अद्वैतलक्षणम्

विकिस्रोतः तः
अद्वैतलक्षणम्
अज्ञातः
१९५३

॥ अद्वैतलक्षणम् ॥

अज्ञानमेतद्द्वैताख्यमद्वैतं श्रेयताम्परम् । मम त्वहमिति प्रज्ञावियुक्तमिति कल्पवत् ॥ १ अविकार्यमनाख्येदमद्वैतमनुभूयते । मनोवृत्तिमयं द्वैतमद्वैतं परमार्थतः ॥ २ मनसो वृत्तय स्तस्माद्धर्माधर्मनिमित्तजाः । निरोद्धव्यास्तन्निरोधेनाद्वैतं नोपपद्यते ॥ ३ मनोदृष्टमिदं सर्व यत्किञ्चित्सचराचरम् । मनसो ह्यमनीभावेऽद्वैतभावं तदाप्नुयात् ॥ ४ बहिः प्रज्ञा सदोत्सृज्याप्यन्तः प्रज्ञां च यो बुधः । कयापि प्रज्ञयोपेतः प्रज्ञावानिति कथ्यते ॥ ५ कर्मणो भावना चेयं सा ब्रह्मपरिपन्थिनी । कर्मभावनया तुल्यं विज्ञानमुपजायते ॥ ६ नारायण - नारायण - नारायण ॥ ऑं तत्सत् ॥

"https://sa.wikisource.org/w/index.php?title=अद्वैतलक्षणम्&oldid=320229" इत्यस्माद् प्रतिप्राप्तम्