अन्तर्जालम्

विकिस्रोतः तः
   अन्तर्जालं संपूर्णे विश्वे प्रसारितानाम् असंख्यसंङ्गणकानां जालबन्धस्य जालबन्धो भवति । अन्तर्जालं विश्वे प्रसारिताभि: लक्षस: सङ्गणकप्रणालिभिः निर्मिता एका संयुक्तसृष्टि: । क्षणाभ्यन्तरे वाञ्छितसूचना प्राप्ते अधिपंक्तेः (online) इत्यनेन सौविध्येन शिक्षणाधिगम- प्रक्रियाया: नूतनमार्ग:उन्मोचितः । एवञ्च 1990 तमे वर्षे (world wide web) जालपुटम् (website) इत्यस्य आविष्कार: शिक्षाक्षेत्रे नवीनक्रन्तिमुत्पादयत्।


अन्तर्जालस्य विकास:-- अन्तर्जालस्य इतिहासं पश्यामश्चेत् ज्ञायते; यत 1969 तमे वर्षे वर्नर ली महोदयः अन्तर्जालस्य आविष्कार : अकरोत् | अमेरिका देशस्य रक्षाविभागेन स्टेनफोर्ड अनुसंधान केंद्रेण सह सूचनायाः आदान प्रदानार्थं अन्तर्जालस्यआविष्कार : कृत:।


भारतदेशेअन्तर्जालस्यविकास: -- भारतदेशे अन्तर्जालस्य प्रथमा उपभोक्तृ संस्था "नेशनल इन्फार्मेटिक सेंटर "(N.I.C.) इति आसीत्। ई.1995 तमे वर्षे अनया एव सी-बेब इत्याख्येन प्रविधेः माध्यमेन संगणकस्य उपभोक्तृभ्यः जनेभ्य: वैश्विकसमन्वयकेन्द्रेण (World Wide Web) सह सम्बन्धस्थापनस्य अवसर: दत्तः।


अन्तर्जालस्य लाभा: -- अद्यत्वे गूगलादि उपकरणानां प्रयोगेण वयं कस्मिन्नपि विषये ज्ञातुं शक्नुम:। अस्मिन शब्दकोशानां, नवीनशोधकार्याणां, सूचनानां च भण्डार: वर्त्तते। अन्तर्जालस्य माध्यमेन वयं कस्यापि ज्ञानस्य विषयस्य वा आदानप्रदानं संप्रेषणञ्च सौकर्येण कर्तुं शक्यामहे।


अन्तर्जालस्य हानिः -- अद्यत्वे तु एतादृशी स्थितिः अस्ति; यत् अन्तर्जालस्य उपयोगं विना वयं किमपि कार्यं कर्तुं सक्षमाः न

स्मः|कालान्तरे निःसशयं वयं सर्वे अस्मिन्नेव निर्भरा: भविष्याम:।एतस्य ज्ञानस्य विना गर्ति न भविष्यति; 

एवञ्च एतेषामुपकरणानाम् प्रयोगेण वयं निष्क्रिया: भवामः | अल्पमपि ज्ञानाय वयं कदापि स्वबुध्दे: प्रयोगः न कुर्म: अपितु गूगलशरणं गच्छामः । अतः स्मृते: ह्रास: दृश्यते; कार्येषु एकाग्रता नश्यति, संप्रेषणक्षमताया: विकास: अवरुध्यते इत्यादय:।


निष्कर्ष: -- अत: वयं निष्कर्षरुपेण वक्तुम् शक्नुम: ,यत् अन्तर्जालस्य आधुनिकयुगे बहु महत्त्वम् दृश्यते। एतत् जीवनस्य प्रत्येकक्षेत्रे क्रांति उत्पादित: वर्त्तते । अन्येषां वस्तूनां प्रयोगेण लाभा: हानयश्च भवन्ति ; तावदेव अन्तर्जालस्य प्रयोगेणपि भवन्ति। अत एव अस्माभि: अस्य सदुपयोगा: ग्रहणीया:,दुरुपयोगाश्च हातव्या:।

"https://sa.wikisource.org/w/index.php?title=अन्तर्जालम्&oldid=337415" इत्यस्माद् प्रतिप्राप्तम्