सामग्री पर जाएँ

अब्धिनौयानमीमांसा /तृतीयं खण्डम्

विकिस्रोतः तः
← द्वितीयं खण्डम् अब्धिनौयानमीमांसा
तृतीयं खण्डम्
[[लेखकः :|]]
चतुर्थं खण्डम् →

अथ भक्ष्याभक्ष्यविचारनामकं तृतीयं खण्डमाभ्यते ।। 3 ।।
भक्ष्यभोज्यादिकं सर्वं भुवीवात्रापि नो भिदा।
आवश्यकं प्रसङ्गाद्यत्तदेवात्रविविच्यते ।। 1 ।।
नौकाप्रत्यन्तदेशगमनयोर्जलान्नविषयेऽनुपपत्तिर्बहुधा संभवतीति तद्विचार्यते।
ननु प्रत्यन्तदेशे गमनसमये नौकायां वा जलान्नयोरलाभावात्सर्वैरपि प्रायस्त्रैवर्णिकैस्तत्र गन्तुं न शक्यते इति "सिन्धुसौवीरसौराष्ट्र" इत्यत्र प्रत्यन्तपदग्रहणं नौकयाब्धियाननिषेधोपि। नच तत्र बहूनां शूद्राणां सत्त्वात्तद्द्वारा जलान्नादिकं संपादयितुं शक्नुम इति वाच्यम्। "शूद्रहस्तेन यो भुङ्क्ते पानीयं वा पिबेत्व्कचित्। अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति" इति (मिताक्षरायां 3 ध्या290श्लो0व्या0 क्रतुना) "अतीव तृषितो विप्रो न शूद्रस्योदकं पिबेत्।" इति (देवलेन) तद्दत्तजलान्नपानभोजनयोः प्रायश्चित्तोक्तेस्तदयोगात्। न च तत्र दधिपयोजलपरिपूर्णघटसहस्राणांसत्त्वात्ततस्तत्स्वयमानेतुं शक्यते। किंचान्नप्रतिनिधितया दधिपयआदीनि लभ्यन्ते। एवं च न काप्यनुपपत्तिरिति वाच्यम्। तेषां सर्वेषां चण्डालादिघ टपरिपूर्णत्वेन तद्ग्रहणादौ त्रैवर्णिकक्रमेण "चण्डालघटसंस्थं तु यत्तोयं पिबति द्विजः। तत्क्षणात्क्षिपते यस्तु प्राजापत्यं समाचरेत्। यदि नोत्क्षिपते तोयं शरीरे यस्य जीर्यते ।। 28 ।। प्राजापत्यं सदातव्यः कृच्छ्रंसान्तपनं चरेत्। चरेत्सान्तपनं विप्रः प्राजापत्यमनन्तरः। तदर्धं तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ।। 29 ।। भाण्ड<1>स्थमन्त्यजानां <1."भाण्डस्थितमभोज्येषु जलंदधि घृतं पयः। अकामतस्तु योभुङ्क्ते प्रायश्चित्तं कथं भवेत्।। 25 ।। ब्राह्नणः क्षत्रियो वैश्यः शूद्रो वा उपसर्पति। ब्रह्नकूर्चोपवासेन योज्या वर्णस्यनिष्कृतिः ।। 26 ।। शूद्राणां नोपवासः स्याच्छूद्रोदानेन शुध्यति। ब्रह्नकूर्चमहोरात्रं श्वपाकमपि शोधयेत् ।। 27 ।।" इति (पराशरस्मृतौ 11 ध्या) पाठान्तरं केपुचित्पुस्तकेषु दृश्यते।> तु जलं दधि पयः पिबेत्। ब्राह्नणः क्षत्रियो वैश्यः शूद्रश्चैव प्रमादतः ।। 30 ।। <2>ब्रह्नकूर्चोपवासेन <2.(ब्रह्नकूर्चम्)-"अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः। पञ्चगव्य पिबेत्प्रातर्ब्रह्नकूर्चमिति स्मॄतम्" इति (परा-माध- 11 ध्या 37।। श्लो 0 व्या 0)। तत्प्रकारश्च विस्तरेण धर्मशास्त्रेषु वर्णितः।> द्विजातीनां तु निष्कृतिः।। शूद्रस्य चोपवासेन तथा दानेन शक्तितः ।। 31 ।।" इति (पराशरेण 6 ध्याये) "द्विजश्चण्डालभाण्डस्थं सलिलं पिबते यदि।। षण्मासानाचरेत्कृच्छ्रं पञ्चगव्यं ततः पिबेत्।। तस्यान्नमत्ति यो विप्रो द्विगुणं व्रतमाचरेत्।" इति (विष्णुना) "प्रपा<3>स्वरण्येघटके <3.(अरण्ये)-कूपे।> च सौरद्रोण्यां जलं कोशविनिस्सृतं च। स्वपाकचण्डालपरिग्रहेषु पीत्वा जलं पञ्चगव्येन शुद्धिः।" इति (मिताक्षरायां 3 ध्या 290 श्लो 0 व्या 0 आपस्तम्बेन) च प्रायश्चित्तोक्तेस्तज्जलादिग्रहणायोगात्।। नच तत्रत्याश्चण्डालाश्शूद्रा वेत्यत्र मानाभाव इति वाच्यम्। म्लेच्छास्ते स्युः। चातुवर्ण्याश्रमाचारशून्यानां तत्त्वमितिग्रन्थकृद्भिरुक्तेः। ततश्च "म्लेच्छादीनां जलं पीत्वा पुष्करिण्यां ह्रदेपि वा। जानुदघ्नं शुचि ज्ञेयमधस्तादशुचि स्मृतम्। तत्तोयं यःपिबेद्विप्रः कामतोऽकामतोपि वा। अकामान्नक्तभोजीस्यादहोरात्रं तु कामतः" इति (मिताक्षरायां 3 ध्या 290 श्लो 0 आपस्तम्बेन) उक्तेस्तद्ग्रहणायोगात्। एवंचतद्ग्रहणायोगेनानुपपत्तेर्दु र्वारत्वादिति चेत्।। न ।। आपत्काले तज्जलादिग्रहणे दोषाभावात्। अत एव "मटचीहते ष्वाटिक्या सह भार्ययोषस्तिश्चाक्रायण इभ्यग्रामेप्रद्राणक उवास ।। 1 ।। सहेभ्यं कुल्माषान् खादन्तं बिभिक्षे तँ होवाच। नेतोऽन्ये विद्यन्ते यच्चयेम इम उपनिहिता इति ।। 2 ।। एतेषांमे देहीति होवाच तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पीतं स्यादिति होवाच ।। 3 ।। नस्विदेतेव्युच्छिष्टा इति न वा अजीविष्यमिमां न खादन्निति होवाच कामोमे उदपानमिति ।। 4 ।। स ह खादित्वातिशेषाञ्जायाया आजहार साग्र इव सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ।। 5 ।। स ह प्रातस्सञ्जिहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्राँ राजासौ यक्ष्यते स मा सर्वैरार्त्विज्यैर्वृणीतेति।। 6 ।। तं जायोवच हन्त पत इम एव कुल्माषा इति तान् खादित्वामुं यज्ञं विततमेयाय ।। 7 ।।" इति (छान्दोग्योपनिषदि 1 मप्रपाटके 9 खण्डे) "अन्नं हि भूतानां ज्येष्ठम्। तस्मात्सर्वौषधमुच्यते" इति (तैत्तिरीयोपनिषदिब्रह्नवल्ल्यां 2 नुवाक) "अन्नं न निन्द्यात्" तैत्तिरीयोपनिषदि 3 वल्यां 7 नुवाके "अन्नं न परिचक्षीत" (तत्रैव 8 नुवाके) "अन्नं ब्रह्नेति व्यजानात्" इति च (तत्रैव 2 नुवा0) "सर्वान्नानुमतिश्चप्राणात्यये तद्दर्शनात्" इति (वेदान्तदर्शने 2 ध्याये 4 र्तपादे 28 सू) "जीवितात्ययमापन्नो योन्नमत्ति यतस्ततः। लिप्यते न स पापने पझपत्रमिवाम्भसा" इति (तत्रैव सूत्रे श्रीशाङ्करभाष्ये) येनविनानजीवतितद्भिन्नसुरामद्यादिकं विहायापदिसर्वान्नानुमत्यभ्यनुज्ञानमन्नस्यशुद्धत्वानिन्द्यत्वादिप्रतिपादनं च संगच्छते।। तदुक्तं (माहाभारते शान्तिपर्वणि)
"युधिष्ठिर उवाच।
हीनेपरमकेधर्मेसर्वलोकाभिलंघिते।।
अधर्मेधर्मतांनीतेधर्मेचाधर्मतांगते ।। 1 ।।
मर्यादासुविनष्टासुक्षुभितेधर्मनिश्चये।।
राजभिः पीडितेलोकेपरैर्वापिविशांपते ।। 2 ।।
सर्वाश्रयेषुमूढेषुकर्मसूपहतेषुच।।
कामाल्लोभाच्चमोहाच्चभयंपश्यत्सुभारत ।। 3 ।।
अविश्वस्तेषुसर्वेषुनित्यंभीतेषुपार्थिव।।
निकृत्याहन्यमानेषुवंचयत्सुपरस्परम् ।। 4 ।।
संप्रदीप्तेषुदेशेषुब्राह्नणेचातिपीडिते।।
अवर्षतिचपर्जन्योमिथोभेदेसमुत्थिते ।। 5 ।।
सर्वस्मिन्दस्युसाद्भूतेपृथिव्यामुपजीवने।।
केनस्विद्ब्राह्नणोजीवेज्जघन्येकालआगते ।। 6 ।।
अतितिक्षुः पुत्रपौत्राननुक्रोशान्नराधिपे।।
कथमापत्सुवर्तेततन्मेब्रूहिपितामह ।। 7 ।।
कथंचराजावर्तेतलोकेकलुषतांगते।।
कथमर्थाच्चधर्माच्चनहीयेतपरंतप ।। 8 ।।
भीष्म उवाच।
राजमूलामहाबाहोयोगक्षेमसुवृष्टयः।।
प्रजासुव्याधयश्चैवमरणंचभयानिच ।। 9 ।।
कृतंत्रेताद्वापरंचकलिश्चभरतर्षभ।।
राजमूलाइतिमतिर्ममनास्त्यत्रसंशयः ।। 10 ।।
तस्मिंस्त्वभ्यागतेकालेप्रजानांदोषकारके।।
विज्ञानबलमास्थायजीवितव्यंभवेत्तदा ।। 11 ।।
अत्राप्युदाहरंतीममितिहासंपुरातनम्।।
विश्वामित्रस्यसंवादंचांडालस्यचपक्कणे ।। 12 ।।
त्रेताद्वापरयोः संधौतदादैवविधिक्रमात्।।
अनावृष्टिरभूद्धोरालोकेद्वादशवार्षिकी ।। 13 ।।
प्रजानामतिवृद्धानांयुगांतेसमुपस्थिते।।
त्रेताविमोक्षसमयेद्वापरप्रतिपादने ।। 14 ।।
न ववर्ष सहस्राक्षः प्रतिलोमोऽभवद्गुरुः।।
जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः ।। 15 ।।
नावश्यायोपितत्राभूत्कुतएवाभ्रजातयः।।
नद्युःसंक्षिप्ततोयौघाः किंचिदंतर्गतास्ततः ।। 16 ।।
सरांसिसरित श्चैवकूपाः प्रस्रवणानिच।।
हतत्विषो न लक्ष्यंतेनिसर्गाद्दैवकारितात् ।। 17 ।।
उपशुष्कजलस्थायाविनिवृत्तसभाप्रपा।।
निवृत्तयज्ञस्वाध्यायानिर्वषट्कारमंगला ।। 18 ।।
उच्छिन्नकृषिगोरक्षानिवृत्तविपणापणा।।
निवृत्तयूपसंभाराविप्रनष्टमहोत्सवा ।। 19 ।।
अस्थिसंचयसंकीर्णामहाभूतरवाकुला।।
शून्यभूयिष्ठनगरादग्धग्रामनिवेशना ।। 20 ।।
व्कचिद्धोरैःव्कचिच्छस्त्रैः व्कचिद्राजभिरातुरैः।।
परस्परभयाश्चैवशून्यभूयिष्ठनिर्जना ।। 21 ।।
गतदैवतसंस्थानावृद्धलोकनिराकृता।।
गोजाविमहिषीहीनापरस्परपराहता ।। 22 ।।
हतविप्राहतारक्षाप्रनष्टौषधिसंचया।।
सर्वभूततरुप्रायाबभूववसुधातदा ।। 23 ।।
तस्मिन्प्रतिभयेकालेक्षतेधर्मेयुधिष्ठिर।।
बभूवुःक्षुधितामत्याः खादमानाः परस्परम् ।। 24 ।।
ऋषयोनियमांस्त्यक्त्वापरित्यज्याग्निदेवताः।।
आश्रमान्संपरित्यज्यपर्यधावन्नितस्ततः ।। 25 ।।
विश्वामित्रोऽथभगवान्महर्षिरनिकेतनः।।
क्षुधापरिगतोधीमान्समंतात्पर्यधावत ।। 26 ।।
त्यक्त्वादारां श्चपुत्रां श्चकस्मिंश्चजनसंसदि।।
भक्ष्याभक्ष्यसमोभूत्वानिरग्निरनिकेतनः ।। 27 ।।
सकदाचित्परिपतञ्स्वपचानांनिवेशनम्।।
हिंस्राणांप्राणिघातानामाससादवनेव्कचित् ।। 28 ।।
विभिन्नकलशाकीर्णंश्वचर्मच्छेदनायुतम्।।
वराहखरभग्नास्थिकपालघटसंकुलम् ।। 29 ।।
मृतचैलपरिस्तीर्णांनिर्माल्यकृतभूषणम्।।
सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम् ।। 30 ।।
कुक्कुटारावबहुलंगर्दभध्वनिनादितम्।।
उद्धोषद्भिः खरैर्वाक्यैः कलहद्भिः परस्परम् ।। 31 ।।
उलूकपक्षिध्वनिभिर्देवतायतनैर्वृतम्।।
लोहघंटापरिष्कारं श्वयूथपरिवारितम् ।। 32 ।।
तत्प्रविश्यक्षुधाविष्टोविश्वामित्रोमहानृषिः।।
आहारान्वेषणेयुक्तः परंयत्नंसमास्थितः ।। 33 ।।
नचव्कचिदविंदत्सभिक्षमाणोपिकौशिकः।।
मांसमन्नंफलंमूलमन्यद्वातत्र किंचन ।। 34 ।।
अहोकृच्छ्रंमयाप्राप्तमितिनिश्चित्यकौशिकः।।
पपातभूमौदौर्बल्यात्तस्मिंश्चांडालपक्कणे ।। 35 ।।
सचिंतयामासमुनिः किंनुमेसुकृतंभवेत्।।
कथंवृथानमृत्युःस्यादितिपार्थिवसत्तम ।। 36 ।।
सददर्शश्वमांसस्यकुतंत्रींविततांमुनिः।।
चाण्डालस्यगृहेराजन्सद्यः शस्त्रहतस्यवै ।। 37 ।।
सचिंतयामासतदास्तैन्यंकार्यमितोमया।।
नहीदानीमुपायोमेविद्यतेप्राणधारणे ।। 38 ।।
आपत्सुविहितंस्तैन्यंविशिष्टंचमहीयसः।।
विप्रेणप्राणरक्षार्थंकर्त्तव्यमितिनिश्चयः ।। 39 ।।
हीनादादेयमादौस्यात्समानात्तदनंतरम्।।
असंभवेवाददीतविशिष्टादपिधार्मिकात् ।। 40 ।।
सोहमंत्यावसायानांहराम्येनांप्रतिग्रहात्।।
नस्तैन्यदोषंपश्यामिहरिष्यामिश्वजाघनीम् ।। 41 ।।
एतांबुद्धिंसमास्थायविश्वामित्रोमहामुनिः।।
तस्मिन्देशेससुष्वापश्वपचोयत्रभारत ।। 42 ।।
सविगाढांनिशांदृष्ट्वासुप्तेचांडालपक्कणे।।
शनैरुत्थायभगवान्प्रविवेशकुटीमतः ।। 43 ।।
ससुप्तइवचांडालः श्लेष्मापिहितलोचनः।।
परिभिन्नस्वरोरूक्षः प्रोवाचाप्रियदर्शनः ।। 44 ।।
स्वपचउवाच।
कःकुतंत्रींघट्टयतिसुप्तेचांडालपक्कणे।।
जागर्मिनात्रसुप्तोस्मिहतोसीतिचदारुण ।। 45 ।।
विश्वामित्रस्ततोभीतः सहसातमुवाचह।।
तत्रव्रीडाकुलमुखः सोद्वेगस्तेनकर्मणा ।। 46 ।।
विश्वामित्रोहमायुष्मन्नागतोहंबुभुक्षितः ।।
मावधीर्ममसद्बुद्धे यदिसम्यक्प्रपश्यसि ।। 47 ।।
चांडालस्तद्वचः श्रुत्वामहर्षेर्भावितात्मनः।।
शयनादुपसंभ्रांतउद्ययौप्रतितंततः ।। 48 ।।
सविसृज्याश्रुनेत्राभ्यांबहुमानात्कृताञ्जलिः ।।
उवाचकौशिकंरात्रौब्रह्नन्किंतेचिकीर्षितम् ।। 49 ।।
विश्वामित्रस्तुमातंगमुवाचपरिसांत्वयन्।।
क्षुधितोहंगतप्राणोहरिष्यामिश्वजाघनीम् ।। 50 ।।
क्षुधितः कलुषंयातोनास्तिह्रीरशनार्थिनः।।
क्षुच्चमांदूषयत्यत्रहरिष्यामिश्वजाघनीम् ।। 51 ।।
अवसीदंतिमेप्राणाः श्रुतिर्मेनश्यतिक्षुधा।।
दुर्बलोनष्टसंज्ञश्चभक्षाभक्षविवर्जितः ।। 52 ।।
सोऽधर्मंबुद्धयमानोऽपिहरिष्यामिश्वजाघनीम्।।
अटन्भैक्ष्यंनविंदामियदायुष्माकमालये ।। 53 ।।
तदाबुद्धिः कृतापापेहरिष्यामिश्वजाघनीम्।।
अग्निर्मुखंपुरोधाश्चदेवानांशुचिषाड्विभुः ।। 54 ।।
यथावत्सर्वभूग्ब्रह्नातथामांविद्धिधर्मतः।।
तमुवाचसचांडालोमहर्षेश्रृणुमेवचः ।। 55 ।।
श्रुत्वातत्त्वंतथातिष्ठयथाधर्मोनहीयते।।
धर्मंतवापिविप्रर्षेश्रऋणुयत्तेब्रवीम्यहम् ।। 56 ।।
श्रृगालादधमंश्वानंप्रवदंतिमनीषिणः।।
तस्याप्यधमउद्देशः शरीरस्यश्वजाघनी ।। 57 ।।
नेदंसम्यग्व्यवसितंमहर्षेधरमगर्हितम्।।
चांडांलस्वस्यहरणमभक्ष्यस्यविशेषतः ।। 58 ।।
साध्वन्यमनुपश्यत्वमुपायंप्राणधारणे।।
नमांसलोभात्तपसोनाशस्तेस्यान्महामुने ।। 59 ।।
जानताविहितंधर्मंनकार्योधर्मसंकरः।।
मास्मधर्मंपरित्याक्षीस्त्वंहिधर्मभृतांवरः ।। 60 ।।
विश्वामित्रस्ततोराजन्नित्युक्तोभरतर्षभ।।
क्षुधार्त्तःप्रत्युवाचेदंपुनरेवमहामुनिः ।। 61 ।।
निराहारस्य सुमहान्ममकालोभिधावतः।।
नविद्यतेप्युपायश्चकश्चिन्मेप्राणधारणे ।। 62 ।।
येनयेनविशेषेणकर्मणायेनकेनचित्।।
अभ्युज्जीवेत्साद्यमानः समर्थोधर्ममाचरेत् ।। 63 ।।
ऐंद्रोधर्मः क्षत्रियाणांब्राह्नणानामथाग्निकः।।
ब्रह्नवह्निर्ममबलंभक्ष्यामिशमयन्क्षुधाम् ।। 64 ।।
यथायथैवजीवेद्धितत्कर्तव्यमहेलया।।
जीवितंमरणाच्छ्रेयोजीवन्धर्ममवाप्नुयात् ।। 65 ।।
सोहंजीवितमाकांक्षन्नभक्ष्यस्यापिभक्षणम् ।।
व्यवस्येबुद्धिपूर्वं वै तद्भवाननुमन्यताम् ।। 66 ।।
बलवंतंकरिष्यामिप्रणोत्स्याम्यशुभानितु।।
तपोभिर्विद्ययाचैवज्योतींषीवमहत्तमः ।। 67 ।।
श्वपचउवाच।।
नैतत्खादन्प्राप्नुतेदीर्घमायुर्नैवप्राणान्नामृतस्येवतृप्तिः।।
भिक्षामन्यांभिक्षमातेमनोस्तु श्वभक्षणेश्वाह्यभक्ष्योद्विजा नाम् ।। 68 ।।
विश्वामित्रउवाच।।
नदुर्भिक्षेसुलभंमांसमन्यच्छ्वपाकमन्येनचमेस्तिवि त्तम्।।
क्षुधार्तश्चाहमगतिर्निराशः श्वमांसेचास्मि न्षड्रसान्साधुमन्ये ।। 69 ।।
श्वपचउवाच।।
पंचपंचनखाभक्ष्याब्रह्नक्षत्रस्यवैविशः।।
यथाशास्त्रंप्रमाणंतेमाऽभक्ष्येमानसंकृथाः ।। 70 ।।
विश्वामित्रउवाच।।
अगस्त्येनासुरोजग्धोवातापिः क्षुधितेनवै।।
अहमापद्गतः क्षुत्तोभक्षयिष्येश्वजाघनीम् ।। 71 ।।
श्वपचउवाच।।
भिक्षामन्यामाहरेतिनचकर्तुमिहार्हसि।।
ननूनंकार्येमेतद्वैहरकामंश्वजाघनीम् ।। 72 ।।
विश्वामित्रउवाच।
शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तसे।।
परांमेध्याशनादेनां भक्ष्यांमन्ये श्वजाघनीम् ।। 73 ।।
श्वपचउवाच।।
असतायत्समाचीर्णंनचधर्मःसनातनः।।
नाकार्यमिहकार्यंवैमाछलेनाशुभंकृथाः ।। 74 ।।
विश्वामित्रउवाच।।
नपातकंनावमतमृषिः सन्कर्तुमर्हति।।
समौचश्वमृगौमन्येतस्माद्भोक्ष्येश्वजाघनीम् ।। 75 ।।
श्वपचउवाच।।
यद्ब्राह्नणार्थेकृतमर्थितेनतेनर्षिणातदवस्थाधिकारे।।
सवैधर्मोयत्रनपापमस्तिसर्वैरुपायैर्गुरवोहिरक्ष्याः ।। 76 ।।
विश्वामित्रउवाच।।
मित्रंचमेब्राह्नणस्यायमात्माप्रियश्चमेपूज्यतमश्च लोके।।
तंभर्तुकामोहमिमांजिहीर्षेनृशंसानामी दृशानांनबिभ्ये ।। 77 ।।
श्वपचउवाच।।
कामंनराजीवितंसंत्यजंतिनचाभक्ष्येव्कचित्कुर्वंति बुद्धिम्।।
सर्वान्कामान्प्राप्नुंवतीहविद्वन्प्रियस्व का मंसहितःक्षुधैव ।। 78 ।।
विश्वामित्रउवाच।।
स्थानेभवेत्सयशः प्रेत्यभावेनिः संश्यः कर्मणावैवि नाशः।।
अहंपुनर्व्रतनित्यःशमात्मामूलंरक्ष्यंभक्ष यिष्याम्यभक्ष्यम् ।। 79 ।।
बुद्धयात्मकेव्यक्तमस्तीतिपुण्यंमोहात्मकेयत्रयथाश्वभक्ष्ये।।
यद्यप्येतत्संशयात्माचरामिनाहंभविष्यामि यथात्वमेव ।। 80 ।।
श्वपचउवाच।।
गोपनीयमिदंदुःखमितिमेनिश्चितामतिः।।
दुष्कृतोऽब्राह्नणः सत्रंयस्त्वामहमुपालभे ।। 81 ।।
विश्वामित्रउवाच।।
पिबंत्येवोदकंगावोमंडूकेषुरुवत्स्वपि।।
नतेधिकारोधर्मेस्तिमाभूरात्मप्रशंसकः ।। 82 ।।
श्वपचउवाच।।
सुहृद्भूत्वानुशासेत्वांकृपाहित्वयिमेद्विज।।
यदिदंश्रेयआधत्स्वमालोभात्पातकंकृथाः ।। 83 ।।
विश्वामित्र उवाच।।
सुहृन्मेत्वंसुखेप्सुश्चेदापदोमांसमुद्धर।।
जानेहंधर्मतोत्मानंशौनीमुत्सृजजाघनीम् ।। 84 ।।
श्वपचउवाच।।
नैवोत्सहेभवतोदातुमेतांनोपेक्षितुंह्रियमाणंस्वमन्नम्।।
उभौस्यावःपापलोकावलिप्तौदाताचाहंब्राह्नणस्त्वं प्रतीच्छन् ।। 85 ।।
विश्वामित्रउवाच।।
अद्याहमेतद्वृजिनंकर्मकृत्वाजीवं श्चरिष्यामिमहापवित्रम्।।
सपूतात्माधर्ममेवाभिपत्स्येयदेतयोर्गुरुतद्वैब्रवीहि ।। 86 ।।
श्वपचउवाच।।
आत्मैवसाक्षीकुलधर्मकृत्येत्वमेवजानासियदत्रदुष्कृतम्।।
योह्याद्रियाद्भक्ष्यमिति श्वमांसंमन्येनतस्यास्तिविवर्जनीयम् ।। 87 ।।
विश्वामित्रउवाच।।
उपादानेखादनेचास्तिदोषःकार्येत्यायेनित्यमत्रापवादः।।
यस्मिन्हिंसानानृतंवाच्यलेशोभक्ष्यक्रिया यत्रनतद्गरीयः ।। 88 ।।
श्वपचउवाच।।
यद्येषहेतुस्तवखादनेस्यान्नतेवेदः कारणंनार्यधर्मः।।
तस्माद्भक्ष्येभक्षणेवाद्विजेंद्रदोषंनपश्यामियथेदमत्र ।। 89 ।।
विश्वामित्रउवाच।।
नैवातिपापंभक्षमाणस्यदृष्टंसुरांतुपीत्वापततीति शब्दः।।
अन्योन्यकार्याणियथातथैवनपापमात्रेण कृतंहिनस्ति ।। 90 ।।
श्वपचउवाच।।
अस्थानतोहीनतः कुत्सिताद्वातद्विद्वांसंबाधतेसाधु वृत्तम्।।
स्वानंपुनर्योलभतेऽभिषंगात्तेनापिदंडः सहितव्यएव ।। 91 ।।
भीष्मउवाच।।
एवमुक्त्वानिववृतेमातंगःकौशिकंतदा।।
विश्वामित्रोजहारैवकृतबुद्धिः स्वजाघनीम् ।। 92 ।।
ततोजग्राहसश्वांगंजीवितार्थीमहामुनिः।।
सदारस्तामुपाहृत्यवनेभोक्तुमियेषसः ।। 93 ।।
अथास्यबुद्धिरभवद्विधिनाहंश्वजाघनीम्।।
भक्षयामियथाकामंपूर्वंसंतर्प्यदेवताः ।। 94 ।।
ततोग्निमुपसंहृत्यब्राह्नेणविधिनामुनिः।।
ऐंद्राग्नेयेनविधिनाचरुं श्रपयतस्वयम् ।। 95 ।।
ततः समारभत्कर्मदैवंपित्र्यंचभारत।।
आहूयदेवानिंद्रादीन्भागंभागंविधिक्रमात् ।। 96 ।।
एतस्मिन्नेवकालेतुप्रववर्षसवासवः।।
संजीवयन्प्रजाः सर्वाजनयामासचौषधीः ।। 97 ।।
विश्वामित्रोपिभगवांस्तपसादग्धकिल्बिषः ।।
कालेनमहतासिद्धिमवापपरमाद्भुताम् ।। 98 ।।
ससंहृत्यचतत्कर्मअनास्वाद्यचतद्धविः।।
तोषयामासदेवां श्चपितॄंश्चद्विजसत्तमः ।। 99 ।।
एवंविद्वानदीनात्माव्यसनस्थोजिजीविषुः।।
सर्वोपायैरुपायज्ञोदीनमात्मानमुद्धरेत् ।। 100 ।।
एतांबुद्धिंसमास्थायजीवितव्यंसदाभवेत् ।।
जीवन्पुण्यमवाप्नोतिपुरुषोभद्रम श्र्नुते ।। 101 ।।
तस्मात्कौंतेयविदुषाधर्माधर्मविनिश्चये।।
बुद्धिमास्थायलोकेस्मिन्वर्तितव्यंकृतात्मना ।। 102 ।।
-----***-----
इति श्रीमहाभारतेशांतिपर्वणिआपद्धर्मपर्वणि विश्वामित्रस्वपचसंवादेएकचत्वारिंशदधिकशततमोऽध्यायः ।। 141 ।। ।। छ ।।
अत एव "पाद्यमाचमनीयं च सर्वं प्रादाद्यथाविधि। तामुवाच ततो रामः श्रमणीं (णां) धर्मसंस्थिताम्।" इति (श्रीमद्वाल्मीकिरामायणेऽरण्यकाण्डे 14 सर्गे 7 श्लो 0) श्रीरामाय श्रमण्या पाद्याचमनादिदानप्रतिपादनं संगच्छते।। न चायं श्रीराम आपदमनुप्राप्त इति कथमिति वाच्यम्। तत्राप्यापदः व्कचिदभ्युपगमात्। वस्तुतस्तस्यास्तपसा परिशुद्धत्वान्निर्द्दुष्टत्वज्ञानेन तत्स्वीकृतमित्यदोषः। अत एव "राघवः प्राह विज्ञाने तां नित्यमबहिष्कृतम्" इति (तत्रैव सर्गे 19 श्लो0) उक्तं संगच्छते।। तदाह (मनुः 10 ध्या 104 श्लो 0) "जीवितात्ययमापन्नो योन्नमत्ति यतस्ततः। आकाशमिव पङ्केन न स पापेन लिप्यते" इति।। न चैवमापत्काले शूद्रान्नभोजने प्रायश्चित्तमेव न स्यादिति वाच्यम्। " आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि। मनस्तापेन शुध्येत <1>द्रुपदां <1."द्रुपदादिवमुमुचान" इति गायत्रीछन्दसं शतकृत्वोजपोदेत्यर्थ इति (अत्र माधवीये)> वा शतं जपेत्" इति (पराशरेण 11 द्या 21 श्लो0) उक्तप्रायश्चित्तानुष्ठानेन तस्या<2>पनोद्यत्वात्<2.तत्फलादिभक्षणजनपापस्य।>।। न चैवं शूद्रान्नभोजने लघुप्रायश्चित्तं तज्जलपाने तु गुरु प्रायश्चित्तं "शूद्रहस्तेन यो भुङ्क्ते पानीयं वा पिबेत्व्कचित्। अहोरात्रेषितो भूत्वा पञ्चगव्येन शुध्यति" इति (मिताक्षरायां 3 ध्या 0 290 श्लो0 व्या0 क्रतुना) उक्तमयुक्तमिति वाच्यम्।। तदभ्यासविषयकत्वात्तत्र "शूद्रगृहे" इत्युक्तेस्तद्गृहे स्वयमन्यस्वसजातीयद्वारा वा पक्व्ता भोजने एव तथा न तु तत्कृतान्नभोजने इत्यभ्यनुज्ञानाच्च।। अधिकमग्रे स्पष्टम्।। किं च जलविषयेपि प्रायश्चित्तं "यस्मिन्देशे तु यत्तोयं या च यत्रैव मृत्तिका। सैव तत्र प्रशस्तास्यात्तथा शौचं विधीयते" इति (स्मृतिमु 0 फले0 ह्निका0 मनु0) "द्विविधा हि विद्या वेदपाठमात्रावसायिनी तदर्थज्ञाना न्वितानुष्ठानपर्यन्ता चेति। तत्रानुष्ठानपर्यन्तमनुष्ठाताहिताग्निर्मनस्तापेन केवलवेदपाठीतुद्रुपदादिवमुमुचानइत्यृचंगायत्रीछन्दसंशतकृत्वोजपेत्" इति (तत्रैव माधवीये)। न च मनस्तापस्य पापनाशकत्वे मानाभाव इति वाच्यम्।। "ख्यापनेनानुतापेन तपसाध्ययनेन च। पापकृच्छुध्यते पापात्तथा दानेन चापदि" इति (मनुना 11 ध्या 0 श्लो 0 228) अनुतापस्यापिपापनाशकत्वाभ्युपगमात्। अनुतापश्च "कृत्वा पापं हि सन्तप्य तस्मात्पापात्प्रमुच्यते। नैवं कुर्यांपुनरिति निवृत्त्या पूयते हि सः" इति (मनुना 11 ध्या 0 231 श्लो 0) उक्तो ज्ञेयः।
न चेदं मूत्रपुरीषशौचोपयोगिजलपरमिति वाच्यम्। संकोचे प्रमाणाभावात्। तथैव लोकेनुभवाच्च। तत्तद्योग्य जलान्तरस्याल्पेनकालेन लाभसंभवे सङ्कोचस्य न्याय्यत्वाच्च। एतेन "सुराघटप्रपातोये पीत्वा नाव्यजलं तथा। अहोरात्रोषितो भूत्वा पञ्चगव्यं जलं पिबेत्" इति (मिताक्षरायां 3 ध्या0 290 श्लो0 व्या) उक्ते नाव्यजलपानं नयुक्तमित्यपास्तम्। वसिष्ठादिभिर्बहुभिर्नौकया चिरं बहुदूरं सञ्चारात्तत्र जलस्य नाव्यातिरिक्तस्य तत्रासं भवेन तेनैव तत्र स्नानसन्ध्यापूजापाकशौचादेरनुष्ठेयत्वस्य वर्णनीयत्वाच्च। "आपोमयः प्राणाः" इति (छान्दोग्ये) उक्तेर्जलस्योच्छ्वासनिः श्वासादेरम्मयत्वमब्रूप्तवं दहरक्षकत्वेनेति तादर्थ्यात्। तद्रक्षणं "सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्" इति (वेदान्तदर्शने 2 । 4 । 28।) सूत्रेण प्राणात्यये सर्वान्नानुमतौ तदन्नस्य तज्जलमन्तरा निष्पत्त्यसम्भवात्तदनुमतिलाभाच्च। अत एव "देशभङ्गे प्रवासे वा व्याधिषु व्यसनेष्वपि। रक्षेदेव स्वदेहानि पश्चाद्धर्मं समाचरेत् ।। 36 ।। येन कन च धर्मेण मृदुना दारुणेन वा। उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ।। 37 ।। आपत्कालेसमुत्तीर्णेशौचाचारंतुचिन्तयेत्। शुद्धिं समुद्धरेत्पश्चात्स्वस्थो धर्मं समाचरेत् ।। 38 ।।" इति (पराशरेण 7 ध्या 0) साक्षादेव प्रवासे स्वदेहापायानापादनमेव धर्मः पश्चात्त्वाचारप्रायश्चित्तकाण्डोक्तो धर्म आचरणीय इति कण्ठरवेणैव प्रतिपादनं संगच्छते। (अत्रैव टीकायां माधवाचार्योपि) -(प्रवासः) तीर्थयात्रादौ परगृहाद्यवस्थानं (व्यसनानि) स्वामिकार्यजनितानि। एतेषु प्राप्तेषु श्रद्धाजाडयेन शुद्धयशुद्धी न विचारयितव्ये। किन्तर्हि शुचिभिरशुचिभिर्वा द्रव्यैरात्मपुत्रकलत्रादीनां यथा रक्षा भवति तथा कृत्वा शान्तायामापदि पश्चाद्द्रव्यशुद्धयादिरूपं शास्त्रोक्तं धर्ममाचरेत् ।। 36 ।। xद्रव्यशुध्यादिसंपादितोधर्मो (मृदुः) तद्विरहितो धर्मो (दारुणः) स्तन्यपानमांसभक्षणादि तयोर्मध्ये येन केनापि व्याध्यादिभिर्दीनमात्मानमापद्भय उद्धृत्य (समर्थः) व्याध्यादिरहितो यथाशास्त्रं धर्ममाचरेत् ।। 38 ।। शौचाचारमित्यनेन प्रथमकाण्डोक्तो धर्मः परामृष्टः। शुद्धिमित्यनेन प्रायश्चित्तकाण्डोक्तो धर्मो निर्दिष्टः। शुद्धो यथा भवति तथा पापात्समुद्धरेदित्यर्थः। स्वस्थ इत्युपसंहारः। उक्तं द्विविधमपि धर्मं स्वस्थ एव समाचरेन्न त्वापन्नः। तदाह (याज्ञावल्क्यः 3 ध्या 35 श्लो0)- "क्षात्रेण कर्मणा जीवेद्विशां वां ह्यापदिद्विजः। निस्तीर्यतामथात्मानं पावयित्वा न्यसेत्सुधीः" इति (तत्रैव माधवीये 7 ध्याये) स्पष्टीकृतोयमेवार्थः। तत्र "शुद्धो यथा भवति तथा पापात्समुद्दरेत्" इत्युक्त्या प्रायश्चित्तेन शुद्धिः संपादनीयेति पापादिति शब्देन बोधितं भवति।
इदं तु चिन्त्यम्। मृदुना दारुणेन वा धर्मेणेत्यनेन प्रवासादौ स एव धर्म इति स्पष्टमुक्त्या मूलविरुद्धत्वात्। न च पश्चाद्धर्ममित्यनेन तस्याधर्मत्वं बोध्यत इति वाच्यम्। आपद्धर्मा एते पश्चादापन्निवृत्युत्तरंत्वन्ये एव धर्मा इत्यर्थकत्वात्। न च शुद्धिं समुद्धरेत्प श्चादित्युक्तेरयमधर्मोऽशुद्धत्वादिति ज्ञायत इति वाच्यम्। कूपे पतितं घटं समुद्धरेदितिवदेतदापत्प्राप्तिपूर्वकालेनुष्ठीयमानां शुद्धिं समुद्धरेत्सम्यगूर्ध्वमन्यूनानतिरिक्तरूपेणापत्कालिकं किञ्चिदसंयोज्य प्राक्कालिकं किञ्चिदपि न्यूनमकृत्वोर्ध्वमापत्कालापेक्षयोर्ध्वकालेनन्तरकाले स्वीकुर्यादित्यर्थेन सर्वेषां स्वरसतउपपत्तेः। सर्वत्र समुद्धरणस्यायमेवार्थस्सर्वैरप्यभ्युपगतोनान्यथा। न च याज्ञवल्क्योक्तिविरोधः। तत्र "पावयित्वान्यसेत्सुधीः" इत्युक्तेरिति वाच्यम्। "कलौ पाराशराः स्मृताः" इति (पराशरेण 1 ध्याये23स्लो0) क्तेः विरुद्धविषये पराशरोक्तस्यैवानुष्ठेयते त्यब्युपगमात्। वाणिज्यवृत्त्या जीवनं कार्यमित्युक्तेस्तत्र ऋणादानपरिवर्तनस्य ऋणत्वेन वस्तुदानधनप्रयोगादीनां नियतत्वात्तच्छोधनमन्तराप्राग्वत्स्थित्ययोग इति याज्ञवल्क्योक्तेराशयाच्च। अत एव ऋणशुद्ध एव सर्वतः शुद्ध इति तस्मान्नीचवृत्तेस्त्यागोयुक्त इति उच्यते। अतएव "आपद्गतः संप्रगृह्णन्भुञ्जानो वाग्य तस्ततः। न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः" इति (याज्ञवल्क्येन 3 ध्या 0 41 श्लो 0 आपद्धर्मे) "यस्त्वधनोवसन्नकुटुम्बतयापद्गतोपि क्षत्रवृत्तिंवैश्यवृत्तिंवानप्रतिविवक्षति स यतस्ततो हीनतरहीनतमेभ्यः प्रतिगृह्णंस्तदन्नं भुञ्जानोपि नैनसा पापेन लिप्यते।" इति (तत्रैवयोगीश्वरेण) व्याख्यातं चोपपद्यते। त्रैवर्णिकविषयकत्वेन संकोचोभारताद्युक्तार्थविरोधान्नयुक्तः। न च "वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः। परधर्माश्रयाद्विप्रः सद्यः पतति जातितः" इति (मनुना 10 ध्या 0 17 श्लो 0) उक्तेरिदमयुक्तमिति वाच्यम्। आपद्वयतिरिक्तविषयत्वात्। एतेन "एवंचवदताऽपद्गतस्य परधर्माश्रयणाद्विगुणमपि स्वधर्मानुष्ठानंमुख्यमिति दर्शितं भवति" इति (तत्रैव) योगीश्वरोक्तमपास्तम्।।
न च "कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा। नाचरेत्तानि धर्मात्मा श्रुत्वाचापि न कुत्सयेत्" इति (दत्तकमीमांसाया व्याख्याने) वचनेन धर्मशास्त्रोक्तमेवानुष्ठेयमस्माभिर्न ऋषिदेवताचरणमिति तदनुष्ठानं निषिध्यत इति वाच्यम्। धर्मशास्त्रस्य विशेषेणप्रवृत्तेस्तत्रनिषिद्धानांविहितानां वा विषयेस्वेच्छयातिक्रमणस्य स्वस्थविषयेन युक्तत्वेप्यापद्गतस्यतदतिक्रमेप्रत्यवायोनेत्यर्थस्य प्रागुक्तपराशरवचनेन बोधितस्यतदतिक्रमणादि रूपस्यविषयविभागार्थत्वेनास्मदुपयोगार्थत्वस्य ऋषिदेव ताव्यवहारेष्ववश्यंनिरूपणीयत्वात्।
यद्वा शक्तौ गांगजलं संगृह्य प्रत्यहंतत्पानादिना शालिग्रामतीर्थप्राशनेन च सर्वस्यापि महतोतिमहतोल्पस्यात्यल्पस्य च दोषस्य नाशेनोक्तापत्त्यनवकाशात्। तदुक्तं (स्मृतिमुक्ताफले आह्निककाण्डे विष्णुपुराणे) "नदीनदतटाकेषु देवखातजलेषु च। भूमिष्ठमुद्धृतात्पुण्यं ततः प्रस्रवणोदकम्। ततोपि सागरं पुण्यं तस्मान्नादेयमुच्यते। तीर्थतोयं ततः पुण्यं गांगं पुण्यं तु सर्वतः।" इति। (तीर्थतोयम्) ऋषिजुष्टजलम्। (तत्रैवविष्णुरपि) "सर्वत एव गाङ्गम्" इति। (तत्रैव विवस्वानपि) " एकतस्सर्वतीर्थानि जाह्नवी चैव चान्यतः" इति। (तत्रैवमरीचिरपि) " गांगं पयः पुनात्याशु पापमामरणान्तिकम्" इति।
अत एव गङ्गाया मुक्तिपतितोद्धारसम्पादकत्वम्। "कलौकलुषचित्तानांपापद्रव्यरतात्मनाम्। विधिहीनक्रियाणां च गतिर्गङ्गां विना न हि। सैवेह शरणं गंगा पतितत्राणनोद्यता। संसारार्णवमग्नानांभूतानां शरणार्थिनाम्। नान्यः शरणदः कश्चिदुपायो विद्यते व्कचित्। विना गंगां धर्ममयीं शरण्यां सर्वदेहिनाम्। महापातकसंहर्त्रीं सर्वाभीष्टार्थसाधिकाम्। अनाश्रित्य तु वै गंगां मुक्तिमिच्छति यः कलौ । सूर्यं द्रष्टुमिवोद्युक्तो जात्यन्धसदृशस्तु सः" इति (भविष्ये)।। नच "दशवर्षसहस्राणि विष्णुस्तिष्ठति मेदिनीम्। तदर्धं जाह्नवीतोयं तदर्धं ग्रामदेवताः।" इति (व्कचित्) तदपगमकथा कथ्यते इतीदानीं गंगाभावात्कथं प्रकृते तदुपयोग इति वाच्यम्।। "अन्तिमे कलौ" इति (वराह पुराणे) उक्तेरन्तिमकलावेव तदभावस्य सम्भवेन प्रकृतेदोषाभावात्। प्रतियुगं तस्या गमनस्य कुत्राप्यनुक्तेश्चेतिदिक्। तथा "सस्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः। शालग्रामशिलातोयैर्योभिषेकं समाचरेत्। गंगागोदावरीरेवानद्यो मुक्तिप्रदास्तु याः। तावत्सन्तीह सर्वत्र शालग्रामशिलाजले" इति (पाझे) तत्तीर्थमहिमा वर्ण्यते। तथा "देहःशुध्यति चाप्यात्मा पीत्वा पादोदकं हरेः। नित्ये नैमित्तिके काम्येपीत्वा भुक्त्वा न दुष्यति।" इति (स्मृत्यर्थसारे) "पादोदकं पिबेन्नित्यं नैवेद्यं भक्षयेद्धरेः। शेषं च मस्तके धार्यमिति वेदानुशासनम्। शालग्रामशिलातोयमपीत्वा यस्तु मस्तके। प्रक्षेपणं प्रकुर्वीत ब्रह्नहा स निगद्यते। शालग्रामशिलातोयं पिबेद्वामकरेण तु। अज्ञानादैन्दवं प्रोक्तं ज्ञानादब्दं समाचरेत्। विष्णोः पादोदकं पीत्वा कोटिजन्माघनाशनम्। तदेवाष्टगुणं पापं भूमौ बिन्दुनिपातनात्" इति (गारुडे) तत्फलानि वर्णितानि। एवं च गंगाशालग्रामतीर्थप्राशनंतत्र संभावितनानादोषनाशात्।। एतेन समुद्रे नावा याने समुद्रस्पर्शस्यापि "अश्वत्थसागरौसेव्यौ न स्पृष्टव्योमहोदधिः। अश्वत्थं मन्दवारे तु समुद्रं पर्वणिस्पृशेत्।" इति (निर्णयसिन्धौ 1 मपरिच्छेदे) निषिद्धत्वात्तन्नित्यं गृहीत्वा यन्त्रेण लवणांशनिष्कासनेन माधुर्यमुत्पाद्य पातुंशक्यतयाऽवतरणदिनावधियावदावश्यकं तावज्जलान्तरस्य पर्वादौ गृहीत समुद्रजलस्य वा निर्गमनदेशस्थनदीकूपादिजलस्य वा संग्रहेपि तस्य "सर्वं पर्युषितं तोयम्" इति पर्युषितदोषदूषितत्वोक्त्यानुपपत्तिरियं स्यादित्यपास्तम्।। पर्युषित मित्युक्तेः जलान्तरसम्पादकस्थलान्तरविषयत्वात्। शक्तेन "सर्वं पर्युषितं तोयं गाङ्गं पर्युषितं न हि " इति "चान्द्रायणसहस्राच्च गङूगांभःपानमुत्तमम्। गङ्गांमासं तु संसेव्य सर्वयज्ञफलं लभेत्" इति च (आग्नेयपुराणे 110द्या03श्लो0) उक्तेर्गंगालसंग्रहे कृते तदुपपत्तेश्च। अशक्तेन तु प्रयुषितजलपानदोषनिवृत्तयेपर्युषितपानप्राय श्चित्तस्य गङूगाजलकणिकाप्राशनेनापनोदनीयत्वा च्चेतिप्रागेवोक्तेः ननु समुद्रेनौकया गन्तृभिः प्राप्तव्यदेशप्राप्त्यवधि यानि यान्यावश्यकानितानिसहैवनीयन्ताम्। तेनशूद्रान्न सम्बन्धोन भवतीतिचेत्।। न ।। "अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम्। अस्नेहा अपिगौधूमयवगोरसविक्रियाः।" इति (याज्ञवल्क्येन- 1 माध्या 0 श्लो 0 169) तथा "शाकं मांसमपूपं च सूपं कृसरमेव च।। यवागूः पायसं चैव यच्चान्यत्स्नेहसंयुतम्। सर्वं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम्" इति (तत्रैव यमेन) तथा "अपूपास्च करंभाश्च धानावटकसक्तवः। शाकं मांसं फलं मूलं सूपं च कृसरं यवाः।। पृथुकाः पायसं चैव पर्युष्यन्ति न तु व्कचित्।" इति तत्र (पराशरस्मृतावपि श्राद्धप्रकरणे भोजने वर्ज्यविषयव्यव स्थायां 3 ध्या0 44 श्लो0 व्या) तथा "अपूपधानाकरम्भस क्तुयावकपायसशाकफलमूलानि विकृतानि वर्जयेत्" इति (वसिष्ठे न तत्रैव) तथा "शुक्तानि िह द्विजोन्नानि न भुञ्जीत कदाचन।। प्रक्षालितानि निर्दोषाण्यापद्धर्मो यथा भवेत्" इति (पराशरेण तत्रैव यमेन) उक्तेरदोषात्। अत्रोक्त मपिमांसं त्याज्यमेव "वसेत्स नरके घोरेदिनानि पशुरोमभिः। संमितानिदुराचारो यो हन्त्यविधिना पशून्" इति (याज्ञवल्क्येन 1 ध्या 0180 श्लो0) "यज्ञार्थंब्राह्नणैर्वध्याः प्रशस्तामृगपक्षिणः। भृत्यानांचैववृत्त्यर्थमगस्त्योह्याचरत्तथा" इति (मिताक्ष 0 1ध्या 0 179 श्लो 0 व्या 0 मनुना 3 चोक्तेः।
एतेषां पदानामर्थाः--(पराशरेण 3 ध्या 0 44 श्लो 0 व्या) श्राद्धे वर्ज्यवस्तुनिरूपणे उक्ताबोध्याः--(अपूपाः) यवगोधूमविकारा मण्डकादयः। व्रीह्यादिपिष्टविकाराश्च (वजकाः) माषादिपिष्टमयाः प्रसिद्धाः। (कृसरं) घृष्टतिलचूर्ण संयुतमोदनम् अन्यदोदनादिकं स्नेहसंयुतं घृतेन दध्यादिभिः पूरितमेतत्सर्वं पर्युषितमशुक्तं भोज्यम्।। अत्यम्लं (शुक्तम्) इति (तत्रैव बृहस्पतिना)। अनम्लमीषदम्लंवा यद्वस्तुकालान्तरेणद्रव्यान्तरसंसर्गेण वाऽत्यम्लं भवति तत्=(शुक्तम्) न स्वभावतोत्यम्लम्। (पर्युषितं)-यद ग्निपव्कंसद्रात्र्यन्तरितं तत्। शुक्तादिप्रतिषेधो दध्यादिव्यतिरिक्तविषयः। "घृतदधिपयस्तक्राणामाधारभाण्डे स्थितानामदोषः। "घृतं तु पायसं क्षीरं तथैवेक्षुरसो गुडः। शूद्रभाण्डस्थितं तक्रं तथा मधु न दूष्यति" इति (पराशरमार्धवीये शङ्खेन 75 श्लो 0 व्या 0 6ध्या) उक्तेः। तत्रैव स्थिता एते ग्राह्या एव। आधारदोषे तु नयेत्पात्रात्पात्रान्तरम्
तथा पणिकेष्वपि केचित्त्याज्याःकेचिन्न। "नापणीयं समस्नीयान्नद्विः पव्कम्" इति (पराशरमा धवीये 3 ध्या 0 44 श्लो 0 व्या 0 श्राद्धे वर्ज्यवस्तुप्रकरणे)। स्मृत्यन्तेर तु "अयमपूपादिव्यतिरिक्तविषयः" इत्युक्तम्। पण्येष्वपि भाण्डलेपाभावेग्राह्या एवापूपादयः। तदुक्तं स्मृति रत्नाकरे) "अपूपाः सक्तवो धानास्तथा दधि घृतं मधु। एतत्पण्येषुभोक्तव्यं भाण्डलेपो न चेद्भवेत्" इति।
अत्रेदं चिन्तनीयम्। ब्राह्नणेर्ग्राह्याण्येतानि- "द्विविधो द्विजः शूद्रान्नरतः तन्निवृतश्च। तत्र यस्य "कन्दुपक्कं स्नेहपव्कं पायसं दधिसक्तवः। एतानि शूद्रान्नभुजो भोज्यानि मनुरब्रवीत्। द्विजैरेतानि भोज्यानि शूद्रगेहे कृतान्यपि।" इति (शुद्धितत्त्वे कौर्मोत्तरार्थे) इति (अपरार्के शूलपाणौ हारीतस्य) उक्तेरिति। (पायसं) पाकं विना क्षीरेण कृतम्। "(आमं) शूद्रस्य पक्वा<1>न्नम् <1.पव्कं सर्वमित्यर्थः। अग्निमग्रन्थसन्दर्भात् इतिभाति।> पक्वमुच्छिष्टमुच्यते" इति (शातातपेन) उक्तेः। "यच्चान्यत्पयसा कृतम्" इति पूर्वमुक्तेरिदं शूद्रगृहेपि भोज्यम्। तदुक्तं (शूलपाणौ ब्राह्ने)- "राज्ञां पर्वणि वैश्यानामश्र्नीयान्मह्गले गवाम्। वासोभूरत्नहेमान्नं सच्छूद्रस्य गृहे तथा" इति। "स्वदासो नापितो गोपः कुम्भकारः कृषीवलः। ब्राह्नणैरपि भोक्तव्याः पञ्चैते शूद्रयोनयः" इति (पराशरमाधवीये 11 ध्या 24 श्लो 0)। अत्रान्नशब्दोऽदनीयवस्तुमात्रपरोनत्वोदनपरः। "दासनापितगोपालकुलमित्रार्धसीरिणः। एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्" इति (पराशरेण 11 ध्याये 21 श्लो 0) "शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः। भोज्यान्ना नापितश्चैवं यश्चात्मानं निवेदयेत्।।" इति (याज्ञवल्क्येन 1 ध्याये 166 स्लो 0) इति। अन्यस्य द्विजस्य तु (शूलपाणावंगिराः)- "पात्रान्तरगतं ग्राह्यं शूद्रात्स्वगृहमागतम्। शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि। निवृत्तेन न भोक्तव्यं शूद्रान्नं तदपि स्मृतम्" इति "सम्प्रोक्षयित्वा गृह्णीयाच्छूद्रान्नं गृहमागतम्" इति (विष्मुपुराणे)। "तत्पाकस्च शूद्रगृहे न कार्यः। शुष्कान्नं गोरसं स्नेहं शुद्रवेश्मन आगतम्। पक्वं विप्रगृहे भुक्तं भोज्यं तन्मनुरब्रवीत्" इति (निर्णयसिन्धुटीकायां नौकाख्यायां3परिच्छेदे)। यत्तु (भविष्ये) "उपक्षेपणधर्मेण शुद्रान्नं यः पचेद्द्विजः। अभोज्यं तद्भवेदन्नं स च विप्रः पुरोहितः।" (उपक्षेपणं।) शूद्रेण स्वान्नस्य पाकार्थं विप्रगृहे समर्पणमिति (कल्पतरुः)। तच्छ्रुश्रूषकभिन्नपरम्। "त्रिषु वर्णेषु कर्तव्यं पक्वभोजनमेव च। शुश्रूषामभिपन्नानां शूद्राणां च वरानने।" इति (वाराहे) उक्तेः। संसृष्टदुष्टभोज्येन्ने विशेषमाह (अपरार्के शुलपाणौ सुमन्तुः।--"गोरसं चैव सक्तूंश्च तैलं पिण्याकमेव च। अपूपान्भक्षयेच्छूद्राद्यच्चान्यत्पयसा कृतम्।" इति। (पयसा) अन्यासंसृष्टदुग्धेन पाकं विना कृतम्। तेन पायसे दोष एव। पयसेतितृतीयया नैरपेक्ष्यावगतेः। शुद्रजले दोषोक्तेश्च। यच्चेति चकारादपूपेषु पयःकृतेष्वेव। तेन जलकृते पोलिकादौ दोष एवेत्यर्थः " इति स्वेनस्वेन सह नीतैः शूद्रादिभृत्यैः के षाञ्चिसहायः उक्त रीत्या स्यादेवेति दिक्।।
एवंच भरतखण्डे स्थिताः शिष्टा स्तथाव्यवस्थापकास्तथा न्येपि पण्डिताः पामराश्चत्रैवर्णिकाः यथाशक्ति तत्तद्विध्यु ल्लङ्घनजङ्घालाः व्कचिदशिरः स्नायिनो कलियुगसाधुरूपाः प्रायश्चितसहस्रविधीनामपवादशास्त्रभूतशिरस्स्नानापेयपानसहस्रपर्युषितभोजनापणिकाभक्ष्यान्नभक्षणब्रह्नचर्याग्निपरित्यागदुर्दानदुष्प्रतिग्रहसन्ध्यात्यागशिखाच्छेदसोपानत्कभोजननिषिद्धोच्छिष्टभोजनसङ्करवर्णपङ्तिभोजना स्पृश्र्याशुद्धप्रेतादिकर्मकर्त्रास्तिकदूषणादिनित्यानाचारा सक्तसेवनतदन्नप्रसादाद्याकाङ्क्षातदुद्देश्र्यकमहामन्त्राद्युप देशस्वेच्छाधृतयज्ञोपवीतत्यागतद्धारणाद्यानियतानाचारसहस्रां स्तानेतान्दुराचारान्परित्यज्यावश्यकानापत्कालि काचारान्व्कचिदाश्रित्य प्रयन्तदेशादिगन्तॄणां न कापि क्षतिरिति दिक्।।
इत्यब्धिनौयानमीमांसायां अक्ष्याक्षक्ष्यादिविचारनामकं तृतीयंखण्डं समाप्तम् ।। 3 ।।