अब्धिनौयानमीमांसा /चतुर्थं खण्डम्
| ← तृतीयं खण्डम् | अब्धिनौयानमीमांसा चतुर्थं खण्डम् [[लेखकः :|]] |
पञ्चमं खण्डम् → |
अत श्राद्धादिविचार आरभ्यते ।। 4 ।।
ननु समुद्रे नौयानेन देशान्तरगमने द्वीपान्तरगमनेवा "प्रणष्टाश्रमधर्मास्च वर्ज्या देशाः प्रयत्नतः" इति (निर्णयसिन्धौ श्राद्धे वर्ज्यदेशप्रकरणे वायुपुराणे) उक्तेर्वर्णा श्रमधर्मशून्यदेशानां पिरत्याज्यत्वोक्त्या तत्र परित्याज्ये कथं प्रवेशो युज्यते इति चेत्।। न ।। अस्य वचनस्य श्राद्धप्रकरणस्थत्वेन श्राद्धं तत्र न कार्य मित्यर्थप्रतीतेः। "कृष्णसारस्तु चरति मृगो यत्र स्वभावतः। स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्स्वतः परः ।। 23 ।। एतान् द्विजातयो देशान्त्सं श्रयेरन्प्रयत्नः। शूद्रस्तु यस्मिन्कस्मिन्वा निवसेद्वृत्तिकर्शितः" इति (मनुना 2 ध्या 0 2 श्लो0) वृत्तिकर्शित इत्युक्त्यात्र वृत्त्यन्तरं न लभ्यते। अतोत्र स्थातुं न शक्यते। तत्र यदि गम्यते तदा वृत्तिर्लभ्यते। ततश्च तत्रैव निवसामः पुनर्वृत्तिरहितदेशं न प्रत्यावर्तामह इत्यभिसन्धिना गन्तव्यमित्यर्थात्। "संश्रयेरन्प्रयत्नतः" इत्युक्तेः। प्रयत्नेन संश्रयणस्य स्थिरवासस्य योग्योप देशलाभपर्यन्तमन्यस्य तदुपायान्वेषणायाश्रयणेपि तत्र तमुपायमुपलभ्य ततः प्रत्यावर्तनीयमेव न संश्रयणीयमित्यर्थाच्च। अन्यत्र निवासे दोषाभाव इत्यर्थलाभाच्च। अत एव "वसन्वा यत्र कुत्रापि स्वाचारं न विसर्जयेत्" इत्युक्तं संगच्छते। अत एव शास्त्रनिषिद्धेपि भरतखण्डस्थे देशे निवसन्ति। अन्यथा "न शूद्रराजे निवसेन्नाधार्मिक जनावृते। न पाषण्डिगणाक्रान्ते नोपस्पृष्टेन्त्यजैर्नृभिः ।। 61 ।।" इति (मनुना 4 ध्या0) उक्तेः शूद्रस्वामिकादिदेशे वासनिषेधात्तत्रेदानीं बहनां श्रोत्रियाणां निवसन मयुक्तं स्यात्। किंच "म्लेच्छदेशे तथा रात्रौ सन्ध्यायां विप्रवर्जिते। न श्राद्धमाचरेद्विद्वान्न चाकाशे कदाचन" इति (दिवोदासीये) वचनान्म्लेच्छदेशे श्राद्धं निषिध्यते न तु गमनमपीत्यदोषात्। ननूक्तवचनेन म्लेच्छदेशे श्राद्ध कर्तव्यतानिषेधात् "भोजको यस्तु वै श्राद्धं न करोति खगाधिप। मातापितृभ्यां सततं सर्षेवर्षे मृतेहनि। स याति नरकं घोरं तामिस्रं नाम नामतः" इति (मदनरत्ने भविष्ये मनुना) श्राद्धस्याकरणे प्रत्यवायोक्तेः। "वसन्वा यत्र कुत्रापि स्वाचारं न विसर्जयेत्" इत्युक्तेः "श्राद्धे कुर्य्यान्न विस्तरम्" इत्युक्तेश्च विस्तरेण ब्राह्नणशून्यत्वा दिनानाऽनुपपत्तिमितम्लेच्छदेशादौयथावच्च्छ्राद्धं न कुर्य्या दित्यर्थस्यैव युक्तत्वात्। किंच यद्यपि "त्रिशङ्कोर्वर्जयेद्देशं सर्वं द्वादशयोजनम्। उत्तरेण महानद्या दक्षिणेन तु कीक टान्।। देशस्त्रैशङ्कवो नाम श्राद्धकर्मणि वर्जितः।"इति (निर्णयसिन्धौ पृथ्वीचन्द्रोदये स्कान्दे) तथा "किरातेषु कलिङ्गेषु कोङ्कणेषु खसेष्वपि। सिन्धोरुत्तरकूलेषु नर्मदायाश्च दक्षिणे। पूर्वेण करतोयाया न देयं श्राद्धमुच्यते" इति (निर्णयसिन्धौ ब्राह्ने) "रूक्षंकृमिहतं क्लिन्नं सङ्गीर्णानिष्टगन्धिकम्। देशं त्वनिष्टशब्दं च वर्जयेच्छ्राद्धकर्मणि" इति (निर्णयसिन्धौयमेन) च निर्दिष्ट देशेषु श्राद्धं निषिध्यते। तथापि "इदं काम्यविषयम्। अन्यथा तत्रत्यानां सर्वश्राद्धलोपप्रसङ्गात्" इति (निर्णयसिन्धौ तत्रैव) उक्तेर्नित्यस्य परित्यक्तुमशक्यत्वेनकाम्यश्राद्धं न कार्यमित्यर्थकल्पनाया एव युक्तवात्।
किंच रोगादिनाःशौचादिना राजकार्यनियुक्तेन कारागृहनिवासिना बालेनेत्येवमनुपपत्तिषु प्रतिनिधिद्वारा स्वदेशेश्राद्धाचरणेन तद्दोषाभावात्।
अपरं च "द्रव्याभावे द्विजाभावे अन्नमात्रं तु पाचयेत्। पैतृकेन तु सूक्तेन होमं कुर्याद्विचक्षणः" इति (निर्णयसिन्धौ पृत्वीचन्द्रोदये बृहन्नारदीये) तथा "पिण्डमात्रं प्रदातव्यमभोवद्रव्यविप्रयोः। श्राद्धीयाहनि संप्राप्ते भवेन्निरशनोपि वा" इति (तत्रैव देवलेन) तथा "किञ्चिद्दद्यादशक्तस्तु उदकुम्भादिकं द्विजे। तृणानि वा गवे दद्यात्पिण्डान्वाप्यथ निर्वपेत्।। तिलदर्बैः पितॄन्वापि तर्पयेत्स्नानपूर्वकम्" इति (तत्रैव वृद्धवसिष्ठेन) तथा "अग्निना वा दहेत्कक्षं श्राद्धकाले समागते। तस्मिन्वोपवसेदह्नि जपेद्वा <1>श्राद्धसंहिताम् <1.(श्राद्धसंहितां) समन्त्रकश्राद्धसंकल्पः इति (निर्णयसिन्धौ)। "समग्रं यस्तु शक्रोति कर्तुं नैवेह पार्वणम्। अपि संकल्पविधिना काले तस्य विधीयते। पात्रे भोज्यस्य चान्नस्य त्यागः सङ्कल्प उच्यते" इति (तत्रैव हेमाद्रौ संवर्तेन) उक्तः संकल्पः।>।" इति (हेमाद्रौ भविष्ये) इति श्राद्धस्य साक्षाद्यथाविधि विप्रादिवर्जितत्वादिना प्रायस्सर्वेषांकर्तुमशक्यत्वेन तन्निषेधेपि तत्प्रत्याम्नायभूतोपायान्तराणां सुकरत्वेन तदनुपपत्त्यभावादिति दिक्।।
ननु समुद्रे नौयानेन गमनसमये मातापितृमृतिश्रवणे तत्र तदौर्ध्वदैहिकं भुवीव कर्तुमशक्यम्। ततश्चैतज्जन्मनि जन्मान्तरे वा कृतेन पुण्यविशेषेण पुत्रमुपलभ्य तन्निमित्तं बहून्क्लेशाननुभूय नानाक्लेशेन तत्तोषं बहुधनस्य व्ययेन तत्संस्कारतदंश दानादिना यावज्जीवं तस्मादन्त्येष्टि प्रभृति प्रत्युपकारप्राप्तये उपकुर्वतो पित्रोः यद्ययं प्रत्युपकृतिं न कुर्यात्तदा कृतज्ञताभह्गात् "पुन्नाम्नो नरकात्राता पुत्रः" इत्युक्तलक्षणपुत्रत्वभङ्गाच्च। अत एवौरसाभावे दत्तकं स्वीकुर्वन्तीति चेत्।। न ।। कालान्तरे कर्त्तुमशक्यानां सन्ध्याखण्डोक्तप्रकारेण नौकाकल्पिते बूप्रदेशे दहनसञ्चयनावशिष्टानां कर्मणां सहायसामग्रीसम्पत्तिसद्भावे कर्त्तुं शक्यत्वात्। यदि सहायादिन्यूनता तदा भुवि तन्न्यूनतायां यथातथैव गतिः स्यात्।। एतेन दाहसञ्चयव्यतिरिक्तमौर्ध्वदौहिकं तत्र दुःशकम्। यतः "नैकवासा न च द्वीपे नान्तरिक्षे कदाचन। श्रुतिस्मृत्युदितं कर्म न कुर्यादशुचिः व्कचित्" इत्युक्तेरित्यपास्तम्। रोगाद्युपघातादाविव नौगमन्समयेपि स्वदेशस्थेन येन केन वा स्वीयेन प्रतिनिधिना तच्छ्राद्धादिनिष्पादनेनादोषाच्च।। नावोऽवतीर्योक्तप्रायश्चित्तमनुष्ठाय तत्कृत्यकरणे दोषाभावाच्च।। ननु द्वीपत्वप्रयोज्यदोष इति चेदस्यापि द्वीपत्वमस्त्यवेति तद्वचनस्य नद्यादिमध्ये जलप्रवाहेत्यल्पे यो द्वीपस्तत्र न कुर्यादित्यर्थात्। यतः कदाचित्तत्र प्रवाहापाते चिरकाल बह्वायाससाध्यश्राद्धभङ्गाऽऽत्महत्यादिप्रशङ्गादिदोषबाहुल्यम्।। नच नावासमुद्रतरणसमये स्वस्याशुद्धत्वात्प्रायश्चित्तं विना पतितवन्नित्यकर्मातिरिक्तकर्मानुष्ठानयोग्यताया अभावात्तद्दुःशकमिति वाच्यम्। तत्रैव प्रायश्चित्तमनुष्ठाय शुद्धिं संपाद्य तत्करणेनादोषात्।। नच "चतुर्थकालंमितभोजिनःस्युरपोऽभ्युपयुस्सवनानुकल्पम्। स्थानासनाभ्यां विहरन्त एते त्रिभिर्वर्षैस्तदपहन्ति पापम्" इति बोधायनोक्तस्य प्रायश्चित्तस्य त्रैवार्षिकत्वात्तावत्तदनुष्ठानोत्तरं शुद्धिस्तत और्ध्वदेहिककर्मकर्तव्यता प्राप्नोतीति वाच्यम्।। यानानन्तरं ततोऽवतीर्णस्यैव प्रायश्चित्तम्। तत्रैव स्थितस्य तु न प्रायश्चित्तं विहितमितिनौ कायांप्रायश्चित्तस्याप्राप्तेः।। प्रायश्चित्तविधेः कर्तव्यमहाम हाश्रौतस्मार्तकर्मलोपनैयत्यमिति तत्प्रयोज्यप्रत्यवायपरि हारायैव प्रवृत्तिर्नान्यत्रेत्येवक्तुंशक्यत्वाच्च। कर्मलोपप्रत्यवायपरिहारायप्रवृत्तिरित्यभ्युपगमस्यान्याय्यत्वाच्च। प्रकारा न्तरंतुप्रागुक्तमेव। तत्प्रायश्चित्तस्य चिरकालाभ्यस्तनौयान यातृविषयत्वाच्च।। "विवाहदुर्गयज्ञेषुयात्रायां तीर्थकर्मणि। न तत्र सूतकंतद्वत्कर्मयज्ञादि कारयेत्" इति (निर्णयसिन्धौ पै ठीनसिना) उक्तेर्मातापितृव्यतिरिक्तविषयकत्वेन नौकावतर णोत्तरमेवाशौचानुष्ठानपितृयज्ञकर्तव्यताभ्युपगमेन वा दोषाभावाच्च।। प्रकारान्तरं चात्रोपयुक्तं प्रथमखण्डेउक्तं न विस्मर्तव्यम्।
ननु तत्र गमने कस्यचिन्मरणे दहनादि न स्यात्। तस्य तत्र कर्तुमशक्यत्वात्। नच द्वीपान्तरीय भूलाभपर्यन्तं दशरथादिप्रेतस्थापनवत्तैलद्रोण्यां प्रेतं संस्थाप्य बूलाभोत्तरमवतीर्य दाहकरणेनादोष इति वाच्यम्।। शक्तेन तथा कर्तुं शक्यत्वेप्यन्पेषामशक्यत्वात्। प्रेतं संस्थाप्य तत्र तदीयैरन्यैश्च स्नानभोजनादिव्यवहारः कर्तुमशक्य इति तु न।। त्रैवर्णिकेषु कलौ तथा व्यवहारस्यादर्शनेपि त्रेतायां रामराज्यकालेऽन्येषां तत्पूर्वं दशरथस्य चेत्येवं प्रेतानां बहूनां व्कचिदेकत्र संरक्ष्यानन्तरं संस्कारः कृत इत्यादिसदाचारस्य (वाल्मीकिरामायणे आनन्दरामायणे) च स्पष्टमुक्तत्वात्ग्रन्थविस्तरभयात्तुन लिख्यते। इदानीमपिरात्रौमृते पुत्राद्यागमनपर्यन्तं प्रतीक्षणा त्व्कचिद्दिवाङ्गलवैद्यशालायां मृतस्य केनापि हतस्य द्वित्रिदिवसोत्तरंसंस्कारस्य पर्युषितप्रायश्चित्तमनुष्ठायानुष्ठानाच्चव्कचिदस्त्येवसः। नन्वत्रानुपपत्त्या तथा व्यवहार इति चेत्।। प्रकृतेपि सममेव।। कालाल्पत्वमहत्वादिकमनुपपत्ति बलाधीनमिति चेत्। न ।। आतुरसन्न्यासं दापयित्वा मृतेरनन्त रंसमुद्रतीर्थे प्रक्षेपेणादोषात्। माधवस्तु-"ब्राह्नणः क्षत्रियो वाथ वैश्योवाप्रव्रजेद्ग्रहात्" इति (कौर्मे) उक्तेर्वर्णत्रयस्याप्यधिकार" इति (निर्णयसिन्धौतृतीयपरिच्छेदेसन्न्यासप्रकरणे) त्रैवर्णिकानां सर्वेषामपि सन्न्यासाधिकारमाह। नच तस्य सन्न्यासिनः कदाचिदुज्जीवने का गतिः। "यानारूढं यतिं दृष्ट्वा सचैलं स्नानमाचरेत्" इति वचनेन तत्र नौकायां तद्दर्शनस्य निषिद्धत्वादिति वाच्यम्।। स्वयं तत्र नावि सन्न्यासोतरमारोहाकरणेन स्वेच्छयानौकाढयतिविष्यत्वात्।। न चास्याशुद्धत्वेन सन्न्यासग्रहणेऽन्येषां तद्दाने च नाधिकार इति वाच्यम्।। "शरीरस्यात्यये प्राप्ते वदन्ति नियमांस्तु ये। महत्कार्योपरोधेन तत्पापं तेषु गच्छति।" इति "तथा दुर्बलेनुग्रहः प्रोक्तस्तथा वै बालवृद्धयोः। ततोन्यथा भवेद्दोषस्तस्मान्नानुग्रहः स्मृतः" इति "ब्राह्नणा जङ्गमं तीर्थं तीर्थभूता हि साधवः। तेषां वाक्योदकेनैव शुध्यन्ति मलिना जनाः" इति (स्मृतिमुक्ताफले श्राद्धकाण्डे पराशरेण) "तुलसीदलसंमि श्रमपि सर्षपमात्रकम्। गङ्गाजलं पुनात्येव कुलानामेकविंशतिम्" इति (तत्रैव नारदेन) नियमाद्यभावऽपि ब्राह्नणवाक्येन गङ्गाजलन हरिशिवास्मिरणेन च म्रियमाणस्य शुद्धत्वसंभवात्। मृतस्य प्रेतस्य समुद्रतीर्थे परित्यागमन्तरा गत्यन्तराभावात्तत्रत्यागेन्यत्रावतीर्य पलाशविधिमाश्रित्यविहितकृत्यस्य तत्र करणेनादोषाच्च। एतेन पुंसां संन्यासेलभ्येपि स्त्रप्रेतानां का गतिः। तत्र तीर्थे प्रक्षेपे विध्य भावादिति परास्तम्।। प्रेतं जले परित्यज्य भारते देशान्तरे विद्यमानप्रतिनिधिना स्वस्वातुरावस्थायामिव पलाशविधिना तदानीमेव विशिष्टकर्मानिष्पत्ते श्चेत्यलंपल्लवितेन।।
शिष्टं भुवीव विज्ञेयं श्राद्धकृत्यं ततोऽधिकम्।
नैवेत्यत्यावश्यकं यत्तदेव समुदाहृतम् ।। 1 ।।
इत्यब्धिनौयानमीमांसायां श्राद्धादिविचारनामकं चतुर्थं खण्डं समाप्तम् ।। 4 ।।