भृतां वीक्ष्य दिष्ट्या

प्रसरसि यदि कान्तेत्यर्धमुक्त्वा कथञ्चित् ।

मम पटमवलम्ब्य प्रोल्लिखन्ती धरित्रीं

तदनुकृतवती सा यत्र वाचो निवृत्ताः ॥५०॥*वेमभूपालस्य टीकायामप्येष श्लोको दृश्यते।

इयमसौ तरलायतलोचना

गुरुसमुन्नतपीनपयोधरा ।

पृथुनितम्बभरालसगामिनी

प्रियतमा मम जीवितहारिणी ॥५१॥*प्रक्षिप्तोऽयं श्लोक इति अर्जुनवर्मदेवमहाशयाः।

सालक्तकेन नवपल्लवकोमलेन

पादेन नूपुरवता मदनालसेन ।

यस्ताड्यते दयितया प्रणयाराधात्

सोऽङ्गीकृतो भगवता मकरध्वजेन ॥५२॥*वेमभूपालस्य टीकायामेष श्लोकः केवलं लभ्यते।

(अनुकूलनायकः, सद्. ८७३, सू. ८५.१)

 

बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं

खेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि ।

तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते

नन्वेतन् मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥५३॥(५७)

 

(मानिनी, सद्. ६९१, सुभ्. १६१४)

 

नीत्वोच्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान् परागान्

कौन्दान् आनन्दितालीन् अतितरसुरभीन् भूरिशो दिङ्मुखेषु ।

एते ते कुङ्कुमाक्तस्तनकलसभरास्फालनाद् उच्छलन्तः

पीत्वा शीत्कारिवक्त्रं शिशुहरिदृशां हैमना वान्ति वाताः ॥५४॥*रुद्रमदेवकुमारस्य टीकायामप्येष श्लोको दृश्यते।

श्रुत्वा तन्व्या निशीथे नवघनरसितं विश्लथाङ्कं पतित्वा

शय्यायां भूमिपृष्ठे करतलधृतया दुःखितालीजनेन ।

सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटाघातशीर्णाश्रुबिन्दु

स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थबध्वा ॥५५॥*रुद्रमदेवकुमारस्य टीकायामेष श्लोकः केवलं दृश्यते।

श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्

चुम्बत्यस्मिन् वदनविधुतिः किं कृता किं न दृष्टः ।

नोक्तः कस्माद् इति नववधूचेष्टितं चिन्तयन्ती

पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥५६॥(५८)

 

(उच्चावचः, सद्. १३६९, सुभ्. २१४३)

 

श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्गं समन्तात्

दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि ।

तस्मिन्नागत्य कण्ठग्रहणसरभसस्थायिनि प्राणनाथे

भग्ना मानस्य चिन्ता भवति मम प्नर्वज्रमय्याः कदा नु ॥५७॥(५९)

 

रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लुतो

व्यालोलालकवल्लरीं प्रचलयन् धुन्वन् नितम्बाम्बरम् ।

प्रातर्वाति मधौ प्रकामविकसद्राजीवराजीरजो

जालामोदमनोहरो रतिरसग्लानिं हरन्मारुतः ॥५८॥*रुद्रमदेवकुमारस्य टीकायामप्येष श्लोको वर्तते।

(प्राभातिकवातः॑ सद्. ४५९)

 

अङ्गं चन्दनपाण्डुपल्लवमृदुस्ताम्बूलताम्राधरो

धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने ।

अन्तःपुष्पसुगन्धिरार्द्रकवरी सर्वाङ्गलग्नाम्बरं

रोमाणां रमणीयतां विदधति ग्रीष्मापराह्वागमे ॥५९॥*रुद्रमदेवकुमारस्य टीकायामप्येष श्लोको दृश्यते।

वरमसौ दिवसो न पुनर्निशा

ननु निशैव वरं न पुनर्दिवा ।

उभयमेतद् उपैत्वथवा क्षयं

प्रियजनेन न यत्र समागमः ॥६०॥*रुद्रमदेवकुमारस्य टीकायामेष श्लोकः केवलं लभ्यते।

लोलैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियैर्

अन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् ।

पुण्याहं व्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य ते

यत्स्नेहोचितमीहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥६१॥(६१)

 

(यात्राक्षेपः, सद्. ७३५, स्.व्. १०६०, शा. ३३९५, सू. ३७.१२)

 

लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽपिता

नो वा पादतले तया निपतितं तिष्ठेति नोक्तं वचः ।

काले केवलमम्बुदातिमलिने गन्तुं प्रवृत्तः शठः

तन्व्या बाष्पजलौघकल्पितनदीपूरेण बद्धः प्रियः ॥६२॥(६२)

 

(प्रस्थानभङ्गः, सद्. ९२२, सुभ्. १०५७, शा. ३३८८, सू. ३७.५)

 

न जाने संमुखायाते प्रियाणि वदति प्रिये ।

सर्वाण्यङ्गानि मे यान्ति श्रोत्रतां किमु नेत्रताम् ॥६३॥(६४)

 

(नायिकाभिलाषः, सद्. ९६०)

 

विरहविषमः कामो वामस्तनुं कुरुते तनुं

दिवसगणनाद् अक्षश्चासौ व्यपेतघृणो यमः ।

त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे

किशलयमृदुर्जीवेद् एवं कथं प्रमदाजनः ॥६४॥(६७)

 

(मानिनायकः॑ सद्. ८९८, सुभ्. १६३३, शा. ३५७२)

 

पादासक्ते सुचिरमिह ते वामता कैव कान्ते

सन्मार्गस्थे प्रणयिनि जने कोपने कोऽपराधः ।

इत्थं तस्याः पर्जनकथा कोपवेगोपशान्तौ

बाष्पोद्भेदैस्तद् अनु सहसा न स्थितं न प्रयातम् ॥६५॥(६८)

 

पुराभूदस्माकं नियतमविभिन्ना तनुरियं

ततो नु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः ।

इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं

मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥६६॥(६९)

 

मुग्धे मुद्घतयैव नेतुमखिलः कालः किमारभ्यते

मानं धत्स्व धृतिं वधान ऋजुतां दूरे कुरु प्रेयसि ।

सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना

नीचेः शंस हृदि स्थितो ननु स मे प्राणेश्वरः श्रोष्यति ॥६७॥(७०)

 

पीतो यतः प्रभृति कामपिपासितेन

तस्या मयाधररसः प्रचुरः प्रियायाः ।

तृष्णा ततः प्रभृति मे द्विगुणत्वमेति

तावण्यमस्ति बहु तत्र किमपि चित्रम् ॥६८॥ *प्रक्षिप्तोऽयं श्लोक इति अर्जुनवर्मदेवमहाशयाः।

क्व प्रस्थितासि करभोरु घने निशीथे

प्राणाधिको वसति यत्र जनः प्रियो मे ।

एकाकिनी वद कथं न बिभेषि बाले

नन्वस्ति पुङ्खितशरो मदनः सहायः ॥६९॥(७१)

 

(सु. ८१६)

 

लीलात्तामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः

कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।

मुग्धा कुद्मलिताननेन दधतो वायुं स्थिता तस्य सा

भ्रान्त्या धूर्ततया च वेपथुमती तेनानिशं चुम्बिता ॥७०॥(७२)

 

स्फुटतु हृदयं कामं कामं करतु तनुं तनुं

न सखि चटुलप्रेम्णा कार्यं पुनर्दयितेन मे ।

इति सरभसं मानाटोपाद् उदीर्य वचस्तया

रमणपदवी सारङ्गाक्ष्या सशङ्कितमीक्षिता ॥७१॥ (७३)

 

(अनुरक्तमानिनी॑ सु. ६६६, सद्. ७०५, सू. ५५.१)

 

गाढाश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षादियं

शय्या सम्प्रति कोमलाङ्गि परुषेत्यारोप्य मां वक्षसि ।

गाढौष्ठग्रहपूर्वमाकुलतया पादाग्रसंदंशके-

नाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥७२॥(७४)

 

कथमपि कृतप्रत्याख्याने प्रिये स्खलितोत्तरे

विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतं ।

असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमं

विगलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥७३॥(७५)

 

आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया

विच्छिन्नेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।

दत्तैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणे

मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥७४॥(७६)

 

आयाते दयिते मनोरथशतैर्नीत्वा कथंचिद्दिनं

वैदग्ध्यापगमाज्जडे परिजने दीर्घां कथां कुर्वति ।

दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं

तन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥७५॥(७७)

 

आलम्ब्याङ्गणवाटिकापरिसरे चूतद्रुमे मञ्जरीं

सर्पत्सान्द्रपरागलम्पटरटद्भृङ्गाङ्गनाशोभिनीम् ।

मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुरत्-

कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥७६॥(७८)

 

यास्यामिति समुद्यतस्य गदितं विस्रब्धमाकर्णितं

गच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि ।

तच्छून्ये पुनरास्थितास्मि भवने प्राणास्त एते दृढाः

सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं रोदिमि ॥७७॥(७९)

 

शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैर्

निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ॥

विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्तलीं

लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥७८॥(८२)

 

लोलद्भ्रूलतया विपक्षदिगुपन्यासेऽवधूतं शिरस्

तद्वृत्तान्तनिरीक्षणे कृतनमस्कारो विलक्षः स्थितः ।

कोपात्ताम्रकपोलभित्तिनि मुखे दृष्ट्या गतः पादयोर्

उत्सृष्टो गुरुसन्निधावपि विधिर्द्वाभ्यां न कालोचितः ॥७९॥(८३)

 

जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितं

वक्त्रं स्वेदकणान्वित न सहसा यावच्छठेनामुना ।

दृष्टेनाव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मे

तत्केनात्र निरूप्यमाणनिपुणो मानः समाधीयताम् ॥८०॥(८४)

 

दृष्टः कातरनेत्रया चिर्तरं बद्धाञ्जलिं याचित्

पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः ।

इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठः

पूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥८१॥(८५)

 

कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः

शिरस्याज्ञा न्यस्ता प्रतिवचनवत्यानतिमति ।

न दृष्टेः शैथिल्यं मिलन इति चेतो दहति मे

निगूढान्तःकोपात्कठिणहृदये संवृतिरियम् ॥८२॥(१४)

 

एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धया

सद्यः कोपपराङ्मुखं शयितया चाटूनि कुर्वन्नपि ।

आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणात्

मा भूस्सुप्त इवैष मन्दवलितग्रीवं पुनर्वीक्षितः ॥८३॥(२२)

 

मलयमरुतां व्राता याता विकासितमल्लिका

परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि ।

घन घटयितुं निस्नेहं त्वां य एव निवर्तने

प्रभवति गवां किन्नश्छिन्नं स एव धनञ्जयः ॥८४॥(३२)

 

स्वं दृष्ट्वा करजक्षतं मधुमदक्षीवा विचार्येर्ष्यया

गच्छन्ती क्व नु गच्छसीति विधृता बाला पटान्ते मया ।

प्रत्यावृत्तमुखी सबाष्पनयना मां मुञ्च मुञ्चेति सा

कोपात्प्रस्फुरिताधरा यदवदत्तत्केन विस्मर्यते ॥८५॥(५५)

 

सालक्तकं शतदलाधिककान्तिरम्यं

रत्नौघधामनिकरारुणनूपुरं च ।

क्षिप्तं भृशं कुपितया तरलोत्पलाक्ष्या

सौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे ॥८६॥ *प्रक्षिप्तोऽयं श्लोक इति अर्जुनवर्मदेवमहाशयाः।

कपोले पत्राली करतलनिरोधेन मृदिता

निपीतो निःश्वासैरयममृतहृद्योऽधररसः ।

मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं

प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥८७॥ (८१)

 

(अनुनयः, सु. ६६४, सद्. ७२०, स्.क्.व्. ४८९, सुभ्. १६२७)

 

लाक्षालक्ष्मललाटपट्टमभितः केयूरमुद्रा गले

वक्त्रे कज्जलकालिमा नयनयोर्स्ताम्बूलरागो घनः ।

दृष्टा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो

लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥८८॥ (६०)

 

(अन्यरतिचिह्नदुःखिता॑ सद्. ५९४॑ शा. ३७४०, सुभ्. २२१५॑ सू. ८२.१७॑ पद्. २२२॑ दशरूपक २.६)

तप्ते महाविरहवह्निशिखावलीभिर्

आपाण्डुरस्तनतटे हृदये प्रियायाः ।

रथ्यालिवीक्षणनिवेशितलोलदृष्टेर्

नूनं छनच्छनिति बाष्पकणाः पतन्ति ॥८९॥(८६)

 

चिन्तामोहविनिश्चलेन मनसा मौनेन पादानतः

प्रत्याख्यानपराङ्मुखः प्रियतमो गन्तुं प्रवृत्तोऽधुना ।

सव्रीडैरलसैर्निरन्तरलुठद्बाष्पाकुलैर्लोचनैः

श्वासोत्कम्पकुचं निरीक्ष्य सुचिरं जीवाशया वारितः ॥९०॥(८७)

 

तन्वङ्ग्या गुरुसन्निधौ नयनजं यद् वारि संस्तम्भितं

तेनान्तर्गलितेन मन्मथशिखी सिक्तोऽनुषङ्गोद्भवः ।

मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता

श्वासामोदसमाकुलालिनिकरव्याजेन धूमावलिः ॥९१॥(९६)

 

भ्रूभेदो रचितः चिरं नयनयोरभ्यस्तमामीलनं

रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः ।

धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन् मया

बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवस्थिता ॥९२॥(९७)*रूपगोस्वामिपादस्य पद्यावल्याम् (२३१) एतस्य श्लोकस्यैष रूपः॒

भ्रूभङ्गो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं

रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः ।

धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन् मया

बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ॥

(अनुरक्तमानिनी, सु. ६४५, सद्. ७०३, पद्. २३१)

 

देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननैर्

यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि ।

उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशं

तामाशां पथिकस्तथापि किमपि ध्यायंश्चिरं वीक्षते ॥९३॥ (९९)

 

(प्रोषितः, सु. ७६५, सद्. ९०१, शा. ३४४५)

 

म्लानं पाण्डु कृशं वियोगविधुरं लम्बालकं सालसं

भूयस्तत्क्षणजातकान्ति रभसप्राप्ते मयि प्रोषिते ।

साटोपं रतिकेलिकालसरसं रम्यं किमप्यादराद्

यत्पीतं सुतनोर्मया वदनकं वक्तुं न तत्पार्यते ॥९४॥(८८)

 

सैवाहं प्रमदा नृणामधिगतावेतौ च तौ नूपुराव्

एषास्माकमवृत्तिरेव सहजव्रीडाधनः स्त्रीजनः ।

इत्थं लज्जितया स्मृतेरुपगमे मत्वा तनुं सम्भ्रमात्

पुम्भावः प्रथमं रतिव्यतिकरे मुक्तस्ततो वल्लभः ॥९५॥(८९)

 

करकिसलयं धूत्वा धूत्वा विमार्गति वाससी

क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति ।

स्थगयति मुहुः पत्युर्नेत्रे विहस्य समाकुला

सुरतविरता रम्या तन्वी मुहुर्मुहुरीक्षते ॥९६॥(९०)

 

सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना

प्रेयांसः प्रणमन्ति किं तव पुनर्दासो यथा वर्तते ।

आत्मद्रोहिणि दुर्जनैः प्रलपितं कर्णेऽनिशं मा कृथाश्

छिन्नस्नेहरसा भवन्ति पुरुषा दुःखानुवर्त्याः पुनः ॥९७॥(९१)

 

निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते

निद्रा नेति न दृश्यते प्रियमुखं रात्रिन्दिवं रुद्यते ।

अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः

सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥९८॥ (९२)

 

(पद्. २३७, सद्. ६७७॑ दशरूपक २.२६)

 

अद्यारभ्य यदि प्रिये पुनरहं मानस्य वाऽन्यस्य वा

गृह्णीयां शठदुर्नयेन मनसा नामापि संक्षेपतः ।

तत्तेनैव विना शशाङ्कधवलाः स्पष्टाट्टहासा निशा

एको वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥९९॥(९३)

 

इदं कृष्णं कृष्णं प्रियतम तनु श्वेतमथ किं

गमिष्यामो यामो भवतु गमनेनाथ भवतु ।

पुरा येनावं मे चिरमनुसृता चित्तपदवी

स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥१००॥(९४)

 

चरणपतनं सख्यालापा मनोहरचाटवः

कृशतरतनोर्गाढाश्लेषो हठात्परिचुम्बनम् ।

इति हि चपलो मानारम्भस्तथापि हि नोत्सहे

हृदयदयितः कान्तः कामं किमत्र करोम्यहम् ॥१०१॥(९५)

 

अहं तेनाहूता किमपि कथयामीति विजने

समीपे चासीना सरसहृदयत्वादवहिता ।

ततः कर्णोपान्ते किमपि वदताघ्राय वदनं

गृहीता धर्मिल्ले सखि स च मया गाढमधरे ॥१०२॥(९८)

 

चक्षुःप्रीतिप्रसक्ते मनसि परिचये चिन्त्यमानाभ्युपाये

रागे यातेऽतिभूमिं विकसति सुतरां गोचरे दूतिकायाः ।

आस्तां दूरेण तावत्सरभसदयितालिङ्गनानन्दलाभस्

तद्गेहोपान्तरथ्याभ्रमणमपि परां निर्वृतिं सन्तनोति ॥१०३॥(१००)

 

कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनाद्

वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।

एतावत्सखि वेद्मि साम्प्रतमहं तस्याङ्गसङ्गे पुनः

कोऽयं कास्मि रतं नु वा कथमिति स्वल्पापि मे न स्मृतिः ॥१०४॥(१०१)

 

प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा

पर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य ।

हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा

सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥१०५॥(१०२)

 

अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस्

त्वयाकाण्डे मानः किमिति सरले प्रेयसि कृतः ।

समाकृष्टा ह्येते विरहदहनोद्भासुरशिखाः

स्वहस्तेनाङ्गारास्तद् अलमधुनारण्यरुदितैः ॥११२ (?)॥ (८०)

 

(सुभ्. ११७०॑ सद्. २.४२.१, सू. ५६.९, सु. ६५९)

 

 

 

Vएर्सेस् fओउन्द् इन् आर्जुनवर्मदेवऽस् वेर्सिओन् नोत् fओउन्द् हेरे

 

अङ्गुल्यग्रनखेन बाष्पसलिलं विक्षिप्य विक्षिप्य किं

तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि ।

यस्यास्ते पिशुनोपदेशवचनैर्मानेऽतिभूमिं गते

निर्विण्णोऽनुनयं प्रति प्रियतमो मध्यस्थतामेष्यते ॥(५)

 

तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता पादयोस्

तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।

पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः

सख्यः किं करवाणि यान्ति शतधा यत्कञ्चुके सन्धयः ॥(११)

 

नापेतोऽनुनयेन यः प्रियसुहृद्वाक्यैर्न यः संहृतो

यो दीर्घं दिवसं विषह्य विषमं यत्नात्कथंचिद्धृतः ।

अन्योन्यस्य हृते मुखे निहितयोस्तिर्यक्कथंचिद्दृशोः

स द्वाभ्यामतिविस्मृतव्यतिकरो मानो विहस्योज्झितः ॥(४२)

 

रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा

पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया ।

आस्तां जीवितहारिणः प्रवसनालापस्य संकीर्तनं

मानस्यापि जलाञ्जलिः सरभसं लोकेन दत्तो यथा ॥(५४)

 

चपलहृदयए किं स्वातन्त्र्यात्तथा गृहमागतश्

चरणपतितः प्रेमार्द्रार्द्रः प्रियः समुपेक्षितः ।

तदिदमधुना यावज्जीवं निरस्तसुखोदया

रुदितशरणा दुर्जातानां सहस्व रुषां फलम् ॥(५६)

 

आस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने

तत्राप्यर्पयितुं दृशं सुरचितां शक्नोमि न व्रीडया ।

लोकोऽप्येष परोपहासचतुरः सूक्ष्मेङ्गितज्ञोऽप्यलं

मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥(६३)

 

अनल्पचिन्ताभरमोहनिश्चला विलोक्यमानैव करोति साध्वसम् ।

स्वभावशोभानतिमात्रभूषणा तनुस्तवेयं बत किं नु सुन्दरि ॥(६५)

इति प्रिये पृच्छति मानविह्वला कथंचिदन्तर्धृतबाष्पगद्गदम् ।

न किंचिदित्येव जगाद यद्वधूः कियन्न तेनैव तयास्य वर्णितम् ॥(६६)

 

 

 

amaruśatakam}

āmaruśatakam

amarukaviracitam}

āmarukaviracitam}}

 

 

 

Text

ābbreviations

 

This edition is based on the one in Kāvya-saṅgraha edited

by Jīvānanda Vidyāsāgara. īt has been compared with the

Motilal Banarsidass edition (1983) containing the commentary of

Arjunavarmadeva. The number in parentheses at the end of the last

line of each verse is the number of the verse in the Motilal edition.

There seems to be a great deal of variation in the order and numbering

of the verses between the editions and the commentators. The order of

the verses found in the Kāvya-saṅgraha forms the backbone

of the order of the verses presented here, even though Arjunavarmadeva

considers some of the verses found in that edition to be

interpolations. Those suspect verses have been noted in the footnotes.

 

The parentheses in between verses contain citations for the major

anthologies. These have been taken from Sures Chandra Banerji's

edition of Srīdharadāsa's Sadukti-karṇāmṛta. The abbreviations for those

anthologies are the following:

 

su. = subhāṣitaratnakoṣa,

sad. = saduktikarṇāmṛta,

subh. = subhāṣitāvalī,

sū. = sūktimuktāvalī,

pad. = padyāvalī,

śā. = śārṅgadharapaddhati

 

(These equivalences have been taken from the Banerji edition of Sadukti-karṇāmṛta and the De edition of Padyāvalī}.)

 

Main Text

 

 

 

सु. = सुभाषितरत्नकोष,

सद्. = सदुक्तिकर्णामृत,

सुभ्. = सुभाषितावली,

सू. = सूक्तिमुक्तावली,

पद्. = पद्यावली,

शा. = शार्ङ्गधरपद्धति

 

 

ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ-

प्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः ।

त्वां पातु मञ्जरितपल्लवकर्णपूर-

लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥१॥(१)

 

(सु. १००, सद्. १२३)

 

क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंशुकान्तं

गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।

आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः

कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥२॥(२)

 

(हरबाणः॑ सु. ४९, सद्. ७६)

 

आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं

किञ्चिन्मृष्टविशेषकं तनुतरैः खेदाम्भसां शीकरैः ।

तन्व्या यत्सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये

तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्दैवतैः ॥३॥(३)

 

(विपरीतरतम्- सद्. ११४१, शा. ३७०२)

 

अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः

क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः ।

हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः

कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥४॥(४)

 

(वासकसज्जा॑ सु. ५०८॑ सद्. ६५८)

 

दत्तोऽस्याः प्रणयस्त्वयैव भवता चेयं चिरं लालिता

दैवाद् अद्य किल त्वमेव कृतवान् अस्या नवं विप्रियम् ।

मन्युर्दुःसह एष यात्युपशमं नो सान्त्ववादैः स्फुटं

हे निस्त्रंश विमुक्तकण्ठकरुणं तावत्सखी रोदितु ॥५॥(६)

 

लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो

निराहाराः स्कह्यः सततरुदितोच्छूणनयनाः ।

परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्

तवावस्था चेयं विसृज कठिने मानमधुना ॥६॥(७)

 

(सखीप्रबोधः॑ सद्. ७१३, रसार्णवसुधाकर २.२०६अ)

 

नार्यस्तन्वि हठाद्धरन्ति रमणं तिष्ठन्ति नो वारितास्

तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः ।

कान्तः केलिरुचिर्युवा सहृदयस्तादृक्पतिः कातरए

किं नो बर्करकर्करैः प्रियशतैराक्रम्य विक्रीयते ॥७॥(८)

 

टीका: मोतीलाल-बनार्सीदास-सम्पादने (१९८३)॒

नार्यो मुग्धशठा हरन्ति रमणं तिष्ठन्ति नो वारितास्

 

कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं

नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः ।

भूयोऽप्येवमिति स्खलन् मृदुगिरा संसूच्य दुश्चेष्टितं

धन्यो हन्यत एव निह्नुतिपरः प्रेयान् रुदत्या हसन् ॥८॥(९)

 

(शठनायकः, सद्. ८८२, सू. ८५.३, सुभ्. १३५१)

 

प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेऽथवा

किमुत सकले जाते वाह्निप्रिय त्वमिहैष्यसि ।

इति दिनशतप्राप्यं देशं प्रियस्य यियासतो

हरति गमनं बालालापैः सबाष्पगलज्जलैः ॥९॥(१२)

 

(प्रस्थानभङ्गः - सु. ५३२, सद्. ९२१, सुभ्. १०४८, शा. ३३८९, सू. ३७.७)

 

याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते

नो कार्या नितरां कृशामि कथयत्येवं सबाष्पे मयि ।

लज्जामन्थरतारकेण निपतद्धाराश्रुणा चक्षुषा

दृष्ट्वा मां हासितेन भाविमरणोत्साहस्तया सूचितः ॥१०॥(१०)

 

धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं

दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता ।

अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितं

ग्रामीणैर्व्रजतो जनस्य वसतिर्ग्रामे निषिद्धा यथा ॥११॥(१३)

 

(वर्षापथिकः, सद्. ९१५)

 

कथमपि सखि क्रीडाकोपाद् व्रजेति मयोदिते

कठिनहृदयस्त्यक्त्वा शय्यां बलाद् गत एव सः ।

इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणे जने

पुनरपि हतव्रीडं चेतः प्रयाति करोमि किम् ॥१२॥(१५)

 

दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वचस्

तत्प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं वधूः ।

कर्णालङ्कृतिपद्मरागशकलं विन्यस्य चञ्चूपुटे

व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥१३॥(१६)

 

(शुकोक्तिव्रीडा, कुवल्. १७३, सु. ६२१, सद्. ११८०, सुभ्. २२१४, शा. ३७४३)

 

अज्ञानेन पराङ्मुखीं परिभवाद् आश्लिष्य मां दुःखितां

किं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दशाम् ।

पश्यैतद् दयिताकुचव्यतिकरोन् मृष्टाङ्गरागारुणं

वक्षस्ते मलतैलपङ्कशवलैर्वेणीपदैरङ्कितम् ॥१४॥(१७)

 

(खण्डिता)

 

एकत्रासनसंस्थितिः परिहता प्रतुद्गमाद् दूरतस्

ताम्बूलानयनच्छलेन रभसाशेल्षोऽपि संविघ्नितः ।

आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके

कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥१५॥ (१८)

 

(मानिनी, सद्. ६९२, रसार्णवसुधाकर २.६७ग्)

 

दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चाद् उपेत्यादराद्

एकस्या नयने पिद्याय विहितक्रीडानुबन्धच्छलः ।

ईषद्वक्रिमकन्धरः सपुलकः प्रेमोल्लसन्मानसाम्

अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥१६॥(१९)

 

(शठनायकः, सु. ६०३, सद्. ८८१)

 

चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे

निभृतकितवाचारेत्युक्त्वा रुषा पुरुषीकृते ।

व्रजति रमणे निःश्वस्योच्चैः स्तनस्थितहस्तया

नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता ॥१७॥(२०)

 

(मानिनायकः, सद्. ८९६)

 

काञ्च्या गाढतरावरुद्धवसनप्रान्ता किमर्थं पुनर्

मुग्धाक्षी स्वैप्तीति तत्परिजनं स्वैरं प्रिये पृच्छति ।

मातः स्वप्तुमपीह वारयति मामित्याहितक्रोधया

पर्यस्य स्वपितिच्छलेन शयने दत्तोऽवकाशस्तया ॥१८॥(२१)

 

(शयनाधिरोहनम्, सद्. १०९४, सुभ्. २०८१, सू. ७७.११)

 

एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर्

अन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।

दम्पत्योः शनकैरपाङ्गवलनान् मिश्रीभवच्चक्षुषोर्

भग्नो मानकलिः सहासरभसं व्यासक्तकण्ठग्रहम् ॥१९॥(२३)

 

(मानभङ्गः, सद्. ७२३)

 

पश्यामो मयि किं प्रपद्यत इति स्थैर्यं मयालम्बितं

किं मामालपतीत्ययं खल शठः कोपस्तयाप्याश्रितः ।

इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे

सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥२०॥(२४)

 

(उच्चावचं, कुवल्., १८५॑ सद्. १३६६)

 

परिम्लाने माने मुखशशिनि तस्याः करधृते

मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे ।

तया पक्ष्मप्रान्तव्रजपुटनिरुद्धेन सहसा

प्रसादो बाष्पेन स्तनतटविशीर्णेन कथितः ॥२१॥(२५)

 

(उच्चावचं, सद्. १३६७, सुभ्. १६०८, सू. ५८.१)

 

तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं

किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते ।

इत्युक्ते क्व तद् इत्युदीर्य सहसा तत्सम्प्रमार्ष्टुं मया

साश्लिष्टा रभसेन तत्सुखवशात्तन्व्यापि तद् विस्मृतम् ॥२२॥(२६)

 

त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं

लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकां संस्पृशि ।

शय्योपान्तनिविष्टसस्मितमुखीनेत्रोत्सवानन्दितो

निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥२३॥(२७)

 

भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते

कार्कश्यं गमितेऽपि चेतसि तनूरोमाञ्चमालम्बते ।

रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते

दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥२४॥(२८)

 

(अनुरक्तमानिनी, सु. ६९५, सद्. ७०२, सुभ्. १५८०॑ उण्. ५.२५)

कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ

स्वस्ति स्वस्ति निमीलयामि नयने यावन् न शून्या दिशः ।

आयाता वयमागमिष्यति सुहृद्वर्गस्य भाग्योदयैः

सन्देशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥२५॥

 

(यात्राक्षेपः, सद्.७३१ (वीरस्य))

 

सा पत्युः प्रथमापराधसमये सख्योपदेशं विना

नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।

स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला

बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥२६॥(२९)

 

(मुग्धा॑ सद्.४९८)

 

भवतु विदितं छद्मालापैरलं प्रिय गम्यतां

तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः ।

तव यथा तथाभूतं प्रेम प्रपन्नमिमां दशां

प्रकृतिचपले का नः पीडा गते हतजीविते ॥२७॥(३०)

 

(मानिनीवाक्यम्॑ सद्. ७०८॑ पद्. २२३)

 

उरसि निहितस्तारो हारः कृता जघने घने

कलकलवती काञ्ची पादौ क्वणन्मणिनूपुरौ ।

प्रियमभिसरस्येवं मुग्धे समाहतडिण्डिमा

यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥२८॥(३१)

 

प्रातः प्रातरुपागतेन जनिता निर्निद्रिता चक्षुषोर्

मन्दायां मयि गौरवव्यपगमाद् उत्पादितं लाघवम् ।

किं मुग्धे न मया कृतं रमणधीर्मुक्ता त्वया गम्यतां

दुस्थं तिष्ठसि यच्च पथ्यमधुना कर्तास्मि तच्छ्रोष्यसि ॥२९॥(३३)

 

सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः

सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।

साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं

दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥३०॥(३४)

 

(अनुकूलनायकः, सु. ४८१, सद्. ८७२, सुभ्. १३४६, स्.क्. ३.४२)

 

प्रस्थानं वलयैः कृतं प्रियसखैरजस्रं गतं

धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।

गन्तुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता

गन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमु त्यज्यते ॥३१॥(३५)

 

(प्रोषितभर्तृकावचनम्॑ सुभ्. ११५१॑ शा. ३४२४॑ सद्. ७४१॑ सू. ३७.१९)

 

सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती

मामामुञ्च शठेति कोपवचनैरानर्तितभ्रूलता ।

शीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी

प्राप्तं तैरमृतं मुधैव मथितो मूढैः सुरैः सागरः ॥३२॥(३६)

 

(चुम्बनम्, सद्. ११०५, सुभ्. १३०३, शा. ३६६८)

 

सुप्तोऽयं सखि सुप्यतामिति गताः सख्यस्ततोऽनन्तरं

प्रेमावासितया मया सरलया न्यस्तं मुखं तन्मुखे ।

ज्ञातेऽलीकनिमीलने नयनयोर्धूर्तस्य रोमाञ्चितो

लज्जासीन् मम तेन साप्यपहृता तत्कालयोग्यैः क्रमैः ॥३३॥(३७)

 

कोपो यत्र भ्रूकुटिरचना निग्रहो यत्र मौनं

यत्रान्योन्यस्मितमनुनयो यत्र दृष्टिः प्रसादः ।

तस्य प्रेम्णस्तद् इदमधुना वैषमं पश्य जातं

त्वं पादान्ते लुठसि नहि मे मन्युमोक्षः खलायाः ॥३४॥(३८)

 

(नायके मानिनी, सद्. ७०९)

 

सुतनु जहिहि कोपं पश्य पादानतं मां

न खलु तव कदाचित्कोप एवं विधोऽभूत् ।

इति निगदति नाथे तिर्यगामीलिताक्ष्या

नयनजलमनल्पं मुक्तमुक्तं न किञ्चित् ॥३५॥(३९)

 

(मानभङ्गः, सद्. ७२५)

 

गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा

सान्द्रस्नेहरसातिरेकविगलत्श्रीमन्नितम्बाम्बरा ।

मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी

सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥३६॥(४०)

 

पटालग्ने पत्यौ नमयति मुखं जातविनया

हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।

न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना

ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥३७॥(४१)

 

(नवोढा॑ सद्. ५१२, सुभ्. २०५६, शा. ३६७३॑ विष्णुदास् उ.ण्. ५.१९)

 

गते प्रेमाबन्धे प्रणयबहुमाने विगलिते

निवृत्ते सद्भावे जन इव जने गच्छति पुरः ।

तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसान्

न जाने को हेतुर्दलति शतधा यन् न हृदयम् ॥३८॥(४३)

 

(उच्चावचं, सु. ६९७, सद्. १३६८, सुभ्. ११४१, शा. ३५४५, सू. ८४.१, रसार्णवसुधाकर २.२६३च्)

 

चिरविरहिणोरुत्कण्ठार्तिश्लथीकृतगात्रयोर्

नवमिव जगज् जातं भूयश्चिराद् अभिनन्दतोः ।

कथमपि दिने दीर्घे याते निशामधिरूढयोः

प्रसरति कथा बह्वी यूनोर्यथा न तथा रतिः ॥३९॥(४४)

 

दीर्घा वन्दनमालिका विरचिता हृष्ट्यैव नेन्दीवरैः

पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः ।

दत्तः स्वेदमुचा पयोधरयुगे नार्घ्यो न कुम्भाम्भसा

स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥४०॥(४५)

 

कान्ते सागसि शायिते प्रियसखीवेशं विधायागते

भ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्सङ्गमाकाङ्क्षया ।

मुग्धे दुष्करमेतद् इत्यतितरामुक्त्वा सहासं बलाद्

आलिङ्ग्य छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥४१॥(४६)

 

आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादरात्

व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते ।

मय्यालापवति प्रतीपवचनं सख्या सहाभाषते

तस्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥४२॥(४७)

 

(ष्व्. १५९०, ष्प्द् ३५३७, ष्म्व् ५५.११)

 

सा यावन्ति पदान्यलीकवचनैरालीजनैः शिक्षिता

तावन्त्येव कृतागसो द्रुततरं व्याहृत्य पत्युः पुरः ।

प्रारब्धा पुरतो यथा मनसिजस्याज्ञा तथा वर्तितुं

प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥४३॥(४८)

 

दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं

संश्लिष्यत्यरुणं गृहीतवसने किञ्चिन् नतभ्रूलतम् ।

मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं

चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥४४॥(४९)

 

अङ्गानामतितानवं कथमिदं कम्पश्च कस्मात्कुतो

मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति ।

तन्व्या सर्वमिदं स्वभावजमिति व्याहृत्य पक्ष्मान्तर

व्यापी बाष्पभरस्तया चलितया निःश्वस्य मुक्तोऽन्यतः ॥४५॥(५०)

 

पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः

प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः ।

स्फुटो रेखान्यासः कथमपि स तादृक् परिणतो

गता येन व्यक्तं पुनरवयवैः सैव तरुणी ॥४६॥(५१)

 

टीका: अस्य श्लोकस्य परार्धः॒

ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा

मनस्विन्या रूढप्रणयसहसोद्गद्गदगिरा ।

अहो चित्रं चित्रं स्फुटमिति निगद्याश्रुकलुषं

रुषा ब्रह्मास्त्रं मे शरसि निहितो वामचरणः ॥

(गोत्रस्खलितम्, सद्. ६८६)

 

कठिनहृदये मुञ्च भ्रान्तिं व्यलीककथाश्रितां

पिशुनवचनैर्दुखं नेतुं न युक्तमिमं जनम् ।

किमिदमथवा सत्यं मुग्धे त्वया हि विनिश्चितं

यद् अभिरुचितं तन् मे कृत्वा प्रिये सुखमास्यताम् ॥४७॥(५३)

 

मन्दं मुद्रितपांशवः परिपतज्झङ्कारझञ्झामरुद्

वेगध्वस्तकुटीरकान्तरगतच्छिद्रेषु लब्धान्तराः ।

कर्मव्यग्रकुटुम्बिनीकुचतटस्वेदच्छिदः प्रावृषः

प्रारम्भे निपतन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥४८॥

 

टीका: प्रक्षिप्तोऽयं श्लोक इति अर्जुनवर्मदेवपादाः।

 

पीतस्तुषारकिरणो मधुनैव सार्धम्

अन्तः प्रविश्य चषके प्रतिबिम्बवर्ती ।

मानान्धकारमपि मानवतीजनस्य

नूनं बिभेद यद् असौ प्रससाद सद्यः ॥४९॥

 

टीका: रुद्रमदेवकुमारस्य टीकायामप्येष श्लोको दृश्यते।

(मधुपानम्, सद्. १०८९, सुभ्. २०२२, शा. ३६४८)

 

नभसि जलदलक्ष्मीं सम्भृतां वीक्ष्य दिष्ट्या

प्रसरसि यदि कान्तेत्यर्धमुक्त्वा कथञ्चित् ।

मम पटमवलम्ब्य प्रोल्लिखन्ती धरित्रीं

तदनुकृतवती सा यत्र वाचो निवृत्ताः ॥५०॥

 

टीका: वेमभूपालस्य टीकायामप्येष श्लोको दृश्यते।

 

इयमसौ तरलायतलोचना

गुरुसमुन्नतपीनपयोधरा ।

पृथुनितम्बभरालसगामिनी

प्रियतमा मम जीवितहारिणी ॥५१॥

 

टीका: प्रक्षिप्तोऽयं श्लोक इति अर्जुनवर्मदेवमहाशयाः।

 

सालक्तकेन नवपल्लवकोमलेन

पादेन नूपुरवता मदनालसेन ।

यस्ताड्यते दयितया प्रणयाराधात्

सोऽङ्गीकृतो भगवता मकरध्वजेन ॥५२॥

 

टीका: वेमभूपालस्य टीकायामेष श्लोकः केवलं लभ्यते।

(अनुकूलनायकः, सद्. ८७३, सू. ८५.१)

 

बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं

खेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि ।

तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते

नन्वेतन् मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥५३॥(५७)

 

(मानिनी, सद्. ६९१, सुभ्. १६१४)

 

नीत्वोच्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान् परागान्

कौन्दान् आनन्दितालीन् अतितरसुरभीन् भूरिशो दिङ्मुखेषु ।

एते ते कुङ्कुमाक्तस्तनकलसभरास्फालनाद् उच्छलन्तः

पीत्वा शीत्कारिवक्त्रं शिशुहरिदृशां हैमना वान्ति वाताः॥५४॥

 

टीका: रुद्रमदेवकुमारस्य टीकायामप्येष श्लोको दृश्यते।

 

श्रुत्वा तन्व्या निशीथे नवघनरसितं विश्लथाङ्कं पतित्वा

शय्यायां भूमिपृष्ठे करतलधृतया दुःखितालीजनेन ।

सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटाघातशीर्णाश्रुबिन्दु

स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थबध्वा ॥५५॥

 

टीका: रुद्रमदेवकुमारस्य टीकायामेष श्लोकः केवलं दृश्यते।

 

श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्

चुम्बत्यस्मिन् वदनविधुतिः किं कृता किं न दृष्टः ।

नोक्तः कस्माद् इति नववधूचेष्टितं चिन्तयन्ती

पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥५६॥(५८)

 

(उच्चावचः, सद्. १३६९, सुभ्. २१४३)

 

श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्गं समन्तात्

दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि ।

तस्मिन्नागत्य कण्ठग्रहणसरभसस्थायिनि प्राणनाथे

भग्ना मानस्य चिन्ता भवति मम प्नर्वज्रमय्याः कदा नु ॥५७॥(५९)

 

रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लुतो

व्यालोलालकवल्लरीं प्रचलयन् धुन्वन् नितम्बाम्बरम् ।

प्रातर्वाति मधौ प्रकामविकसद्राजीवराजीरजो

जालामोदमनोहरो रतिरसग्लानिं हरन्मारुतः ॥५८॥

 

टीका: रुद्रमदेवकुमारस्य टीकायामप्येष श्लोको वर्तते।

(प्राभातिकवातः॑ सद्. ४५९)

 

अङ्गं चन्दनपाण्डुपल्लवमृदुस्ताम्बूलताम्राधरो

धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने ।

अन्तःपुष्पसुगन्धिरार्द्रकवरी सर्वाङ्गलग्नाम्बरं

रोमाणां रमणीयतां विदधति ग्रीष्मापराह्वागमे ॥५९॥

 

टीका: रुद्रमदेवकुमारस्य टीकायामप्येष श्लोको दृश्यते।

 

वरमसौ दिवसो न पुनर्निशा

ननु निशैव वरं न पुनर्दिवा ।

उभयमेतद् उपैत्वथवा क्षयं

प्रियजनेन न यत्र समागमः ॥६०॥

 

टीका: रुद्रमदेवकुमारस्य टीकायामेष श्लोकः केवलं लभ्यते।

 

लोलैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियैर्

अन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् ।

पुण्याहं व्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य ते

यत्स्नेहोचितमीहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥६१॥(६१)

 

(यात्राक्षेपः, सद्. ७३५, स्.व्. १०६०, शा. ३३९५, सू. ३७.१२)

 

लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽपिता

नो वा पादतले तया निपतितं तिष्ठेति नोक्तं वचः ।

काले केवलमम्बुदातिमलिने गन्तुं प्रवृत्तः शठः

तन्व्या बाष्पजलौघकल्पितनदीपूरेण बद्धः प्रियः ॥६२॥(६२)

 

(प्रस्थानभङ्गः, सद्. ९२२, सुभ्. १०५७, शा. ३३८८, सू. ३७.५)

 

न जाने संमुखायाते प्रियाणि वदति प्रिये ।

सर्वाण्यङ्गानि मे यान्ति श्रोत्रतां किमु नेत्रताम् ॥६३॥(६४)

 

(नायिकाभिलाषः, सद्. ९६०)

 

विरहविषमः कामो वामस्तनुं कुरुते तनुं

दिवसगणनाद् अक्षश्चासौ व्यपेतघृणो यमः ।

त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे

किशलयमृदुर्जीवेद् एवं कथं प्रमदाजनः ॥६४॥(६७)

 

(मानिनायकः॑ सद्. ८९८, सुभ्. १६३३, शा. ३५७२)

 

पादासक्ते सुचिरमिह ते वामता कैव कान्ते

सन्मार्गस्थे प्रणयिनि जने कोपने कोऽपराधः ।

इत्थं तस्याः पर्जनकथा कोपवेगोपशान्तौ

बाष्पोद्भेदैस्तद् अनु सहसा न स्थितं न प्रयातम् ॥६५॥(६८)

 

पुराभूदस्माकं नियतमविभिन्ना तनुरियं

ततो नु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः ।

इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं

मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥६६॥(६९)

 

मुग्धे मुद्घतयैव नेतुमखिलः कालः किमारभ्यते

मानं धत्स्व धृतिं वधान ऋजुतां दूरे कुरु प्रेयसि ।

सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना

नीचेः शंस हृदि स्थितो ननु स मे प्राणेश्वरः श्रोष्यति ॥६७॥(७०)

 

पीतो यतः प्रभृति कामपिपासितेन

तस्या मयाधररसः प्रचुरः प्रियायाः ।

तृष्णा ततः प्रभृति मे द्विगुणत्वमेति

तावण्यमस्ति बहु तत्र किमपि चित्रम् ॥६८॥

 

टीका: प्रक्षिप्तोऽयं श्लोक इति अर्जुनवर्मदेवमहाशयाः।

 

क्व प्रस्थितासि करभोरु घने निशीथे

प्राणाधिको वसति यत्र जनः प्रियो मे ।

एकाकिनी वद कथं न बिभेषि बाले

नन्वस्ति पुङ्खितशरो मदनः सहायः ॥६९॥(७१)

 

(सु. ८१६)

 

लीलात्तामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः

कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।

मुग्धा कुद्मलिताननेन दधतो वायुं स्थिता तस्य सा

भ्रान्त्या धूर्ततया च वेपथुमती तेनानिशं चुम्बिता ॥७०॥(७२)

 

स्फुटतु हृदयं कामं कामं करतु तनुं तनुं

न सखि चटुलप्रेम्णा कार्यं पुनर्दयितेन मे ।

इति सरभसं मानाटोपाद् उदीर्य वचस्तया

रमणपदवी सारङ्गाक्ष्या सशङ्कितमीक्षिता ॥७१॥(७३)

 

(अनुरक्तमानिनी॑ सु. ६६६, सद्. ७०५, सू. ५५.१)

 

गाढाश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षादियं

शय्या सम्प्रति कोमलाङ्गि परुषेत्यारोप्य मां वक्षसि ।

गाढौष्ठग्रहपूर्वमाकुलतया पादाग्रसंदंशके-

नाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥७२॥(७४)

 

कथमपि कृतप्रत्याख्याने प्रिये स्खलितोत्तरे

विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतं ।

असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमं

विगलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥७३॥(७५)

 

आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया

विच्छिन्नेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।

दत्तैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणे

मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥७४॥(७६)

 

आयाते दयिते मनोरथशतैर्नीत्वा कथंचिद्दिनं

वैदग्ध्यापगमाज्जडे परिजने दीर्घां कथां कुर्वति ।

दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं

तन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥७५॥(७७)

 

आलम्ब्याङ्गणवाटिकापरिसरे चूतद्रुमे मञ्जरीं

सर्पत्सान्द्रपरागलम्पटरटद्भृङ्गाङ्गनाशोभिनीम् ।

मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुरत्-

कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥७६॥(७८)

 

यास्यामिति समुद्यतस्य गदितं विस्रब्धमाकर्णितं

गच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि ।

तच्छून्ये पुनरास्थितास्मि भवने प्राणास्त एते दृढाः

सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं रोदिमि ॥७७॥(७९)

 

शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैर्

निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ॥

विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्तलीं

लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥७८॥(८२)

 

लोलद्भ्रूलतया विपक्षदिगुपन्यासेऽवधूतं शिरस्

तद्वृत्तान्तनिरीक्षणे कृतनमस्कारो विलक्षः स्थितः ।

कोपात्ताम्रकपोलभित्तिनि मुखे दृष्ट्या गतः पादयोर्

उत्सृष्टो गुरुसन्निधावपि विधिर्द्वाभ्यां न कालोचितः ॥७९॥(८३)

 

जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितं

वक्त्रं स्वेदकणान्वित न सहसा यावच्छठेनामुना ।

दृष्टेनाव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मे

तत्केनात्र निरूप्यमाणनिपुणो मानः समाधीयताम् ॥८०॥(८४)

 

दृष्टः कातरनेत्रया चिर्तरं बद्धाञ्जलिं याचित्

पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः ।

इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठः

पूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥८१॥(८५)

(ष्क्म् ७२६, ष्प्द् ३३८६, ष्म्व् ३७.६)

 

कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः

शिरस्याज्ञा न्यस्ता प्रतिवचनवत्यानतिमति ।

न दृष्टेः शैथिल्यं मिलन इति चेतो दहति मे

निगूढान्तःकोपात्कठिणहृदये संवृतिरियम् ॥८२॥(१४)

 

एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धया

सद्यः कोपपराङ्मुखं शयितया चाटूनि कुर्वन्नपि ।

आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणात्

मा भूस्सुप्त इवैष मन्दवलितग्रीवं पुनर्वीक्षितः ॥८३॥(२२)

 

मलयमरुतां व्राता याता विकासितमल्लिका

परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि ।

घन घटयितुं निस्नेहं त्वां य एव निवर्तने

प्रभवति गवां किन्नश्छिन्नं स एव धनञ्जयः ॥८४॥(३२)

 

स्वं दृष्ट्वा करजक्षतं मधुमदक्षीवा विचार्येर्ष्यया

गच्छन्ती क्व नु गच्छसीति विधृता बाला पटान्ते मया ।

प्रत्यावृत्तमुखी सबाष्पनयना मां मुञ्च मुञ्चेति सा

कोपात्प्रस्फुरिताधरा यदवदत्तत्केन विस्मर्यते ॥८५॥(५५)

 

सालक्तकं शतदलाधिककान्तिरम्यं

रत्नौघधामनिकरारुणनूपुरं च ।

क्षिप्तं भृशं कुपितया तरलोत्पलाक्ष्या

सौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे ॥८६॥

 

टीका: प्रक्षिप्तोऽयं श्लोक इति अर्जुनवर्मदेवमहाशयाः।

 

कपोले पत्राली करतलनिरोधेन मृदिता

निपीतो निःश्वासैरयममृतहृद्योऽधररसः ।

मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं

प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥८७॥(८१)

 

(अनुनयः, सु. ६६४, सद्. ७२०, स्.क्.व्. ४८९, सुभ्. १६२७)

 

लाक्षालक्ष्मललाटपट्टमभितः केयूरमुद्रा गले

वक्त्रे कज्जलकालिमा नयनयोर्स्ताम्बूलरागो घनः ।

दृष्टा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो

लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥८८॥(६०)

(अन्यरतिचिह्नदुःखिता॑ सद्. ५९४॑ शा. ३७४०, सुभ्. २२१५॑ सू. ८२.१७॑ पद्. २२२॑ दशरूपक २.६)

 

तप्ते महाविरहवह्निशिखावलीभिर्

आपाण्डुरस्तनतटे हृदये प्रियायाः ।

रथ्यालिवीक्षणनिवेशितलोलदृष्टेर्

नूनं छनच्छनिति बाष्पकणाः पतन्ति ॥८९॥(८६)

 

चिन्तामोहविनिश्चलेन मनसा मौनेन पादानतः

प्रत्याख्यानपराङ्मुखः प्रियतमो गन्तुं प्रवृत्तोऽधुना ।

सव्रीडैरलसैर्निरन्तरलुठद्बाष्पाकुलैर्लोचनैः

श्वासोत्कम्पकुचं निरीक्ष्य सुचिरं जीवाशया वारितः ॥९०॥(८७)

 

तन्वङ्ग्या गुरुसन्निधौ नयनजं यद् वारि संस्तम्भितं

तेनान्तर्गलितेन मन्मथशिखी सिक्तोऽनुषङ्गोद्भवः ।

मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता

श्वासामोदसमाकुलालिनिकरव्याजेन धूमावलिः ॥९१॥(९६)

 

भ्रूभेदो रचितः चिरं नयनयोरभ्यस्तमामीलनं

रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः ।

धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन् मया

बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवस्थिता ॥९२॥(९७)

 

टीका: रूपगोस्वामिपादस्य पद्यावल्याम् (२३१) एतस्य श्लोकस्यैष रूपः॒

 

भ्रूभङ्गो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं

रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः ।

धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन् मया

बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ॥

 

(अनुरक्तमानिनी, सु. ६४५, सद्. ७०३, पद्. २३१)

 

देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननैर्

यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि ।

उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशं

तामाशां पथिकस्तथापि किमपि ध्यायंश्चिरं वीक्षते ॥९३॥(९९)

 

(प्रोषितः, सु. ७६५, सद्. ९०१, शा. ३४४५)

 

म्लानं पाण्डु कृशं वियोगविधुरं लम्बालकं सालसं

भूयस्तत्क्षणजातकान्ति रभसप्राप्ते मयि प्रोषिते ।

साटोपं रतिकेलिकालसरसं रम्यं किमप्यादराद्

यत्पीतं सुतनोर्मया वदनकं वक्तुं न तत्पार्यते ॥९४॥(८८)

 

सैवाहं प्रमदा नृणामधिगतावेतौ च तौ नूपुराव्

एषास्माकमवृत्तिरेव सहजव्रीडाधनः स्त्रीजनः ।

इत्थं लज्जितया स्मृतेरुपगमे मत्वा तनुं सम्भ्रमात्

पुम्भावः प्रथमं रतिव्यतिकरे मुक्तस्ततो वल्लभः ॥९५॥(८९)

 

करकिसलयं धूत्वा धूत्वा विमार्गति वाससी

क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति ।

स्थगयति मुहुः पत्युर्नेत्रे विहस्य समाकुला

सुरतविरता रम्या तन्वी मुहुर्मुहुरीक्षते ॥९६॥(९०)

 

सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना

प्रेयांसः प्रणमन्ति किं तव पुनर्दासो यथा वर्तते ।

आत्मद्रोहिणि दुर्जनैः प्रलपितं कर्णेऽनिशं मा कृथाश्

छिन्नस्नेहरसा भवन्ति पुरुषा दुःखानुवर्त्याः पुनः ॥९७॥(९१)

 

निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते

निद्रा नेति न दृश्यते प्रियमुखं रात्रिन्दिवं रुद्यते ।

अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः

सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥९८॥(९२)

 

(पद्. २३७, सद्. ६७७॑ दशरूपक २.२६)

 

अद्यारभ्य यदि प्रिये पुनरहं मानस्य वाऽन्यस्य वा

गृह्णीयां शठदुर्नयेन मनसा नामापि संक्षेपतः ।

तत्तेनैव विना शशाङ्कधवलाः स्पष्टाट्टहासा निशा

एको वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥९९॥(९३)

 

इदं कृष्णं कृष्णं प्रियतम तनु श्वेतमथ किं

गमिष्यामो यामो भवतु गमनेनाथ भवतु ।

पुरा येनावं मे चिरमनुसृता चित्तपदवी

स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥१००॥(९४)

 

चरणपतनं सख्यालापा मनोहरचाटवः

कृशतरतनोर्गाढाश्लेषो हठात्परिचुम्बनम् ।

इति हि चपलो मानारम्भस्तथापि हि नोत्सहे

हृदयदयितः कान्तः कामं किमत्र करोम्यहम् ॥१०१॥(९५)

 

अहं तेनाहूता किमपि कथयामीति विजने

समीपे चासीना सरसहृदयत्वादवहिता ।

ततः कर्णोपान्ते किमपि वदताघ्राय वदनं

गृहीता धर्मिल्ले सखि स च मया गाढमधरे ॥१०२॥(९८)

 

चक्षुःप्रीतिप्रसक्ते मनसि परिचये चिन्त्यमानाभ्युपाये

रागे यातेऽतिभूमिं विकसति सुतरां गोचरे दूतिकायाः ।

आस्तां दूरेण तावत्सरभसदयितालिङ्गनानन्दलाभस्

तद्गेहोपान्तरथ्याभ्रमणमपि परां निर्वृतिं सन्तनोति ॥१०३॥(१००)

 

कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनाद्

वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।

एतावत्सखि वेद्मि साम्प्रतमहं तस्याङ्गसङ्गे पुनः

कोऽयं कास्मि रतं नु वा कथमिति स्वल्पापि मे न स्मृतिः ॥१०४॥(१०१)

 

प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा

पर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य ।

हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा

सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥१०५॥(१०२)

 



 

Vएर्सेस् fओउन्द् इन् आर्जुनवर्मदेवऽस् वेर्सिओन् नोत् fओउन्द् हेरे

 

अङ्गुल्यग्रनखेन बाष्पसलिलं विक्षिप्य विक्षिप्य किं

तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि ।

यस्यास्ते पिशुनोपदेशवचनैर्मानेऽतिभूमिं गते

निर्विण्णोऽनुनयं प्रति प्रियतमो मध्यस्थतामेष्यते ॥(५)

 

तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता पादयोस्

तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।

पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः

सख्यः किं करवाणि यान्ति शतधा यत्कञ्चुके सन्धयः ॥(११)

 

नापेतोऽनुनयेन यः प्रियसुहृद्वाक्यैर्न यः संहृतो

यो दीर्घं दिवसं विषह्य विषमं यत्नात्कथंचिद्धृतः ।

अन्योन्यस्य हृते मुखे निहितयोस्तिर्यक्कथंचिद्दृशोः

स द्वाभ्यामतिविस्मृतव्यतिकरो मानो विहस्योज्झितः ॥(४२)

 

रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा

पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया ।

आस्तां जीवितहारिणः प्रवसनालापस्य संकीर्तनं

मानस्यापि जलाञ्जलिः सरभसं लोकेन दत्तो यथा ॥(५४)

 

चपलहृदयए किं स्वातन्त्र्यात्तथा गृहमागतश्

चरणपतितः प्रेमार्द्रार्द्रः प्रियः समुपेक्षितः ।

तदिदमधुना यावज्जीवं निरस्तसुखोदया

रुदितशरणा दुर्जातानां सहस्व रुषां फलम् ॥(५६)

 

आस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने

तत्राप्यर्पयितुं दृशं सुरचितां शक्नोमि न व्रीडया ।

लोकोऽप्येष परोपहासचतुरः सूक्ष्मेङ्गितज्ञोऽप्यलं

मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥(६३)

 

अनल्पचिन्ताभरमोहनिश्चला विलोक्यमानैव करोति साध्वसम् ।

स्वभावशोभानतिमात्रभूषणा तनुस्तवेयं बत किं नु सुन्दरि ॥(६५)

इति प्रिये पृच्छति मानविह्वला कथंचिदन्तर्धृतबाष्पगद्गदम् ।

न किंचिदित्येव जगाद यद्वधूः कियन्न तेनैव तयास्य वर्णितम् ॥(६६)

 

अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस्

त्वयाकाण्डे मानः किमिति सरले प्रेयसि कृतः ।

समाकृष्टा ह्येते विरहदहनोद्भासुरशिखाः

स्वहस्तेनाङ्गारास्तद् अलमधुनारण्यरुदितैः ॥११२(?)॥(८०)

 

(सुभ्. ११७०॑ सद्. २.४२.१, सू. ५६.९, सु. ६५९)

वाह्य सूत्र[सम्पाद्यताम्]

anmol

"https://sa.wikisource.org/w/index.php?title=अमरुशतकम्&oldid=169133" इत्यस्माद् पुनः प्राप्तिः