अभिलाषाष्टकम्

विकिस्रोतः तः

कदा पक्षीन्द्रांसोपरि गतमजं कञ्चनयनम्
रमासंश्लिष्टाङ्गं गगनरुचमापीतवसनम् ।
गदाशङ्खाम्भोजारिवरमालोक्य सुचिरं
गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम् ॥ १॥

कदा क्षीराब्ध्यन्तः सुरतरुवनान्तर्मणिमये
समासीनं पीठे जलधितनयालिङ्गिततनुम् ।
स्तुतं देवैर्नित्यं मुनिवरकदम्बैरभिनुतम्
स्तवैः सन्तोष्यामि श्रुतिवचनगर्भैः सुरगुरुम् ॥ २॥

कदा मामाभीतं भयजलधितस्तापसतनुं
गता रागं गङ्गातटगिरिगुहावाससहनम् ।
लपन्तं हे विष्णो सुरवर रमेशेति सततं
समभ्येत्योदारं कमलनयनो वक्ष्यति वचः ॥ ३॥

कदा मे हृद्पद्मे भ्रमर इव पद्मे प्रतिवसन्
सदा ध्यानाभ्यासादनिशमुपहूतो विभुरसौ ।
स्फुरज्ज्योतीरूपो रविरिव रसासेव्यचरणो
हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम् ॥ ४॥

कदा मे भोगाशा निबिडभवपाशादुपरतं
तपःशुद्धं बुद्धं गुरुवचनतोदैरचपलम् ।
मनो मौनं कृत्वा हरिचरणयोश्चारु सुचिरं
स्थितिं स्थाणुप्रायां भवभयहरां यास्यति पराम् ॥ ५॥

कदा मे संरुद्धाखिलकरणजालस्य परितो
जिताशेषप्राणानिलपरिकरस्य प्रजपतः ।
सदोङ्कारं चित्तं हरिपदसरोजे धृतवतः
समेष्यत्युल्लासं मुहुरखिलरोमावलिरियम् ॥ ६॥

कदा प्रारब्धान्ते परिशिथिलतां गच्छति शनैः
शरीरे चाक्षौघेऽप्युपरतवति प्राणपवने ।
वदत्यूर्ध्वं शश्वन्मम वदनकञ्जे मुहुरहो
करिष्यत्यावासं हरिरिति पदं पावनतमम् ॥ ७॥

कदा हित्वा जीर्णां त्वचमिव भुजङ्गस्तनुमिमां
चतुर्बाहुश्चक्राम्बुजदरकरः पीतवसनः ।
घनश्यामो दूतैर्गगनगतिनीतो नतिपरै-
र्गमिष्यामीशस्यान्तिकमखिलदुःखान्तकमिति ॥ ८॥

॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं
    अभिलाषाष्टकं सम्पूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=अभिलाषाष्टकम्&oldid=56875" इत्यस्माद् प्रतिप्राप्तम्