सामग्री पर जाएँ

अमरकोशः/तृतीयकाण्डम्

विकिस्रोतः तः
← द्वितीयकाण्डम् अमरकोशः
तृतीयकाण्डम्
अमरसिंहः

 विशेष्यनिघ्नवर्गः

 विशेष्य निघ्नैः संकीर्णैर्नानार्थैरव्ययैरपि ॥ ३.०.१ ॥

 लिङ्गादिसंग्रहैर्वर्गाः सामान्ये वर्गसंश्रयाः ॥ ३.०.२ ॥

 ॥ परिभाषा । ॥

 स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः ॥ ३.०.३ ॥

गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥ ३.०.४ ॥


विशेष्यनिघ्नवर्गः ॥ ३.१.५ ॥

 क्षेमङ्करोऽरिष्टतातिश्शिवतातिश्शिवङ्करः ॥ ३.१.६ ॥

 सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः ॥ ३.१.७ ॥

 हृदयालुः सुहृदयो महोत्साहो महोद्यमः ॥ ३.१.८ ॥

 प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः ॥ ३.१.९ ॥

 वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ३.१.१० ॥

 पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः ॥ ३.१.११ ॥

 दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि ॥ ३.१.१२ ॥

 स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे ॥ ३.१.१३ ॥

 जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥ ३.१.१४ ॥

 परीक्षकः कारणिको वरदस्तु समर्द्धकः ॥ ३.१.१५ ॥

 हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ॥ ३.१.१६ ॥

 दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः ॥ ३.१.१७ ॥

 दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि ॥ ३.१.१८ ॥

 तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः ॥ ३.१.१९ ॥

 प्रतीते प्रथितख्यातवित्त विज्ञातविश्रुताः ॥ ३.१.२० ॥

 गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ ॥ ३.१.२१ ॥

 इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता ॥ ३.१.२२ ॥

 अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः ॥ ३.१.२३ ॥

 अधिकर्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः ॥ ३.१.२४ ॥

 स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् ॥ ३.१.२५ ॥

 वराङ्गरूपोपेतो यस्सिंहसंहननो हि सः ॥ ३.१.२६ ॥

 निर्वार्यः कार्यकर्ता यः संपन्नः सत्वसंपदा ॥ ३.१.२७ ॥

 अवाचि मूकोऽथ मनोजवसः पितृसंनिभः ॥ ३.१.२८ ॥

 सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः ॥ ३.१.२९ ॥

 लक्ष्मीवान्लक्ष्मणः श्रीलः श्रीमान्स्निग्धस्तु वत्सलः ॥ ३.१.३० ॥

 स्याद्दयालुः कारुणिकः कृपालुः सूरतस्समाः ॥ ३.१.३१ ॥

 स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः ॥ ३.१.३२ ॥

 परतन्त्रः पराधीनः परवान्नाथवानपि ॥ ३.१.३३ ॥

 अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ ॥ ३.१.३४ ॥

 खलपूः स्याद्बहुकरो दीर्घसूत्रश्चिरक्रियः ॥ ३.१.३५ ॥

 जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः ॥ ३.१.३६ ॥

 कर्मक्षमोऽलङ्कर्माणः क्रियावान्कर्मसूद्यतः ॥ ३.१.३७ ॥

 स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः ॥ ३.१.३८ ॥

 भरण्यभुक्कर्मकरः कर्मकारस्तु तत्क्रियः ॥ ३.१.३९ ॥

 अपस्नातो मृतस्नात आमिषशी तु शौष्कुलः ॥ ३.१.४० ॥

 बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः ॥ ३.१.४१ ॥

 परान्नः परपिण्डादो भक्षको घस्मरोऽद्भरः ॥ ३.१.४२ ॥

 आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते ॥ ३.१.४३ ॥

 उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके ॥ ३.१.४४ ॥

 सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः ॥ ३.१.४५ ॥

 लुब्धोऽभिलापुकस्तृष्णक्समौ लोलुपलोलुभौ ॥ ३.१.४६ ॥

 सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः ॥ ३.१.४७ ॥

 मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः ॥ ३.१.४८ ॥

 कम्रः कामयिताभीकः कमनः कामनोऽभिकः ॥ ३.१.४९ ॥

 विधेयो विनयग्राही वचनेस्थित आश्रवः ॥ ३.१.५० ॥

 वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः ॥ ३.१.५१ ॥

 धृष्टे धृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते ॥ ३.१.५२ ॥

 स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते ॥ ३.१.५३ ॥

 अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः ॥ ३.१.५४ ॥

 आशंसुराशंसितरि गृहयालुर्ग्रहीतरि ॥ ३.१.५५ ॥

 श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके ॥ ३.१.५६ ॥

 लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके ॥ ३.१.५७ ॥

 शरारुर्घातुको हिंस्रः स्याद्वर्द्धिष्णुस्तु वर्द्धनः ॥ ३.१.५८ ॥

 उत्पतिष्णुस्तूत्पतितालङ्करिष्णुस्तु मण्डनः ॥ ३.१.५९ ॥

 भूष्णुर्श्वविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ ॥ ३.१.६० ॥

 निराकरिष्णुः क्षिप्नुः स्यात्सान्द्रस्निग्धस्तु मेदुरः ॥ ३.१.६१ ॥

 ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः ॥ ३.१.६२ ॥

 विसृत्वरो विसृमरः प्रसारी च विसारिणि ॥ ३.१.६३ ॥

 सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी ॥ ३.१.६४ ॥

 क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः ॥ ३.१.६५ ॥

 जागरूको जागरिता घूर्णितः प्रचलायितः ॥ ३.१.६६ ॥

 स्वप्नक्शयालुर्निद्रालुर्निद्राणशयितौ समौ ॥ ३.१.६७ ॥

 पराङ्मुखः पराचीनः स्यादवाङ्प्यधोमुखः ॥ ३.१.६८ ॥

 देवानञ्चति देवद्र्यङ्विश्वद्र्यङ्विश्वगञ्चति ॥ ३.१.६९ ॥

 यस्सहाञ्चति सध्र्यङ्स स तिर्यङ्यस्तिरोऽञ्चति ॥ ३.१.७० ॥

 वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ ॥ ३.१.७१ ॥

 वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि ॥ ३.१.७२ ॥

 स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् ॥ ३.१.७३ ॥

 दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियम्वदे ॥ ३.१.७४ ॥

 लोहलः स्यादस्फुटवाग्गर्ह्यवादी तु कद्वदः ॥ ३.१.७५ ॥

 समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः ॥ ३.१.७६ ॥

 रवणः शब्दनो नान्दीवादी नान्दीकरः समौ ॥ ३.१.७७ ॥

 जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते ॥ ३.१.७८ ॥

 तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे ॥ ३.१.७९ ॥

 निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः ॥ ३.१.८० ॥

 आत्तगर्वोऽभिभूतः स्याद्दापितः साधितः समौ ॥ ३.१.८१ ॥

 प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः ॥ ३.१.८२ ॥

 निकृतः स्याद्विप्रकृतो विप्रलब्धस्तु वञ्चितः ॥ ३.१.८३ ॥

 मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ ३.१.८४ ॥

 अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ ॥ ३.१.८५ ॥

 आपन्न आपत्प्राप्तः स्यात्कान्दिशीको भयद्रुतः ॥ ३.१.८६ ॥

 आक्षारितः क्षारितोऽभिशस्ते संकसुकोऽस्थिरे ॥ ३.१.८७ ॥

 व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ ॥ ३.१.८८ ॥

 विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः ॥ ३.१.८९ ॥

 कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते ॥ ३.१.९० ॥

 द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ ॥ ३.१.९१ ॥

 विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः ॥ ३.१.९२ ॥

 शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ ॥ ३.१.९३ ॥

 दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः ॥ ३.१.९४ ॥

 कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः ॥ ३.१.९५ ॥

 नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः ॥ ३.१.९६ ॥

 अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः ॥ ३.१.९७ ॥

 कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः ॥ ३.१.९८ ॥

 निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः ॥ ३.१.९९ ॥

 वनीयको याचनको मार्गणो याचकार्थिनौ ॥ ३.१.१०० ॥

 अहङ्कारवानहंयुः शुभंयुस्तु शुभान्वितः ॥ ३.१.१०१ ॥

 दिव्योपपादुका देवा नृगवाद्या जरायुजाः ॥ ३.१.१०२ ॥

 स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः । ॥ ३.१.१०३ ॥

 ॥ इति प्राणिवर्गः अत्र मूलश्लोकाः ५० । । ॥

 उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् ॥ ३.१.१०४ ॥

 सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् ॥ ३.१.१०५ ॥

 कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ ३.१.१०६ ॥

 रम्यं मनोहरं सौम्यं भद्रकं रमणीयकम् ॥ ३.१.१०७ ॥

 तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् ॥ ३.१.१०८ ॥

 अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ३.१.१०९ ॥

 निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः ॥ ३.१.११० ॥

 कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः ॥ ३.१.१११ ॥

 मलीमसं तु मलिनं कच्चरं मलदूषितम् ॥ ३.१.११२ ॥

 पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम् ॥ ३.१.११३ ॥

 निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् ॥ ३.१.११४ ॥

 असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके ॥ ३.१.११५ ॥

 क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः ॥ ३.१.११६ ॥

 मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत् ॥ ३.१.११७ ॥

 परार्ध्याग्रप्राग्रहरप्राग्रयाग्रयाग्रीयमग्रियम् ॥ ३.१.११८ ॥

 श्रेयान्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने ॥ ३.१.११९ ॥

 स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ॥ ३.१.१२० ॥

 सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥ ३.१.१२१ ॥

 अप्राग्रयं द्वयहीने द्वे अप्रधानोपसर्जने ॥ ३.१.१२२ ॥

 विशंकटं पृथु बृहद्विशालं पृथुलं महत् ॥ ३.१.१२३ ॥

 वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे ॥ ३.१.१२४ ॥

 स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु ॥ ३.१.१२५ ॥

 स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः ॥ ३.१.१२६ ॥

 अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि ॥ ३.१.१२७ ॥

 प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु ॥ ३.१.१२८ ॥

 पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च ॥ ३.१.१२९ ॥

 परः शताद्यास्ते येषां परा संख्या शतादिकात् ॥ ३.१.१३० ॥

 गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम् ॥ ३.१.१३१ ॥

 विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम् ॥ ३.१.१३२ ॥

 समग्रं सकलं पूर्णमखण्डं स्यादनूनके ॥ ३.१.१३३ ॥

 घनं निरन्तरं सान्द्रं पेलवं विरलं तनु ॥ ३.१.१३४ ॥

 समीपे निकटासन्नसंनिकृष्टसनीडवत् ॥ ३.१.१३५ ॥

 सदेशाभ्याशसविधसमर्यादसवेशवत् ॥ ३.१.१३६ ॥

 उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ॥ ३.१.१३७ ॥

 संसक्ते त्वव्यवहितमपदान्तरमित्यपि ॥ ३.१.१३८ ॥

 नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम् ॥ ३.१.१३९ ॥

 दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम् ॥ ३.१.१४० ॥

 वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम् ॥ ३.१.१४१ ॥

 उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने ॥ ३.१.१४२ ॥

 न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानतम् ॥ ३.१.१४३ ॥

 अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् ॥ ३.१.१४४ ॥

 आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ॥ ३.१.१४५ ॥

 ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ ॥ ३.१.१४६ ॥

 शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः ॥ ३.१.१४७ ॥

 स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः ॥ ३.१.१४८ ॥

 कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः ॥ ३.१.१४९ ॥

 चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम् ॥ ३.१.१५० ॥

 चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम् ॥ ३.१.१५१ ॥

 चञ्चलं तरलं चैव पारिप्लवपरिप्लवे ॥ ३.१.१५२ ॥

 अतिरिक्तः समधिको धृढसन्धिस्तु संहतः ॥ ३.१.१५३ ॥

 खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं धृढम् ॥ ३.१.१५४ ॥

 जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम् ॥ ३.१.१५५ ॥

 पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः ॥ ३.१.१५६ ॥

 प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ॥ ३.१.१५७ ॥

 नूत्नश्च सुकुमारं तु कोमलं मृदुलं मृदु ॥ ३.१.१५८ ॥

 अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ॥ ३.१.१५९ ॥

 प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम् ॥ ३.१.१६० ॥

 एकतानोऽनन्यवृत्तिरैकाग्रैकायनावपि ॥ ३.१.१६१ ॥

 अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः ॥ ३.१.१६२ ॥

 पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् ॥ ३.१.१६३ ॥

 अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः ॥ ३.१.१६४ ॥

 मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् ॥ ३.१.१६५ ॥

 साधारणं तु सामान्यमेकाकी त्वेक एककः ॥ ३.१.१६६ ॥

 भिन्नार्थका अन्यतर एकं त्वोऽन्येतरावपि ॥ ३.१.१६७ ॥

 उच्चावचं नैकभेदमुच्चण्डमविलम्बितम् ॥ ३.१.१६८ ॥

 अरुन्तुदस्तु मर्मस्पृगबाधं तु निरर्गलम् ॥ ३.१.१६९ ॥

 प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च ॥ ३.१.१७० ॥

 वामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणम् ॥ ३.१.१७१ ॥

 सङ्कटं ना तु संबाधः कलिलं गहनं समे ॥ ३.१.१७२ ॥

 संकीर्णे संकुलाकीर्णे मुण्डितं परिवापितम् ॥ ३.१.१७३ ॥

 ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम् ॥ ३.१.१७४ ॥

 अन्तर्गतं विस्मृतं स्यात्प्रऽप्तप्रणिहिते समे ॥ ३.१.१७५ ॥

 वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते ॥ ३.१.१७६ ॥

 नुत्तनुन्नास्तनिष्ठयूताविद्धक्षिप्तेरिताः समाः ॥ ३.१.१७७ ॥

 परिक्षिप्तं तु निवृत्तं मूषितं मुषितार्थकम् ॥ ३.१.१७८ ॥

 प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते ॥ ३.१.१७९ ॥

 निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते ॥ ३.१.१८० ॥

 द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते ॥ ३.१.१८१ ॥

 घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे ॥ ३.१.१८२ ॥

 वेष्टितम् स्याद्वलयितं संवीतं रुद्धमावृतम् ॥ ३.१.१८३ ॥

 रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानितेजिते ॥ ३.१.१८४ ॥

 स्याद्विनाशोन्मुखं पक्वम् ह्रीणह्रीतौ तु लज्जिते ॥ ३.१.१८५ ॥

 वृत्ते तु वृतव्यावृत्तौ संयोजित उपाहितः ॥ ३.१.१८६ ॥

 प्राप्यं गम्यं समासाद्यम् स्यन्नं रीणं स्नुतं स्रुतम् ॥ ३.१.१८७ ॥

 संगूढः स्यात्संकलितोऽवगीतः ख्यातगर्हणः ॥ ३.१.१८८ ॥

 विविधः स्याद्बहुविधो नानारूपः पृथग्विधः ॥ ३.१.१८९ ॥

 अवरीणो धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः ॥ ३.१.१९० ॥

 अनायासकृतं फाण्टं स्वनितं ध्वनितं समे ॥ ३.१.१९१ ॥

 बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम् ॥ ३.१.१९२ ॥

 निष्पक्वे क्वथितं पाके क्षीराज्य हविषां शृतम् ॥ ३.१.१९३ ॥

 निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले ॥ ३.१.१९४ ॥

 पक्वं परिणते गूनं हन्ने मीढं तु मूत्रिते ॥ ३.१.१९५ ॥

 पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते ॥ ३.१.१९६ ॥

 दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः ॥ ३.१.१९७ ॥

 ज्ञप्तस्तु ङ्यपिते छन्नश्छादिते पूजितेऽञ्चितः ॥ ३.१.१९८ ॥

 पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः ॥ ३.१.१९९ ॥

 प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते ॥ ३.१.२०० ॥

 वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते ॥ ३.१.२०१ ॥

 निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ ॥ ३.१.२०२ ॥

 सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ ॥ ३.१.२०३ ॥

 ऊतं स्यूतमुतं चेति त्रितयं तन्तु सन्तते ॥ ३.१.२०४ ॥

 स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम् ॥ ३.१.२०५ ॥

 वरिवसिते वरिवस्यितमुपासितं चोपचरितं च ॥ ३.१.२०६ ॥

 संतापितसंतप्तौ धूपित धूपायितौ च दूनश्च ॥ ३.१.२०७ ॥

 हृष्टो मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः ॥ ३.१.२०८ ॥

 छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम् ॥ ३.१.२०९ ॥

 स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् ॥ ३.१.२१० ॥

 लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च ॥ ३.१.२११ ॥

 अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् ॥ ३.१.२१२ ॥

 आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च ॥ ३.१.२१३ ॥

 त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च ॥ ३.१.२१४ ॥

 अवगणितमवमतावज्ञाते अवमानितं च परिभूते ॥ ३.१.२१५ ॥

 त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे ॥ ३.१.२१६ ॥

 उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम् ॥ ३.१.२१७ ॥

 बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते ॥ ३.१.२१८ ॥

 उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् ॥ ३.१.२१९ ॥

 संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् ॥ ३.१.२२० ॥

 ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि ॥ ३.१.२२१ ॥

 अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि ॥ ३.१.२२२ ॥

 भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम् ॥ ३.१.२२३ ॥

 अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते ॥ ३.१.२२४ ॥

 क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः ॥ ३.१.२२५ ॥

 क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः ॥ ३.१.२२६ ॥

 साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः ॥ ३.१.२२७ ॥

 बाढव्यायतबहुगुरुवामनवृन्दारकातिशये ॥ ३.१.२२८ ॥


 संकीर्णवर्गः

 प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिङ्गमुन्नयेत् ॥ ३.२.२२९ ॥

 ॥ । अथ संकीर्णवर्गः ॥

 कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः ॥ ३.२.२३० ॥

 साकल्यासंगवचने पारायणपरायणे ॥ ३.२.२३१ ॥

 यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम् ॥ ३.२.२३२ ॥

 शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ॥ ३.२.२३३ ॥

 अवदानं कर्म वृत्तं काम्यदानं प्रवारणम् ॥ ३.२.२३४ ॥

 वशक्रिया संवननं मूलकर्म तु कार्मणम् ॥ ३.२.२३५ ॥

 विधूननं विधुवनं तर्पणं प्रीणनावनम् ॥ ३.२.२३६ ॥

 पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि ॥ ३.२.२३७ ॥

 सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा ॥ ३.२.२३८ ॥

 आक्रोशनमभीषङ्गः संवेदो वेदना न ना ॥ ३.२.२३९ ॥

 संमूर्च्छनमभिव्याप्तिर्याञ्चा भिक्षार्थनार्दना ॥ ३.२.२४० ॥

 वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने ॥ ३.२.२४१ ॥

 आप्रच्छन्नमथाम्नायः संप्रदायः क्षये क्षिया ॥ ३.२.२४२ ॥

 ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः कणे ॥ ३.२.२४३ ॥

 व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ ॥ ३.२.२४४ ॥

 ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ ॥ ३.२.२४५ ॥

 स्फातिर्वृद्धौ प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे ॥ ३.२.२४६ ॥

 एधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा ॥ ३.२.२४७ ॥

 प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे ॥ ३.२.२४८ ॥

 उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये ॥ ३.२.२४९ ॥

 क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे ॥ ३.२.२५० ॥

 उन्नाय उन्नये श्रायः श्रयणे जयने जयः ॥ ३.२.२५१ ॥

 निगादो निगदे मादो मद उद्वेग उद्भ्रमे ॥ ३.२.२५२ ॥

 विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः ॥ ३.२.२५३ ॥

 निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः ॥ ३.२.२५४ ॥

 मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवौ ॥ ३.२.२५५ ॥

 बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि ॥ ३.२.२५६ ॥

 निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम् ॥ ३.२.२५७ ॥

 परिणामो विकारे द्वे समे विकृतिविक्रिये ॥ ३.२.२५८ ॥

 अपहारस्त्वपचयः समाहारः समुच्चयः ॥ ३.२.२५९ ॥

 प्रत्याहार उपादानं विहारस्तु परिक्रमः ॥ ३.२.२६० ॥

 अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम् ॥ ३.२.२६१ ॥

 अनुहारोऽनुकारः स्यादर्थस्यापगमे व्ययः ॥ ३.२.२६२ ॥

 प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः ॥ ३.२.२६३ ॥

 वियामो वियमो यामो यमः संयामसंयमौ ॥ ३.२.२६४ ॥

 हिम्साकर्माभिचारः स्याज्जागर्या जांगरा द्वयोः ॥ ३.२.२६५ ॥

 विघ्नोऽन्तरायः प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये ॥ ३.२.२६६ ॥

 निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया ॥ ३.२.२६७ ॥

 विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः ॥ ३.२.२६८ ॥

 संक्षेपणं समसनं पर्यवस्था विरोधनम् ॥ ३.२.२६९ ॥

 परिसर्या परीसारः स्यादास्या त्वासना स्थितिः ॥ ३.२.२७० ॥

 विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः ॥ ३.२.२७१ ॥

 संवाहनं मर्दनं स्याद्विनाशः स्याददर्शनम् ॥ ३.२.२७२ ॥

 संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम् ॥ ३.२.२७३ ॥

 नीवाकस्तु प्रयामः स्यात्संनिधिः संनिकर्षणम् ॥ ३.२.२७४ ॥

 लवोऽभिलाषो लवने निष्पावः पवने पवः ॥ ३.२.२७५ ॥

 प्रस्तावः स्यादपसरस्त्रसरः सूत्रवेष्टनम् ॥ ३.२.२७६ ॥

 प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ ॥ ३.२.२७७ ॥

 धीशक्तिर्निष्क्रमोऽस्त्री तु संक्रमो दुर्गसंचरः ॥ ३.२.२७८ ॥

 प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः ॥ ३.२.२७९ ॥

 स्यादभ्यादानमुद्धात आरम्भः संभ्रमस्त्वरा ॥ ३.२.२८० ॥

 प्रतिबन्धः प्रविष्टम्भोऽवनायस्तु निपातनम् ॥ ३.२.२८१ ॥

 उपलम्भस्त्वनुभवः समालम्भो विलेपनम् ॥ ३.२.२८२ ॥

 विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम् ॥ ३.२.२८३ ॥

 विश्रावस्तु प्रतिख्यातिरवेक्षा प्रतिजागरः ॥ ३.२.२८४ ॥

 निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने ॥ ३.२.२८५ ॥

 आदीनवास्रवौ क्लेशे मेलके संगसंगमौ ॥ ३.२.२८६ ॥

 संवीक्षनं विचयनं मार्गणं मृगणा मृगः ॥ ३.२.२८७ ॥

 परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम् ॥ ३.२.२८८ ॥

 निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् ॥ ३.२.२८९ ॥

 प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ॥ ३.२.२९० ॥

 उपशायो विशायश्च पर्यायशयनार्थकौ ॥ ३.२.२९१ ॥

 अर्तनं च ऋतीया च हृणीया च घृणार्थकाः ॥ ३.२.२९२ ॥

 स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये ॥ ३.२.२९३ ॥

 पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः ॥ ३.२.२९४ ॥

 प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् ॥ ३.२.२९५ ॥

 स संस्तावः क्रतुषु या स्तुतिभूमिर्द्विजन्मनाम् ॥ ३.२.२९६ ॥

 निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः ॥ ३.२.२९७ ॥

 स्तम्बघ्नस्तु स्तम्बघनः स्तम्बो येन निहन्यते ॥ ३.२.२९८ ॥

 आविधो विध्यते येन तत्र विष्वक्समे निघः ॥ ३.२.२९९ ॥

 उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ ॥ ३.२.३०० ॥

 निगारोद्गारविक्षावोद्ग्राहास्तु गरणादिषु ॥ ३.२.३०१ ॥

 आरत्यवरतिविरतय उपरामेऽथास्त्रियां तु निष्ठेवः ॥ ३.२.३०२ ॥

 निष्ठयूतिर्निष्ठेवननिष्ठीवनमित्यभिन्नानि ॥ ३.२.३०३ ॥

 जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः ॥ ३.२.३०४ ॥

 उदजस्तु पशु प्रेरणमकरणिरित्यादयः शापे ॥ ३.२.३०५ ॥

 गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम् ॥ ३.२.३०६ ॥

 आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् ॥ ३.२.३०७ ॥

 माणवानां तु माणव्यं सहायानां सहायता ॥ ३.२.३०८ ॥

 हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् ॥ ३.२.३०९ ॥

 द्वे पर्शुकानां पृष्ठानां पार्श्वं पृष्ठ्यमनुक्रमात् ॥ ३.२.३१० ॥

 खलानां खलिनी खल्याप्यथ मानुष्यकं नृणाम् ॥ ३.२.३११ ॥

 ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक् ॥ ३.२.३१२ ॥

 अपि साहस्रकारीषवार्मणाथर्वणादिकं । ॥ ३.२.३१३ ॥


नानार्थवर्गः

 नानार्थाः केऽपि कान्तादि वर्गेष्वेवात्र कीर्तिताः ॥ ३.३.३१४ ॥

 ॥ । अथ नानार्थवर्गः

 भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते ॥ ३.३.३१५ ॥

 आकाशे त्रिदिवे नाको लोकस्तु भुवने जने ॥ ३.३.३१६ ॥

 पद्ये यशसि च श्लोकः शरे खड्गे च सायकः ॥ ३.३.३१७ ॥

 जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ ॥ ३.३.३१८ ॥

 आलोकौ दर्शनद्योतौ भेरीपटकमानकौ ॥ ३.३.३१९ ॥

 उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः ॥ ३.३.३२० ॥

 तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः ॥ ३.३.३२१ ॥

 मरुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः ॥ ३.३.३२२ ॥

 स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ॥ ३.३.३२३ ॥

 उलूके करिणः पुच्छमूलोपान्ते च पेचकः ॥ ३.३.३२४ ॥

 कमण्डलौ च करकः सुगते च विनायकः ॥ ३.३.३२५ ॥

 किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः ॥ ३.३.३२६ ॥

 प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम् ॥ ३.३.३२७ ॥

 स्याद्भूतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च ॥ ३.३.३२८ ॥

 ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले ॥ ३.३.३२९ ॥

 सिते च खदिरे सोमवल्कः स्यादथ सिह्वके ॥ ३.३.३३० ॥

 तिलकल्के च पिण्याको बाह्लीकं रामठेऽपि च ॥ ३.३.३३१ ॥

 महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः ॥ ३.३.३३२ ॥

 रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु ॥ ३.३.३३३ ॥

 जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः ॥ ३.३.३३४ ॥

 व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः ॥ ३.३.३३५ ॥

 शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम् ॥ ३.३.३३६ ॥

 पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते ॥ ३.३.३३७ ॥

 शीलान्वयावनूके द्वे शल्के शकलवल्कले ॥ ३.३.३३८ ॥

 साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले ॥ ३.३.३३९ ॥

 दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः ॥ ३.३.३४० ॥

 दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः ॥ ३.३.३४१ ॥

 धेनुका तु करेण्वां च मेघजाले च कालिका ॥ ३.३.३४२ ॥

 कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे ॥ ३.३.३४३ ॥

 करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे ॥ ३.३.३४४ ॥

 वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः ॥ ३.३.३४५ ॥

 स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः ॥ ३.३.३४६ ॥

 ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश् ॥ ३.३.३४७ ॥

 च यः ॥ ३.३.३४८ ॥

 भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् ॥ ३.३.३४९ ॥

 सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः ॥ ३.३.३५० ॥

 पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः ॥ ३.३.३५१ ॥

 पर्यङ्कः स्यात्परिकरे स्याद्व्याग्रेऽपि च लुब्धकः ॥ ३.३.३५२ ॥

 पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः ॥ ३.३.३५३ ॥

 खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः ॥ ३.३.३५४ ॥

 पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च ॥ ३.३.३५५ ॥

 स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः ॥ ३.३.३५६ ॥

 करिण्यां चापि गणिका दारकौ बालभेदकौ ॥ ३.३.३५७ ॥

 अन्धेऽप्यनेडमूकः स्यात्टङ्कौ दर्पाश्मदारणौ ॥ ३.३.३५८ ॥

 मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजकं रसदर्वके ॥ ३.३.३५९ ॥

 इति कान्ताः ॥ ३.३.३६० ॥

 मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ ॥ ३.३.३६१ ॥

 शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम् ॥ ३.३.३६२ ॥

 धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ ॥ ३.३.३६३ ॥

 इति खान्ताः ॥ ३.३.३६४ ॥

 आशुगौ वायुविशिखौ शरार्कविहगाः खगाः ॥ ३.३.३६५ ॥

 पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः ॥ ३.३.३६६ ॥

 पशवोऽपि मृगा वेगः प्रवाहजवयोरपि ॥ ३.३.३६७ ॥

 परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि ॥ ३.३.३६८ ॥

 गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च ॥ ३.३.३६९ ॥

 सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु ॥ ३.३.३७० ॥

 योगः संनहनोपायध्यानसंगतियुक्तिषु ॥ ३.३.३७१ ॥

 भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः ॥ ३.३.३७२ ॥

 चातके हरिणे पुंसि सारङ्गः शवले त्रिषु ॥ ३.३.३७३ ॥

 कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे ॥ ३.३.३७४ ॥

 यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ॥ ३.३.३७५ ॥

 स्वर्गेषुपशुवाग्वज्र दिङ्नेत्रधृणिभूजले ॥ ३.३.३७६ ॥

 लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्न शेफसोः ॥ ३.३.३७७ ॥

 शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः ॥ ३.३.३७८ ॥

 भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ ३.३.३७९ ॥

 इति गान्ताः ॥ ३.३.३८० ॥

 परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये ॥ ३.३.३८१ ॥

 मूल्ये पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम् ॥ ३.३.३८२ ॥

 त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यमृद्भेददृग्रुजः ॥ ३.३.३८३ ॥

 इति घान्ताः ॥ ३.३.३८४ ॥

 विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः ॥ ३.३.३८५ ॥

 मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु ॥ ३.३.३८६ ॥

 अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् ॥ ३.३.३८७ ॥

 इति चान्ताः ॥ ३.३.३८८ ॥

 प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबक हारयोः ॥ ३.३.३८९ ॥

 परिधानाञ्चले कच्छो जलप्रान्ते त्रि लिङ्गकः ॥ ३.३.३९० ॥

 इति क्षेपकच्छान्ताः ॥ ३.३.३९१ ॥

 केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः ॥ ३.३.३९२ ॥

 अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः ॥ ३.३.३९३ ॥

 धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम् ॥ ३.३.३९४ ॥

 वलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना ॥ ३.३.३९५ ॥

 समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्संततौ जने ॥ ३.३.३९६ ॥

 अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु ॥ ३.३.३९७ ॥

 इति जान्ताः ॥ ३.३.३९८ ॥

 पुंस्यात्मनि प्रवीणेच क्षेत्रज्ञो वाच्यलिङ्गकः ॥ ३.३.३९९ ॥

 संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना ॥ ३.३.४०० ॥

 दोषज्ञौ वैद्यविद्वांसौ ज्ञो विद्वान्सोमजोऽपि च ॥ ३.३.४०१ ॥

 इति ञान्ताः ॥ ३.३.४०२ ॥

 काकेभगण्डौ करटौ गजगण्डकटी कटौ ॥ ३.३.४०३ ॥

 शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे ॥ ३.३.४०४ ॥

 देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः ॥ ३.३.४०५ ॥

 रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ॥ ३.३.४०६ ॥

 रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे ॥ ३.३.४०७ ॥

 मायानिश्चलयन्त्रेषु कैतवानृतराशिषु ॥ ३.३.४०८ ॥

 अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् ॥ ३.३.४०९ ॥

 सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा ॥ ३.३.४१० ॥

 अत्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा ॥ ३.३.४११ ॥

 व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने ॥ ३.३.४१२ ॥

 इष्टिर्योगेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु (ऽबहूनिऽ? ॥ ३.३.४१३ ॥

 कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु ॥ ३.३.४१४ ॥

 पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च ॥ ३.३.४१५ ॥

 पोटा दासी द्विलिंगा च घृष्टी घर्षणसूकरौ ॥ ३.३.४१६ ॥

 घटा घोष्ठ्यां हस्तिपङ्क्तौ कृपीटमुदरे जले ॥ ३.३.४१७ ॥

 इति टान्ताः ॥ ३.३.४१८ ॥

 पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा ॥ ३.३.४१९ ॥

 निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि ॥ ३.३.४२० ॥

 त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः ॥ ३.३.४२१ ॥

 इति ठान्ताः ॥ ३.३.४२२ ॥

 दण्डोऽस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः ॥ ३.३.४२३ ॥

 सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः ॥ ३.३.४२४ ॥

 क्ष्वेडवंशशलाकापि नाडी कालेऽपि षट्क्षणे ॥ ३.३.४२५ ॥

 काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु ॥ ३.३.४२६ ॥

 स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने ॥ ३.३.४२७ ॥

 इति डान्ताः ॥ ३.३.४२८ ॥

 भृशप्रतिज्ञयोर्बाढं प्रगाढं भृशकृच्छ्रयोः ॥ ३.३.४२९ ॥

 संघातग्रासयोः पिण्डी द्वयोः पुंसि कलेवरे ॥ ३.३.४३० ॥

 गण्डौ कपोलविस्फोटौ मुण्डकस्त्रिषु मुण्डिते ॥ ३.३.४३१ ॥

 इक्षुभेदेऽपि खण्डोऽस्त्री शिखण्डो बर्हचूडयोः ॥ ३.३.४३२ ॥

 शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ ॥ ३.३.४३३ ॥

 इति ढान्ताः ॥ ३.३.४३४ ॥

 भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे ॥ ३.३.४३५ ॥

 कणोऽतिसूक्ष्मे धान्यांशे संघाते प्रमथे गणः ॥ ३.३.४३६ ॥

 पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥ ३.३.४३७ ॥

 मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः ॥ ३.३.४३८ ॥

 निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः ॥ ३.३.४३९ ॥

 वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे ॥ ३.३.४४० ॥

 अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु ॥ ३.३.४४१ ॥

 स्थाणुः शर्वोऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः ॥ ३.३.४४२ ॥

 ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ॥ ३.३.४४३ ॥

 ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः ॥ ३.३.४४४ ॥

 हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या ॥ ३.३.४४५ ॥

 त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः ॥ ३.३.४४६ ॥

 त्रिष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे ॥ ३.३.४४७ ॥

 वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी ॥ ३.३.४४८ ॥

 करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् ॥ ३.३.४४९ ॥

 शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च ॥ ३.३.४५० ॥

 विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु ॥ ३.३.४५१ ॥

 प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु ॥ ३.३.४५२ ॥

 करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि ॥ ३.३.४५३ ॥

 प्राण्युत्पादे संसरणमसंबाधचमूगतौ ॥ ३.३.४५४ ॥

 घण्टापथेऽथ वान्तान्ने समुद्गिरणमुन्नये ॥ ३.३.४५५ ॥

 अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः ॥ ३.३.४५६ ॥

 प्रवणे क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे ॥ ३.३.४५७ ॥

 संकीर्णौ निचिताशुद्धा विरिणं शून्यमूषरम् ॥ ३.३.४५८ ॥

 सेतौ च चरणो वेणी नदीभेदे कचोच्चये ॥ ३.३.४५९ ॥

 इति णान्ताः ॥ ३.३.४६० ॥

 देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदार्णवौ ॥ ३.३.४६१ ॥

 पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ ॥ ३.३.४६२ ॥

 अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ ॥ ३.३.४६३ ॥

 हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ ॥ ३.३.४६४ ॥

 यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि ॥ ३.३.४६५ ॥

 यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते ॥ ३.३.४६६ ॥

 ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः ॥ ३.३.४६७ ॥

 स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे ॥ ३.३.४६८ ॥

 मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च ॥ ३.३.४६९ ॥

 विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ ॥ ३.३.४७० ॥

 व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने ॥ ३.३.४७१ ॥

 क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे ॥ ३.३.४७२ ॥

 वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः ॥ ३.३.४७३ ॥

 आनर्तः समरे नृत्यस्थान नीवृद्विशेषयोः ॥ ३.३.४७४ ॥

 कृतान्तो यम सिद्धान्त दैवाकुशलकर्मसु ॥ ३.३.४७५ ॥

 श्लेष्मादि रस रक्तादि महा भूतानि तद्गुणाः ॥ ३.३.४७६ ॥

 इन्द्रियाण्यश्म विकृतिः शब्दयोनिश्च धातवः ॥ ३.३.४७७ ॥

 कक्षान्तरेऽपि शुद्धान्तो भूपस्यासर्व गोचरे ॥ ३.३.४७८ ॥

 कासू सामर्थ्ययोः शक्तिर्मूर्तिः काठिन्यकाययोः । । ॥ ३.३.४७९ ॥

 विस्तार वल्लयोर्व्रततिर्वसती रात्रिवेश्मनोः ॥ ३.३.४८० ॥

 क्षयार्चयोरपचितिः सातिर्दानावसानयोः । । ॥ ३.३.४८१ ॥

 आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः ॥ ३.३.४८२ ॥

 प्रचार स्यन्दयो रीतिरीतिर्डिम्ब प्रवासयोः ॥ ३.३.४८३ ॥

 उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे ॥ ३.३.४८४ ॥

 वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि ॥ ३.३.४८५ ॥

 नदी नगर्योर्नागानां भोगवत्यथ संगरे ॥ ३.३.४८६ ॥

 संगे सभायां समितिः क्षयवासावपि क्षिती ॥ ३.३.४८७ ॥

 रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः ॥ ३.३.४८८ ॥

 जगती जगति छन्दोविशेषोऽपि क्षितावपि ॥ ३.३.४८९ ॥

 पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः ॥ ३.३.४९० ॥

 पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः ॥ ३.३.४९१ ॥

 प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः ॥ ३.३.४९२ ॥

 सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः ॥ ३.३.४९३ ॥

 वनिता जनितात्यर्थानुरागायां च योषिति ॥ ३.३.४९४ ॥

 गुप्तिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः ॥ ३.३.४९५ ॥

 बृहती क्षुद्र वार्ताकी छन्दोभेदे महत्यपि ॥ ३.३.४९६ ॥

 वासिता स्त्री करिण्योश्च वार्ता वृत्तौ जनश्रुतौ ॥ ३.३.४९७ ॥

 वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते ॥ ३.३.४९८ ॥

 कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः ॥ ३.३.४९९ ॥

 श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम् ॥ ३.३.५०० ॥

 अत्याहितं महाभीतिः कर्म जीवानपेक्षि च ॥ ३.३.५०१ ॥

 युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु ॥ ३.३.५०२ ॥

 वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले ॥ ३.३.५०३ ॥

 महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु ॥ ३.३.५०४ ॥

 श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु ॥ ३.३.५०५ ॥

 त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च ॥ ३.३.५०६ ॥

 अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ ॥ ३.३.५०७ ॥

 युक्तेऽति संस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम् ॥ ३.३.५०८ ॥

 कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि ॥ ३.३.५०९ ॥

 ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे ॥ ३.३.५१० ॥

 विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ ॥ ३.३.५११ ॥

 द्वौ चाम्ल परुषौ शुक्तौ शिती धवलमेचकौ ॥ ३.३.५१२ ॥

 सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् ॥ ३.३.५१३ ॥

 पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते ॥ ३.३.५१४ ॥

 निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् ॥ ३.३.५१५ ॥

 जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी ॥ ३.३.५१६ ॥

 वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ ॥ ३.३.५१७ ॥

 समूहोत्पन्नयोर्जातमहिजिच्छ्रीपतीन्द्रयोः ॥ ३.३.५१८ ॥

 सौप्तिकेऽपि प्रपातोऽथावपातावतटावटौ ॥ ३.३.५१९ ॥

 समित्सङ्गे रणेऽपि स्त्री व्यवस्थायामपि स्थितिः ॥ ३.३.५२० ॥

 अर्थोऽभिधेय रै वस्तु प्रयोजन निवृत्तिषु ॥ ३.३.५२१ ॥

 निपानागमयोस्तीर्थमृषि जुष्टे जले गुरौ ॥ ३.३.५२२ ॥

 समर्थस्त्रिषु शक्तिस्थे संबद्धार्थे हितेऽपि च ॥ ३.३.५२३ ॥

 दशमीस्थौ क्षीणराग वृद्धौ वीथी पदव्यपि ॥ ३.३.५२४ ॥

 आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानु मानयोः ॥ ३.३.५२५ ॥

 शास्त्र द्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ ॥ ३.३.५२६ ॥

 इति थान्ताः ॥ ३.३.५२७ ॥

 अभिप्राय वशौ छन्दावब्दौ जीमूत वत्सरौ ॥ ३.३.५२८ ॥

 अपवादौ तु निन्दाज्ञे दायादौ सुत बान्धवौ ॥ ३.३.५२९ ॥

 पादा रश्म्यङ्घ्रि तुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः ॥ ३.३.५३० ॥

 निर्वादो जनवादेऽपि शादो जम्बाल शष्पयोः ॥ ३.३.५३१ ॥

 आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे ॥ ३.३.५३२ ॥

 स्यात्प्रसादोऽनुरगेऽपि सूदः स्याद्व्यञ्जनेऽपि च ॥ ३.३.५३३ ॥

 गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः ॥ ३.३.५३४ ॥

 प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् ॥ ३.३.५३५ ॥

 स्त्री संविज्ज्ञान संभाषा क्रियाकाराजि नामसु ॥ ३.३.५३६ ॥

 धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत् ॥ ३.३.५३७ ॥

 पदं व्यवसिति त्राण स्थान लक्ष्माङ्घ्रि वस्तुषु ॥ ३.३.५३८ ॥

 गोष्पदं सेविते माने प्रतिष्ठा कृत्यमास्पदम् ॥ ३.३.५३९ ॥

 त्रिष्विष्ट मधुरौ स्वादू मृदू चातीक्ष्ण कोमलौ ॥ ३.३.५४० ॥

 मूढाल्पापटु निर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ ॥ ३.३.५४१ ॥

 प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ ॥ ३.३.५४२ ॥

 इति दान्ताः ॥ ३.३.५४३ ॥

 व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः ॥ ३.३.५४४ ॥

 पर्याहारश्च मार्गश्,ह्च विवधौ वीवधौ च तौ ॥ ३.३.५४५ ॥

 परिधिर्यज्ञिय तरोः शाखायामुपसूर्यके ॥ ३.३.५४६ ॥

 बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः ॥ ३.३.५४७ ॥

 स्युः समर्थन नीवाक नियमाश्च समाधयः ॥ ३.३.५४८ ॥

 दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादि विनश्वरे ॥ ३.३.५४९ ॥

 मुख्यानुयायिनि शिशौ प्रकृत्यानुवर्तने ॥ ३.३.५५० ॥

 विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः ॥ ३.३.५५१ ॥

 विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे ॥ ३.३.५५२ ॥

 बुध वृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च ॥ ३.३.५५३ ॥

 देशे नद विशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् ॥ ३.३.५५४ ॥

 विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु ॥ ३.३.५५५ ॥

 वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही ॥ ३.३.५५६ ॥

 सन्धा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्पृहा ॥ ३.३.५५७ ॥

 मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि ॥ ३.३.५५८ ॥

 अतस्त्रिषु समुन्नद्धौ पण्डितंमन्य गर्वितौ ॥ ३.३.५५९ ॥

 ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बितः ॥ ३.३.५६० ॥

 अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यात भूषितौ ॥ ३.३.५६१ ॥

 लेशेऽपि गन्धः संबाधो गुह्यसंकुलयोरपि ॥ ३.३.५६२ ॥

 बाधा निषेधे दुःखे च ज्ञातृचान्द्रिसुरा बुधाः ॥ ३.३.५६३ ॥

 ॥ । इति धान्ताः ॥

 सूर्य वह्नी चित्रभानू भानू रश्मि दिवाकरौ ॥ ३.३.५६४ ॥

 भूतात्मानौ धातृ देहौ मूर्ख नीचौ पृथग्जनौ ॥ ३.३.५६५ ॥

 ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ ॥ ३.३.५६६ ॥

 तरुशैलौ शिखरिणौ शिखिनौ वह्नि बर्हिणौ ॥ ३.३.५६७ ॥

 प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ ॥ ३.३.५६८ ॥

 द्वौ सारथि हयारोहौ वाजिनोऽश्वेषु पक्षिणः ॥ ३.३.५६९ ॥

 कुलेऽप्यभिजनो जन्म भूम्यामप्यथ हायनाः ॥ ३.३.५७० ॥

 वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः ॥ ३.३.५७१ ॥

 केशेऽपि वृजिनो विश्वकर्मार्क सुरशिल्पिनोः ॥ ३.३.५७२ ॥

 आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च ॥ ३.३.५७३ ॥

 शक्रो घातुक मत्तेभो वर्षुकाब्दो घनाघनः ॥ ३.३.५७४ ॥

 अभिमानोऽर्थादि दर्पे ज्ञाने प्रणय हिंसयोः ॥ ३.३.५७५ ॥

 घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे ॥ ३.३.५७६ ॥

 इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे ॥ ३.३.५७७ ॥

 वाणिन्यौ नर्तकी दूत्यौ स्रवन्त्यामपि वाहिनी ॥ ३.३.५७८ ॥

 ह्लादिन्यौ वज्रतडितौ वन्दायामपि कामिनी ॥ ३.३.५७९ ॥

 त्वग्देहयोरपि तनुः सूनाधो जिह्विकापि च ॥ ३.३.५८० ॥

 क्रतु विस्तारयोरस्त्री वितानं त्रिषु तुच्छके ॥ ३.३.५८१ ॥

 मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे ॥ ३.३.५८२ ॥

 वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः ॥ ३.३.५८३ ॥

 उत्साहने च हिंसायां सूचने चापि गन्धनम् ॥ ३.३.५८४ ॥

 आतञ्चनं प्रतीवाप जवनाप्यायनार्थकम् ॥ ३.३.५८५ ॥

 व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि ॥ ३.३.५८६ ॥

 स्यात्कौलीनं लोकवादे युद्धे पश्वहि पक्षिणाम् ॥ ३.३.५८७ ॥

 स्यादुद्यानं निःसरणे वनभेदे प्रयोजने ॥ ३.३.५८८ ॥

 अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम् ॥ ३.३.५८९ ॥

 व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च ॥ ३.३.५९० ॥

 उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमेऽपि च ॥ ३.३.५९१ ॥

 मारणे मृतसंस्कारे गतौ द्रव्येऽर्थ दापने ॥ ३.३.५९२ ॥

 निर्वर्तनोपकरणानुव्रज्यासु च साधनम् ॥ ३.३.५९३ ॥

 निर्यातनं वैर शुद्धौ दाने न्यासार्पणेऽपि च ॥ ३.३.५९४ ॥

 व्यसनं विपदि भ्रंशे दोषे कामजकोपजे ॥ ३.३.५९५ ॥

 पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यम्शेऽप्यणीयसि ॥ ३.३.५९६ ॥

 तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि ॥ ३.३.५९७ ॥

 अकार्यगुह्ये कौपीनं मैथुनं संगतौ रते ॥ ३.३.५९८ ॥

 प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः ॥ ३.३.५९९ ॥

 प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः ॥ ३.३.६०० ॥

 क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः ॥ ३.३.६०१ ॥

 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे ॥ ३.३.६०२ ॥

 संनिवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः ॥ ३.३.६०३ ॥

 आच्छादने संविधानमपवारणमित्युभे ॥ ३.३.६०४ ॥

 आराधनं साधने स्यादवाप्तौ तोषणेऽपि च ॥ ३.३.६०५ ॥

 अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि ॥ ३.३.६०६ ॥

 रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने ॥ ३.३.६०७ ॥

 तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे ॥ ३.३.६०८ ॥

 समानाः सत्समैके स्युः पिशुनौ खलसूचकौ ॥ ३.३.६०९ ॥

 हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ ॥ ३.३.६१० ॥

 अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि ॥ ३.३.६११ ॥

 ॥ । इति नान्ताः ॥

 कलापो भूषणे बर्हे तूणीरे संहतावपि ॥ ३.३.६१२ ॥

 परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ ॥ ३.३.६१३ ॥

 गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी ॥ ३.३.६१४ ॥

 बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम् ॥ ३.३.६१५ ॥

 तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम् ॥ ३.३.६१६ ॥

 प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ॥ ३.३.६१७ ॥

 भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी ॥ ३.३.६१८ ॥

 कुतपो मृगरोमोत्थपटे चाह्नो.ष्टमेंऽशके ॥ ३.३.६१९ ॥

 ॥ । इति पान्ताः ॥

 शिफा शिखायां सरिति मांसिकायां च मातरि ॥ ३.३.६२० ॥

 शफं मूले तरूणां स्याद्गवादीनां खुरेऽपि च ॥ ३.३.६२१ ॥

 गुल्फः स्याद्गुंफने बाहोरलंकारे च कीर्तितः ॥ ३.३.६२२ ॥

 रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः ॥ ३.३.६२३ ॥

 ॥ । इति फान्ताः ॥

 अन्तराभवसत्वेऽश्वे गन्धर्वो दिव्यगायने ॥ ३.३.६२४ ॥

 कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ ॥ ३.३.६२५ ॥

 पूर्वोऽन्यलिङ्गः प्रागाह पुमूबहुत्वेऽपि पूर्वजान् ॥ ३.३.६२६ ॥

 चित्रपुङ्खेऽपि कादम्बो नितम्बोऽद्रितटे कटौ ॥ ३.३.६२७ ॥

 दर्वी फणापि बिम्बोऽस्त्री मण्डलेऽपि च ॥ ३.३.६२८ ॥

 ॥ । इति बान्ताः ॥

 कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ ॥ ३.३.६२९ ॥

 स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ ॥ ३.३.६३० ॥

 कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च ॥ ३.३.६३१ ॥

 स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् ॥ ३.३.६३२ ॥

 स्यान्महारजते क्लीबं कुसुम्भं करके पुमान् ॥ ३.३.६३३ ॥

 क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् ॥ ३.३.६३४ ॥

 सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः ॥ ३.३.६३५ ॥

 ॥ । इति भान्ताः ॥

 किरण प्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ ॥ ३.३.६३६ ॥

 इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ ॥ ३.३.६३७ ॥

 धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः ॥ ३.३.६३८ ॥

 उपायपूर्व आरम्भ उपधा चाप्युपक्रमः ॥ ३.३.६३९ ॥

 वणिक्पथः पुरं वेदो निगमा नागरो वणिक् ॥ ३.३.६४० ॥

 नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु ॥ ३.३.६४१ ॥

 शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः ॥ ३.३.६४२ ॥

 स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्वास्तु कुतिलेऽलसे ॥ ३.३.६४३ ॥

 उष्णेऽपि घर्मश्चेष्टालङ्कारे भ्रान्तौ च विभ्रमः ॥ ३.३.६४४ ॥

 गुल्मा रुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः ॥ ३.३.६४५ ॥

 क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु ॥ ३.३.६४६ ॥

 त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा ॥ ३.३.६४७ ॥

 ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ॥ ३.३.६४८ ॥

 सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु ॥ ३.३.६४९ ॥

 वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ ॥ ३.३.६५० ॥

 जीर्णं च परिभुक्तं च यातयाममिदं द्वयम् ॥ ३.३.६५१ ॥

 ॥ । इति गान्ताः ॥

 तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ ॥ ३.३.६५२ ॥

 श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ ॥ ३.३.६५३ ॥

 पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः ॥ ३.३.६५४ ॥

 तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे ॥ ३.३.६५५ ॥

 प्रत्ययोऽधीन शपथज्ञानविश्वासहेतुषु ॥ ३.३.६५६ ॥

 रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः ॥ ३.३.६५७ ॥

 स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते ॥ ३.३.६५८ ॥

 समयाः शपथाचारकालसिद्धान्तसंविदः ॥ ३.३.६५९ ॥

 व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः ॥ ३.३.६६० ॥

 अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि ॥ ३.३.६६१ ॥

 युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च ॥ ३.३.६६२ ॥

 पस्चादवस्थायि बलं समवायश्च सन्नयौ ॥ ३.३.६६३ ॥

 संघाते संनिवेशे च संस्त्यायः प्रणयास्त्वमी ॥ ३.३.६६४ ॥

 विस्रम्भयाञ्चाप्रेमाणो विरोधेऽपि समुच्छ्रयः ॥ ३.३.६६५ ॥

 विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥ ३.३.६६६ ॥

 निर्यासेऽपि कषायो स्त्री सभायां च प्रतिश्रयः ॥ ३.३.६६७ ॥

 प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ क्रुधि ॥ ३.३.६६८ ॥

 रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः ॥ ३.३.६६९ ॥

 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये ॥ ३.३.६७० ॥

 धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्म शुभाशुभम् ॥ ३.३.६७१ ॥

 कशेरु हेम्नोर्गाङ्गेयं विशल्या दन्तिकापि च ॥ ३.३.६७२ ॥

 वृषाकपायी श्रीगौर्योरभिज्ञा नामशोभयोः ॥ ३.३.६७३ ॥

 आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् ॥ ३.३.६७४ ॥

 उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः ॥ ३.३.६७५ ॥

 छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः ॥ ३.३.६७६ ॥

 कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने ॥ ३.३.६७७ ॥

 कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः ॥ ३.३.६७८ ॥

 जन्यः स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च ॥ ३.३.६७९ ॥

 गर्ह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ ॥ ३.३.६८० ॥

 आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि ॥ ३.३.६८१ ॥

 रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि ॥ ३.३.६८२ ॥

 न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते ॥ ३.३.६८३ ॥

 ॥ । इति यान्ताः ॥

 निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ ॥ ३.३.६८४ ॥

 गुरू गोष्पतिपित्राद्यौ द्वापरौ युगसंशयौ ॥ ३.३.६८५ ॥

 प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती ॥ ३.३.६८६ ॥

 किंशारू धान्यशूकेषु मरू धन्वधराधरौ ॥ ३.३.६८७ ॥

 अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ ॥ ३.३.६८८ ॥

 ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः ॥ ३.३.६८९ ॥

 प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि ॥ ३.३.६९० ॥

 अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूबरौ ॥ ३.३.६९१ ॥

 स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः ॥ ३.३.६९२ ॥

 मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु ॥ ३.३.६९३ ॥

 कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु संगरः ॥ ३.३.६९४ ॥

 वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि ॥ ३.३.६९५ ॥

 मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः ॥ ३.३.६९६ ॥

 आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते ॥ ३.३.६९७ ॥

 अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च ॥ ३.३.६९८ ॥

 स्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे ॥ ३.३.६९९ ॥

 विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् ॥ ३.३.७०० ॥

 द्वारि द्वाः स्थे प्रतीहारः प्रतीहार्यप्यनन्तरे ॥ ३.३.७०१ ॥

 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु ॥ ३.३.७०२ ॥

 सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु ॥ ३.३.७०३ ॥

 दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् ॥ ३.३.७०४ ॥

 महारण्ये दुर्गपथे कान्तारं पुन्नपुंसकम् ॥ ३.३.७०५ ॥

 मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु ॥ ३.३.७०६ ॥

 देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये ॥ ३.३.७०७ ॥

 वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना ॥ ३.३.७०८ ॥

 ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् ॥ ३.३.७०९ ॥

 यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ॥ ३.३.७१० ॥

 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ ३.३.७११ ॥

 शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ ॥ ३.३.७१२ ॥

 इरा भूवाक्सुराप्सुस्यात्तन्द्री निद्राप्रमीलयोः ॥ ३.३.७१३ ॥

 धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि ॥ ३.३.७१४ ॥

 क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ॥ ३.३.७१५ ॥

 त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे ॥ ३.३.७१६ ॥

 अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे ॥ ३.३.७१७ ॥

 आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः ॥ ३.३.७१८ ॥

 योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः ॥ ३.३.७१९ ॥

 निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः ॥ ३.३.७२० ॥

 स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः ॥ ३.३.७२१ ॥

 मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च ॥ ३.३.७२२ ॥

 सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च ॥ ३.३.७२३ ॥

 अजिरं विषये कायेऽप्यंबरं व्योम्नि वाससि ॥ ३.३.७२४ ॥

 चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च ॥ ३.३.७२५ ॥

 स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम् ॥ ३.३.७२६ ॥

 गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे ॥ ३.३.७२७ ॥

 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् ॥ ३.३.७२८ ॥

 मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे ॥ ३.३.७२९ ॥

 दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ ॥ ३.३.७३० ॥

 तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे ॥ ३.३.७३१ ॥

 औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने ॥ ३.३.७३२ ॥

 पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले ॥ ३.३.७३३ ॥

 व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः ॥ ३.३.७३४ ॥

 अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये ॥ ३.३.७३५ ॥

 छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ॥ ३.३.७३६ ॥

 मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम् ॥ ३.३.७३७ ॥

 शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् ॥ ३.३.७३८ ॥

 गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः ॥ ३.३.७३९ ॥

 जठरः कठिनेऽपि स्यादधस्तादपि चाधरः ॥ ३.३.७४० ॥

 अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले ॥ ३.३.७४१ ॥

 उपरुदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः ॥ ३.३.७४२ ॥

 एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः ॥ ३.३.७४३ ॥

 स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ ॥ ३.३.७४४ ॥

 उदारौ दातृमहतोरितरस्त्वन्यनीचयोः ॥ ३.३.७४५ ॥

 मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः ॥ ३.३.७४६ ॥

 आसारो वेगवद्वर्षे सैन्यप्रसरणं तथा ॥ ३.३.७४७ ॥

 धाराम्बुपाते चोत्कर्षेऽस्त्रौ कटाहे तु कर्परः ॥ ३.३.७४८ ॥

 बन्धुरं सुन्दरे नम्रे गिरिर्गेन्दुकशैलयोः ॥ ३.३.७४९ ॥

 चरुः स्थाल्यां हविः पक्तावधीरः कातरे चले ॥ ३.३.७५० ॥

 ॥ । इति रान्ताः ॥

 चूडा किरीटं केशाश्च संयता मौलयस्त्रयः ॥ ३.३.७५१ ॥

 द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः ॥ ३.३.७५२ ॥

 कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः ॥ ३.३.७५३ ॥

 स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः ॥ ३.३.७५४ ॥

 करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् ॥ ३.३.७५५ ॥

 स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः ॥ ३.३.७५६ ॥

 वातूलः पुंसि वात्यायामपि वातासहे त्रिषु ॥ ३.३.७५७ ॥

 भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः ॥ ३.३.७५८ ॥

 मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम् ॥ ३.३.७५९ ॥

 शङ्कावपि द्वयोः कीलः पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु ॥ ३.३.७६० ॥

 कला शिल्पे कालभेदे चाली सख्यावली अपि ॥ ३.३.७६१ ॥

 अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि ॥ ३.३.७६२ ॥

 बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु ॥ ३.३.७६३ ॥

 लीला विलासक्रिययोरुपला शर्करापि च ॥ ३.३.७६४ ॥

 शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः ॥ ३.३.७६५ ॥

 जालं समूह आनायगवाक्षक्षारकेष्वपि ॥ ३.३.७६६ ॥

 शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् ॥ ३.३.७६७ ॥

 छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना ॥ ३.३.७६८ ॥

 अधस्स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम् ॥ ३.३.७६९ ॥

 और्वानलेऽपि पातालं चैलं वस्त्रेऽधमे त्रिषु ॥ ३.३.७७० ॥

 कुकूलम् शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले ॥ ३.३.७७१ ॥

 निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः ॥ ३.३.७७२ ॥

 पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु ॥ ३.३.७७३ ॥

 प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च ॥ ३.३.७७४ ॥

 करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः ॥ ३.३.७७५ ॥

 मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः ॥ ३.३.७७६ ॥

 कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः ॥ ३.३.७७७ ॥

 स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः ॥ ३.३.७७८ ॥

 हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम् ॥ ३.३.७७९ ॥

 तूलिश्चित्रोपकरणशलाकातूलशय्ययोः ॥ ३.३.७८० ॥

 तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि ॥ ३.३.७८१ ॥

 ॥ । इति लान्ताः ॥

 दवदावौ वनारण्यवह्नी जन्महरौ भवौ ॥ ३.३.७८२ ॥

 मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः ॥ ३.३.७८३ ॥

 अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः ॥ ३.३.७८४ ॥

 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ॥ ३.३.७८५ ॥

 स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने ॥ ३.३.७८६ ॥

 अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः ॥ ३.३.७८७ ॥

 उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः ॥ ३.३.७८८ ॥

 अनुभावः प्रभावे च सतां च मतिनिश्चये ॥ ३.३.७८९ ॥

 स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये ॥ ३.३.७९० ॥

 शूद्रायां विप्रतनये शस्त्रे पारशवो मतः ॥ ३.३.७९१ ॥

 ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु ॥ ३.३.७९२ ॥

 स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने ॥ ३.३.७९३ ॥

 स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च ॥ ३.३.७९४ ॥

 शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः ॥ ३.३.७९५ ॥

 द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु ॥ ३.३.७९६ ॥

 क्लीबं नपुंसकं षण्डे वाच्यलिङ्गमविक्रमे ॥ ३.३.७९७ ॥

 ॥ । इति वान्ताः ॥

 द्वौ विशौ वैश्यमनुजौ द्वौ चाराभिमरौ स्पशौ ॥ ३.३.७९८ ॥

 द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ ॥ ३.३.७९९ ॥

 रहः प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः ॥ ३.३.८०० ॥

 कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु ॥ ३.३.८०१ ॥

 पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च ॥ ३.३.८०२ ॥

 दशावस्थानेकविधाप्याशा तृष्णापि चायता ॥ ३.३.८०३ ॥

 वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु ॥ ३.३.८०४ ॥

 स्यात्कर्कशः साहसिकः कठोरामसृणावपि ॥ ३.३.८०५ ॥

 प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः ॥ ३.३.८०६ ॥

 नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे ॥ ३.३.८०७ ॥

 नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येऽंशवः कराः ॥ ३.३.८०८ ॥

 आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः ॥ ३.३.८०९ ॥

 ॥ । इति शान्ताः ॥

 सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ ॥ ३.३.८१० ॥

 काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ ॥ ३.३.८११ ॥

 अभीपुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने ॥ ३.३.८१२ ॥

 पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः ॥ ३.३.८१३ ॥

 शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः ॥ ३.३.८१४ ॥

 कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः ॥ ३.३.८१५ ॥

 द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये ॥ ३.३.८१६ ॥

 ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे ॥ ३.३.८१७ ॥

 कर्षूर्वार्त्ता करीषाग्निः कर्षः कुल्याभिधायिनी ॥ ३.३.८१८ ॥

 पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च ॥ ३.३.८१९ ॥

 उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम् ॥ ३.३.८२० ॥

 स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् ॥ ३.३.८२१ ॥

 प्रेक्षा नृत्तेक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः ॥ ३.३.८२२ ॥

 त्विट्शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः ॥ ३.३.८२३ ॥

 प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे ॥ ३.३.८२४ ॥

 व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ ॥ ३.३.८२५ ॥

 कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा ॥ ३.३.८२६ ॥

 दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे ॥ ३.३.८२७ ॥

 शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे ॥ ३.३.८२८ ॥

 ॥ । इति षान्ताः ॥

 रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू ॥ ३.३.८२९ ॥

 वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः ॥ ३.३.८३० ॥

 शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः ॥ ३.३.८३१ ॥

 पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे ॥ ३.३.८३२ ॥

 देवभेदेऽनले रश्मौ वसू रत्ने धने वसु ॥ ३.३.८३३ ॥

 विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः ॥ ३.३.८३४ ॥

 लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च ॥ ३.३.८३५ ॥

 प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते ॥ ३.३.८३६ ॥

 ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु ॥ ३.३.८३७ ॥

 पापापराधयोरागः खगबाल्यादिनोर्वयः ॥ ३.३.८३८ ॥

 तेजः पुरीषयोर्वर्चो महश्चोत्सवतेजसोः ॥ ३.३.८३९ ॥

 रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः ॥ ३.३.८४० ॥

 छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च ॥ ३.३.८४१ ॥

 सहो बलं सहा मार्गो नभः खं श्रावणो नभाः ॥ ३.३.८४२ ॥

 ओकः सद्माश्रयश्चौकाः पयः क्षीरं पयोऽंबु च ॥ ३.३.८४३ ॥

 ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये ॥ ३.३.८४४ ॥

 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु ॥ ३.३.८४५ ॥

 विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी ॥ ३.३.८४६ ॥

 वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु युवाल्पयोः ॥ ३.३.८४७ ॥

 वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः ॥ ३.३.८४८ ॥

 ॥ । इति सान्ताः ॥

 दलेऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः ॥ ३.३.८४९ ॥

 द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके ॥ ३.३.८५० ॥

 तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च ॥ ३.३.८५१ ॥

 पत्नीपरिजनादानमूलशापाः परिग्रहाः ॥ ३.३.८५२ ॥

 दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः ॥ ३.३.८५३ ॥

 व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः ॥ ३.३.८५४ ॥

 परिच्छदे नृपार्हेऽर्थे परिबर्होऽव्ययाः परे ॥ ३.३.८५५ ॥

 ॥ । इति हान्ताः ॥


 ==नानार्थाव्ययवर्गः ॥==

 आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे ॥ ३.४.८५६ ॥

 आप्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः ॥ ३.४.८५७ ॥

 पापकुत्सेषदर्थे कु धिङ्निर्भर्त्सननिन्दयोः ॥ ३.४.८५८ ॥

 चान्वाचयसमाहारेतरेतरसमुच्चये ॥ ३.४.८५९ ॥

 स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति ॥ ३.४.८६० ॥

 स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे ॥ ३.४.८६१ ॥

 सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः ॥ ३.४.८६२ ॥

 प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः ॥ ३.४.८६३ ॥

 पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः ॥ ३.४.८६४ ॥

 खेदानुकम्पासंतोषविस्मयामन्त्रणे बत ॥ ३.४.८६५ ॥

 हन्त हर्षेनुकम्पायां वाक्यारम्भविषादयोः ॥ ३.४.८६६ ॥

 प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ॥ ३.४.८६७ ॥

 इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु ॥ ३.४.८६८ ॥

 प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि ॥ ३.४.८६९ ॥

 यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ॥ ३.४.८७० ॥

 मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ ॥ ३.४.८७१ ॥

 वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः ॥ ३.४.८७२ ॥

 नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु ॥ ३.४.८७३ ॥

 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ॥ ३.४.८७४ ॥

 गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि ॥ ३.४.८७५ ॥

 उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते ॥ ३.४.८७६ ॥

 अमा सह समीपे च कं वारिणि च मूर्धनि ॥ ३.४.८७७ ॥

 इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये ॥ ३.४.८७८ ॥

 तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने ॥ ३.४.८७९ ॥

 नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने ॥ ३.४.८८० ॥

 अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ॥ ३.४.८८१ ॥

 हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः ॥ ३.४.८८२ ॥

 पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः ॥ ३.४.८८३ ॥

 स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ॥ ३.४.८८४ ॥

 ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम् ॥ ३.४.८८५ ॥

 स्वर्गे परे च लोके स्वर्वार्तासंभाव्ययोः किल ॥ ३.४.८८६ ॥

 निषेधवाक्यालङ्कारजिज्ञासानुनये खलु ॥ ३.४.८८७ ॥

 समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः ॥ ३.४.८८८ ॥

 नामप्राकाश्ययोः प्रदुर्मिथोऽन्योन्यं रहस्यपि ॥ ३.४.८८९ ॥

 तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु ॥ ३.४.८९० ॥

 अहहेत्यद्भुते खेदे हि हेताववधारणे ॥ ३.४.८९१ ॥

 ॥ । इति नानार्थवर्गः ३, अत्र मूलश्लोकाः २५६ । । ॥

 ॥ क्षे.श्लो. २४ । । ॥


 ==॥ अव्ययवर्गः । ॥==

 चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः ॥ ३.५.८९२ ॥

 मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः ॥ ३.५.८९३ ॥

 स्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते ॥ ३.५.८९४ ॥

 बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे ॥ ३.५.८९५ ॥

 पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने ॥ ३.५.८९६ ॥

 यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन ॥ ३.५.८९७ ॥

 कदाचिज्जातु सार्धं तु साकं सत्रा समं सह ॥ ३.५.८९८ ॥

 आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा ॥ ३.५.८९९ ॥

 आहो उताहो किमुत विकल्पे किं किमूत च ॥ ३.५.९०० ॥

 तु हि च स्म ह वै पादपूरणे पूजने स्वति ॥ ३.५.९०१ ॥

 दिवाह्नीत्यथ दोषा च नक्तं च रजनाविति ॥ ३.५.९०२ ॥

 तिर्यगर्थे साचि तिरोऽप्यथ संबोधनार्थकाः ॥ ३.५.९०३ ॥

 स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक् ॥ ३.५.९०४ ॥

 अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः ॥ ३.५.९०५ ॥

 स्वाहा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा ॥ ३.५.९०६ ॥

 किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे ॥ ३.५.९०७ ॥

 व वा यथा तथेवैवं साम्येऽहो हीति विस्मये ॥ ३.५.९०८ ॥

 मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे ॥ ३.५.९०९ ॥

 दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा ॥ ३.५.९१० ॥

 अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् ॥ ३.५.९११ ॥

 युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते ॥ ३.५.९१२ ॥

 अभावे नह्य नो नापि मा स्म मालं च वारणे ॥ ३.५.९१३ ॥

 पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम् ॥ ३.५.९१४ ॥

 प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ॥ ३.५.९१५ ॥

 समन्ततस्तु परितः सर्वतो विष्वगित्यपि ॥ ३.५.९१६ ॥

 अकामानुमतौ काममसूयोपगमेस्तु च ॥ ३.५.९१७ ॥

 ननु च स्याद्विरोधोक्तौ कश्चित्कामप्रवेदने ॥ ३.५.९१८ ॥

 निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम् ॥ ३.५.९१९ ॥

 मृषा मिथ्या च वितथे यथार्थं तु यथातथम् ॥ ३.५.९२० ॥

 स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः ॥ ३.५.९२१ ॥

 प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् ॥ ३.५.९२२ ॥

 संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना ॥ ३.५.९२३ ॥

 अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः ॥ ३.५.९२४ ॥

 सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने ॥ ३.५.९२५ ॥

 अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि ॥ ३.५.९२६ ॥

 हुं तर्के स्यादुषा रात्रेरवसानेनमो नतौ ॥ ३.५.९२७ ॥

 पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने ॥ ३.५.९२८ ॥

 सायं साये प्रगे प्रातः प्रभाते निकषान्तिके ॥ ३.५.९२९ ॥

 अमानुगुण्ये स्मरणे हुं फड्विघ्ननिराकृतौ ॥ ३.५.९३० ॥

 अङ्गीकृतौ स्यादर्थे हूं हीनसंबोधते त्वरे ॥ ३.५.९३१ ॥

 परुत्परार्थैषमोऽब्दे पूर्वे पूर्वतरे यति ॥ ३.५.९३२ ॥

 अद्यऽत्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् ॥ ३.५.९३३ ॥

 तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः ॥ ३.५.९३४ ॥

 उभयद्युश्चोभयेद्युः परेत्वह्नि परेद्यवि ॥ ३.५.९३५ ॥

 ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि ॥ ३.५.९३६ ॥

 तदा तदानीं युगपदेकदा सर्वदा सदा ॥ ३.५.९३७ ॥

 एतर्हि संप्रतीऽदानीमधुना साम्प्रतं तथा ॥ ३.५.९३८ ॥

 दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः ॥ ३.५.९३९ ॥

 ॥ % इत्यव्ययवर्गः ४, अत्र मूलश्लोकाः २३ ॥

==॥ लिङ्गादिसंग्रहवर्गः । ॥==

 ॥ । अथ लिङ्गादिसंग्रहवर्गः ५ ॥

 सलिङ्गशास्त्रैः सन्नादि कृत्तद्धित समासजैः ॥ ३.६.९४० ॥

 अनुक्तैः संग्रहे लिङ्गं संकीर्णवदिहोन्नयेत् ॥ ३.६.९४१ ॥

 लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः ॥ ३.६.९४२ ॥

 स्त्रियामीदूद्विरामैकाच्सयोनिप्राणिनाम च ॥ ३.६.९४३ ॥

 नाम विद्युन्निशावल्लीवीणादिग्भूनदीह्रियाम् ॥ ३.६.९४४ ॥

 अदन्तैर्द्विगुरेकार्थो न स पात्रयुगादिभिः ॥ ३.६.९४५ ॥

 तल्वृन्दे येनिकट्यत्रा वैरमैथुनिकादिवुन् ॥ ३.६.९४६ ॥

 स्त्रीभावादावनि क्तिण् ण्वुल्णच्ण्वुच्क्यब्युजिञ्ङ्नि शाः ॥ ३.६.९४७ ॥

 उणादिषु निरूरीश्च ङ्याषूडन्तं चलं स्थिरम् ॥ ३.६.९४८ ॥

 तत्क्रीडायां प्रहरणं चेन्मौष्टा पाल्लवा ण दिक् ॥ ३.६.९४९ ॥

 घञो ञः सा क्रियास्यां चेद्दाण्डपाता हि फाल्गुनी ॥ ३.६.९५० ॥

 श्यैनम्पाता च मृगया तैलम्पाता स्वधेति दिक् ॥ ३.६.९५१ ॥

 स्त्री स्यात्काचिन्मृणाल्यादिर्विवक्षापचये यदि ॥ ३.६.९५२ ॥

 लङ्का शेफालिका टीका धातकीपञ्चिकाढकी ॥ ३.६.९५३ ॥

 सिध्रका सारिका हिक्का प्राचिकोल्का पिपीलिका ॥ ३.६.९५४ ॥

 तिन्दुकी कणिका भङ्गिः सुरङ्गासूचिमाढयः ॥ ३.६.९५५ ॥

 पिच्छा वितण्डा काकिण्यश्चूर्णिः शाणी द्रुणी दरत् ॥ ३.६.९५६ ॥

 सातिः कन्था तथासन्दी नाभी राजसभापि च ॥ ३.६.९५७ ॥

 झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला ॥ ३.६.९५८ ॥

 लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी ॥ ३.६.९५९ ॥

 ॥ । इति स्त्रीलिङ्ग संग्रहः ॥

 पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः ॥ ३.६.९६० ॥

 स्वर्गयागाद्रिमेघाब्धि द्रु कालासिशरारयः ॥ ३.६.९६१ ॥

 करगण्डोष्ठदोर्दन्तकन्ठकेशनखस्तनाः ॥ ३.६.९६२ ॥

 अह्नाहान्ताः क्ष्वेडभेदा रात्रान्ताः प्रागसंख्यकाः ॥ ३.६.९६३ ॥

 श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः ॥ ३.६.९६४ ॥

 कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः ॥ ३.६.९६५ ॥

 कषणभमरोपान्ता यद्यदन्ता अमी अथ ॥ ३.६.९६६ ॥

 पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः ॥ ३.६.९६७ ॥

 नाम्न्यकर्तरि भावे च घञ् जब्नङ्ण घाथुचः ॥ ३.६.९६८ ॥

 ल्युः कर्तरीमनिच्भावे को घोः किः प्रादितोन्यतः ॥ ३.६.९६९ ॥

 द्वन्द्वेऽश्ववडवावश्ववडवा न समाहृते ॥ ३.६.९७० ॥

 कान्तः सूर्येन्दुपर्यायपूर्वोऽयः पूर्वको.पि च ॥ ३.६.९७१ ॥

 वटकश्चानुवाकश्च रल्लकश्च कुडङ्गकः ॥ ३.६.९७२ ॥

 पुङ्खो न्यूङ्खः समुद्रश्च विटपट्टधटाः खटाः ॥ ३.६.९७३ ॥

 कोट्टारघट्टहट्टाश्च पिण्डगोण्डपिचण्डवत् ॥ ३.६.९७४ ॥

 गडुः करण्डो लगुडो करण्डश्च किणो घुणः ॥ ३.६.९७५ ॥

 दृतिसीमन्तहरितो रोमन्थोद्गीथबुद्बुदाः ॥ ३.६.९७६ ॥

 कासमर्दोऽर्बुदः कुन्दः फेनस्तूपौ सयूपकौ ॥ ३.६.९७७ ॥

 आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः ॥ ३.६.९७८ ॥

 पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः ॥ ३.६.९७९ ॥

 वेतालभल्लमल्लाश्च पुराडाशोऽपि पट्टिशः ॥ ३.६.९८० ॥

 कुल्माषो रभसश्चैव सकटाहः पतद्रहः ॥ ३.६.९८१ ॥

 ॥ । इति पुंलिङ्गशेषसंग्रहः ॥

 द्विहीनेऽन्यच्च खारण्यपर्णश्वभ्रहिमोदकम् ॥ ३.६.९८२ ॥

 शीतोष्णमांसरुधिरमुखाक्षिद्रविणं बलम् ॥ ३.६.९८३ ॥

 फलहेमशुल्बलोहसुखदुह्खशुभाशुभम् ॥ ३.६.९८४ ॥

 जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम् ॥ ३.६.९८५ ॥

 कोट्याः शतादिसंख्यान्या वा लक्षा नियुतं च तत् ॥ ३.६.९८६ ॥

 द्वयष्कमसिसुसन्नन्तं यदनान्तमकर्तरि ॥ ३.६.९८७ ॥

 त्रान्तं सलोपधं शिष्टं रात्रं प्राक्संख्ययान्वितम् ॥ ३.६.९८८ ॥

 पात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः ॥ ३.६.९८९ ॥

 द्वन्द्वैक्त्वाव्ययीभावौ पथः संख्याव्ययात्परः ॥ ३.६.९९० ॥

 शड्याश्छाया बहूनां चेद्विच्छायं संहतौ सभा ॥ ३.६.९९१ ॥

 शालार्थापि परा राजामनुष्यार्थादराजकात् ॥ ३.६.९९२ ॥

 दासीसभं नृपसभं रक्षस्सभमिमा दिशः ॥ ३.६.९९३ ॥

 उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने ॥ ३.६.९९४ ॥

 कोपज्ञकोपक्रमादि कन्थोशीनरनामसु ॥ ३.६.९९५ ॥

 भावे न णकचिद्भ्योऽन्ये समूहे भावकर्मणोः ॥ ३.६.९९६ ॥

 अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः ॥ ३.६.९९७ ॥

 क्रियाव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके ॥ ३.६.९९८ ॥

 चोचं पिच्छं गृहस्थूणं तिरीटं मर्म योजनम् ॥ ३.६.९९९ ॥

 राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः ॥ ३.६.१००० ॥

 माणिक्यभाष्यसिन्दूरचीरचीवरपिञ्जरम् ॥ ३.६.१००१ ॥

 लोकायतं हरितालं विदलस्थालबाह्लिकम् ॥ ३.६.१००२ ॥

 ॥ । इति नपुंसकशेषसंग्रहः ॥

 पुन्नपुंसकयोः शेषोऽर्धर्चपिण्याककण्टकाः ॥ ३.६.१००३ ॥

 मोदकस्तण्डकष्टङ्कः शाटकः कर्पटोऽर्बुदः ॥ ३.६.१००४ ॥

 पातकोद्योगचरकतमालामलका नडः ॥ ३.६.१००५ ॥

 कुष्ठं मुण्डं शीधु बुस्तं क्ष्वेडितं क्षेमकुट्टिमम् ॥ ३.६.१००६ ॥

 संगमं शतमानार्मशम्बलाव्ययताण्डवम् ॥ ३.६.१००७ ॥

 कवियं कन्दकार्पासं पारावारं युगन्धरम् ॥ ३.६.१००८ ॥

 यूपं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ ॥ ३.६.१००९ ॥

 अर्धर्चादौ घृतादीनां पुंस्त्वाद्यं वैदिकं ध्रुवम् ॥ ३.६.१०१० ॥

 तन्नोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत् ॥ ३.६.१०११ ॥

 ॥ । इति पुन्नपुंसकशेषसंग्रहः ॥

 स्त्रीपुंसयोरपत्यान्ता द्विचतुष्षट्पदोरगाः ॥ ३.६.१०१२ ॥

 जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः ॥ ३.६.१०१३ ॥

 ऊर्मिर्वराटकः स्वातिर्वर्णको झाटलिर्मनुः ॥ ३.६.१०१४ ॥

 मूषा सृपाटी कर्कन्धूर्यष्टिः शाटी कटी कुटी ॥ ३.६.१०१५ ॥

 ॥ । इति स्त्रीपुंसशेषसंग्रहः ॥

 स्त्रीनपुंसकयोर्भावक्रिययोः व्यञ् क्वचिच्च वुञ् ॥ ३.६.१०१६ ॥

 औचित्यमौचिती मैत्री मैत्र्यं वुञ् प्रागुदाहृतः ॥ ३.६.१०१७ ॥

 षष्ठ्यन्तप्राक्पदाः सेनाछायाशालासुरानिशाः ॥ ३.६.१०१८ ॥

 स्याद्वा नृसेनं श्वनिशं गोशालमितरे च दिक् ॥ ३.६.१०१९ ॥

 आबन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप् ॥ ३.६.१०२० ॥

 त्रिखट्वं च त्रिखट्वी च त्रितक्षं च त्रितक्ष्यपि ॥ ३.६.१०२१ ॥

 ॥ । इति स्त्रीनपुंसकशेषसंग्रहः ॥

 त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ ॥ ३.६.१०२२ ॥

 ॥ इति त्रिलिङ्गशेषसंग्रहः ॥

 परं लिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् ॥ ३.६.१०२३ ॥

 अर्थान्ताः प्राद्यलम्प्राप्तापन्नपूर्वाः परोपगाः ॥ ३.६.१०२४ ॥

 तद्धितार्थो द्विगुः संख्यासर्वनामतदन्तकाः ॥ ३.६.१०२५ ॥

 बहुर्व्रीहिरदिङ्नाम्नामुन्नेयं तदुदाहृतम् ॥ ३.६.१०२६ ॥

 गुणद्रव्यक्रियायोगोपाधयः परगामिनः ॥ ३.६.१०२७ ॥

 कृतह्कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि ॥ ३.६.१०२८ ॥

 अणाद्यन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः ॥ ३.६.१०२९ ॥

 षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङ्व्ययम् ॥ ३.६.१०३० ॥

 परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः ॥ ३.६.१०३१ ॥

 ॥ इत्यमरसिंहकृतौ नामलिङ्गानुशासने ॥

 ॥ सामान्यकाण्डस्तृतीयः साङ्ग एव समर्थितः ॥