अब्धिनौयानमीमांसा /सप्तमं खण्डम्
| ← षष्ठं खण्डम् | अब्धिनौयानमीमांसा सप्तमं खण्डम् [[लेखकः :|]] |
अथ प्रायश्चित्ताख्यं सप्तमं खण्डं प्रारभ्यते ।। 7 ।।
नच चण्डालाद्यशुचिजनसम्बन्धान्नावोऽशुद्धत्वा त्समुद्रयाने तत्र सन्ध्यादिसत्कृत्यं दुष्करं स्यादिति वाच्यम्।। "आसनं शयनं यानं नावः पथि तृणानि च। चण्डालपतितस्पृष्टं मारुतेनैव शुध्यति" इति (बोधायनस्मृतौ।) उक्तेर्मारुतेन शुद्धचङ्गीकारेणादोषात्।। न च तत्र चण्डालादिसामीप्यमिति तद्यानम युक्तमिति वाच्यम्।। "युगं युगद्वयं चैव त्रियुगं च चतुर्युगम्। चण्डालसूतिकोदक्यापतितानामधः क्रमात्" इति (पराशरस्मृतौ 12 ध्या 0 78 श्लो 0) उक्तेर्मारुतेन नौः शुद्धपितत्रैव चण्डालादिवासप्रयोज्यप्रत्यवायस्यपतितोदक्यासूतिकाचण्डालानां क्रमेण चतुस्त्रिद्वयेकयुग<1>प्रमाणेन <1.चण्डालादस्पिर्शे।> व्यवधानेनादुष्टत्वस्वीकारात्।। युगप्रमाणं च लोकव्यवहारादवगन्तव्यमिति (तत्रैव माधवीये) स्पष्टम्। न च शवविण्मूत्रादिदूषितायां नावि कथं शुद्धिरिति वाच्यम्। "शवविण्मूत्रशुक्लैस्तुदूषितं तु मृदम्बुभिः। शोध्यादौ शोधनीयं च गोमूत्रक्षीरवारिभिः" इति (पराशरमाधवीये 7 ध्या 0 29 श्लो 0 व्या 0 ब्रह्नाण्डपुराणे) उक्तरीत्यामृज्जलादिना शुद्धिसिद्धे। न च "ननाविभुञ्जीत ।। 6 ।।" इति (आपस्तम्बेन 1 मे धर्मप्र श्ने प्रथमपटले) सूत्रेण तत्र भोजनस्य निषिद्धत्वान्न नावा समुद्रयानं स्यादिति वाच्यम्।। तवापिभूमौ स्थितस्य "न नाविभुञ्जीत ।।6।।" इति सूत्रोत्तरं "तथा प्रासादे ।।7।।" इति (आपस्तम्बेन 1 मे धर्मप्रश्र्ने 5 मपटले) सूत्रेण प्रासादे भोजननिषेधात्कथं भुज्यत इति प्रश्र्ने "कृतभूमौ तु भुञ्जीत ।।8।।" इति (आपस्तम्बेन तत्रैव पटले) सूत्रेण कृत्रिमभुवं परिकप्ल्य तत्र भुञ्जीतेत्युक्तेस्तत्र भुज्यत इत्युत्तरस्यैवानुवादेनेष्टसिद्धेः। अत एव "न प्रासादे दारुमये मञ्चे वा सौधेऽशुद्धेऽपि पात्रे" इति "कृतभूमौ गोमयादिना संस्कृतायां भुञ्जीत" इति च (संवर्तेन) तथा-"नाङ्कस्थो दारुसंस्थो वा नाकाशे नान्धकारिते। नाश्नीयाच्छयनारूढो न दीपे निहते पुनः" इति (शाण्डिल्येन) उक्तं संगच्छते।।
ननु सिन्धुसौवीरेत्य `त्रप्रत्यन्तवासिनः' इत्यनेन समुद्रयानेप्रत्यन्तवासिभिःसंसर्गोभवतीति तद्दोषनिराकरणाय पुनस्संस्कारादिकर्तव्यं स्यादितितत्संसर्ग एव निषिध्यते न तुतद्देशगमनमपि। न चैवं प्रत्यन्तवासिनां भरतखण्डमागतानां भरतखण्डेशुद्धक्षेत्रादावनिषिद्धदेशे संसर्गो यैर्भवति तेषां पुनस्संस्कारापत्तिरितिवाच्यम्।। अनिषिद्धधर्माचारवद्भरतखण्डस्थदेशेब्योन्यदेशं गत्वा तत्रत्यैस्तत्र सहवास एव प्रायश्चित्तं नोक्तभरतखण्डस्थे देशे तैःत्सहवास इति स्वीकारात्।। न च विनिगमनाविरहादुभयत्र तत्सहवासः प्रायश्चित्तापादकइत्युचितमिति वाच्यम्।। चण्डालादिभिराक्रान्तेल्पेतीर्थादौ कृतं कर्म दोषावहंतन्निर्गमोत्तरं तत एव शुद्धे तत्रैव कृतंकर्म बहुफलमित्यादिरीत्याशा स्त्र लोकव्यवहारात्काश्यादौमहाक्षेत्रेदुष्कृत्यानिकुर्वतोपि काशीतोऽन्यत्र वासं विहाय काश्यामेव वस्तव्यमिति नियमवतस्तत्कर्मप्रयोज्यप्रत्यवायसंबन्धतदभावयोस्तारतम्यवद्दोषसम्बन्धतदभावयोस्तारतम्ययोरूह्यत्वात्।। र्किच भरतखण्डेप्रत्यन्तवासिभिः संसर्गे प्रत्यन्तदेशे भरतखण्डस्थैः सहसंसर्गे च संसर्गप्रयोज्यप्रत्यवायविषयेन्यूनाधिक्यम वश्यमभ्युपेयम्। यतोवेदोक्तसुकर्मबहुलेयं भूमिः तद्विपरीता च प्रत्यन्तभूमिः।। ततश्चकर्मठबहुलभूमध्यस्थस्यभरतख ण्डेतत्रत्यैस्सहसंसर्गे तत्रात्रत्यैस्सहसंसर्गे उत्पत्स्यमानतत्प्रयोज्यप्रत्यवायापेक्षयात्रोत्पत्स्यमानतत्प्रयोज्यप्रत्यवाययस्य दौर्बल्यादल्पत्वाच्चमन्दमेवप्रसरणमतिशीतप्रदेशे विषस्य प्रसरणमिव।। तत्श्च प्रत्यन्तदेशेतूष्णदेशे विषस्यप्रसरणमिव प्रत्यन्तवासिभिःसंसर्गप्रयोज्यप्रत्यवायः भरतखण्डस्थस्यझडितिबहुलप्रबलप्रत्यवायोत्पादकः।। प्रत्यन्तदेशभुवो वेदविहितसद्धर्मकर्मानुष्ठानशून्यत्वेनप्रायस्तद्भिन्नासद्धर्मानुष्ठानपरिपूर्णत्वेन वेदविहितकर्मविरुद्धकर्मानुष्ठातृजनवाहुल्येन च तत्र तद्दोषप्रसरणस्य प्राबल्यात्।। न चैवं प्रत्यन्तदेशवासिनां भरतखण्डीयजनैः सह भरतखण्डे संसर्गे प्रत्यन्तदेशवासिनस्तद्देशीयसंसर्गप्रत्यवायह्रासेन शुद्धतापत्तिरितस्स्वदेशगमने स्वदेशीयसंसर्गजन्यपापपरिहाराय प्रायश्चित्तस्य कर्तव्यतापत्तिश्चेति वाच्यम्।। इष्टापत्तेः।। तत्र पुनर्गमनोत्तरं प्रायश्चित्तानुष्ठानेच्छायां सत्यामपि तदनधिकारित्वेन तेन कर्तुमशक्यत्वाच्च।। तथा च "प्रत्यन्तवासिनः" इत्यस्य म्लेच्छदेशवासिनो जना इत्यर्थमभिप्रेत्य संसर्गस्तत्रत्यैस्सह तत्रैवात्रत्याना प्रबलदोषावहोत्रापि खण्डे किञ्चिद्दोषावह इति वर्णितम्।।
अत्रायमभिसन्धिः।
संसर्गश्च-"तदन्नं तद्गृहे भुक्तिस्तदनुज्ञानिरीक्षणम्।। तदनुज्ञामवाप्याथ स्वयं वापि निरीक्षणम्।। भुक्त्वा विप्रः सपापीयान्षड्विधं शूद्रभोजनम्" इति (प्रायश्चित्तखण्डे हेमाद्रौ शूद्रसत्रभोजनप्रायश्चित्ते मनुना) "एकशय्यासनं पङ्क्तिर्बाण्डपङ्क्तयन्नमि श्रणम्। याजनाध्यापने योनिस्तथा च सहभोजनम्।। नवधासंकरः प्रोक्तो न कर्तव्योधमैः सह" इति (मिताक्षरायां बृहस्पतिना 261 श्लो 0 3 ध्या) (4 ध्या 0 8 श्लो 0 व्या 0 पराशरमाधवीये च) "संलापस्पर्शनिः श्वासात्सहशय्यासनाशनात्। याजनाध्यापनाद्यौनात्पापंसंक्रमतेनृणाम्।" इति च (तत्रैव देवलेन) "पृथक् पृथक् दोषजनकत्वमेषां समुदितस्यैव दोषजनकत्वम्" इति च (मिताक्षरायां 3 ध्या 0 261 श्लो 0) उक्तरीत्या पूर्वोक्तेस्सह संपर्कस्य निषिद्धत्वेन तस्य समुद्रयाने नान्तरीयकतया सम्भवादुभयत्र भरतखण्डेन्यखण्डे च समानत्वेपि पक्षिणामेकजातीयत्वेपि देशभेदेन दुःखित्वसुखित्वाल्पदुः खित्वाल्पसुखित्ववत्पूर्वोक्तदृष्टान्तवच्च संसर्गस्तत्रप्रबलप्रत्यवायकारी अत्र त्वल्पप्रत्यवायकारीति।।
ननु "ब्रह्नहामद्यपःस्तेनस्तथैव गुरुतल्पगः। एते महापातकिनो यश्च तैस्सह संवसेत्" इति (मनुना 11 ध्या 0 55 श्लो 0) उक्तेस्तत्संसर्गिणः कंर्तव्यप्रायश्चित्तस्य यद्दोषवतावासादिस्तद्दोषवानेवायमितिनिर्णयेपि ब्रह्नहत्यादिपापकृतां चतुर्णामेव कलियुगीयधर्मनिर्णयार्थं प्रवृत्तेन पराशरेण प्रायश्चित्तान्युक्तानि न तु तत्संसर्गिणः प्रायश्चित्तं कञ्चिदप्युक्तमिति तस्य प्रायश्चित्तं कलौ नास्त्येव। अत एव "कृते संभाषणादेव त्रेतायां स्पर्शनेन च। द्वापरे त्वन्नमादाय कलौ पतति कर्मणा ।। 26 ।।" इति "त्यजेद्देशं कृतयुगे त्रेतायांग्राममुत्सृजेत्। द्वापरेकुलमेकं तु कर्तारं तु कलौ युगे ।। 25 ।।" इति "संसर्गदोषः स्तेनाद्यैः" इति च (पराशरमाधवीये धर्मज्ञसमयप्रमाणनिरूपककलिवर्ज्ये 1 द्या 0 34।। स्लो व्या0) उक्तं "कलौ कर्तैव" इति "पतति" इति ततः कर्तैव त्याज्यः इति महापातकिसंसर्गस्यकिञ्चिदपिदोषापादकत्वाभाव इति च सिद्धौ कथं चण्डालादिसंसर्गस्य कलौदोषापादकत्वं सुवचमिति चेत्।।न।। "संसर्गमाचरन्विप्रः पतितादि ष्वकामतः। पञ्चाहं वा दशाहं वा द्वादशाहमथापि वा।। ।। 7 ।। मासार्द्धं मासमेकं वा मासत्रयमथापि वा।। अब्दार्थमेकमब्दं वा भवेदूर्ध्वं तु तत्समः ।।8।।" इति (पराशरेण 4 ध्या0) तथा "संवत्सरेण पतति पतितेन सहाचरन्। भोजनासनशय्यादि कुर्वाणः सार्वकालिकम्" इति (मिताक्षरायां 3 ध्या 0 261 श्र्लो 0 व्या 0) तथा "तश्च तैस्सह संवसेत्" इति (मनुना 11 ध्या 0 55 श्लो 0) चोक्तवचनैः प्राप्तपतितत्वादिदोषापादकत्वस्याभावइत्यर्थस्य प्रागुक्तपराशरकलिवर्ज्यवचनादिनासिद्धावपिपापात्यन्ताभावस्यासिद्धेः।। अत एव "शूद्रान्नं शूद्रसं पर्कः शूद्रेण तु सहासनम्। शूद्राज्ज्ञानागमः कश्चिज्ज्वलन्तमपि पातयेत् ।। 34 ।।" इति "आसनाच्छयनाद्यानात्संभाषात्सहभोजनात्। सङ्क्रामन्तिहि पापानि तैलबिन्दुरिवाम्भसि ।। 78 ।।" इति च (पराशरेण 120 शाध्या0) उक्तः पापसंसर्गतज्जन्यपातित्ययोश्च निर्देशः संगच्छते।। एतेन "ब्रह्नहत्यासुरापानं स्तेयं गुर्वङ्गनागमः। महापातकसंज्ञानि चत्वार्येव कला युगे" इति "चत्वार्येव" चतुर्ग्रर्हणैवकाराब्यां "संसर्गदोषो नैव स्यान्महापातकिभिःकलौ" इति "नैव" इति पदेन च (स्मृतिमुक्ताफले प्रायश्चित्तकाण्डे क्रमेण सुमन्तुकामधेनुकर्त्तृब्यां) कलौ संसर्गदोषात्यन्ताभावस्यैव प्रतिपादनात् "यो वै समाचरेद्विप्रः" इत्युक्व्ता "त्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रमाचरेत्। तृतीये चैव पक्षे तु कृच्छ्रं सान्तपनं चरेत् ।। 9 ।। चतुर्थे दशरात्रं स्यात्पराकः पञ्चमे मतः। कुर्याच्चान्द्रायणं षष्ठे सप्तमे त्वैन्दवद्वयम् ।। 10 ।। शुद्धयर्थमष्टमे चैव षण्मासान्कृच्छ्रमाचरेत्। पक्षसंख्याप्रमाणेन सुवर्णानय्पिदक्षिणा ।। 11 ।।" इति (पराशरमाधवीये 4 ध्या 0) अकामकृते संसर्गे तथा "पञ्चाहेतुचरेत्कृच्छ्रं दशाहे तप्तकृच्छ्रकम्। पराकस्त्वर्धमासे स्यान्मासे चान्द्रायणं चरेत् । मासत्रये प्रकुर्वीत कच्छ्रं चान्द्रायणोत्तरम्। षाण्मासिके तु संसर्गे कृच्छ्रं त्वब्दार्धमाचरेत्। संसर्गेत्वाब्दिके कुर्यादब्दं चान्द्रायणं नरः" इति (मिताक्षरायां 3 ध्या 0 261 श्लो 0 सुमन्तुना) कामकृते संसर्गे प्रायश्चित्तयोर्विधानं कलावयुक्तमेवेत्यपास्तम्।। एवं च समुद्रयानेपि संसर्गप्रायश्चित्तं सामान्यं स्यादेवेति केचित्।। तन्न।।"युगे युगे तु सामर्थ्यं दोषं मुनिविभाषितम्। पराशरेण चाप्युक्तं प्रायश्चित्तं विधीयते।। ।। 34 ।। इत्यत्र (पराशरेण 1 ध्या 0) "शेषं मुनिविभाषितम्" इत्युक्तरीत्या "देशयात्राविवाहेषु यत्र प्रकरणेषु च। उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिर्न विद्यते।" इति (अत्रिणा) "सङ्कटे विषमस्थाने दुर्गेषु परिखे तथा। भद्रपत्तनमार्गेषु यथा शुद्धस्तथैव सः" इति (स्मृतिरत्नाकरे संवर्तेन) चोक्तेर्यात्रामार्गपत्तनेषु स्पृष्टास्पृष्टिजन्यदोषाभावस्याशुद्धेपि शास्त्रीयशुद्धत्वप्रतिपादनेन तदभावस्यापि प्रतिपादनाद्यस्यकस्यापिसंसर्गस्य दोषजनकत्वाभावसिद्धेः।। न चैवं "पथि चण्डालकं दृष्ट्वा कुर्यात्सूर्यावलोकनम्। यदि संभाषणं चैव सावित्रीं तु सकृज्जपेत्" इति (पराशरेण स्मृतिरत्नाकरे) उक्तमयुक्तंस्यात्। सर्वथापि पथियानादौत्वयासांसर्गिकदोषाभावस्योक्तत्वादिति वाच्यम्।। "रत्याकर्दमतोयानि नावः पन्थास्तृणानि च। मारुतार्केण शुध्यन्ति पव्केष्टकचितानि च ।। 34 ।।" इति "देशभङ्गे प्रवासे वा व्याधिषु व्यसनेष्वपि। रक्षेदेव स्वदेहानि पश्चाद्धर्मं समाचरेत् ।। 36 ।।" इत्यादिना च (पराशरेण 7 ध्या0) उक्तेर्नौकातिरिक्तपथविषयत्वंतीर्थयात्रादिषु नौकाद्यवस्थानरूपप्रवासनानाधर्मनाशरूपदेशभङ्गस्वामिकार्यादिरू पव्यसनादिभिन्नविषयत्वं च प्रायश्चित्तस्येत्यदोषात्।। अत एव प्रागुक्ते संवर्त्तेवचने दुर्गपदं सङ्कटपदं च सार्थकम् "उपवासैर्व्रतैः पुण्यैः स्नानसन्ध्यार्चानादिभिः।।40।। जपहोमदयादानैः शुध्यन्ते ब्राह्नणादयः। आकाशं वायुरग्निश्च मेध्यं भूमिगतं जलम्।।41।। न दुष्यन्ति च दर्भाश्च यज्ञेषु चमसायथा" इति (पराशरेण 10 ध्या0) "ऋत्विङ्मुखसंस्पर्शेपि चमसानां यथा नोच्छिष्टदोषश्शास्त्रदृष्टया तेषां निर्लेपस्वभावत्वात्तद्वदाकाशादिष्ववगन्तव्यम्" इति (तत्रैव माधवीये) चोक्तरीत्या नौकास्वपि नित्यनैमित्तिकादिकर्मकर्तॄणामशुद्धयभावाच्च। न चेदं वचनं व्यभिचारे णप्राप्तचण्डालत्ववद्ब्राह्नणीगृहप्रवेशेप्यशुद्धचभावबोधकमिति वाच्यम्।। न्यायसाम्येनैतद्विषयकत्वेपि बाधकाभावादिति केचित्।।
ननु "वेदवेदाङ्गविदुषां धर्मशास्त्रं विजानताम्। स्वकर्मरतविप्राणां स्वकं पापं निवेदयेत्" इति (पराशरेण 8 ध्या 0 2 स्लो0) उक्तरीत्या तथाभूतानां सन्निधौ स्वपापे निवेदिते "आर्तानां मागमाणानां प्रायस्चित्तानि ये द्विजाः। जानन्तो न प्रयच्छन्ति ते तेषां समभागिनः" इति (अङ्गिरसा माधवीये8ध्या 0 30 श्लो 0 व्या0) उक्तेस्तज्ज्ञैः "कर्तारं देशकालौ च प्रमाणं कारणं क्रियाम्। अवेक्ष्य च बलं चैव प्रायश्चित्तं वदेद्बुधः" इति (विष्णुना प्रायश्चित्तपद्धतौ) उक्तरीत्या देशकालकर्त्रादिकं पर्यालोच्य "प्रायश्चित्तं तदा दद्याद्देवतायतनाग्रतः। आत्म कृच्छ्रं ततः कृत्वा जपेद्वैवेदमातरम्" इति (पराशरेण8द्या 0 30 श्लो0) उक्तेर्देवालयादौ स्थलविशेषे "सुशान्तानां च विदुषां कलौ संघः प्रशस्यते। धर्मज्ञा बहवोविप्राः कर्तुमर्हन्त्यनुग्रहम्" इति (तत्रैव देवलेन) उक्तरीत्या संघशः समेत्यनिश्चित्य प्रायश्चित्तमनुपेक्ष्योपदेष्टव्यमेवेति "आज्ञात्वाधर्मशास्त्राणि प्रायस्चित्तं ददाति यः। प्रायाश्चित्ती भवेत्पूतः किल्बिषं परिषद्व्रजेत्" इति (पराशरेण व्या 0 श्लो0) उक्तेरन्यैरुपदिष्टंप्रायश्चित्तं न विधेयमिति च निर्णीतम्।। ततश्च कलौ तथाभूतानां स्वकर्मरतविप्राणामभावः। यतः कलौ सर्वेप्यभोज्यान्नाअभक्ष्यभक्षणाश्च।। तस्माद्ब्राह्नणविषयकं प्रायश्चित्तं व्यर्थमेव। स्वतः कृतप्रायश्चित्तानामपि पुनरभक्ष्यभक्षणाभोज्यान्नानाचाराचरणाचारत्यागपरद्रोहादिष्वेव तेषांप्रवृत्तेस्स्वाभाविकत्वेन ततो निवृत्त्ययोग इति पराशराद्युक्तनानाविधपरि षल्लक्षणलक्षितासुपरिषत्सु कस्या अपि परिषदोऽसंभवेनतद्विधायकाभावात्कथंद्विजानां प्रायश्चित्तं स्यात्। यथा "स्वाध्यायमधीयीत" इति (तैत्तिरीयब्राह्नणे) "स्वाधायप्रवचनाभ्यां न प्रमदितव्यम्" इति "तमध्यापयीत" इति (तैत्तिरीयोपनिषदि 1 वल्ल्यां) चाध्ययनाध्यापन योर्विधीस्तः। "पाठमात्रावसानो हि पह्के गौरिवसीदति" इत्यादिकानाम् (पराशरमाधवीये कूर्मपुराणे 38।। श्लो 0 व्या 0 1 ध्या0) उक्तेरिदं विधिद्वयमर्थज्ञानपर्यन्तं साङ्गवेदानां चतुर्णां स्वशाखाया वा पाठमाचष्टे। न च कलौ कोपि तादृशो द्विजो दृस्यते। यथा वा गव्येन घृतादिना विना होमादि विहितम् न च तत्व्कापि दृश्यते। यथा वा ध्ययनधर्मादय आ श्रमधर्मादयश्च बहवो निरूपिताः। नच तेषु कस्याप्येकस्य पूर्णतया ज्ञातानुष्ठाता वा द्विजः कोपि कलौ दृस्यते। तस्माद्ब्राह्नणाः क्षत्रिया वैश्याश्च स्वस्वतेजोबलधर्माचारशून्यास्तथा शूद्रा अपि तथाविधद्विजाभावेन व्कचिदपि निग्रहानुग्रहबलमपश्यन्तो निर्भयेन स्वतन्त्राः संवृत्ताः इति सर्वेपि प्रायश्चित्तार्हाःस्युरिति चेत्।।न।। द्विविधा ह्यधर्मस्य प्रवृत्तिःयुगप्रयुक्ता प्रमादालस्यादिप्रयुक्ता च। आद्या परिहर्तुमशक्यत्वेनानिवार्या। अन्त्या तु परिहर्तुं शक्या प्रायश्चित्तेन। तन्मात्रोद्देशेन कलौ प्रवृत्तानां सर्वज्ञपराशरप्रोक्तानां प्रायश्चित्तानामुपदेष्ट्राद्यभावेन साङ्गतया यथावदनुष्ठाना सम्भवेन वैयर्थ्यकल्पनापेक्षया कालदेशशक्तिकर्तृद्रव्योपदेष्ट्रादिसामग्र्याद्यनुरोधेन यथासंभवमनुष्ठानेन सार्थक्यकल्पनं वरं युक्तं श्रेयस्करं चेत्याद्यर्थाह्गीकारेणादोषात्।। तथा च "दानमेव कलौ युगे" (पराशरेण 1 ध्या 0 22 स्लो 0) "कलौ संघः प्रशस्यते" (पराशरमाधवीयेदेवलेन 8 ध्या 0 30 श्लो 0 व्या 0) "देशं कालं वयः शक्तिम्" (याज्ञवल्क्येन श्लो 294 3 ध्या 0) इत्याद्युक्तिं च पर्यालोच्य मुख्यतया दानं संघंसजातीयं चव्यवस्थाप्यतत्तद्देशाद्यनुसारेणोक्तप्रायश्चित्तस्ययथा तथा वानुष्ठानेन सर्वेनिष्पापा भवन्त्विति कृपयैव प्रणीतमिदं शास्त्रं सन्मुख्यतममास्तिकतामुत्पादयन्नास्थिकतां निवर्तयच्च परमोत्तममेव फलं प्रसूते।। एवं च "षट्कर्माभिरतो नित्यं देवतातिथिपूजकः।। हुतशेषं तु भुञ्जानो ब्राह्नणो नावसीदति" इति (पराशरेण 1 ध्या 0 38।. स्लो0) उक्तेर्यजनयाजनाध्ययनाध्यापनदानप्रति ग्रहरूपषट्कर्मानुष्ठानेन सर्वेपि वर्णा न कदाचिदपि क्लेशस्य नरकाद्यनुविद्धस्य पापमात्रस्यापि भाजनं भवन्ति। यतोऽत्र याजनाद्यापनप्रतिग्रहाः सामान्यतः सर्ववर्णसम्बन्धिनो गृह्यन्ते।। संकोचे माना भावा दिति ब्राह्नणद्वारा क्षत्रियादेस्त्रीणि यजनाध्ययनदानानि ब्राह्नणस्यानुष्ठातृत्वब्राह्नणक्षत्रियवैश्यानुष्ठापकत्वाभ्यां षडित्यनुष्ठातृत्वेनानुष्ठापकत्वेन च प्राप्तानां त्रयाणां त्रयाणां स्वस्वकर्मणां मध्ये नित्यानां नैमित्तिकानां काम्यानां प्रतिषिद्धविषयकप्रायश्चित्तानां चोक्तरीत्यानुष्ठानान्न कोपिदोष इति। यथा भरतखण्डे तथा द्वीपान्तरे यानेपि स्वस्वकर्मणां त्रयाणां त्रयाणां स्वस्वसमये तत्तद्देशकालसामग्र्याद्यनुसारेण साक्षात्प्रतिनिधिद्वारा वानुष्ठाने बलात्कारेण धर्मप्रतिष्ठालिप्सया वा द्वीपान्तरगतौ तत्प्रयोजकसामुद्रिकनौयानप्रयोज्यस्य प्रत्यन्तवासिवासप्रयोज्यस्य वा प्रायश्चित्तस्यनावश्यकता तेषांकेषाञ्चिद्वा।। साक्षात्प्रतिनिधिद्वारास्वस्वकर्मानुष्ठानासंभवेतुस्मृतिमुक्ताफलोक्तबोधायनीयस्यगोतमोक्तस्य ऋग्विधोनोक्तस्यात्यल्यदोषेप्रतिवर्षंकर्तव्यतया "संवत्सरस्यै कमपिचरेत्कृच्छ्रंद्विजोत्तमः। अज्ञातभुक्तशुद्धयर्थंज्ञातस्यतु विशेषतः" इति (मिताक्षरायां 3 ध्या 89 श्लो 0 व्या0) वचनेन विहितस्यवाप्रायश्चित्तस्यकाशीक्षेत्रवासादेर्वासर्वपापनाशकस्यानुष्ठानेनकर्मलोपादिप्रयोज्यदोषजालस्य निवृत्तिसंभवान्न कोपि दोषः। तथाधर्मज्ञसमये घटकबृहन्नारदीयोक्तस्यासंग्रह इत्येतत्पाठस्य प्रामाणिकत्वे द्वीपान्तरदर्शनकामनयैव द्वीपान्तरं गतस्यमार्गे सर्वथा परित्यक्तधर्मसर्वस्वस्याकृतप्रायश्चित्तस्य नास्तिकासंग्रहस्यशास्त्रान्तरसिद्धस्यानुवादकस्तथास्तिकस्य तु कृतप्रायश्चित्तस्य श्राद्धमात्रे दैवे पित्र्ये च परिहार्यताबोधक इति दिगिति विदां कुर्वन्तु सुधिय इति शम्।।
क्षमध्वं पण्डिताः सर्वे महान्तो गुणमण्डिताः।
धर्ममूलजगन्मूला विज्ञ्पतिः श्रूयतां मम ।। 1 ।।
धर्मं विवर्द्धयिषुणा परितो जगत्सु
पापं निनाशयिषुणा रचिता मयापि।
सारं रिरक्षयिषुणा भरतस्य खण्डे
आस्तिक्यबीजमियमस्तु हिता द्विजानाम् ।। 2 ।।
मासत्रयेस्यारचनाकृतेरेषामयाकृता।
बह्वाशयेनपूर्णापि व्याख्योदयमपेक्षते ।। 3 ।।
THE TEXT IS INCOMPLETE.