अथर्ववेदः/काण्डं २०/सूक्तम् ००७

विकिस्रोतः तः
← सूक्तं २०.००६ अथर्ववेदः - काण्डं २०
सूक्तं २०.००७
१-३ सुकक्षः, ४ विश्वामित्रः।
सूक्तं २०.००८ →
दे. इन्द्रः । गायत्री


उद्घेदभि श्रुतामघं वृषभं नर्यापसम् ।
अस्तारमेषि सूर्य ॥१॥
नव यो नवतिं पुरो बिभेद बाह्वोजसा ।
अहिं च वृत्रहावधीत्॥२॥
स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत्।
उरुधारेव दोहते ॥३॥
इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
पिबा वृषस्व तातृपिम् ॥४॥