अथर्ववेदः/काण्डं १९/सूक्तम् ०२

विकिस्रोतः तः
← सूक्तं १९.०१ अथर्ववेदः - काण्डं १९
सूक्तं १९.२
बृहद्दिवोऽथर्वा
सूक्तं १९.०३ →
दे. वरुणः

19.2
शं त आपो हैमवतीः शमु ते सन्तूत्स्याः ।
शं ते सनिष्यदा आपः शमु ते सन्तु वर्ष्याः ॥१॥
शं त आपो धन्वन्याः शं ते सन्त्वनूप्याः ।
शं ते खनित्रिमा आपः शं याः कुम्भेभिराभृताः ॥२॥
अनभ्रयः खनमाना विप्रा गम्भीरे अपसः ।
भिषग्भ्यो भिषक्तरा आपो अछा वदामसि ॥३॥
अपामह दिव्यानामपां स्रोतस्यानाम् ।
अपामह प्रणेजनेऽश्वा भवथ वाजिनः ॥४॥
ता अपः शिवा अपोऽयक्ष्मंकरणीरपः ।
यथैव तृप्यते मयस्तास्त आ दत्त भेषजीः ॥५॥