सामग्री पर जाएँ

अब्धिनौयानमीमांसा /द्वितीयं खण्डम्

विकिस्रोतः तः
← प्रथमं खण्डम् अब्धिनौयानमीमांसा
द्वितीयं खण्डम्
[[लेखकः :|]]
तृतीयं खण्डम् →


अथ स्नानसन्ध्याविचारनामकं द्वितीयं खण्डमारभ्यते ।। 2 ।।
ननु नावा समुद्रयाने सन्ध्योपयोगिसामग्र्यभावात्सन्द्यानुष्ठानाद्यानां नित्यानां नैमित्तिकादीनां च कर्मणां तत्र कर्तुमशक्यत्वादाचारभ्रंशः स्यात्।। स चायमाचारभ्रंशः पातित्यापादकः।। तदुक्तं (मनुना 2 ध्या 103 स्लो 0) "नोपतिष्ठेत यः पूर्वां नोपास्ते यश्च पश्चिमाम्।। स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विज (त्साधु) कर्मणः।।" इति। तथा "अग्निकार्यपरिब्रष्टाः सन्ध्योपासनवर्जिताः।। वेदं च येनधीयानास्ते सर्वे वृषलाः स्मृताः" इति (पराशरेण 12 ध्या 31 श्लो) तथा "सन्ध्याहीनोऽसुचिर्नित्यमनर्हः सर्वकर्मसु।। यत्किञ्चित्कुरुते कर्म न तस्य फलभाग्भवेत्।।" इति (मिताक्षरायां 3 ध्या 243 श्लो0 व्याख्यायां दक्षेण) तथा "तथा द्विजातिकर्मभ्यो हानिः पतनम्" इति (तत्रैव)।। तद्विदिश्च-" अहरहस्सन्ध्यामुपासीत" इति (आपस्तम्बादिभिः कल्पसूत्रे) तथा "अग्नयश्चस्वाध्यायप्रवचने च" इत्यादि (तैत्तिरीयोपनिषदि शिक्षायां 9) तथा "यावज्जीवमग्निहोत्रं जुहुयात्" इति (वेदे) च।। नच तत्तत्कर्मोपयुक्तयावत्सामग्रीणां तत्र नावादौ सहैवानयनेन तत्तत्कर्मणां कर्तुं शक्यत्वान्न काप्यनुपपत्तिरिति वाच्यम्।। सहनीतानां जलादीनां सुदूरगन्तव्यदेशावधिनिर्विकारं शुद्धतया स्थित्यसंभवात्समुद्रे जलोपलम्भेपि तस्यलवणरसाढयतमत्वेनानुपयुक्तत्वान्निषिद्धत्वाच्च सन्ध्यादिकर्महानिरविनाभाव्येवेत्युक्तदोषतादवस्थ्यमिति चेत् ।। न ।। अत्यावश्यकपानपाकार्थकजलेनैतत्कर्मणामपि सिद्धेरिति केचित्।। स्फुटीकरिष्यते चेदमुपरिष्टादनुपदमेव।।
ननु स्नानानन्तरमेव सन्द्यापाकादिकानां कर्तव्यतेति सन्ध्यावन्दनादेरेवैतादृश्यां दुरवस्थायां का कथा स्नानस्य। तदकरणे तु "स्वस्थो विप्रो यदाऽस्नात्वा भुङ्क्ते मोहपरायणः। विष्ठां तदन्नम श्नाति" इति (विष्णुधर्मोत्तरे) उक्तेः सर्वकर्मणामादौ विहितस्नानविध्यतिक्रमेप्रत्यवायः स्यात्।। न च "आकाशं वायुरग्निश्च मेध्यं भूमिगतं जलम्।। न दुष्यन्ति च दर्भाश्च यज्ञेषु चमसा यथा" इति। (पराशरेण 10 ध्याये 41 ।। श्लो) उक्तरीत्येष्टकादिनिर्मितचतुष्कोणाकृतिके कृत्तिमेष्टकावटे सामुद्रजलं पूरयित्वा " कलौ गङ्गैव केवलम्" इति (काशीखण्डभविष्यपुराणयोः) तीर्थमित्यनुवर्तते।। "कलौ गङ्गां समाश्रयेत्" इति (विष्णुधर्मोत्तरे) सेव्यमित्यनुवर्तते।। "भुक्तिमुक्तिफलप्रेप्सुरल्पायासेनचेन्नरः। तीर्थान्येवाश्रयेद्विद्वान्कलौ गह्गां विशेषतः।" इति (स्कान्दे)।। "न भवेद्वेदन्त्राणां संशुद्धिः शुद्धिवर्जितैः। मन्त्रैर्विना नसिध्यन्ति यज्ञाः शुद्धिस्सुदुर्लभा। काले कलेर्विशेषेण शुद्धं वस्तु न दृश्यते। कलौ युगे हि तमसा नष्टधर्मे भयङ्करे। अनेकच्छिन्नसन्तानो धर्मतन्तुर्हि जाह्नवी। विना गङ्गां धर्ममयीं कथं स्याच्च गतिः कलौ" इति (कामिकसंहितायाम्। "कलौ कलुषचित्तानां पापद्रव्यरतात्मनाम्। विधिक्रियाविहीनानां गतिर्गङ्गां विना नहि" इति (भविष्ये) "भगवद्वीता किञ्चिदधीता गङ्गाजललवकणिका पीता। सकृदपि येन मुरा रिसमर्चा क्रियते तस्य यमोपि न चर्चाम्" इति (चर्पटपञ्जर्यां श्रीभगवत्पादैः) उक्तेर्गाङ्गजलं महापापादिनाशकं तत्र किंञ्चित्क्षिप्त्वा प्रास्य तथा वालुकाश्च क्षिप्त्वा जलस्य परिशुद्धतासंपादनेनादेषात्।। किंच लौ हतन्त्रीभिर्लोहपञ्जररूपस्यजलप्रवेशनिर्गमयोग्यसरोवरस्य तत्र नावउपरितनपार्श्वे लौहतन्त्रीभित्तित्रयवतो निरावरणोपरिभागस्य स्नानार्थमन्तरारोहणावरोहणार्थकद्वित्रिसोपानकस्य नौकापार्श्वे नौकादारुरूपभिरिमतः निर्मा णेन तत्र समुद्रझर्यां तत्सर्वं सुकरम्। एवं सर्वतीर्थे।। ततश्चैकैकनद्यां स्नानापेक्षयाधिकपुण्यलाभो महामहापातकादिनिवृत्तिश्च तन्त्रीसरोवरेपिसमुद्रस्यप्र वेशेन। ननु "अश्वत्थसागरौ सेव्यौ न स्प्रष्टव्यौ कदाचन।। अश्वत्थं मन्दवारे तु समुद्रंपर्वणिस्पृशेत्" इति (निर्णयसिन्धौ 3 परिच्छेदान्त्येभारते) तथा "समुद्रे पर्वसु स्नायादमायां च विशेषतः।। पापैर्विमुच्यते सर्वैरमायां स्नानमाचरन्।। भृगुभौमदिने स्नानं नित्यमेव विवर्जयेत्" इति (निर्णयसिन्धौ 1 मपरिच्छेदान्त्ये आश्वलायनेन) "कदाचिदपि नैवात्र स्नानं कुर्यादपर्वणि" इति (तत्रैव प्रभासखण्डीयवचनेन) पर्वादिव्यतिरिक्तेषु स्नाननिषेधात्तत्र स्नानादेः यत्र दिनेषु तत्संभवस्तत्र पर्वसु कर्तुंशक्यत्वेप्यन्येषु कालेषु निषिद्धेषु तस्याशक्यत्वात्।। न च प्रत्यहं देवादिपूजासु कलशतीर्थे " सर्वे समुद्राः सरितः" "कुक्षौ तु सागरास्सर्वे" इतिसागरावाहनं न स्यात्। तत्स्पर्शस्यपर्वकालातिरिक्तकाले निषेधादिति वाच्यम्। आतिदेशिकसमुद्रत्वेनादोषात्। न च साक्षाद्यत्र संभवस्तत्रतदातदानयनसंभवोभवति न वेतिवाच्यम्। स्नानप्रयोजकस्पर्शनिषेधात्। समुद्राभिमानिदेवताया एवावाहनाच्चेति चेत्।। न ।। तत्स्पर्शस्य निषिद्धत्वेपि ततः पूर्वकालेषूद्धृत्य निःक्षिप्तजलेन स्नानस्य कर्तुं शक्यवात्।। "असामर्थ्याच्छरीरस्य कालशक्त्याद्यपेक्षया।। मन्त्रस्नानादितः सप्त केचिदिच्छन्तिसूरयः।। मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यमेव च।। वारुणं मानसं चैव सप्त स्नानान्यनुक्रमात्। आपोहिष्ठादिभिर्मान्त्रं मृदालम्बश्च पार्थिवम्।। आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम्।। यत्तु सातपवर्षेण तद्दिव्यं स्नानमुच्यते।। वारुणं चावगाहस्तु मानसं विष्णुचिन्तनम्।। सप्तस्नानं समुद्दिष्टं मन्त्रस्नानात्क्रमेण तु।। कालाद्देशादसामर्थ्यात्सर्वं तुल्यफलं स्मृतम्।। मानसं प्रवरं स्नानं केचिदिच्छन्ति सूरयः।। आत्मतीर्थप्रशंसापि व्यासेन पठितं यतः।।" इति (याज्ञव 0 स्मृ 0 व्या 0 अपरार्के 1 ध्या 100 तमस्लो 0 योगयाज्ञवल्क्यः) तथा "शन्नआपस्तुद्रुपदादापोहि ष्ठाघमर्षणम्। एतैश्चतुर्भिऋङ्मन्त्रैर्मन्त्रस्नानमुदाहृतम्।। अप्रायत्ये समुत्पन्ने स्नानमेव तु कारयेत्।। पूर्वोद्दिष्टैस्तथा मन्त्रैरन्यथा मार्जनं भवेत्।।" इति (तत्रैव) तथा--"योसौ विस्तरतः प्रोक्तः स्नानस्य विधिरुत्तमः। असामर्थ्यान्न कुर्याच्चेत्तत्रायं विधिरुच्यते। स्नानमन्तर्जलंचैवमार्जनाचमनं तथा।। जलाभि मन्त्रणं चैव तीर्थस्य परिकल्पनम्।। अघमर्षणसूक्तेन त्रिरावृत्तेननित्यशः। स्नानाचरणमित्येतदुपदिष्टंमहात्मभिः" इति (तत्रैव) तथा-"अशिरस्कं भवेत्स्नानं स्नानाशक्तौ तु कामिकम्।। आर्द्रेण वाससा वापि मार्जनं दैविकं विदुः।।" इति (तत्रैव जाबालिः) चोक्तवानितिमन्त्रस्नानादेः शक्यत्वात्। (स्मृतिमुक्ताफलेआचारकाण्डेदक्षेण) "आग्नेयं वारुणं ब्राह्नं वायव्यं दिव्यमेव च।। मानसं पार्थिवं चैव त्वम्टमं कापिलं स्मृतम्।।" `इति' भस्मोद्धूलनस्नानं (भस्मस्नानम्)-भस्मजाबोलोपनिषदि) (वारुणम्)-जलावगाहनस्नानम्। अघमर्षणादिमन्त्रैः मार्जनं (ब्राह्नम्) (वायव्यं)-गोरजःस्नानं (दिव्यम्)-आतपयुक्तवर्षस्नानम् (मानसं)-भगवच्चरणादिध्यानं भगवद्धयानंब्रह्नध्यानं वा(पार्थिवं)-मन्त्रवन्मृत्तिकास्नानम् (कापिलं) विद्वदाशीर्विशेषरूपं (सारस्वाताख्यम्) इति। एतत्स्नानप्रकारश्च-(पराशरमाधवीये 12 ध्याये 9 + 11 श्लो0 व्या0) "स्नानानि पञ्चपुण्यानि कीर्तितानि मनीषिभिः। आग्नेयं वारुणं ब्राह्नं वायव्यं दिव्यमेवच। आग्नेयं भस्मनास्नानमवगाहं तु वारुणम्।। आपोहिष्ठेति च ब्राह्नं वायव्यं गोरजः स्मृतम्।। यत्तु सातपवर्षेण तस्नानं दिव्यमुच्यते। तत्र स्नात्वा तु गङ्गायां स्नातो भवति मानवः।" इति मूलमादाय " भुजे मूर्ध्नि तथाकाशे ऊर्ध्वाकाशेतथा भुवि।। आकाशे भुविमूध्नीतिमन्त्र स्नानंविधीयते" इति "ब्राह्नं तु मार्जनंमन्त्रैः कुशैः सोदकबिन्दुभिः" इति "तच्चत्रिः कृत्वोभ्यस्तैः। विद्वत्सरस्वतीप्राप्तं स्नानं (सारस्वतं) स्मृतम्" इति (बृहस्पतिना) उक्तेर्विद्वदाशिषा संपादितंस्नानं वा (सारस्वतम्) तत्सारस्वत प्रकारश्चविस्तरेण प्रयोगानुक्रमसहितस्तत्रैव ज्ञेयः इत्युधिकांशमात्रं लिखितम्।। न च "जलावगाहनं स्नानं वारुणं सार्ववर्णिकम्।। मन्त्रवत्प्रोक्षणं चापिद्विजातीनां विशिष्यते" इति (स्मृतिमु 0 चा 0 बोधायनेन) उक्तेर्द्विजातीनां वारुणमन्त्रस्नानयोर्विशेषतो विधानेन जलाभावे तदनुपपत्तिरिति वाच्यम्।। "अप्रायत्ये समुत्पन्ने स्नानमेव समाचरेत्।। ब्राह्नादिरन्यथाऽशक्तौ स्नानान्याहुर्मनीषिणः" इति (तत्रैव व्यासेन) "अशिरस्कं भवेत्स्नानंस्नानाशक्तौ तु कर्मिणः।। तस्याप्यसामर्थ्यविधौ मन्त्रस्नानादिकं चरेत्" इति (तत्रैव जाबालिना) चाशक्तविषये स्नानान्तराभ्यनुज्ञानेनादोषात्।। न च रोगादिना शक्तिरहित एवाशक्तपदवाच्य इति न समुद्रयायिनामशक्तत्वं युज्यत इति वाच्यम्।। "असामर्थ्याच्छरीरस्यकालशक्त्याद्यपेक्षया।। मन्त्रस्नानादितः सप्त केचिदिच्छन्ति सूरयः" इत्यादिना प्रागुक्तेः "असामर्थ्याच्छरीरस्य वैषम्याद्देशकालयोः।। स्नानान्येतानि तुल्यानि वारुणेन भवन्ति हि" इति (तत्रैव स्मृत्यन्तरे) उक्तेश्चदेशकालवैषण्यप्रयोज्याशक्तत्व मादाय तदुपपत्तेः।। किं च " भद्रपतनमार्गेषु यथा शूद्रस्तथव सः" इति (संवर्तेन) "अह्निशौचन्तु यत्प्रोक्तं निश्यर्धं तत उच्यते।। तदर्धं तु पथि ज्ञेयमार्तः कुर्याद्य थाबलम्।" इति (स्मृतिमुक्ताफले आह्निककाण्डे आ पस्तम्बेन) "पथिशूद्रवदाचरेत्" इति तथा "यद्दिवा विहितं शौचं तदर्धं निशि कीर्तितम्।। तदर्धमातुरे प्रोक्तमातुरस्यार्धमध्वनि" इति च (तत्रैव चतुर्विंशतिमते) उक्तेर्बाह्नाभ्यन्तराशौचेस्नानसंभवेनदोषाभावान्।। नच "शौचे यत्नस्सदा कार्यः शौचमूला द्विजाः स्मृताः। शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः।। यस्य शौचे तु शैथिल्यं सर्वं तस्य परिक्षतम्।। शुचीन्देवाश्च रक्षन्ति रक्षन्ति पितरः शुचिम्।। शुचौ विब्यति रक्षांसि ये चान्येदुष्टचारिणः।।" इति (स्मृतिमुक्ताफले आचारकाण्डे चतुर्विंशतिमते) उक्तेः शौचन्यूनतायां दोषबाहुल्यापत्तिर्दुर्वारेति वाच्यम्।। पूर्वोक्तवचनैरस्यसामान्यविधेः पथ्यादिविषयातिरिक्तत्वेन संकोचनीयत्वात्।। अन्यथा विशेषविधेरारम्भणस्य निर्विषयत्वापत्तिरितिदिक्।। "शुचिर्वाप्यशुचिर्वापि काले संध्यां समाचारेत्" इति (अबियुक्तानां) वचनेन स्नानाभावेपि सन्ध्यायाः कर्तुं शक्यत्वाच्च।। ननु समुद्रादुद्धृतजलस्य नसन्ध्यायोग्यत्वम्। यतः "त्रिः प्राश्यापोद्विरुन्मृज्य खान्यद्भिः समुपस्मृशेत्।। अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फनबुद्बुदैः।।" इति (याज्ञवल्क्येन 1 ध्या 20 श्लो0) प्रकृतिस्थाभिरित्युक्तेरलवणैर्मधुरैरेव जलैः सन्ध्यादिविहितम्।। न च तद्ग्राह्यता याज्ञवल्क्येनाभ्यनुज्ञायताम्।। समुद्रजलग्राह्यता तु न तेन निषिद्धेति तेन सन्ध्यादिकर्तुं शक्यत एवेति वाच्यम्।। जलेन सन्ध्यादिकार्यमित्येतावतासिद्धावुक्तविशेषणानामुपादानस्यवैयर्थ्यान्यथानुपपत्त्या लवणादिदोषान्तरयुक्तजलभिन्नजलैः सन्ध्यादिकंकार्यमि त्यर्थस्यकल्पनीयत्वादिति चेत्।।
।। न ।। शुद्धजलाद्यसंम्भवे धूल्यादिभिः सन्ध्यानुष्ठानेनादोषात्।। न च तेनाचमनादिकं कर्तुं न शक्यत इति तदसिद्धिरिति वाच्यम्।। तेन सन्ध्यावन्दने मुख्यस्यार्घ्यप्रदानादेः करणेनापि तदकरणप्रयोज्यप्रत्यवायस्य परिहर्तुं शक्यत्वात्।। न च धूल्यादिनार्घ्यदाने विध्यभाव इति वाच्यम्।। "जलाभावे महामार्गे बन्धने त्वशुचावपि।। उभयोः सन्ध्ययोः काले रजसा चार्घ्यमुक्षिपेत्" इति (स्मृतिमुक्ताफले आह्निककाण्डे जाबालियोगयात्रवल्क्याभ्यां) उक्तेः। न च धूल्यसंभवो यत्र यदा वातत्र तदा वानुपपत्तिरिति वाच्यम्।। तत्रापि केवलमुपस्थानाचरणेन तत्प्रयोज्यप्रत्यवायस्य परिहारसंभवात्।। उपस्थानशब्देन गायत्र्या सूर्योपासनमिति (याज्ञ 0 व्या 0 अपरार्के 1 द्या 0। नच तत्र विध्यभाव इतिवाच्यम्।। "देशक्षोभे महापत्तौ मार्जनार्घ्याद्यसंभवे।। सन्ध्यागतं सहस्रां शुं मन्त्रैः कुर्यादुपस्थितम्।।" इति (तत्रैव व्यासेन) उक्तेः।। न चसत्यपिशास्त्रे आचाराभाव इति वाच्यम्।। साङ्गसन्ध्यानुष्ठानासमर्थैर्युद्धेद्यतैर्वेदशास्त्रपारा वारपारदर्शिभिर्युधिष्ठिराद्यैः सर्वमङ्गंपरित्यज्य मुख्यमुपस्थानमात्रमनुष्ठितमिति (महाभारते)-"तथैव चमहाराज दंशितारणमूर्धनि।। सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे" इति भगवता व्यासेनोक्तेः।
किं च व्रतान्तरेष्विव प्रत्यन्तदेशं प्रति गन्त्रा इतो निर्गमनदिनादारभ्य यावत्प्रत्यागमनं किञ्चित्तदधिकं वा सन्धादिकर्मणामितरसंभावितनित्यनैमित्तिककर्माकरणप्रयोज्यपापनिवर्तकप्रायश्चित्तकर्मणामप्यनुष्ठानाय कश्चित्प्रतिनिधिः कल्प्यताम्।। एवं विद्याशिल्पयन्त्रकलादिज्ञानं निस्संशयं संपादयितुं शक्यते न तु तत्र गमनाभावे। यदि तदनावश्यकता तर्हि किं तत्र गमनेन।। न च प्रतिनिधिकल्पने मानाभाव इति वाच्यम्।। " जपस्तपस्तीर्थसेवा प्रव्रज्या मन्त्रसाधनम्।। विप्रैःसंपादितं यस्य संपन्नं तस्य तत्फलम्" इति (निर्णयसिन्धौ 1 मपरिच्छेदे मरीचिना) उक्तेः। अत एव "विश्वैश्च देवैः साद्यैश्च ब्राह्नणैश्च महर्षिभिः।। आपत्सु मरणाद्भीतैर्विधेः प्रतिनिधिः कृतः ।। 29 ।। प्रभुः प्रथमकल्पस्य योनुकल्पेन वर्तते।। न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् ।। 30 ।।" इति (मनुस्मृ 0 11 ध्या) उक्तं संगच्छते। (सांरायिकम्) प्रत्यवायपरिहारकम्। एतत्कर्माचरणेन मुक्तपापाः सन्तो दीर्शायुष्यं लभन्ते इत्यर्थः।।
न च प्रायश्चित्तं पापकर्तु रेवनान्यस्य प्रतिनिधेः। यथा राजस्थाने शिक्षाऽपराधिन एव न तु प्रतिनिधेरितिवदिति वाच्यम्।। पुत्रेण पितर्यशक्तेमृते वा प्रतिनिधितया सर्वप्रायश्चित्तादेरनुष्ठानात्।। किं च वैशम्पायनकृतब्रह्नहत्यानिवारणाय तच्छिष्यैः प्रायश्चित्तानुष्ठानाच्च।। यथा "चक्रुश्च समयं सर्वे महामेरुनिवासिनः।। ऋषयोद्यमहामेरौ समाजेनागमिष्यति।। तस्य वै सप्तरात्रात्तु ब्रह्नहत्या भविष्यति।। वैशम्पायन एकस्तु तं व्यतिक्रान्तवांस्तदा।। यजूंष्यधीयतां तेषां मुनीनां तु गुरोर्मुखात्।। स्वस्रीयं बालकं सोथ गुरुशिष्यान्तरालके। वारयामास तं बालं कुशैः सन्ताडयन्पदे।। तदाद्ययनविघ्नं नो मा भूदिति विशङ्कितः।। कुशस्य ताडनादेव बालः पञ्चत्वमागतः।। ब्रह्नहत्यामनुप्राप्य सोचिन्तयदतिक्रमम्।। गुरुरुवाच।। याज्ञवल्क्यः सहाध्यायी तदन्ये द्विजपुङ्गवाः।। करिष्यन्ति च मद्वाक्याद्धत्याव्रतमिदं द्विजाः।।" इत्याद्युक्त्वा "ब्रह्नहत्याव्रतं जीर्णं गुरुणा चोदितैस्तुतैः।। चरकाध्वर्यवस्ते तु चरणान्मुनिसत्तमाः।।" इत्यादिना (स्कान्दे महापुराणे सनत्कुमारसंहितायां कालिकाखण्डे 17 ध्या) तथा "वैशम्पायनशिष्या वै चरकाद्वर्यवोऽभवन्।। यच्चेरुर्ब्रह्नहत्यांहःक्षपणं स्वगुरोर्व्रतम्।। 61 ।।" इति (श्रीभागवते 12 स्कन्धे 6 ध्याये) तथा "ब्रह्नहत्याव्रतं चीणं गुरुणा चोदितैस्तु तैः। चरकाध्वर्यवस्ते तु चरणान्मुनिसत्तम ।। 13 ।।" इति (विष्णुपु 0 3 यांशे5मेध्याये) <1>इत्यलंबहुना।। <1.(स्कान्दे सनत्कुमारसंहितायां गौरीखण्डे तु) "याज्ञवल्क्याय मुनये गोसहस्रं च दत्तवान्।। जनकः क्षत्रियवरः सर्वशास्त्रविशारदः। तदोत्थाय सभामध्ये वैशम्पायनमब्रवीत्।। वैशम्पायन उवाच।। याज्ञवल्क्य वरः कस्त्वं विद्यमाने गुरौ मयि। अनुज्ञाव्यतिरेकेण गृहीतं गोसहस्रकम्।। मत्तीधीतं वेदजालं देहि गच्छ सभास्थलात्।। तथेति याज्ञवल्क्येन वमितं वेदजालकम्।" इति। तथा "चरकाध्वर्यवादींस्तु व्यासो वीक्ष्य प्रहस्य च।। कमण्डलुस्थोदकेन विरूपांस्तांश्चकारह जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते स्मृताः।।" इति (विष्णुधर्मोत्तरे विष्णुरहस्योपपुराणेच) ब्रह्नहत्यादिकथा नोच्यते।>
ननु "स्वामिनः फलसमवायात्फलस्य कर्मयोगित्वात्" (जैमिनिदर्शने 6 । 3 । 21 । अधि 0 7) इति सूत्रेण जीवति फलसम्बन्धात्कर्मप्रेरकत्वाच्च स्वामिनः प्रतिनिधिर्नास्तीत्यर्थकेन अन्यस्मिन्नपचरिते यजमानः प्रतिनिधिं गृह्णाति यजमानेऽपचरिते कः प्रतिनिधिं गृह्णीयात्। को वाध्वर्युप्रभृतीन्प्रेरयेदिति न मृते यजमानकार्यस्य फलित्वस्यान्यस्मिन्नयोगात्संभवे वा तस्यैव स्वामित्वेन प्रतिनिधित्वाभावान्न जीवत्यापि प्रतिनिधिरित्यर्थकेन निर्णीतमिति चेत् ।। न ।। "बहूनां तु प्रवृत्तेन्यमागमयेदवैगुण्यात्" इति (जैमिनिदर्शने 6 । 3 । 22 । सत्रन्यायाधि 0 8) इति सूत्रेण फलभोक्तृत्वं यागकर्तृत्वं चेति सत्रिणां कार्यं द्विविधम्। तत्र प्रतिनिधिर्द्वितीयमात्राश्रयो नाद्याश्रयः ऋत्विक्कार्ये कर्तृत्वे प्रतिनिधिमन्तरेण साप्तद श्याभावात्षोडशैव कर्माणि निष्पद्येरन्। नावशिष्टमेकम्। तस्माद्यजमानस्य प्रतिनिध्यभावेप्पृत्विजः प्रतिनिधिसद्भावात्पुरुषान्तरं प्रतिनिधापयितव्यमित्यर्थकेन क्कचित्प्रति निधिर्भवतीत्यदोषात्। नचैवं तस्य स्थानेन प्रतिपादितत्वादृत्विक्प्रतिनिधित्वेपि यजमानप्रतिनिधित्वं न संभवतीति वाच्यम्।। "सस्वामीस्थानसंयोगात् ।। 23 ।। कर्मकरो वाभृतत्वात् ।। 24 ।। तस्मिंश्च फलदर्शनात् ।। 25 ।।" (जैमिनिदर्शने 6।3।9 धिक0) इति सूत्रैरारम्भसमाप्तिपर्यन्तमनुतिष्ठतः फलं युक्तम्। प्रतिनिधिस्तु नारब्धवान्। ततश्च फलाभावाद्यजमानत्वं न यजमानकर्तव्यक्रियाकर्तृत्वं त्वस्त्येव। मृतस्य समाप्त्यभावे फलं श्रूयत इति नानुपपत्तिरित्येवमर्थकैर्यजमानत्वाभावेपियजमानकार्यकर्तृत्वो क्तेरदोषादितिदिक्। एतेन " भर्ता पुत्रः पुरोधाश्चभ्राता पत्नी सखापि च। यात्रायां धर्मकार्येपु जायन्ते प्रतिहस्तकाः" इति (निर्णयसिन्धौ 1 परिच्छेदेप्रभासखण्डे) "स्वयं कर्तुमशक्तश्चेत्कारयीत पुरोधसा।" इति (अत्रैव वायवीये) उक्तेर्धर्मकार्येषु प्रतिनिधिर्नान्यत्रेति परास्तम्।। धर्मशब्देन सर्वेषां नित्यानां नैमित्तिकानां काम्यानां प्रतिषिद्धाचरण-निमित्तकप्रायश्चित्तानामपिग्रहणस्य सर्वैरपिधर्मशास्त्र कृद्भिः स्वीकारात्।। अतएवैतत्प्रतिपादकशास्त्रस्य सर्वस्य धर्मशास्त्रमिति नामापि स्वरसतयोपपद्यते। तेननानापदि प्रतिनिधिकल्पनं युज्यते। "आपत्कल्पेन यो।़धर्मं कुरुतेऽनापदि द्विजः। समाप्नोति फलं तस्य परत्रेति विचारितम्" इति (मनुस्मृतौ 11 ध्याये 28 श्लो.) अनापदि प्रतिनिधिकल्पनाया निष्फलत्वोक्तेः।।
अथ कदाचित्सर्वथापि कर्तुमशक्यत्वेन सन्ध्याया अतिक्रमे का गतिरिति चेत्।। श्रृणु।। "यथा तोयबलो वह्निर्दहत्यपि च बल्वजान्।। एवं दहति वेदज्ञः कर्मदोषं स्वमात्मनः। अकामतः कृतं पापं वेदाभ्यासेन शुध्यति। कामतस्तु कृतं पापं प्रायश्चित्तैः पृथक्पृथक्।" इति (संवर्तेन) उक्तेरकामकृतस्य वेदाभ्यासेन कामकृतस्य प्रायश्चित्तेन प्रतिपदोक्तेन तदलाभे तदसंभवेच सामान्येन सन्ध्यातिक्रमजन्यपापस्य नाशसिद्धेः। तच्च प्रायश्चित्तं (प्रायश्चित्तहेमाद्रौ पराशरः) आह। "सन्ध्यादिनित्यकर्माणि परित्यज्य यदा वसेत्। शाक्तेयादिषु मन्त्रेषु जप्यं चैवाघमर्षणम्।। अकार्यकर्मकर्तुश्च महापूर्षादिभोजनम्। सर्वपापविशुद्धयर्थमघमर्षणमीरितम्" इति। अघमर्षणकृच्छ्रस्वरूपमाह (स्मृतिमुक्ताफले शङ्खः)-- "त्र्यहं त्रिषवणस्नायी मौनी स्नात्वाघमर्षणम्। मनसा त्रिः पठेदप्सु न भुञ्जीत दिनत्रयम्। अघमर्षणमित्येतद्व्रतं सर्वाघसूदनम्।" इति।। - ।। (स्मृतिमुक्ताफले आह्निककाण्डे शङ्खस्तु) "सन्ध्यादिकर्मलोपे तु प्रायश्चित्त-(दिनमेक) मभोजनम्। दिनद्वये त्रिरात्रं स्यात्कृच्छ्रार्धं तु दिनत्रये। दशाहे कृच्छ्रमेकं स्यादूर्ध्वं चान्द्रायणं भवेत्। चान्द्रायणं पराकं च मासादूर्ध्वं विधीयते। ततोप्येवं प्रकल्प्यं स्याद्व्यासस्य वचनं तथा।" इत्याह।। नचैवं बहुभिर्दिनैः प्राप्यं देशं प्रति समुद्रयाने क्रियमाणे बहूनां सन्ध्यानां लोपः प्राप्नोतीति तदनुसारेण प्रायश्चित्तेनुष्ठीयमाने बहव उपवासाः कर्तव्याः प्राप्यन्ते। ते च शरीररक्षणविरोधिनः। शरीररक्षणविरुद्धं कार्यं न कार्यम्। "सर्वमन्यत्परित्यज्य शरीरमनुपालयेत्। तद्भावे सति भावानां सर्वभावः शरीरिणाम्।" इति (चरके निदानस्थाने 6 ध्या 0) उक्तेः। न चेदं न धर्मशास्त्रं किन्त्वर्थशास्त्रम्। तच्च धर्मशास्त्रसमभिव्याहारे दुर्बलम्। तदाह (याज्ञवल्क्यः 2 ध्या 21 श्लोकेन) "अर्थशास्त्रात्तुबलवद्धर्मशास्त्रमिति स्थितिः" इति। यथा "जिघांसन्तं जिघांसीयान्नतेन ब्र्हनहा भवेत्" इत्यर्थशास्त्रम्। "न हिंस्यात्सर्वा भूतानि" इति धर्मशास्त्रमिति वाच्यम्।। "<1> क्षात्रेणात्मानं <1.(क्षात्रं) धनमित्यर्थः।> परिधापयाथ ।। 51 ।।" इति (अथर्व 0 का 0 12 अनु 3 वर्गे 18) तथा "आपदर्थंधनं रक्षेद्दारान्रक्षेद्धनैरपि। आत्मानं सततं रक्षेद्दारैरपिधनैरपि" इति (मनु0 7 ध्या0 213 श्लो) चात्मरक्षाया वेदशास्त्राभ्यां विधानात्।। न चैते धनार्जनविधायके भवतो न सामान्यतः शरीररक्षार्थिके इति वाच्यम्।। "देशभङ्गे प्रवासे वा व्याधिषु व्यसनेष्वपि। रक्षेदेव स्वदेहानि पश्चाद्धर्मं समाश्रयेत् ।। 36 ।। येन केन च धर्मेण मृदुना दारुणेन वा। उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ।। 37 ।। आपत्काले समुत्तीर्णे शौचाचारं तु चिन्तयेत्।। शुद्धिं समुद्धरेत्पश्चात्स्वस्थो धर्मं समाचरेत् ।। 38 ।।" इति (पराशरेण 7 ध्या 36 श्लो 0) तथा " क्षात्रेण कर्मणा जीवेद्विशां वा ह्यापदि द्विजः। निस्तीर्य तामथात्मानं पावयित्वा न्यसेत्सुधीः" इति (पराशरमाधवीये याज्ञवल्क्येन) उक्तेश्चास्माकमापदामगणनीयत्वेन तत उद्धारश्च महाराजाश्रयमन्तरेण न भवति। श्रीमन्महाराजाधिराजादिबिरुदावलीविराजमानराजसहस्रजेगीयमाननिरुपमयशोनिकुरुम्बपरिशोभितजगद्रक्षाधुरीणागणनीयसुगुणगम्भीरान्तरङ्गपरिपूर्णकृपाम्बुधितरङ्गोत्पतच्छीकरलवानन्दितजगन्मण्डलेन दीनभारतीयजनदैन्यदारिद्र्याद्यन्धकारगिरिवरनिर्मूलनबद्धादरोदयगिरिवरिष्ठ सिंहासनसमारूढापरसहस्रांशोः श्रीमदेडवर्डप्रभुवरिष्ठस्य स्वराज्यसंस्थापित चतुः षष्टयतीत नानाकलाशिल्पविनोद व्यायामयन्त्रादिविविधविद्याविस्तृतस्वीयमुख्यराज्यक्षीराम्बुधेः स्वस्वकर्माख्यपात्रद्वारा तदीयामृतमुपलभ्यापद्विषलहरीभ्यो मुक्तिरेवेदानीं प्रथमंपरमो धर्मस्ततोन्य आमुष्मिको धर्मोनुष्ठेय इत्युद्धारक्रमः। शास्त्रलोकव्यवहारयोः "अष्टा भिर्लोकपालानां मात्राभिर्निर्मितो नृपः" इति ("नाविष्णुः पृथिवीपतिः" इति "यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेववा। तत्तदेवावगच्छत्वं मम तेजोंशसंभवम्" इति (भगवद्गीतायां 0) चोक्तेरिह लोके राजैवेश्वरो यतोयमष्टदिक्पालांशसमष्टिर्विष्ण्वंशश्च, अमुष्मिंस्तु तद्भिन्नः "सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्।। सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत्" इति (स्वेतास्वतरोपनिषदि) सर्वसुहृत्सर्वप्रभुस्सर्वैरपि शरणीकर्त्तव्य इत्येवं मूलं परिचिन्त्य तदीयसामीप्यलाभेन सर्वास्सम्पदस्सुखेनोपल्बधुं "शरीरमाद्यं खलु धर्मसाधनम्" इति शरीररक्षणे विरोधिनो दूरीकृत्यच तत्सम्यग्रक्षमाणः इतरान्स्वस्वधर्मान्संपादयेदितिमुख्यत्वेनोक्तेस्सन्ध्यादिनित्यकर्मानुष्ठानं व्कचित्कालं नि रोद्धव्यं भवतीति चेत् ।। न ।। "अशक्याह्गपरित्यागेन प्रधानं कर्तव्यम्। तावतैव शास्त्रवशात्फलसिद्धिः" इत्युक्व्ता "यथा कथञ्चिन्नित्यानि शक्त्यवस्थानुरूपतः। येन केनापि कार्याणि नैव नित्यानि लोपयत्" इति (बोधायनः) इति "शक्तितारतम्यकृतमनुष्ठानवैषम्यं नृणाम्" इति (परा 0 माध 0 1 ध्या. 22 श्लो0 व्या0) उक्तेर्मनसोपस्थानमात्रानुष्ठानस्याश्रयणेनादोष इति प्रागेव समाहितत्वात्। "संघे शक्तिः कलौ युगे" इति सर्वेप्येकीभूयोपस्थितभारतीयापत्परंपराभ्यस्समुद्धरणादृते सर्वतो निरर्गलं प्रसृताधर्मविषलहरी न शुष्यति धर्मामृतझरीशोषमपास्य न वर्द्धत चेति तदुपायभूतागणनीयशिल्पविद्यापरीक्षाप्रयोगनिपुणानां कोटयवधिकानां तत्तदाचार्याणां परिनिष्ठितनिरर्गलप्रज्ञानां प्रसरणसमसमयेसमुन्मिषितभारतीयचातुर्वर्ण्यमहाभाग्यलक्ष्मीकटाक्षामृतपरिवाहावगाहनंपरिधूनि तवञ्चनाद्रेहदौर्मनस्यकामक्रोधमदमात्सर्यासूयाद्वेषदम्भानृताशाद्यधर्मपिशाचान्मोचनं विश्रान्तिंचोपलभ्य धर्मस्वरूपं साक्षात्कर्तुं शक्नुवन्तीति विचिन्त्य तादृशं श्रीमद्विक्टोरियाचक्रवर्तिनी श्रीमदगणनीयगुणबिरुदावलीविराजित श्रीमदेड्वर्डधर्मराज्यसमयमुपलभ्य तदुपायसम्पादनसमये बोधायनोक्तरीत्या यथाशक्तिनित्यकर्मानुतिष्ठन्तो गमनसमये उचितसामग्र्यलाभेन मनसाकृत्त्वा यथाशक्ति गोशुश्रूषणग्रासदानेन तद्दोषं परिहृत्यागमनोत्तरं कालदेशयोग्यप्रायश्चित्तमनुष्ठाय क्रमेण स्वविद्याप्रयोगादिकं कुर्वन्तः यथावत्संध्याः कर्तुं शक्नुवन्तीत्यदोषात्। न च राज्ञः सकाशादेतल्लाभो वर्णितः। कथमेतल्लाभस्तस्मादिति वाच्यम्।। तेन महाराजेन विद्याशिल्पादिविदां कोटयवधिकानांस्वराज्ये संस्थापनेन परिपोषणेन तेभ्यस्सर्वेषामन्येषां वा तदीयसर्वविद्याशिल्पाद्यवगमायापरिमितोपायकल्पनया च तन्मूलकता तल्लाभस्येत्यस्य निर्विवादत्वात्। न च "सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे" इति (स्मृतिमुक्ताफले महाभारते) उक्ते। न चारम्भे सर्वथा कथञ्चिदपि सन्ध्याया अननुष्ठाने कागतिरितिप्र श्नेइदं समाधानमनुत्तरमिति वाच्यम्। "नियतिः कारणं लोके नियतिः कर्मसाधनम्। नियतिः सर्वभूतानां नियोगेष्विह कारणम्। न कर्ता कस्यचित्कश्चिन्नियोगेनापि चेश्वरः। स्वभावे वर्तते लोकस्तस्य कालः परायणम्। न कालः कालमत्येति न कालः परिहीयते। स्वभावं च समासाद्य न किञ्चिदतिवर्तते। किन्तु कालपरीणामो द्रष्टव्यः साधु पश्यता। धर्मश्चार्थश्च कामश्च कालत्रयसमाहिताः" इति (वाल्मीकिरामायणे किष्किन्धाकाण्डे 25 सर्गे)। (व्याख्या)--"कालस्य मुख्यत्वं दर्शयति। नियतिः नियम्यतेऽनयेति (नियतिः) कालकृता व्यवस्था निमेषादिपरार्द्धान्ता। कालस्त्वीश्वर एव (लोके) लोकसृष्टयादिव्यवहारे (कर्मणः) लौकिकालौकिककर्मप्रवृत्तेः दिनादिरूपेण कारणं काल एव (सर्वभूतानां) नियोगाधिकृतप्राणिमात्रस्य (नियोगेषु) ज्योतिष्टोमादिषु (नियतिः) वसन्तादिः कारणम् ।। - ।। कालातिरिक्तं न साक्षात्प्रवर्तकमिति निर्दिशति। न कर्तेति "कालः पचति भूतानि कालः संहरते तथा। कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः" इति (चाणक्यनीतौ) "कालात्मा भगवानेव सर्वकर्मप्रवर्तकः" इति चान्यत्र।। स्पष्टोर्थः शिष्टानाम्। तथा-"भवत्यधर्मो धर्मो हि धर्माधर्मावुभावपि। कारणाद्देशकालस्य देशकालस्स तादृशः।" इति (महाभारते शान्तिपर्वणि 78 ध्या.) तथा "व्योमैकान्तविहारिणोपि विहगाः संप्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलान्मीनास्समुद्रादपि। दुर्नीतेर्हि किम्सति किं सुचरितं कः स्थानलाभे गुणः कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि" इति व्कचित् (नीतिविद्भिः) "राजा कालवशं गतः" इति (रामायणादौ) "देवाधीनं जगत्सर्वं मन्त्राधीनं तु दैवतम्। तन्मन्त्रं ब्राह्नणाधीनं ब्राह्नणा मम देवताः" इति (अन्यत्रापि) "युगरूपा हि ते द्विजाः" इति "अन्ये कृतयुगेनॄणां त्रेतायां द्वापरे युगे। अन्ये कलियुगे नॄणां युगरूपानुसारतः" इति च (पराशरेण 1 ध्या. 21 श्लोके) एवंचकाल एव सर्वस्यापि कारणम्। कालश्च परमेश्वर एवे ति तस्यानुसर्तव्यत्वादितिकेचित्। राजधनिकादिकाश्रयणमैहिकसुखकारणमितिराजैवहेतुः।। "राजमूलो महाप्रा ज्ञ धर्मो लोकस्य लक्ष्यते। ग्रजा राजभयदिव न खादन्ति परस्परम्। कालो वा कारणं राज्ञो राजा वा कालकारणम्। इति ते संशयो मा बूद्राजा कालस्य कारणम्। राज्ञा हि पूजितो धर्मस्ततस्सर्वत्र पूज्यते। यद्यदाचराते राजा तत्प्रजानां हि रोचते" इत्यादि (महाभारते शान्तिपर्वणि 68-6975 अध्यायेषु) "कामवृत्तस्स्वयं लोकः कृत्स्नः समुपवर्तते। यद्वृत्ता स्सन्तिराजानस्तद्वृत्तास्सन्ति हि प्रजाः" इति (वाल्मीकीयेरामा 0 योध्या 0 स 0 109 श्लो 9) "यद्यदाचरति श्रेष्ठस्तत्तदेवेतरे जनाः। स यत्प्रमाणं कुरुते लोकस्तम(द) नुवर्तते" इति (भगवद्गीता 3 ध्या. 21 श्लो.) "राज्ञि धर्मिणिधर्मिष्ठाः पापे पापाःसमेसमाः। लोकास्तमनुवर्तन्ते यथा राजा तथा प्रजाः" इति (नीतिज्ञैः) "यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत्। एवं पुरुषकारेण विना दैवं न सिध्यति" इति (याज्ञवल्क्येन 1 ध्या. 351 श्लो.) उक्तेश्च राजैव सर्वस्य कारणमित्यर्थस्यनिरू पितत्वात्सतस्तस्या दाश्रयणानन्तरमैहिकानिष्टपरिहारे सतिपारलौकिकानिष्टपरिहाराययतितव्यमितिसिद्धम्। पूर्वम न्याय प्रवृत्तै राजपाशैर्म्लेच्छैर्भारतीयाः शूरा राजानोन्ये च द्रोहवञ्चनादिभिरुपायैर्निर्जिता हताश्छिन्ना भिन्ना दासी कृता देशान्तरं नीताश्च। कोट्यवधिकानां ग्रन्थानां पुस्तकानि स्वस्नानजलोष्णीकरणाय प्रत्यहमुपयुक्तानि। अवशिष्टानी दानीं परिदृश्यमानानि तत्सहस्रांशभूतानि। तेषां यज्ञोपवीतानि त्रैवर्णिकानां कण्ठेब्य उत्पाटय प्रत्यहं स्वपाकायोपयुक्तानि स्त्रियश्चोपभुक्ता गृहीता नीता दाशीकृता उदूढा मारिताश्छिन्ना भिन्ना द्देशान्तरं नीता म्लेच्छीकृताश्च। एवं त्रैवर्ण्यं बहूधा नष्टं नीतं दासीकृतमपेयपानाभक्ष्यभक्षणादिभिर्भ्रंशितं च गृहाणि प्रासादाः कुटीराणि मठाः धर्मशाला देवालया दग्धानि छिन्नानि भिन्नानि निर्मूलितानि बूसमीकृतानि दुर्गाणि विनाशितानि।। किं बहुना।। अग्निहोत्रादिश्रौतस्मार्तव्यवहारा अध्ययनाध्यापनप्रक्रिया वर्णाश्रमधर्माश्च समूलमुन्मूलिताः तद्देवालयाः (मस्जी) अस्मद्देवालयस्थानेषु पिरकल्पिताः सर्वेभ्यो राजधानीदेवालयादिभ्यः सर्वस्वमपहृतम्। एवं महाप्रलयकालपीडया चिरं चतुः पञ्चशतीवर्षेषु भारतीयाःप्रजा असकृत्पीडिताः बीजरूपेण त्रैवर्णिका गुप्तवेषधरा आसन्। ततश्चिरात्तत्प्रलयान्ते आङ्गलप्रभुवर्योदयमुपलब्य बहुशतीकाले व्यतीतेपि स्वीयधर्माधर्मकृत्याकृत्यनिर्णये सन्दिह्यन्तः स्वस्वोढस्त्रीष्वपि पत्नीत्वे विचारपरास्तत्तन्निर्णयायपुस्तकान्वेषणमावश्यकमितिनिश्चित्य तदन्वेषणायप्रयतमाना अद्यावधि नामान्येव यथालाभं संगृह्य "गृहे गृहे पुस्तकभारभारम्" इति यथालाभं संग्रहण एव कालं क्षिपन्तः पुत्रादीनां दुर्व्यवहारादिकं सम्मानयन्तः प्रायः स्वयमपेयपानाभक्ष्यभक्षणादविरताः पूर्वकालिकम्ले च्छवात्याचंक्रमणब्रमविमुक्ता अपि तद्भ्रान्तिमपरित्यजन्त एवाद्यापितिष्ठन्तिति ततो मुक्तत्वस्फुटीकरणेन यथावत्स्वस्ववर्णा श्रमाचारप्राप्त श्रौतस्मार्तधर्मकर्मादिपरिनिष्ठासम्पत्तयेसाधनानि झडिति संगृहीतव्यानिनोपेक्षणी यानि।। ननु काल एव कारणमित्यादेः का गतिरिति चेत्।। शृणु।। स कालोपि राजवत्प्रबलं प्रायोऽस्वतन्त्रं व्कचित्स्वतन्त्रं च कारणमित्यव गम्यतामिति।। ननु "सन्ध्यामापदि नो पूर्वां नोपास्ते यश्च पश्चिमाम्। स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः" इति (स्मृति0) आपद्यपि सन्ध्या नैव परित्याज्येति वाच्यम्।। प्रायश्चित्तविधेर्वैयर्थ्यापतेः।। स्वस्थावस्थावद्विषयकत्वाच्च। तदाह (परा-माध. 1 ध्या. अत्रिः)--"नोपतिष्ठन्ति ये सन्ध्यां स्वस्थावस्थासु वै द्विजाः। हिंस<1>न्ति <1. हिंसागत्यर्थौ द्वावत्र विवक्षितौ।> हि सदा देवं भगवन्तं दिवाकरम्" इति दिक्।।
एवमेव समुद्रयानेनाग्निहोत्रादिलोपेऽपि प्रायश्चित्तं "द्वादशाहातिक्रमे त्र्यहमुपवासो मासातिक्रमे द्वादशाहमुपवासः संवत्सरातिक्रमे मासोपवासः पयोभक्षणं च" इति (289 श्लो. व्या. मिताक्षरायां3द्या. भरद्वाजेन) "संवत्सरोत्सन्नेग्निहोत्रे चान्द्रायणं कृत्वा पुनरादध्यात्। द्विवर्षोत्सन्ने चान्द्रायणं सोमायनं च कुर्यात्। त्रिवर्षोत्सन्ने संवत्सरं कृच्छ्रमब्यस्य पुनरादध्यात्" इति (तत्रैव हारीतेन) "अग्न्युत्सादी संवत्सरं प्राजापत्यं चरेद्गां च दद्यात्" इति (तत्रैवशङ्खेन) "प्राणायामशतमात्रिरात्रादुपवासः स्यादाविंशतिरात्रात्। तत ऊर्ध्वमाषष्टिरात्रात्तिस्रो रात्रीरुपवसेत्। तत ऊर्ध्वमासंवत्सरात्प्राजापत्यं चरेत् अतउर्ध्वं कालबहुत्वे दोषबहुत्वम्" इति (तत्रैव भरद्वाजेन) "योनपविध्येत्स कृच्छ्रं द्वादशरात्रं चरित्वा पुनराधेयं कारयेत्" इति (तत्रैव वसिष्ठेन) "योग्निं त्यजेत नास्तिक्यात्प्राजापत्यं चरेद्विजः" इति (तत्रैव व्याघ्रेण) चोक्तप्रायश्चित्तेषु स्वस्वाग्निहोत्रलोपदिनसंख्यादिकमनुसृत्य प्रायस्चित्तस्यान्यतमस्याचरणीयत्वात्।। एतेन "औपासनपरित्यागी सुरापीत्युच्यते बुधैः" इति (हेमाद्रौ प्रायश्चित्त खण्डे देवलेन) उक्तरीत्या सुरापित्वातिदेशश्च स्यादिति परास्तम्। बोधायनादिभिः कल्पसूत्रेष्वौपासनस्य षण्मासेषुद्वादशाहेत्यागे षाण्मासिकद्वादशाहप्रायश्चित्तविधानेन तस्याकृतप्रायश्चित्तविषयत्वात्।। प्रतिनिधिद्वारा तस्य तस्यानुष्ठानाच्च।। ऋङ्मात्राध्ययनेन वा ब्रह्नयज्ञसिद्धि श्चेत्यादिक मूह्यमिति बोध्यम्।
न च नौकया समुद्रयाने "शौचे यत्नः सदा कार्यः शौचमूला द्विजाः स्मृताः। शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः। यस्य शौचे तु शैथिल्यं वृत्तं चैव परिक्षितम्। शुचीन्देवाश्च रक्षन्ति रक्षन्ति पितरःशुचिम्। शुचेर्बिभ्यति रक्षांसि ये चान्ये दुष्टचारिणः" इति (स्मृतिमुक्ताफले आङ्निककाण्डे) उक्तरीत्या क्रियासाफल्यसंपादकं वृत्तपरीक्षणसंपादकं च शुचित्वं भुवीव कर्तुमशक्यम्।। सामग्र्यास्तत्र न्यूनत्वादिति वाच्यम्।। देशं कालं तथा मानं द्रव्यं द्रव्यप्रयोजनम्। उपपत्तिमवस्थांच ज्ञात्वा शौचं प्रकल्पयेत्" इति (तत्रैव बोधायनेन) उक्तरीत्या शौचसंकोचेसंपादनीये "अह्नि शौचं तु यत्प्रोक्तं नि श्यर्धंततउच्यते। पथि पादं तु विज्ञेयमार्तः कुर्याद्यथाबलम्" इति (तत्रैवापस्तम्बेन) उक्तरीत्या नौकापथस्थस्य भूपथस्थस्यैववा न्यायसाम्याद्व्यवस्थास्वीकारेण दोषाभावात्। एतेनेदं प्रायश्चित्तविषयम्। देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्तान निकृतिः" इति (याज्ञवल्क्येन 3 ये ध्याये 294 श्लोके) उक्त एव प्रायश्चित्तादिसंकोचो बोधायनेनाप्युक्त इत्यभ्युपगमादिति परास्तम्।। याज्ञवल्क्यवचनं प्रायश्चित्तप्रकरणस्थं बोधायनोक्तं त्वाह्निकप्रकरणस्थमितिभेदस्य स्पष्टत्वात्।। अविरोधेनोभयविषयकत्वेपि बाधकाभावाच्च।। अयमर्थः "संकटे विषमस्थाने दुर्गे तु परिखे तथा।। भद्रपत्तनमार्गेषु यथा शुद्धस्तथैव सः" इति (संवर्तेन स्मृतिरत्नाकरे) उक्तः। अयमेवार्थः (मनुनापि) "पथिशूद्रवदाचरेत्" इत्युक्तोनत्वपूर्वधर्माचरणार्थउक्तः।।
ननु नौकायां यावत्सामग्रीणां सह नयने तत्र नियमेन नानापदार्थानां निष्पादनायाऽभीक्ष्णमुलूख लादिशब्दानामविच्छेदात्तावत्कालं भोजनं न स्यात्। किं च कप्याप्यसत्त्वेपि नौकानेतृधूमयन्त्रशब्दस्य शूद्रचण्डालपतितोदक्यान्यतमसँल्लापस्य च श्रूयमाणत्वात्तदाभोजनं न स्यात्। "तैलयन्त्रेक्षुयन्त्रादेः शब्दो यावत्प्रवर्ततेतावत्कालं न भोक्तव्यं शूद्रान्त्यपतितस्य च।। काहलभ्रमणग्राव्णां मुसलोलूखलस्य च।। एतेषां निनदो यावत्तावत्कालमभोजनम्। चण्डालपतितोदक्यावाक्यं यावद्द्विजोत्तम। भुक्व्या तु ग्रासमात्रेण दिनमेकमभोजनम्" इति (स्मृतिरत्नाकरे सनत्कुमारेण) तदा भोजननिषेधादिति चेत्।। ।। न ।। शक्तैस्तन्निरोधस्यकर्तुं शक्यत्वेनादोषात्। अशक्तैर्मध्यमैर्वातन्निरोधसमये भोक्तव्यत्वात्। तथा लोके व्यवहाराददर्शनाच्चनिषेधवचनस्य भोजनार्थं योग्यस्थलान्तरप्राप्तिविषयकत्वाच्च। एवम् "उदक्यामथ चण्डालग्रामसूकरकुक्कुटान्। भुक्त्यन्तरे समीक्ष्यैताञ्जपन्पूर्वोदितामृचम्" इति (संवर्तेन स्मृतिरत्नाकरे) उक्ते र्भोजने एतद्दर्शने "मानस्तोके तनये मान" इति ऋचःपाठमात्रेण भुवि देवयात्रादाविव वा प्राप्तदोषो वारणीयः। अत एव "संकटे विषमस्थाने दुर्गे तु परि खे तथा। भद्रपत्तनमार्गेषु यथा शूद्रस्तथैव सः" इति (स्मृतिरत्नाकरे संवर्तेन) उक्तं संगच्छते।। किंच "कालोग्निः कर्ममृद्वायुः मनोज्ञानं तपोजलम्। पश्चात्तापो निराहारः सर्वेमी शुद्धिहै तवः" इति (याज्ञवल्क्येन 3 ध्याये 31 श्लो 0) चोक्तरीत्या सम्भवद्वस्तुसामग्र्या शुद्धेः कल्पना। एवं "अरणिं कृष्णमार्जारं चन्दनं सुमणिं घृतम्। तिलान्कृष्णाजिनं झागं गृहे चैतानि रक्षयेत्" इति (पराशरेण 12 ध्या 0 39 श्लो 0) स्वस्थाने एतेषां रक्षणमात्रेणैव प्रकारान्तरेण प्राप्ताया अशुद्धेर्वारकोपायान्तराब्यनुज्ञानात्।
ननु समुद्रयानं नावि शूद्रम्लेच्छचण्डालादीनामप्यवस्थितेस्तत्सम्भाषणादिश्रवणस्य कर्मानुष्ठानसमये परिहर्तुमशक्यत्वान्निषिद्यते।। तदुक्तंदेवलेन--"स्नानभोजनवेलायां जपहोमेषु पैतृके।। सन्ध्यादिनित्यकाम्येषु देवपूजासु सर्वदा।। चण्डा लास्त्रिविधाः प्रोक्तास्तेषां सम्भाषणादिकम्।। श्रुत्वा कर्म परित्यज्य दृष्ट्वा तत्पुनराचरेत्।। अन्यथा दोषमाप्नोति कर्मभ्रष्टोभिजायते। चण्डालस्यैव यत्कर्म कृत्वा दृष्ट्वा परित्यजेत्" इतीति चेत्।। न ।। "क्षुते निष्ठीवने चैव दन्तश्लिष्टे तथानृते। पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत्" इति (मिताक्षरायां 279 श्लो 0 व्या 0 संवर्तेन) उक्तप्रायश्चित्तेन तद्दोषस्य परिहरणीयत्वात्।। योग्यस्थानान्तरसम्भवविषयत्वाच्च। राजहर्म्यनदीतीरमहा क्षेत्रतीर्थविशेषपट्टाभिषेकाद्युत्सवविशेषतीर्थ स्नाननामकरथोत्सवाङ्गावभृथस्नानमहोत्पातधात्रीहवनयुद्धप्रसङ्गदुर्भिक्षदेशक्षोभान्नसत्रराजसूया श्वमेधयात्रादिषु प्रसङ्गेषु तेषु स्थानेषु महाधिकारिरूपेण यामिकाधिकारिरूपेणसेवकरूपेणधनिरूपेण वादकरूपेण नर्तकीरूपेण नटरूपेण तीर्थादिस्थानरक्षकयामिकरूपेण भाटककृच्छाकटिकनापितभाण्डपत्रपुष्पफलादिविक्रेतृरूपेण यथासम्भवं रूपान्तरेण च चण्डालम्लेच्छपतितादीनां नियमेन सद्भावात्तेषांध्वनिश्रवणेऽपि तत्समक्षं तत्सन्निधौ तत्तत्कालिकतत्त त्स्थानिकयोग्यतत्तत्कर्मणां शिष्टैर्द्विजैर्निरर्गलं सर्वैरनुष्ठीयमानत्वात्तत्राप्रवर्तमानस्य निषेधस्यात्र प्रवृत्तिः कथां मासीदिति तएव देवाना<1>म्पिरियाः <1. देवानांप्रियः कर्मनिष्ठइत्यर्थः।> प्रष्टव्याइति तन्निराकरणस्य तदुद्धारस्य वाऽस्माभिरनपेक्षणीयत्वाच्च।। एतेन स्वोच्चरितमन्त्रास्तत्रत्यातिसमीपस्थचण्डालादिकर्णपथं प्रविशेयुरिति तत्र यानं निषिध्यते।। "चण्डालश्रोत्रावकाशे श्रुतिस्मृतिपाठे एकरात्रमभोजनम्" इति (मिताक्षरायां 289 श्लोकव्या 3 ध्यायेषट्‌त्रिंशन्मते) उक्तेः।। किंच "रजकश्चर्मकारस्च नटो बुरुडएव च। कैवर्त्तमेदभिल्ला श्चस्वर्णकारश्चसौचिकः।। कारुकोलोहकारश्च शिलाभेददी च नापितः। तक्षकस्तिलयन्त्रीचसूनी चक्री तथा ध्वजी। एते षोडशधाप्रोक्ताश्चण्डालाग्रामवासिनः।। एतेषांदर्शनं स्पर्शं संभाषणमतः परम्।। स्नानभोजनवेलायां जपहोमार्चने तथा। स्वाध्यायसमये चैव ध्याने नेच्छन्तिसूरयः" इति (हेमाद्रौ प्रायस्चि 0 गारुडे) उक्तेरेतेषु प्रायो बहूनांसम्बन्धोभवत्येवेति दोष इति परास्तम्।। "दर्शने सूर्यमालोकेद्भोजनेभोजनं त्यजेत्। संभाषणेचपाणिभ्यां श्रोत्रे सम्यगुपस्पृशेत्।। उत ब्राह्नणसंभाषांकृत्वादोषात्प्रमुच्यते" इत्यत्रैव दोषतारतम्येन प्रायश्चित्तोक्तेश्च।।
ननु "नैकवासा न च द्वीपे नान्तरिक्षेकदाचन। श्रुतिस्मृत्युदितं कर्म न कुर्यादशुचिः व्कचित्" इति (स्मृतिसारे) वचनेन भूसम्बन्धं विना नौयाने सामुद्रिके सुदूरगन्तव्ये कर्त्तव्या सन्ध्या निषिध्यते। नच कास्यादिक्षेत्रादिषुव्कचिन्महाप्रवाहेतिर्यक्प्रसारितेषु सुदृढदारुफलकादिषु धनिभीराजभिः कैश्चिदन्यैरपिद्विजैर्नित्यनैमित्तिकहव्यकव्यसन्ध्यापूजादीनां च दारुफलकमयेषु शिलामयेषु प्रासादादिषु प्रायोनुष्ठीयमानत्वेनाचारानुविद्धत्वाद्दोषोनेति वाच्यम्।। स्वसंयुक्तसंयुक्तसंयुक्तत्वादिसम्बन्धेन गङ्गानिखातस्तम्भान्तरालरज्जूपरिसंस्थापितफलकोपर्युपविश्यजपादिकर्तुः तथा प्रासादे तत्तत्कर्मकर्तुः स्वसंयुक्तफलकसंयुक्तस्तम्भसंयुक्तत्वेन सम्बन्धेन भूसम्बन्धइति यद्युच्यतेतदास्व संयुक्तनौ संयुक्तजलसंयुक्तत्वसम्बन्धेनात्रापिभूसम्बन्धोस्त्येवेति निषेधाप्राप्तेः। न च फलकानां चैकस्मिन्भागेतदसंबद्धत्वेऽप्यन्यास्मिन्भागे तत्सम्बद्धत्वेनप्रासादादौशिलाफलकानां जपार्थकदार्वासनादिवत्साक्षाद्भूसम्बद्धत्वेन प्रासादप्रसारितशिलाफलकादीनां स्वतोभूत्वेन वा न दोषः। अत्र तु जलस्य नावोधःस्थस्य ततोभेदेन दोषो दुर्वार इति वाच्यम्।। समुद्रादिगतमहाजलस्थनौकोपविष्टानामपितज्जलगतलवणाद्यात्मकसूक्ष्मपार्थिवभागानां नौकामूलतलाधोजलाधिकरणीभूतमहाकठिनभूपर्यन्तं प्रासादगतेष्टकामेलनरीत्या परस्परसंयुक्तत्वेन पृथिवीसम्बन्ध स्यतत्रापिवक्तुंशक्यत्वादिति चेत् ।। न ।। महाजलस्य पञ्चीकृतत्वेन तत्रत्यतत्परमाणूनां पृथिवीत्वं नेत्यपलपितुमशक्यत्वात्। "पृथिवी द्विविधा नित्याऽनित्या च। नित्यापरमाणुरूपा। अनित्याकार्यरूपा" इति (वैशेषिकेध्याये 1 आह्निके)--"पृथिव्यादिषु रूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च 2 एतेन नित्येषु नित्याश्च 3" इति। तथा श्रीमद्गौतमकणादमहर्षिभिः परमाणुरूपायन्तद्भिन्नायामपि पृथिवीत्वाङ्गीकारेण तज्जलेतत्परमाणूनांतद्वचणुकादीनां वा लौकिकव्यवहारप्रसिद्धभुवमारब्य यावन्नौकापर्यन्तं व्कचिदाधिक्येन व्कचिदल्पतया च परम्परया श्रृङ्खलावत्सम्बद्धत्वेन पृथिवीसम्बद्धत्वस्थैर्याच्च।। नच परमाणुद्वयत्रयचतुष्टयादीनामधोधः सम्बन्धे त्वयोच्यमाने श्रृह्खलादितुल्यतया सूक्ष्मपरामाणुत्वादिव्यवहारो नोपपद्यते। तस्याच्छिन्नतन्तुवद्दीर्घाखण्डसूक्ष्मपृथिवीत्वाक्रान्तत्वेन तस्यास्तन्तुरूपपृथिव्याः कैरप्यदृष्टचरत्वात्।। किञ्चपरमाण्वादि सूक्ष्मभागानांमध्येयोन्तरालाकाशजलान्यतरभागः स न पृथिवीति परम्परया लौकिकव्यवहारविषयभूतलमारभ्य यावन्नौकातलमखण्डितत्वेन भूसम्बन्धाभावात्। एवंच भूसम्बद्धैव नौरिति त्वदुक्तिर्वन्ध्यापुत्रायते इति वाच्यम्। लौकिकव्यवहारविषयभूखण्डेपि परमाणु द्वयमारभ्य यावत्परममहाभूखण्डं जलीयपार्थिवपरमाण्वादीनां सम्बन्धवदेव पार्थिवपरमाणूनां सम्बन्धो न विजातीयः व्कचिदपि पार्थिवांशाधिक्यमन्तरेत्यवश्यमभ्युपेयंसर्वैरपि। अन्यथादा वाग्निना दग्धेरण्ये वृष्टे देवे औष्ण्यस्य जलस्य च भुवोन्तः प्रवेशानापत्तेः।। सर्वत्र तथात्वादसम्भववारणाय तत्राप्या न्तरालिकतयाकाशादीनां सत्त्वाभ्युपगमात्।। तत्तत्संयुक्तत्वव्यवहारस्त्वान्तरालिकाकाशस्यात्यल्पत्वोपाधिवशेनेति गृहाण।। यावत्सूर्यमण्डलमौष्ण्याधिक्यप्रदेशावधि शैत्यसंयुक्तदेशादारभ्योत्तरोत्तरं संश्र्लेषस्यतथा तथा दाढर्यं न्यूनंन्यूनतरं न्यूनतममिति पृथिव्यांस्वाभाविकत्वात्।। अत एव पञ्चाशत्कोटिविस्तीर्णा पृथिवीतिपौराणिकोक्तिरप्येतदाशया नासह्गता। एतेन "अन्तर्जानुः शुचौ देशे उपविष्ट उदङूमुखः। प्राग्वा ब्राह्नेण तीर्थेन द्विजो नित्यमुपस्पृशेत्" इति (याज्ञवल्क्यस्मृतौ 1 ध्या 0 18 श्लो 0 व्या 0 मिताक्षरायां) "देश इत्युपादानाच्छयनासनादिनिषेधः" इत्युक्तावादिपदेन नौकाग्रहणादत्रापि तन्निषेधः प्राप्नोतीत्यपि समाहितम्।। आस्त्रे शास्त्रीयपृथिव्या एव ग्रहणस्य न्याय्यत्वाच्च।। देश इत्युक्ते शास्त्रीयशुचित्वावश्यकताख्यापनार्थत्वाच्च।। वृक्षादीनां दार्वाद्यासननौकादीनामपि श्रीमद्गौतमकणादाचार्याभ्यां तत्तद्वस्तूद्देशलक्षणपरीक्षणा यैव प्रवृत्ताभ्यामास्तिकशिरोमणिभ्यां नास्तिकप्रभिन्नस्तम्बेरमकण्ठीरवाभ्यां स्वस्वदर्शनउट्टङ्कितलक्षणेनृ पथिवीत्वस्यैवसिद्धेश्च। सुवर्णस्य तेजस्त्ववदस्यपृथिवीत्वमस्य जलत्वमित्यादिशा स्त्रीयव्यवहारनिश्चयेतयोरेवशरणीकर्तव्यत्वाच्च। नौकायां मृद्भिः कृत्रिमभूपरिकल्पनेन स्वतो भूत्वपैत्तलताम्ररजताद्यासनकल्पनेन वा निषेधानवकाशाच्च।। नच नौकायां मृल्लेपादिना कृत्रिमभूकल्पनेपि "यत्र प्रसूयते नारी म्रियते दह्यतेपि वा।। चण्डालाध्युषितं यत्र यत्र विष्ठादिसंगतिः। एवं कश्मलभूयिष्ठा भूरमेध्या प्रकीर्तिता।। श्वसूकरखरोष्ट्रादिसंस्पृष्टा दुष्टतां व्रजेत्। अङ्गारकुशकेशाद्यैरस्थिभिर्मलिनाभवेत्" इति (मिताक्षरायां 1 ध्या 0 188 श्लो 0 व्या 0 देवलेन) उक्तरीत्या समुद्रे नावि चण्डालादिभिरनध्युषितवासयोग्यस्थानालाभेन तदध्युषितप्रदेशानांचामेध्यत्वं दुष्टता मलिनत्वं वेति तत्र तद्यानं निषिध्यत इति वाच्यम्।। "भूशुद्धिर्मार्जनाद्दाहात्कालाद्गोक्रमणात्तथा।। सेकादुल्लेखनाल्लेपाद्गृहं मार्जनलेपनात्।।" इति (याज्ञवल्क्येन 1 ध्या 0 188 स्लो 0) तथा "खननात्पूरणाद्दाहादभिवर्षेणलेपनात्। गोमिराक्रमणात्कालाद्भूमिः शुध्यति सप्तधा" इति (पराशरमाधवीये 7 ध्याये 35 श्लो 0 व्या 0 यमेन) उक्तेर्गोमयलेपमार्जनादिना तच्छुद्धेः संपादयितुं शक्यत्वात्।। "वक्ष्यतेऽषः परं सर्वं मेध्यामेध्यसमुच्चयम्। शुचिभूतं स्वयं शुद्धं पवित्रं चेति केवलम्। मेध्यं चतुर्विधंलोके प्रजानां मनुरब्रवीत्। दूषितं कश्मलं दुष्टं वर्जितं चेति लिङ्गतः। चतुर्विधममेद्यं च सर्वं व्याख्यास्यते पुनः। नवं वा निर्मलं वापि शुचीति द्रव्यमुच्यते। शुद्धं पवित्रभूतं च पूतमित्यभिधीयते। स्वयमेव हि यद्द्रव्यं केवलं धन्यतांगतम्। स्थावरं जगमं वापि स्वयं शुद्धमिति स्मृतम्। अन्यद्रव्यैरदूष्यं यत्स्वयमन्यानि शोधयेत्। हव्यकव्येषु पूज्यं यत्तत्पवित्रमिति स्मृतम्। अथ सर्वाणिधान्यानि सर्वाण्याभरणआनि च। अवर्ज्यं भक्ष्यजातं वा शुचीन्येतानि केवलम्" इत्यादिना चतुर्विधं मेध्यं निरूप्यष्यामेध्यं दूषयित्वा च "शुच्यप्य शुचिसंस्पृष्टं द्रव्यं दूषितमुच्यते। मानुषास्थिवसाविष्ठारेतोमूत्रार्तवानि च। कुणपं पूयमित्येतत्कश्मलं चाप्युदाहृतम्। स्वेदाश्रुबिन्दवः फेनं निरस्तं नखरोम च।। आर्द्रचर्मासृगित्येतद्दुष्टमाहुर्द्विजातयः" इति पराशरमाधवीये 11 ध्याये 1 श्लोकव्या 0 देवलेन) उक्तेर्मेध्यत्वामेध्यत्वयोर्निर्णये वाच्ये "अश्वो हस्तीरणश्छत्रं रश्मयश्चन्द्रसूर्ययोः। भूमिरग्नी रजो वायुरापो दधि घृतं पयः। सर्वाण्येतानि शुद्धानि स्पर्शे मेध्यानि नित्यशः" इति (पराशरमाधवीये7द्याये35स्लो0 व्या0) उक्तेरशुद्धायाभुवःशुद्धेर्निरूपयितुंशक्यत्वाच्र। सप्रकारश्च विशेषेणाभिहितः "पञ्चधा च चतुर्द्धा च भूरमेध्या विशुध्यति। दुष्टापि सा द्विधा त्रेधा शुध्यते मलिनैकधा" इति (मिताक्षरायां 1 ध्या 0 188 श्लो 0 व्या 0) तथा (पराशरमाधवीये7ध्या 0 35 श्लोक व्या 0 देवलेन)। "तत्र पञ्च विधा शुद्धिः "सम्मार्जनोपाञ्जनेन सेकेनोल्लेखनेन च। गवांच परिवासेन भूमिश्शुध्यति पञ्चभिः।" इति (मनु 05 ध्या 0 श्लो 0 124) एतेष्वेवंपञ्चविधषु यथायोगं चातुर्विद्यादिकंयोजनीयम्। यद्वा "दहनात्खननाच्चैव उपलेपनधावनात्। पर्जन्यवर्षणाद्भूमेःशौचं पञ्चविधं स्मृतम्" इति देवलेन उक्ता द्रष्टव्याः पञ्चविधाः शुद्धयः" इति। (पराशरमाधवीये 7 ध्याये 35 श्लोक व्या0) उक्तशुद्धिकल्पनया दोषाभावाच्च।। अयमेव शुद्धयुपायो म्लेच्छदेशयिभूम्यादौकल्पनीय इति नविस्मर्तव्यम्। एवं नौकाया अपि "आसनंशयनं यानं नावः पन्थास्तृणानि च। चण्डालपतितस्पृष्टं मारुतेनैव शुध्यति। त्रीणि देवाः पवनित्राणि ब्राह्नणानामकल्पयत्। अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते।" इति (7 ध्या0 34 श्लो0 पराशरस्मृतिव्याख्याने माधवीये बोधायनेन) "रथ्याकर्दमतोयानि नावः पन्थास्तृणानि च। मारुतार्केणसुध्यन्ति पव्केष्टकचितानि च" इति (पराशरेण 7 ध्याये 34 श्लो0) तथा "निर्द्दिष्टानामेषां चण्डालादिस्पर्शेपि वाय्वातपादिभिः शुद्धिः" इति (तत्रैव व्याख्याने माधवाचार्येण) चोक्तेर्नावोऽसुद्धिरिति तत्रत्यकल्पितभुवोप्यशुद्धिरित्याक्षेपस्यापि प्रागुक्तरीत्यानवतारात्।। नौकाया दार्वासनत्वेन "दार्वासनं तु दारिद्र्यम्" इति निषेधेन तत्र सन्ध्या न स्यादिति परास्तम्।। दर्भकम्बलादीनामुक्तासनोपरि परिस्तरणेन तदाशङ्काया अनवकाशाच्च।। युक्तं चैतत्।। सञ्चारयोग्यायाः साक्षाद्भुवो मधुकैटभमेदोभिराच्छादितत्वेन तस्याअशुद्धत्वात्तत्रदार्वासनकम्बलदर्भासनादिभिर्विना जपादिसत्कर्मणां निषिद्धत्वात्तत्र कथं तानिस्युः।। अतएवेयं मेदिनीत्युच्यते।। अतएव स्वस्वकर्मानुष्ठानयोग्यसंशुद्धये प्रातः प्रत्यहं गृहादिकं लोकैस्त्रैवर्णिकैर्गोमयेन परिलिप्यते। एतेन विधिविहितगङ्गादिमृद्भिर्विना म्लेच्छगृह इव व्कचित्केवलमृद्भिर्लेपादिकमयुक्तमिति सिद्धम्।। नच "नान्तरिक्षे कदाचन" इति वचनस्य का गतिः सर्वस्यापि प्रदेशस्य स्थूलशूक्ष्मपृथिवीत्वाक्रान्तत्वादिति वाच्यम्।। स्थूलशूक्ष्मोभयपृथिवीबहिर्भागस्य पृथिव्याःपरितः सहस्रान्तरयोजनेषु जलपृथिव्याकाशेषु परिदृश्यमान गतिपरिमाणतच्छक्त्यादेरवगतत्वेनैतावद्दूरमेवात्र वायोर्गतिरिति निर्णेतुं सक्यतया तद्गत्यभावे तेजो जलपृथिव्यं शस्यापि तत एव गत्यभावसिद्धिरितिर्यत्र तदभावस्त स्यैव शुद्धाकाशत्वात्।। न च तत्राकाशे कस्यापि स्थित्यसम्भवेन सन्ध्यादिकर्मणां सुतरामसंभव इति तन्निषेधोक्तिर्व्यर्थेति वाच्यम्।। स्थूलपृथिव्यपेक्षया परमाणुद्व्यणुकादिपृथिव्यपेक्षया वा भेदविवक्षयाकाशमिति तादृशभेदमनपेक्ष्यपृथिवीतिव्यवहार इति व्यवहारद्वयस्यापि प्रामणिकत्वात्। अन्यथास्थूलपृथिव्या उपरि मेदिनीत्वदोषव्यावृत्तये दर्भासनादौ कर्मानुष्ठाने "नान्तरिक्षे कदाचन" इति निषेधापत्तिः।। प्राचीनकालेन्तरा विमानादिषु सञ्चारेपि तत्रापायबाहुल्यमभिवीक्ष्यतत्रतथाव्यवहारनिवारणायान्तरा सञ्चारेजायमानापायनिमित्तकमरणे प्रायश्चित्तप्रतिपादनवत्सन्ध्यानिषेधो व्यवह्नियमाणस्थूलमहापृथिव्युपरिलक्षणयाप्रयोगणप्रवृत्ते श्च। अएव चत्वार्येवपृथिव्यप्तेजांसिभूतानीतिमतेनुपपत्ति र्न। न च दर्भादीनामपि गौतमकाणादमतेपृथिवीत्वमिति तस्याअपि मेदिनीत्वमिति तत्रापि सन्ध्यादिकर्माणि न स्युरिति वाच्यम्।। तस्यपृथिवीत्वेपितस्य मेदिनीत्वधर्मानाक्रान्तत्वस्य दर्भकम्बलदार्वासनादिविधायकवचनेनानुमीयमानत्वात्।। अन्यथाकम्बलादीनामपिपृथिवीत्वात्तदसंगतिः। अत एव देवदत्तो न भूम्यामुपविष्टः किन्तु कटे इति खेगच्छतीति कग इति विहग इति च व्यवहाराः स्वरसत उपपद्यन्ते।। अत एव भुवं स्थूलां परित्यज्य समाधिस्थस्य कदाचिद्दे हत्यागे प्रायश्चित्तं न। विमानाद्वृक्षात्पततो भूसम्बन्धात्पूर्वं मध्ये मरणेन्तरामरणप्रायस्चित्तमनुष्ठीयते। न च समाधिस्थस्य पापाभावेन न प्रायश्चित्तमनुष्ठीयते नत्वदुक्तार्था श्रयणेनतिवाच्यम्।। तं समाधिस्थमुद्दिस्य पुत्रैः क्रियमाणस्य सापिण्डयान्तस्य व्कचिन्नारायणबल्यन्तस्यवाकर्मणोवैयर्थ्यापत्तेः।। वस्तुतः कर्तुस्तदकरणे प्रत्यवायश्रवणात्तदपाकरणाय यतिव्रात्यादिभ्यः श्राद्धादिकंक्रियत इत्यन्यत्। एवं च वायुतेजःशून्यस्यप्रदेशस्यतन्मतेकस्याप्यप्रसिद्धतया "नान्तरिक्षेकदाचन" इत्यनेनातिवातातितेजस्वत्प्रदेशे कर्म न कुर्यादिति तत्र तन्निषेधेप्यन्यत्र तदयोग इति सिद्धम्।।
किं च श्रीरामेण सर्वैः सह रावणसंहारोत्तरं विमानमारुह्य प्रत्यागमनसमये लङ्कातोयोध्यां याववन्मध्येसन्ध्यार्थमग्निकार्यर्थं वावतरणस्य कुत्राप्यनुल्ले खात्। नच तस्य सन्ध्यानाव श्यकीति वाच्यम्। `कौसल्या सुप्रजारामपूर्वासन्ध्या प्रवर्तते। उत्तिष्ठनरशार्दूलकर्तव्यं दैवमाह्निकम्' इत्यादिना तत्र तत्र विश्वामित्रेण तदुत्थापनं तदनन्तरं सन्ध्यानुष्ठानमित्यर्थस्य (श्रीमद्वाल्मीकिरामायणादौ)प्रसिद्धत्वात्।। विभीषणस्य ब्राह्नणत्वेन तस्य तेन सहायोध्यां प्रति गमने तदर्थं वा विमानावतरणस्य कुत्राप्यवर्णनाच्च। एतेन बिभीषणस्य ब्राह्नणत्वे मानाभाव इत्यपास्तम्।। तस्य पुलस्त्यब्रह्नवंशेजातत्वेन ब्राह्नण्यस्य निर्विवादत्वात्। रामेण रावणादिब्रह्नहत्यादोषवारणाय तीर्थयात्राश्वमेधा दीनां वाल्मीकिकृत श्रीमाद्रामायणानन्दरामायणाध्यात्मरामायणादिषुस्पष्टमुक्तत्वाच्च।। एवं तत्रैवानन्दरामायणे श्रीरामेण तीर्थयात्रार्थं शतसौधेन विमानेन गमनसमये वसिष्ठस्याग्निहोत्रार्थमेकं सौधं तत्रासीदिति वर्णनेन सन्ध्याग्निहोत्रादेर्विमानेनुष्ठानवदत्रापि नौकासु तदनुष्ठानस्य निर्निरोधत्वात्।। न च तत्र्रेतायुगे इदंतु कलावितीदानीं समुद्रयानं निषिध्यत इति कथं तदनुष्ठानं निर्निरोधं स्यादिति वाच्यम्।। "मनुनोक्तोब्रवीन्मत्स्यो मनुं वै पालने रतः। अवतीर्णोभवायास्य जगतो दुष्टनष्टये ।। 11 ।। सप्तमेथ दिने ह्यब्धिः प्लावयिष्यति वै जगत्। उपस्थितायां ना वि त्वं बीजादीनि निधाय च ।। 12 ।। सप्तर्षिभिः परिवृतो निशां ब्राह्नीं चरिष्यसि" इति (आग्नेये महापुराणे 2 ध्याये) उक्तरीत्या ब्राहयामेकस्यां निशायामन्तर्भूते षुबहुषु कलियुगेषु तदन्तर्गतैस्सप्तर्ष्यादिभिः सन्ध्या तत्रानुष्ठितेत्यस्यावश्यसिद्धत्वात्।। न च तैः सा नानुष्ठितैव। तत्र। प्रमाणाभावादितिवाच्यम्।। प्रत्यवायित्वापत्त्याऋषित्वापायप्रसङ्गात्।। कलौधर्मसूनुना च युद्धे ब्राह्नणादिहननदोषपरिहारायास्वमेधरूपप्रायाश्चित्ता नुष्ठानविहितयागीयपशुहिंसायामपि यागान्ते तद्दोषपरिहारार्थं क्रियमाणप्रायश्चित्तानुष्ठानस्याऽऽसंगवत्कलौसमुद्रयानं धर्म एवेति तत्र सन्ध्याद्यभावस्य प्रकारान्तरेण परिहाराभ्युपगमाच्च। वस्तुतःयथातथावास्तु गायत्र्या सूर्यो पस्थानं मुख्यामितिगायत्रीजपमात्रं वाकार्यमेव।। किं च "गवां वालपवित्रेण सन्ध्युपास्तिं करोतियः।। सवै द्वादशवर्षाणि कृतसन्ध्योभवेन्नरः" इति (स्मृतिमु. आह्निकेकोशिकेन) उक्तंपवित्रंच न्यूनतापरिहारकमितिदिक्।। न च कलावश्वमेधस्य "नरास्वमेधौ मद्यं च" इति (निर्णयसिन्धो3यपरिच्छेदान्तेकलिवर्ज्ये) गणनेन निषिद्धत्वात्कथं कलौ तेनाश्वमेधोनुष्ठित इति वाच्यम्। कलियुगादौ "शतेषु षट्सु सार्धेषु" इति राजतरंगिण्यामुक्तेः कलौ 650 वर्षोत्तरं कुरुपाण्डवयुद्धस्य वर्णनात्। सर्वतत्त्वशोधकैराङ्गलैरप्याङ्गलशकार्त्पूवतनेभ्यः 1400 वर्षेभ्यः पूर्व तद्युद्धवर्णनात्तदुत्तरमेव (देवीभागवते 7 स्कन्ध) उक्तरीत्याकल्यादौ षट्‌त्रिंशद्वर्षपर्यन्तं युधिष्ठिरस्थितिवर्णनेन तदा तत्पूर्वं कलिसन्धौ वा पाण्डकैर श्वमेधानुष्ठानेन जयपुरे आंरलशके 1706 तमे वर्षे तदधिपेनश्रीमन्महाराजजयसिंहवर्मणाश्वमेधानुष्ठानात्कलियुगसत्त्वेपीति महामहाविद्वद्वरिष्ठसंमतिमन्तरा तस्य निर्वोढुमशक्यत्वेन तत्र सम्मतेर्निषेधविषये साह्गानुष्ठानस्यैव कर्तुमशक्यता व्यङ्गता वा क्वचित्तज्जन्यपुण्यापेक्षया दोषाधिक्यप्रादुर्भाव इत्यनुमानवत्तत्कालतद्देशानुसारेण तथा नौयानविषये निषेधेपि यथाविधिकर्मादिकमनुष्ठाय गान्तॄणां निषेधो नेत्यर्थस्याप्यनुमीयमानत्वात्। "सेतुं दृष्ट्वा विशुद्धात्मात्ववगाहेत सागरम्। यजेत वाश्वमेधेन राजा तु पृथिवीपतिः" इति (पराशरेण 12 ध्या 70।। श्लो) उक्तेः कलिवर्ज्य संकोचस्यानित्यत्वाभ्युमगमाच्चेतिदिक्।। तत्र मनुना सप्तर्षिभिश्च सन्ध्यादिकमननुतिष्ठद्भिस्तप्रत्योज्यप्रत्यवायपरिहारस्तु "इत्युक्व्तान्तर्दधे मत्स्यो मनुः कालप्रतीक्षकः। स्थितः समुद्रउद्वेले नावमारुरुहे तदा ।। 15 ।। एकश्रृङ्गधरो मत्स्यो हैमो नियुतयोजनः। नावं बद्ध्वा तस्य श्रृङ्गे मत्स्याख्यं च पुराणकम् ।। 16 ।। शुश्राव मत्स्यात्षापघ्नं संस्तुवन्स्तुतिभिश्च तम्" इति (आग्नेये महापुराणे 2 ध्याये) नानापापघ्नमत्स्यपुराण श्रवणेन कृतः। तत्रत्यपापघ्नमिति पदेन तस्य बोधनात्।। अन्यथा पुराणस्य सर्वस्यापि पापघ्नत्वपुण्योत्पादकत्वादीनां स्वतस्सिद्धत्वेन प्रसिद्धत्वात्तन्मात्रोक्तेरानर्थक्यापत्तिः।। जन्मजन्मान्तरार्जितमहामहापापानां निवर्तके न समुद्रदर्शनमोत्रण तच्छीकरसंसर्गे स्वयमसंस्पृश्यैव पात्रान्तरेणोद्धृत्यप्रोक्षणादिना मन्वादिवन्मत्स्यपुराण श्रवणेनवा यावत्पापस्य परिहर्तुंशक्यत्वाच्चेत्यलंपल्लवितेन।
भुवीव शुद्धिरन्यत्राप्यस्त्येव न ततोधिका।
प्रत्यन्तेत्या वश्यकीस्यात्तावत्यादिक्प्रदर्शिता ।। 1 ।।
इत्यब्धिनौयानमीमांसायां स्नानसन्ध्यादिविचारनामकं द्वितीयं खण्डं समाप्तम् ।। 2 ।।