अथर्वपरिशिष्टः/परिशिष्टः ५१-६०

विकिस्रोतः तः
Jump to navigation Jump to search

(परिशिष्ट_५१. ग्रहयुद्धम्)
(५१,१.१) ओं के चिद्ग्रहा नाररानाश्रयन्ते के चिद्ग्रहा [ज्योतिषि] संग्रहे च । ग्रहो ग्रहेणैव हतः कथं स्याद्विज्ञाय तत्त्वं भगवान् ब्रवीतु ॥
(५१,१.२) एवं स पृष्टो मुनिभिर्महात्मा प्रोवाच गर्गो ग्रहयुद्धतन्त्रम् । पराजयं चैव जयं च तेषां शुभासुभम्(अशुभम्ञ्) चैव जगद्धिताय ॥
(५१,१.३) अर्को जातः कलिङ्गेषु यवनेषु च चन्द्रमाः । अङ्गारकस्त्ववन्त्यायां मगधायां बुधस्तथा ॥
(५१,१.४) बृहस्पतिः सैन्धवेषु महाराष्ट्रे तु भार्गवः । शनैश्चरः सुराष्ट्रायां राहुस्तु गिरिशृङ्गजः । केतुर्मलयके जात इत्येतद्ग्रहजातकम् ॥
(५१,१.५) यस्मिन् देशे तु यो जातः स ग्रहः पीड्यते यदा तं देशं घातितं विद्याद्दुर्भिक्षेण भयेन वा ॥
(५१,२.१) दिवाकरश्चैव शनैश्चरस्तथा बृहस्पतिश्चैव बुधश्च नागराः । प्रजापतिः केतुरथापि चन्द्रमास्तथैव राहूशनसौ च यायिनः ॥
(५१,२.२) यदा ग्रहो नगर एव नागरं विजेष्यते याय्यथ वापि यायिनम् । तदा नृपो नागर एव नागरं विजेष्यते वाय्यथ वापि यायिनम् ॥
(५१,२.३) आरोहणं च भेदश्च लेखनं सव्यदक्षिणम् । रश्मिसंसर्जनं चैव ग्रहयुद्धं चतुर्विधम् ॥
(५१,२.४) प्रसव्ये विग्रहं ब्रूयात्संग्रामं रश्मिसंगमे । लेखनेऽमात्यपूडा स्याद्भेदने तु जनक्षयः ॥
(५१,२.५) सर्वेषां नभसि समागमे ग्रहाणामुक्तृष्टो भवति तथैव रश्मिवान् यः । स्निग्धत्वं भवति तु यस्य [स ग्रहो ग्रहेण] संयुक्तो भवति [तु यः] पराजयेत शेषः ॥
(५१,३.१) श्यामो वा व्यपगतरश्मिमण्डलो वा रूक्षो वा व्यपगतरश्मिवान् कृशो वा । आक्रान्तो विनिपतितस्ततोऽपसव्यो विज्ञेयो हत इति स ग्रहो ग्रहेण ॥
(५१,३.२) बुधश्च भौमः शनिभार्गवाङ्गिराः प्रदक्षिणं याति यदा निशाकरम् । अनमयत्वं त्रिषु सौख्यमुत्तमं विपर्यये चापि महाञ्जनक्षयः ॥
(५१,३.३) धनकनकरजतसंचयाश्च सर्वे शमदममन्त्रपराश्चये मनुष्याः । शकयवनतुखारबाल्हिकाश्च क्षयमुपयान्ति दिवाकरस्य घाते ॥
(५१,३.४) अथ सोमे हते विद्याद्ध्र्वं राज्ञो विपर्ययः । संहरन्ति च भूतानि भूमिपालाः पृथक्पृथक् ॥
(५१,३.५) परस्परं विरुध्यन्ते क्षुद्भयं चापि दारुणाम् । अनावृष्टिभयं घोरं विद्यात्सोमविपर्यये ॥
(५१,४.१) त्रैगर्ताः क्षितिपतयः सयोधमुख्याः पीड्यन्ते गिरिनिलयाग्निजीविनश्च । संग्रामाः सरुधिरपांसुवर्षमिश्रा दुर्भिक्षं भवति धरासुतस्य घाते ॥
(५१,४.२) सागरनिलयाः पौराः क्षयमुपयान्ति नरा वणिक्प्रधानाः । भवति तु [राजा] विजयी प्रयायी बुधबन्धने प्रपतन्ति चात्र सोभ्याः ॥
(५१,४.३) दैवज्ञास्तपसि चिरं सुनिश्चितार्थाः स्युर्दान्ता नृपतिगणः पुरोहिताश्च । आगन्तुर्जयति वधश्च नागराणां त्रैलोक्यम् <च> भयमुपैति गुरोस्तु घाते ॥
(५१,४.४) यो राजा प्रथितपराक्रमः पृथिव्यां वङ्गाङ्गादिषु मदधाः सशूरसेनाः । ये योधाः समरणभुमिलब्धशब्दास्ते सैन्यैः क्षयमुपयान्ति शुक्रघाते ॥
(५१,४.५) महिषकवृषभाः सभस्मपौण्ड्राः कृषिपशुपाल्यरताश्च ये मनुष्याः । विविधभयसमाहितास्तु सर्वे क्षयमुपयान्ति शनैश्चरस्य घाते ॥
(५१,५.१) ये के चिन्नृपतिषु दाम्भिकाः पिशाचाः कार्याणां व्रतनियमेषु छन्नपापाः । ये चान्ये शबरपुलिन्दचेदिगाधा बाध्यन्ते यदि भवतेऽत्र राहुघातः ॥
(५१,५.२) आक्रान्तं समनुभवन्ति यायिसंघा वध्यन्ते यदि भवते [परस्] परोऽहिघातः । संग्रामाः सरुधिरपांसुवर्षमिश्र दुर्भिक्षं भवति तु केतुपीडनेन ॥
(५१,५.३) यत्किं चिद्दिविगतमन्तरिक्षजं वा भौमं वा भवति निमित्तमप्रशस्तम् । तत्सवं स्तनितमहाभ्रबिद्युद्वर्षैः शान्तं स्याद्भवति सदक्षिणैश्च होमैः ॥
(५१,५.४) ये देशा ग्रहगणभिन्नभूमिकम्पा येषां वा ग्रह उपयातचन्द्रसूर्यः । तान् देशान् [ग्रहगणभिन्नभुमिकम्पान्] पर्जन्यः शमयति सप्तरात्रवृष्ट्या ॥
(५१,५.५) प्रसव्यस्त्रिषु मासेषु संसर्गो मासिकः स्मृतः । लेखने पक्ष इत्याहुर्भेदने सप्तरात्रिकम् ॥
(५१,५.६) आग्नेया वासवाश्चैव वायव्या वारुणास्तथा । सर्व एव शुभा ज्ञेया गर्गस्य वचनं यथा ॥

(परिशिष्ट_५२. ग्रहसंग्रहः)
(५२,१.१) ओमथर्वाणं नमस्कृत्य उवाच भगवानृषिः । कीदृशा ग्रहपुत्राश्च कियन्तो वा वदस्व मे ॥
(५२,१.२) पृष्टह स शौनकेनाथ ब्राह्मणानां हिताय वै । संख्यामुवाच भगवान् पद्मयोनिमतं यथा ॥
(५२,१.३) दिक्चारिणो दिविचरा भूचरा व्योमचारिणः । दिवाचरा रात्रिचरा दिवारात्रिचराश्चये ॥
(५२,१.४) पृथिक्चराश्च ये तत्र ते च स्युः संघचारिणः । चरन्त्यपरवीथीषु ये च विभ्रान्तमण्डलाः ॥
(५२,१.५) ते ग्रहाः संग्रहेणाहं शतशोऽथ सहस्रशः । अनेकविधसंस्थानं प्रवक्ष्याम्यनुपूर्वशः ॥
(५२,२.१) गोक्षीरकुमुदप्रख्यास्तीव्रेण वपुषान्विताः । चरन्त्यन्तरवीथीषु स्निग्धा विपुलतेजसः ॥
(५२,२.२) एते विसर्पका नाम अर्चिष्मन्तो महाप्रभाः । विज्ञेयाश्चतुरशीतिः शुक्रपुत्रा महाग्रहाः ॥
(५२,२.३) शुक्ला निकराः सौराभास्त्यजन्त इव चार्चिषः । स्फुरन्त इव चाकाशे बिम्बका रश्मिभिर्वृताः ॥
(५२,२.४) प्रायशो दक्षिणे मार्गे नीचैर्विभ्रान्तमण्डलाः । विकचाः पञ्चषष्टिस्ते बृहस्पतिसुताः स्मृतः ॥
(५२,२.५) ये श्वेताः किंचिदाकृष्णा विशिखाः स्युर्वितारकाः । ते षष्टिः कनका नाम शनैश्चरसुता ग्रहाः ॥
(५२,३.१) एकपKचाशतो ज्ञेयास्तस्कराः सूक्ष्मरश्मयः । बौधाः कमलगर्भाभाः किंचित्पाण्डुरतेजसः ॥
(५२,३.२) कौङ्कुमा लोहिताङ्गस्य पुत्रा विद्रुमतेजसः । त्रिशिखा वा त्रिभागा वा षष्टिरित्युत्तरे पथि ॥
(५२,३.३) नानाधूमनिभा रूक्षा धूमव्याकुलरश्मयः । शतमेकाधिकं मृत्योः पुत्राः स्युर्धूमकेतवः ॥
(५२,३.४) कृष्णाभाः कृष्णपर्यन्ताः कलुषाकृतिरश्मयः । राहोः पुत्रास्त्रयस्त्रिंशद्ग्रहास्तामसकीलकाः ॥
(५२,३.५) नानावर्णाग्निसंकाशा ज्वालामाला विसर्पिणः । विश्वरूपाः सुता अग्नेर्ग्रहा विंशं शतं स्मृतम् ॥
(५२,४.१) अरुणास्तु सुता वायोर्दारुणाः सप्तसप्ततिः । वातेरिता भ्रमन्तीव रूक्षा विकीर्णरश्मयः ॥
(५२,४.२) तारापुञ्जप्रतीकाशास्तारामण्डलसंवृताः । प्राजापत्या ग्रहास्त्वष्टौ गणका नामनामतः ॥
(५२,४.३) चत्वारस्तारजा युक्ताः सूक्ष्माणो रूपरश्मयः । ब्रह्मसंतानका नाम द्वे शते चतुरुत्तरे ॥
(५२,४.४) वंशगुल्मप्रतीकाशा [वंशगुल्मसरश्मयः] । काकतुण्डनिभाभिश्च रश्मिभिः किंचिदावृताः ॥
(५२,४.५) उदकं चोत्सृजन्तीव स्निग्धत्वात्सौम्यदर्शनाः । एते नाम्ना स्मृताः कङ्कास्त्रिंशद्द्वौ वारुणा ग्रहाः ॥
(५२,५.१) मुण्डताराः कबन्धाभा रुक्मकेशाश्च रश्मयः । कालपुत्राः कबन्धास्ते स्मृताः षण्णवतिर्ग्रहाः ॥
(५२,५.२) अर्चिष्मांश्च प्रभासश्च रोमशो विषमांस्तथा । अस्निग्धाश्चातिकायाश्च किंशुको राजसायकः ॥
(५२,५.३) ऋषकैश्चैव राधातः कुमुदः फनको घनः । एषामश्वेति विज्ञेया आरास्तु परिसर्पकाः ॥
(५२,५.४) नक्षत्रचारिणो ह्येते भृगुपुत्रा महाबलाः । पाण्डुराभिः सुदीर्घाभिः शिखाभिः शीतरश्मयः ॥
(५२,५.५) अतिसंतानकाश्त्वन्ये षष्टिर्वायोः सुता ग्रहाः । विकेसराः प्रकाशन्ते कृष्णलोहितरश्मयः ॥
(५२,६.१) मिश्रीभूतास्तु ते ज्ञेया गुण्ठिता इव रेणुना । धूमकेतोः सुता ज्ञेयाः शतमेकाधिकं च तत् ॥
(५२,६.२) अत्यर्थं कनकास्त्वन्ये प्रतप्तकनकप्रभाः । अन्तकपुत्रकाः षष्टिरस्निग्धा मध्यचारिणः ॥
(५२,६.३) ये तु नक्षत्रवंशस्य भागमुत्तरमाश्रिताः । एकतारा वपुष्मन्तो महाकायाः प्रभान्विताः ॥
(५२,६.४) व्यालकस्य तु ये पुत्राः सप्तषष्टिः समन्ततः । नामतोऽधिकचा नाम तत्त्वज्ञैः परिकीर्तिताः ॥
(५२,६.५) संतानकनिभा ये तु दृश्यन्ते सूक्ष्मरश्मयः । एकतारा द्वितारा वा अथ वा पञ्चतारकः ॥
(५२,७.१) ब्रह्मराशेस्तु ते पुत्रा ग्रहाः संतानसंस्थिताः । संचरन्ति नभः सर्वमुत्पन्ने पुरुषक्षये ॥
(५२,७.२) अणवो लोहितास्त्वन्ये प्रकाशन्तेऽधिकेशकाः । पञ्चषष्टिस्तु ते ज्ञेयाः प्राजापत्या ग्रहाः स्मृताः ॥
(५२,७.३) परिवेषेषु जातेषु ग्रहाणां मण्डलेषु च । दृश्यन्ते कार्मुका नाम सप्तत्येका समाः स्मृताः ॥
(५२,७.४) अधर्मसंभवास्त्वन्ये चतुर्दश परिक्रमाः । अधःशिखाः प्रकाशन्ते विवर्णा घोरतारकाः ॥
(५२,७.५) कर्णछिद्रप्रातीकाशाः कृष्णास्ते तारकाकृतौ । कीलका राहुपुत्रास्तु चन्द्रसूर्यतलाश्रयाः ॥
(५२,८.१) वज्रः कवन्धस्त्रिशिराः शङ्खभेदी शिखावतः । दण्डाश्च राहुपुत्राः स्युर्नामभिस्तुल्यवर्चसः ॥
(५२,८.२) यथा सोमार्कयोर्ज्योतेर्मण्डलाभ्याशसेविनः । राजन्यत्वात्प्रदृश्यन्ते प्रजानां संक्षयावहाः ॥
(५२,८.३) तत्र मन्दफला ज्ञेयाः शशाङ्कतलसेविनः । दिवाकरतलाभ्याशं सेविनो भृशदारुणाः ॥
(५२,८.४) पन्नगास्तु चतुर्विंशत्कृष्णा द्वात्रिंशतिर्ग्रहाः । दक्षिणाद्यासु वीक्ष्यन्ते नीचैर्विभ्रान्तमण्डलाः ॥
(५२,८.५) केवलं तारकाकारा दृश्यन्ते निःप्रभप्रभाः । पीतरक्ता ग्रहाः पञ्च पूर्वदक्षिणतः स्मृतः ॥
(५२,९.१) दक्षिणापरतश्चापि पीतरक्तौ ग्रहौ स्मृतौ । उत्तरापरतस्त्वेकः पीतरक्तो ग्रहः स्मृतः ॥
(५२,९.२) ऐशान्यां श्वेतरक्ताभ एकस्तिष्ठति सूर्यकः । यः संधिवेलास्वर्काभो दिक्षु सर्वासु दृश्यते ॥
(५२,९.३) नातिदूरे रवेः स्निग्धः स वर्षायाभयाय च । यवक्रीतोषरैभ्याश्च नारदः सर्वतस्तथा ॥
(५२,९.४) कर्णश्च रैभ्यस्य पुत्रौ चार्वावसुपरावसू । सप्तैते स्थावरा ज्ञेयाः सह सूर्येण सर्पिणः ॥
(५२,९.५) स्थावराणां नरेन्द्राणां प्राच्यानां पक्षमाश्रिताः । स्वस्त्यात्रेयो मृगव्याध ऋमुचुः प्रमृचुस्तथा ॥
(५२,१०.१) प्रभासश्चन्द्रभासश्च तथागस्त्यः प्रतापवान् । दृढव्रतस्त्रिशङ्कुश्च अजौ वैश्वानरे मृडः ॥
(५२,१०.२) अरुणश्च दनुश्चैव याम्यायां स्थावराः स्मृताः । गौतमोऽत्रिर्वसिष्ठश्च विश्वामित्रस्तु कश्यपः ॥
(५२,१०.३) ऋचीकपुत्रश्च तथा भरद्वाजश्च वीर्यवान् । एते सप्त महात्मान उदीच्यां स्थावराः स्मृताः ॥
(५२,१०.४) शिशुमारेण सहिता ध्रुवेण च महात्मना । पुलस्त्यः पुलहः सोमो भृगुरङ्गिरसा सह ॥
(५२,१०.५) हाहाहूहू च विज्ञेयौ विष्णोश्च पदमुत्तमम् । मध्यान्तस्थावराणां तु नियताविति बुद्धिमान् ॥
(५२,११.१) कूटस्थानानि सर्वाणि दिक्ष्वेतान्युपधारयेत् । प्रभान्वितानि श्वेतानि स्निग्धानि विमलानि च ॥
(५२,११.२) अर्चिष्मन्ति प्रसन्नानि तानि कुर्युः प्रजाहितम् । निःप्रभाणि विवर्णानि निरर्चीम्ष्यमलानि च ॥
(५२,११.३) ह्रस्वान्यस्नेहयुक्तानि न भावाय भवन्ति हि । यत्किंचित्स्थावरं लोके तत्प्रसन्नेषु वर्धते ॥
(५२,११.४) कूटस्थेष्वप्रसन्नेषु स्थावरं परिहीयते । आदित्यश्चैव शुक्रश्च लोहिताङ्गस्तथैव च ॥
(५२,११.५) राहुः सोमः शनैश्चरो बृहस्पतिबुधौ तथा । ऐन्द्र आग्नेयो याम्यश्च नैरृतो वारुणस्तथा ॥
(५२,१२.१) वायव्यश्चैव सौम्यश्च ब्राह्मश्चैवाष्टमो ग्रहः । नवमश्चैव विज्ञेयो धूमकेतुर्महाग्रहः ॥
(५२,१२.२) युगग्रहा न चान्ये ते तत्राष्टौ दिग्ग्रहाः स्मृताः । सनक्षत्रेषु मार्गेषु दृश्यन्ते तु युगग्रहाः ॥
(५२,१२.३) विभ्रान्तमण्डलाः शेषा दृश्यन्ते खचरा ग्रहः । मृत्योर्निश्वासजाश्चान्ये ज्ञेयाः षोडश केतवः ॥
(५२,१२.४) कूष्माण्डवद्विसंछन्नस्त्रिणवा दक्षिणे पथि । एकादशैव विज्ञेया द्वादशादित्यसंभवाः ॥
(५२,१२.५) सूर्यवर्चनिरीक्षास्ते तेजोधातुमया ग्रहाः । दक्षयज्ञे तु रुद्रस्य क्रोधादन्ये तु निःसृताः ॥
(५२,१३.१) भीमरूपा दशैकश्च ज्वलाङ्कुशधरा ग्रहाः । सप्त पैतामहास्त्वन्ये तिर्यग्गा जर्जरग्रहाः ॥
(५२,१३.२) शिखाः सृजन्तो विततास्तन्तुशुक्लपटोपमाः । श्वेतकेतव इत्यन्ये व्याख्याता दश पञ्च च ॥
(५२,१३.३) उद्दालकर्षिपुत्रास्ते नीचैर्विभ्रान्तमण्डलाः । ते स्युः श्वेतशिखाः सर्वे सौम्याः कान्तास्तनुप्रभाः ॥
(५२,१३.४) अष्टादशेन्दुना सार्धं मथ्यमाने पुरामृते । केतवः कुन्दपुष्पाभाः क्षीरोदनभसि स्मृताः ॥
(५२,१३.५) विरश्मयश्च विशिखा महाकाया निरर्चिषः । रौप्यकुम्भनिभाः सौम्या ग्रहाः स्युः शीततेजसः ॥
(५२,१४.१) ब्रह्मकोपमयस्त्वेको विश्वात्मा सर्वतो ग्रहः । चतुर्युगान्ते लोकानामुदयस्तस्य विद्यते ॥
(५२,१४.२) नक्षत्रपथमुत्सृज्य नभोअंशाः पार्श्वचारिणः । पूर्वतोऽभ्युदिता वा स्युर्नीचैरुत्तरतस्तथा ॥
(५२,१४.३) भूम्यामभ्युदिता वा स्युर्ह्रस्वस्नेहपरिप्लुताः । सर्व एव तु विज्ञेया ग्रहा मन्दफलोदयाः ॥
(५२,१४.४) सर्वेषां पैतृकं कर्म प्रजाभाग्योद्भवं महत् । सर्वे ते सर्वतो हन्युरशुभं यद्वदन्ति च ॥
(५२,१४.५) तत्कर्मजन्ममाहात्म्यं शीलाभिजनमेव च । तद्रूपांस्तद्गुणांश्चापि तन्मयांस्तत्परिग्रहान् ॥
(५२,१५.१) सर्व एव रोगप्रदा मृत्युशस्त्राग्नितस्करैः । पशुसस्योपघातैश्च हन्युरन्यैश्च कारणैः ॥
(५२,१५.२) धूपनात्स्पर्शनात्स्थानादुदयास्तमसंभवात् । हन्युः पञ्चविधं सर्वे केतवो नात्र संशयः ॥
(५२,१५.३) मृदुध्रुवोग्रक्षिप्रेषु साधारणचरेषु च । दारुणेषु च ऋक्षेषु साधारणचरेषु च । दारुणेषु च ऋक्षेषु विद्यात्तत्सदृशं फलम् ॥
(५२,१५.४) यथादिष्टं यथावर्णं यथावर्गपरिग्रहम् । सर्व एवोदिता हन्युः सर्व एव महाग्रहाः ॥
(५२,१५.५) मृत्योः कालस्य सूर्यस्य ब्रह्मणस्त्र्यम्बकस्य च । भौमस्य राहोरग्नेश्च प्रजाता ये सुदारुणाः ॥
(५२,१६.१) प्रजापतेश्च धर्मस्य सोमस्य वरुणस्य च । पीताद्याश्च दिशां पुत्रा विज्ञेया मृदुदारुणाः ॥
(५२,१६.२) कश्यपस्य च मरीचेरुद्दालकऋषेस्तथा । पुत्रा मन्दफला ज्ञेयास्तेषाममृतसंभवाः ॥
(५२,१६.३) शुक्रादीनां च ये पुत्रा ग्रहाणां परिकीर्तिताः । तेषां वीर्याणि जानियात्पितृभ्यः साधिकानि तु ॥
(५२,१६.४) नारदात्रेयगर्गाणां गुरोरुशनसस्तथा । ग्रहाणां संग्रहो ह्येवमेष कार्त्स्न्येन कीर्तितः ॥
(५२,१६.५) अनेकशतसाहस्र अनेकशतलक्षणः । देवलब्धवराकाशे प्राह सर्वान् पृथक्पृथक् ॥
(५२,१६.६) एतदुत्थे तु सर्वस्मिन् भयेऽथ समुपस्थिते । महाशान्तिं प्रकुर्वीत राजा राष्ट्रस्य रक्षणे ॥
(५२,१६.७) तत्प्रयाति शमं सर्वं प्रजानां तु सुखं भवेत् । राजानो मुदितास्तत्र पालयन्ति वसुंधराम् ॥

(परिशिष्ट_५३. राहुचारः)
(५३,१.१) ओमुपेत्य यश्चन्द्रमसं रविं वा गृह्णाति सूनोरसुरस्य पुत्रः । निबोधतैतस्य शुभाशुभानि ग्रहस्य मृत्योः प्रतिचेष्टितानि ॥
(५३,१.२) यदा तु राहुः शशिनो रवेर्<वा> [ग्रहे] ग्रहीतुकामो भवति प्रसह्य । तदा करोत्यद्भुतदर्शनानि यैर्ज्ञायते राहुरुपैष्यतीति ॥
(५३,१.३) उद्वेपते तदा चन्द्रो यदा राहुः प्रदृश्यते ॥ पाण्डुर्वा जायते क्लीबः शशो वास्य विवर्धते ॥
(५३,१.४) रेखान्तरापुराराणि कल्मषाणि दिवाकरे । वदन्ति च भऋशं श्वानो वान्ति वाताश्च भीषणाः ॥
(५३,१.५) संध्ययोरुभयोश्चोल्का गवां प्रक्षीयते पयः । क्षीरिणामैव वृक्षाणां तदहर्नश्यते पयः ॥
(५३,२.१) अप्सु स्निग्धानि दृश्यन्ते काकाबध्नन्ति मण्डलम् । ऊर्ध्वं वदति गोमायुर्यदा राहुः प्रदृश्यते ॥
(५३,२.२) चन्द्रग्रहनिमित्तानि शुक्लपक्शाष्टमीपरम् । आ पौर्णमास्या दृश्येरन् सूर्यस्य च तथोभयोः ॥
(५३,२.३) उदितो गृह्यमाणस्तु हन्ति वेदविदो जनान् । बालांश्च जटिलान् हन्ति ये च काषायवाससः ॥
(५३,२.४) यौवनस्थांश्च पूर्वाह्णे हन्ति यज्ञविदो जनान् । औदकानि च सर्वाणि नागेन्द्राश्चात्र दुःखिताः ॥
(५३,२.५) अथ मध्यपथं प्राप्तः शूद्रान् हन्ति च तस्करान् । परिवृक्तो नृपं हन्ति चन्द्रश्चरणचारणान् ॥
(५३,३.१) प्रलम्बः प्रमदान् हन्ति क्षत्रं राष्ट्रं च सर्वशः । त्रैगर्ताश्चात्र पीड्यन्ते ये च दण्डभृतो जनाः ॥
(५३,३.२) उपरक्तो यदोदेति यदा वा प्रतितिष्ठति । अयोगक्षेममादिश्येत्त्रिषु लोकेषु दारुणम् ॥
(५३,३.३) शारदं त्रीणि वर्षाणि सस्यं जातं न पच्यते । नैदाघेनात्र जीवन्ति प्रजा मूलफलेन वा ॥
(५३,३.४) सर्वं संग्रसते ज्योतिश्चिरमन्तर्दधाति वा । हन्ति स्फीतानि राष्ट्राणि प्रधानं च महीपतिम् ॥
(५३,३.५) यदि <तु> राहुरुभौ शशिभास्करौ ग्रसति पक्षमनन्तरमन्ततः । पुरुषशोणितकर्दमवाहिनी भवति भूर्न च वर्षति माधवः ॥
(५३,४.१) गृहीत्वा भास्करं पूर्वं गृह्णाति शशिनं यदि । तं तु सोमोत्तरं नाशस्तत्र र्ध्यन्ते हि देवताः ॥
(५३,४.२) वयसां मरणं छिद्रे प्रकीर्णे रक्षसां वधः । नागानां तु महानागे छिद्रे देवो न वर्षति ॥
(५३,४.३) श्वेतो वर्णो ब्राह्मणानां क्षत्रियाणां तु लोहितः । वैश्यानां पीतको वर्णः शूद्राणां कृष्ण उच्यते ॥
(५३,४.४) एतेषां येन वर्णेन राहुश्चरति भास्करे । या जातिस्तस्य वर्णस्य तां स पीडयते ग्रहः ॥
(५३,४.५) श्यामो भवति वाताय द्रौक्षो भवति वृष्टये । हरिद्रः सर्वधान्यानां कोपं सृजति दारुणम् ॥
(५३,५.१) ताम्रो भवति शस्त्राय शस्त्राय रूक्षो भवति मृत्यवे । बह्वाकारस्तु भूतानां घोरं जनयते ज्वरम् ॥
(५३,५.२) धूमवर्णोऽग्निवर्णो वा ग्रामेषु नगरेषु वा । अग्न्युत्पातान् गृहस्थानां करोतीह महाग्रहः ॥
(५३,५.३) नीललोहितपर्यन्तो राहुश्चरति भास्करे । अमात्यो हन्ति राजानं राजा वामात्यमात्मह ॥
(५३,५.४) यस्य राज्ञश्च नक्षत्रे स्वर्भानुरुपरज्यति । राज्यभ्रंशं सुहृन्नाशं मरणं चात्र निर्दिशेत् ॥
(५३,६.१) स्निग्धवर्णो यदार्चिष्मान् पर्वस्थः स्नेहवान् ग्रहः । क्षिप्रं वाप्युदितं ब्रूहि सर्वभूतभयाय वै ॥
(५३,६.२) प्रदक्षिणे तु सोमस्य अपसव्ये तु विग्रहः । रश्मिभेदे भयं घोरमुल्लेखे मन्त्रिणां वधः ॥
(५३,६.३) दर्शयित्वा तु रूपाणि यदा राहुर्न दृश्यते । शस्त्रदुर्भिक्षसंपातैर्भयं घोरं विनिर्दिशेत् ॥
(५३,६.४) गृहीतास्तमितयोस्तु न भुञ्जीरन् द्विजातयः । आ पुनर्दर्शनात्ताभ्यां जपहोमौ विवर्तयेत् ॥
(५३,६.५) चन्द्रसूर्यग्रहे नाद्यादद्यात्स्नात्वा तु मुक्तयोः । अमुक्तयोरस्तंगयोरद्यात्स्नात्वा परेऽहनि ॥
(५३,६.६) ततः षट्सु ततः षट्सु ततोऽध्यर्धेषू वा पुनः । अर्धवर्षेषु मासेषु आदित्यस्य ततो ग्रहः ॥
(५३,६.७) ततः षट्सु ततः षट्सु त्रिषु वर्षेषु वा पुनः । एतावदेव राहोस्तु चारमाहुर्मनीषिणः ॥

(परिशिष्ट_५४. केतुचाराः)
(५४,१.१) ओं भार्गवस्तु पुरोवाच महर्षीन् भगवानृषिः । केतुसंचारं शृणुत उत्थानं चैव यादृशम् ॥
(५४,१.२) निमित्तनि च वक्ष्यामितस्योक्तानि हि यानि तु । तानि सर्वाणि जानियादुत्पातज्ञानकोविदः ॥
(५४,१.३) विप्राञ्श्वेताकृतिर्हन्ति क्षत्रियान् हन्ति लोहितः । वैश्यांस्तु पीतको हन्ति शूद्रान् हन्ति तथासितः ॥
(५४,१.४) इतरान् पीडयेत्केतुरन्यवर्णो यदा भवेत् । षण्मासाभ्यन्तरे राज्ञो मरणं च तदादिशेत् ॥
(५४,१.५) श्वेतः शस्त्राकुलं कुर्याल्लोहितस्त्वग्नितो भयम्. क्षुद्भयं पीतकः कुर्यात्कृष्णो रोगमथोल्बणम् ॥
(५४,२.१) यस्मिन् देशे शिरस्तस्य स देशः पीड्यते भृशम् । मध्ये तु मध्यमा पीडा यतो पुच्छं ततो जयः ॥
(५४,२.२) शक्त्याकारोऽतिनाशाय दुःखाय मुसलाकृतिः । दीर्घः सूक्ष्मः सुखायैव ह्रस्वः स्थूलो विनाशकृत् ॥
(५४,२.३) उत्थानं चैव केतूनां विनाशायैव हि स्मृतम् । तस्मादाथर्वणैर्मन्त्रैः शमनमारयेद्बुधः ॥
(५४,२.४) माहेन्द्रूननृतान् रय्द्रून् वौश्वदेवीमथापि वा । उत्पातेषु महाशान्तिं कारयेद्बहुदक्षिणाम् ॥
(५४,२.५) आराधिताः शमं यान्ति तदुत्पाता न संशयः । होमैर्जप्यैश्च विविधैर्दानैश्चबहुरूपकैः ॥
(५४,२.६) तस्य यत्र शिरो देशे तत उत्थाय वाव्रजेत् । धनं वा सर्वमुत्सृज्य मृत्योर्मुच्येता वा न वा ॥
(५४,२.७) दत्त्वा वा पृथिवीं सर्वां राजा शान्तिं नियच्छति ॥

(परिशिष्ट_५५. ऋतुकेतुलक्षणम्)
(५५,१.१) ओमृतुकेतून् प्रवक्ष्यामि यथावदनुपूर्वशः । यावन्तो यस्य पुत्राः स्युः कुर्युर्यच्चोदिता दिवि ॥
(५५,१.२) सर्वे ते धरणीजाता मासा ये देवनिर्मिताः । आदित्यरश्मिभिर्बद्धाः सौरे तिष्ठन्ति मण्डले ॥
(५५,१.३) दश वै वारुणास्तत्र सूर्यपुत्रास्तु विंशतिः । चतुर्विंशतिराग्नेया यमपुत्रा नव स्मृताः ॥
(५५,१.४) अष्टादश च कौबेरा वायुपुत्रास्तु विंशतिः । एषा संख्या तु केतूनां शतमेकोत्तरं स्मृतम् ॥
(५५,१.५) श्रावणप्रौष्ठपदयोर्वारुणांस्तु विनिर्दिशेत् ॥
(५५,१.६) [आराधिताः शमं यान्ति तदुत्पाता न संशयः । होमैर्जापैश्च विविधैर्दानैश्च बहुरूपकैः ॥]
(५५,१.७) आवाहयेत्ततो मेघान् पूर्णां कुर्याद्वसुंधराम् । उन्मत्ताः सरितो यान्ति जलवेगसमाहिताः ॥
(५५,१.८) धान्यं समर्घतां याति ईतयो न भवन्ति हि उदये वारुणानां तु एतद्भवति लक्षणम् ॥
(५५,२.१) अश्वयुजि कार्त्तिके च सूर्यपुत्रान् विनिर्दिशेत् । तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ॥
(५५,२.२) ततो दहति दीप्तांशुः सर्वान्नानि दिवाकरः । म्रियन्ते च तथा गावः श्वापदाश्च विशेषतः ॥
(५५,२.३) विषं च प्रबलं तत्र सर्वदम्ष्ट्रिषु दारुणम् । उदये सूर्यपुत्राणामेतद्भवति लक्षणम् ॥
(५५,३.१) मार्गशीर्षे च पौषे च अग्निपुत्रान् विनिर्दिशेत् । तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ॥
(५५,३.२) अग्निर्दहति राष्ट्राणि हरितानि वनानि च विद्रवन्ति ततो देशाः समन्ताद्भयपीडिताः ॥
(५५,३.३) कस्मिंश्चिज्जायते क्षेमं कस्मिंश्चिज्जायते भयम् । उदये ह्यग्निपुत्राणामेतद्भवति लक्षणम् ॥
(५५,४.१) माघफाल्बुनयोर्मध्ये यमपुत्रान् विनिर्दिशेत् । तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ॥
(५५,४.२) शीघ्रं भवति दुर्भिक्षं हाहाभूतमचेतनम् । छर्दिज्वरातिसाराश्च ग्लानिश्चैवाक्षिवेदना ॥
(५५,४.३) उदये यमपुत्राणामेतद्भवति लक्षणम् ॥
(५५,५.१) चैत्रवैशाखयोर्मध्ये कौबेरांस्तु विनिर्दिशेत् । तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ॥
(५५,५.२) उच्छ्रितैर्ध्वजवेदीभिरुच्छ्रितैर्ध्वजतोरणैः । हविर्धूमाकुला तत्र दृश्यते वसुधा तदा ॥
(५५,५.३) त्रिविष्टपं समापन्नस्तदा शक्रो महीपतिः । एवं प्रज्ञास्तु मन्यन्ते कुबेरे ग्रहमागते ॥
(५५,५.४) उदये तु कुबेराणामेतद्भवति लक्षणम् ॥
(५५,६.१) ज्यैष्ठे चैव तथाषाढे वायुपुत्रान् विनिर्दिशेत् । तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ॥
(५५,६.२) वायन्ति च महावाता महायुद्धं महाभयम् । भज्यन्ते च महावृक्षास्तोरणाट्टालकानि च ॥
(५५,६.३) गृहाणि रामणीयानि क्षयं यान्ति जलानि च । उदये वायुपुत्राणामेतद्भवति लक्षणम् ॥
(५५,६.४) ऋतुगतमुदयनमेषां महौजसां वारुणादिकेतूनाम् । जानाति यः फलं च प्रोत्कृष्टाः संपदस्तस्य ॥

(परिशिष्ट_५६. कूर्मविभागः)
(५६,१.१) ओं कृत्तिकारोहिणीसौम्यं मध्यं कूर्मस्य निर्दिशेत् ॥ शेषानृक्षविभागे तु त्रिकं प्रति विनिर्दिशेत् ॥
(५६,१.२) साकेतमिथिले मेकलालयावहिछत्त्रनागपुरं काशिपारियात्रकुरुपाञ्चालाः ॥ अथ कोसलकौशाम्बीतीरं पाटलिपुत्रं कलिङ्गपुरपृथिवीमण्डलमध्येऽभिहतेऽभिहन्यात् ॥
(५६,१.३) अङ्गवङ्गकलिङ्गमागधमहेन्द्रगवसमम्बष्ठाः ॥ भागाः पूर्वसमुद्राः शिरस्यभिहतेऽभिहन्यात् ॥
(५६,१.४) खशभद्रा समतटसमवर्धमानकवैदेहा गान्धाराः ॥ कोसलतोसलवेणातटसज्जपुरा माद्रेयतामलिप्ता दक्षिणपूर्वे हतेऽभिहन्यात् ॥
(५६,१.५) आवन्त्यका विदर्भा मत्स्या चकोरभीम[गम्]रथा यवनवलयकान्तीसिंहललङ्कुणनासिक्यकर्मणोयामिमहिनर्मदभृगुकच्छा दक्षिणपश्चाद्धतेऽभिहन्यात् ॥
(५६,१.६) सह्यगिरिवैजयन्ती कुण्कुणनासिक्यकर्मणोयामिमहिनर्मदभृगुकच्छा दक्षिणपश्चाद्धतेऽभिहन्यात् ॥
(५६,१.७) सौराष्ट्रसिन्धुसौवीरमालवा रामराष्ट्रकान्वीतान् ॥ आनर्तगच्छयन्त्रान् पुच्छेऽभिहतेऽभिहन्यात् ॥
(५६,१.८) सारस्वतांस्त्रिगर्तान्मत्स्यान्नान्वारबाल्हिकान् ॥ मथुरापुरंगदेशानुत्तरभागे हतेऽभिहन्यात् ॥
(५६,१.९) ब्रह्मावर्तं शतद्रुहिमवन्तं पर्वतं च मैनाकं काश्मीरं चैव तथा उत्तरपार्श्वे हतेऽभिहन्यात् ॥
(५६,१.१०) नेपालकामरूपं च विदेहोदुम्बरं तथा ॥ तथावन्त्यः कैकयश्च उत्तरपूर्वे हतेऽभिहन्यात् ॥

(परिशिष्ट_५७. मण्डलानि)
(५७,१.१) विशाखे कृत्तिकाः पुष्यः पूर्वौ प्रोष्ठपदौ तथा । भरण्यश्च मघाश्चैव फल्गुन्यौ प्रथमे तथा ॥
(५७,१.२) यद्यत्र चलते भूमिर्निर्घातोल्कास्त एव वा । अशरीराश्च नर्दन्ते कम्पन्ते दैवतानि च ॥
(५७,१.३) आदित्यो वात्र गृह्येत सोमो वाप्युपरज्यते । आग्नेयं तद्विजानीयाद्दुर्भिक्षं चात्र निर्दिशेत् ॥
(५७,१.४) अल्पक्षीरास्तथा गावो अग्नेर्व्याधिश्च जायते । पुराणि देशा ग्रामाश्च पीड्यन्ते ह्यग्निना तदा ॥
(५७,१.५) पीड्यन्ते चाग्निकर्माणो अग्निवेशाश्च ये नराः । पित्तज्वरस्तथा श्वासह प्रजाः पीडयते तदा ॥
(५७,१.६) अक्षिरोगास्तथा घोराः पुरुषाणां विशेषतः । आपगाश्चात्र शुष्यन्ति न च सस्यवती मही ॥
(५७,१.७) तप्यते च तदा भूमिर्न च देवोऽभिवर्षति । नीललोहितपर्यक्ता अफलाः पादपास्तथा ॥
(५७,१.८) दुर्भिक्षं मरको व्याधिः परचक्रभयं तथा । एतै रूपैस्तु विज्ञेयमाग्नेयं चलदर्शनम् ॥
(५७,२.१) हस्तोऽश्विन्यौ तथा चित्रा ऋक्षमर्यमदैवतम् । ब्राह्मं मृगशिरः स्वातिर्वायव्यं मण्डलं स्मृतम् ॥
(५७,२.२) यद्यत्र चलते भूमिर्निर्घातोल्कास्त एव वा । अशरीराश्च नर्दन्ते कम्पन्ते दैवतानि च ॥
(५७,२.३) आदित्यो वात्र गृह्येत सोमो वाप्युपरज्यते । वायव्यं तद्विजानीयादक्षेमं चात्र निर्दिशेत् ॥
(५७,२.४) पांसुवर्षं तदा घोरं क्षीरे सर्पिर्न विद्यते । प्रासादतोरणादीनि प्रपतन्ति महीतले ॥
(५७,२.५) मद्रका यवनाश्चैव शकाः काम्बोजबाल्हिकाः । गन्धाराश्च विनश्यन्ति एतैः सार्धं तथा किल ॥
(५७,२.६) गजा वाजिन उष्ट्राश्च वृका नकुलचेटकाः । पीड्यन्ते व्याधिना सर्वे ये च शस्त्रोपजीविनः ॥
(५७,२.७) पुरे श्रेष्ठा विनश्यन्ति गणेषु गुणसंमिताः । गृहाणि रमणीयानि विशीर्यन्ते च सर्वशः ॥
(५७,२.८) आयासश्चोल्बणस्तत्र शस्त्रभ्रामः समन्ततः । एतै रूपैस्तु विज्ञेयं वायव्यं चलदर्शनम् ॥
(५७,३.१) आर्द्राश्लेषास्तथा मूलन् पूर्वाषाढास्तथैव च । वारुणं रेवती चैव सूर्यदैवत्यमेव च ॥
(५७,३.२) यद्यत्र चलते भूमिर्निर्घातोल्कास्त एव वा । अशरीराश्च नर्दन्ते कम्पन्ते दैवतानि च ॥
(५७,३.३) आदित्यो वात्र गृह्येत सोमो वाप्युपरज्यते । वारुणं तद्विजानीयात्सुभिक्षं चात्र निर्दिशेत् ॥
(५७,३.४) बहुक्षीरास्तथा गावो नागाश्च फलिनस्तथा । शान्तारयः प्रजाः सर्वा गोमिनो जङ्गलं पयः ॥
(५७,३.५) जलोपजीविनः सर्वे प्राप्नुवन्त्यृद्धिमुत्तमाम् । खेचराश्चात्र दृश्यन्ते स्निग्धवर्णाः समन्ततः ॥
(५७,३.६) न्यस्तशस्त्राश्च राजानो ब्रह्मक्षत्रं च वर्धते । एतै रूपैस्तु विज्ञेयं वारुणं चलदर्शनम् ॥
(५७,४.१) ज्येष्ठानुराधा श्रवणः श्रविष्ठाश्च पुनर्वसू । प्राजापत्यमाषाढाश्च माहेन्द्रं मण्डलं स्मृतम् ॥
(५७,४.२) यद्यत्र चलते भूमिर्निर्घातोल्कास्त एव वा । अशरीराश्च नर्दन्ते कम्पन्ते दैवतानि च ॥
(५७,४.३) आदित्यो वात्र गृह्येत सोमो वाप्युपरज्यते । माहेन्द्रं तद्विजानीयात्सुक्षेमं चात्र निर्दिशेत् ॥
(५७,४.४) गावः समग्रवत्साश्च स्त्रियः पुत्रसमन्विताः । कीटा व्याला म्रियन्ते च ये चान्ये स्वेदजन्तवः ॥
(५७,४.५) वेदाध्ययनयज्ञेषु ब्राह्मणा निरताः सदा । विट्क्षत्रियाः स्वकर्माणः शूद्राः शुश्रूषकारकाः ॥
(५७,४.६) विंशतिशतं त्वाग्नेयं वायव्यं नवतिं चलेत् । अशीतिं चलते त्वैन्द्रं वारुणं सप्ततिं चलेत् ॥
(५७,४.७) आग्नेयो भूमिकम्पो यः स द्विमासाद्विपच्यते । वारुणस्तु फलं सद्यो वायव्यस्तु त्रिमासिकः ॥ माहेन्द्रस्य फलं विद्यान्मासमर्धं तथैव च ॥

(परिशिष्ट_५८. दिग्दाहलक्षणम्)
(५८,१.१) ओमत ऊर्ध्वं च दिग्दाहान् कीर्त्यमानान्निबोधत । यथा दिशः प्रदह्यन्ते तासां दाहफलं च यत् ॥
(५८,१.२) इन्द्रोऽग्निर्मरुतश्चैव प्रदहन्ति दिशो दश । शुभाशुभाय लोकानां कृतान्तेनाभिचोदिताः ॥
(५८,१.३) यदास्तमित आदित्ये वह्नेर्ज्वाला प्रदृश्यते. दिशां दाहं तु तद्विद्याद्भार्गवस्य वचो यथा ॥
(५८,१.४) नानारागसमुत्थानां नानाविधफलोदयाः । पांशुनेव च संछन्ना दिग्दाहायोगमाश्रिताः ॥
(५८,१.५) दिशः सर्वाः प्रदह्यन्ते अक्षेमाय फलाय च । अवदाहादृते दाहं यदि स्निग्धाः प्रदर्शनाः ॥
(५८,१.६) तमोधूमरजस्का ये दीप्तद्विजमृगावृताः । प्रदीप्तलक्षणाः सत्याः सर्व एवाहितावहाः ॥
(५८,१.७) तथा कनककिंजल्कतडित्कल्पाः शिवाश्च ये । रूक्षाः कृष्णाथ माञ्जिष्ठा बन्धुजीवकवच्च ये ॥
(५८,१.८) श्वेता रक्ताश्च पीताश्च दाहाः कृष्णाश्च वर्णतः । ब्रह्मक्षत्रियविट्शूद्रविनाशाय प्रकीर्तिताः ॥
(५८,१.९) रक्ताः शस्त्रभयं कुर्युर्पीता व्याधिप्रकोपनाः । अग्निवर्णास्तथा कुर्युरग्निशस्त्रभयं महत् ॥
(५८,१.१०) सपीतपरुषश्यामा ये च वारुणसंनिभाः । सर्व एव क्षुधारोगमृत्युशस्त्राग्निकोपनाः ॥
(५८,१.११) ऋतौ तु वर्षं तीव्रं स्यात्सैन्यविद्रवमेव च । भृशमुद्द्योतनी संध्या कुरुते वा ग्रहागमम् ॥
(५८,१.१२) दिक्षु दग्धासु पीड्यन्ते यथादिग्देशभक्तयः । शकुनज्ञाननिर्दिष्टा ये च तत्राधिकारकाः ॥
(५८,१.१३) यथोक्ता तु महाशान्तिर्यथोक्तविधिना कृता । सर्वं दिग्दाहजं घोरं शमयेत्सा सदक्षिणा ॥

(परिशिष्ट_५८ . उल्कालक्षणम्)
(५८ ,१.१) ओमुल्कादयो हि निर्दिष्टा निर्घातास्तु पुरात्र ये । तेषामिदानीं वक्ष्यामि विशेषांस्तु पृथक्पृथक् ॥
(५८ ,१.२) अङ्गानामान्तरिक्षाणां यदङ्गमभिपूजितम् । तदुल्कालक्षणं श्रीमदङ्गं कार्त्स्न्येन वक्ष्यते ॥
(५८ ,१.३) अप्रधृष्याणि यानि स्युः शरीराणीन्द्रियैर्दृढैः । क्षमावन्ति विशुद्धानि सत्यव्रतरातानि च ॥
(५८ ,१.४) तान्येतानि प्रकाशन्ते भाभिर्वितिमिरं नभः । समन्ताज्ज्वलयन्तीह यस्मादसुकरं नभः ॥
(५८ ,१.५) तानि भावक्षयाद्भूयः प्रच्युतानि नभस्तलात् । क्षितौ सलक्षणान्येव निपतन्तीह भार्गव
(५८ ,१.६) तेषां निपततां तत्र यत्रयत्रोपलक्ष्यते । तत्रतत्रैव विविधं प्रजानां जायते भयम् ॥
(५८ ,१.७) रूपवर्णप्रभास्नेहप्रमणाकृतिसंगमैः । तेषां बलाबलं ज्ञात्वा गुणदोषः प्रवक्ष्यते ॥
(५८ ,१.८) तारा धिष्ण्यास्तथोल्काश्च विद्युतोऽशनयस्तथा । विकल्पाः पञ्चधा चैषां परस्परबलोत्तराः ॥
(५८ ,१.९) तत्र शब्देन्ब महता विस्वरेण विकर्षिणा । महाचक्रमिवागच्छदायताक्षा नभस्तलात् ॥
(५८ ,१.१०) मनुष्यमृगहस्त्यश्ववृक्षाश्मपथवेश्मसु । पतन्त्यशनयो दीप्ताः स्फोटयन्त्यो धरातलम् ॥
(५८ ,२.१) सहसैवोपपन्नेषु भृशं तदनुयायिना । सत्त्वविभ्रंशिनात्यर्थं शब्देनोद्वेगकारिणा ॥
(५८ ,२.२) ज्वालाभारविसर्पिण्यः प्रकृत्या दुःखदर्शनाः । विद्युतो निपतन्त्याशु जीवेषु वनराशिषु ॥
(५८ ,२.३) तीक्ष्णशूलविशालाग्रा पतन्ती चापि वर्धते । प्रकृत्या पौरुषी तूल्का तस्या भेदान्निबोधत ॥
(५८ ,२.४) कृशा नारीव दीप्ता स्याच्छिखा साङ्गारवर्षिणी । उद्द्योतयन्ती गगनं काञ्चनेनैव वर्मणा ॥
(५८ ,२.५) पीतेन पाण्डुना वापि धूमधूमारुणेन वा । विशीर्यता महाभ्रेण महता चानुषङ्गिणा ॥
(५८ ,२.६) वंशगुल्मनिभाश्चापि काश्चिदिन्द्रध्वजोपमाः । काश्चिदिन्द्रायुधप्रख्याः काश्चिन्मण्डलसंस्थिताः ॥
(५८ ,२.७) छत्त्रवच्चापु दृश्यन्ते चक्रवन्निपतन्ति च । दण्डवच्चापि तिष्ठन्ति प्रधावन्ति च सर्पवत् ॥
(५८ ,२.८) प्रकीर्णेन कलापेन खे गच्छन्तीव बर्हिणः । अभ्युच्छ्रितेन पुच्छेन याति का चिद्धरातलम् ॥
(५८ ,२.९) तेजांसि विकिरन्त्यन्याः प्रधावन्ति च गोलवत् ॥
(५८ ,३.१) प्रनृत्तप्रेतमार्जातवराहानुगतास्तथा । सस्वना निःस्वनाश्चापि पतन्ति धरणीतले ॥
(५८ ,३.२) एतासां फलमुल्कानां प्रवक्ष्यामि पृथक्पृथक् । तन्तुनैव हि संबद्धा उह्यमानेव वायुना ॥
(५८ ,३.३) पतन्ती दृश्यते का चित्का चिद्भ्रमति चाम्बरे । उल्कासंघैः परिवृता का चिद्याति धरातलम् ॥
(५८ ,३.४) सामान्यं तु फलं तासां तत्समासेन वक्ष्यते । वराहप्रेतशार्दूलसिंहमार्जारवाराइः ॥
(५८ ,३.५) तुल्या भयावहा उल्का निकृष्टाहिनिभा च या । शूलपट्टिशशक्त्यृष्टिमुद्गरासिपरश्वधैः ॥
(५८ ,३.६) वृष्ट्याकारेण तुल्याश्च वृक्षाभाश्च विगर्हिताः । पद्मशङ्खेन्दुवज्राहिमत्स्यध्वजनिभाः शुभाः ॥
(५८ ,३.७) श्रीवृक्षस्वस्तिकावार्तहंसद्विरदवर्चसः । ज्वलिताङ्गारसंकाशा जिह्मगा अथ शीघ्रगाः ॥
(५८ ,३.८) विना पुच्छावकाशेन ह्रस्वेनातिकृशेन वा । दशान्तराणि धनुषः पुच्छं चापि प्रदृश्यते ॥
(५८ ,३.९) उल्काविकारो बोद्धव्यो धिष्ण्य इत्यभिसंज्ञितः । यस्तु शुक्लेन वर्णेन वपुषा पेलवेन वा ॥
(५८ ,३.१०) पद्मतन्तुनिकाशेन धूमराजीनिभेन वा । उल्काविकारः सोऽप्युक्तस्तारका नामनामतः ॥
(५८ ,३.११) एवं पञ्चविधा ह्येताः शौनकेन प्रकीर्तिताः । स्वर्गच्युतानां पततां लक्षणं पुण्यकर्मणाम् ॥
(५८ ,४.१) एतासामिन्द्रशिरसि पतनं नृपतेर्भयम् । देवतार्चासु पतने राजराष्ट्रभयं भवेत् ॥
(५८ ,४.२) पुरद्वरे पुरक्षोभ इन्द्रकीले जनक्षयः । ब्रह्मायतनघातेषु ब्राह्मणानामुपद्रवः ॥
(५८ ,४.३) चैत्यवृक्षाभिघातेषु सत्कृत्यानां महद्भयम् । द्वारे चायुःक्षयं विद्याद्गृहे तु स्वामिनो भयम् ॥
(५८ ,४.४) गोष्ठेषु गोमिनां विद्यात्कर्षकाणां खलेषु च । गृहेषु राज्ञां जानीयाद्भेषु तद्भक्तिनां भयम् ॥
(५८ ,४.५) आशाग्रहोपघातेषु तद्देश्यानां तपस्विनाम् । अधोमुखीनृपं हन्याद्ब्राह्मणानूर्ध्वगामिनी ॥
(५८ ,४.६) तिर्यग्गा राजपत्नीं च श्रेष्ठिनः प्रतिलोमनी । वंशगुल्मनिभा राष्ट्रं नृपमिन्द्रध्वजोपमा ॥
(५८ ,४.७) गजमिन्द्रायुधप्रख्या पुरं मण्डलसंस्थिता । मन्त्रिणश्चक्रसंस्थाना छत्त्राकारा पुरोधसम् ॥
(५८ ,४.८) मयूरपुच्छानुगता कुर्यादुल्का जलक्षयम् । विलीयमाना नभसि पिबत्युल्का पयोधरान् ॥
(५८ ,४.९) स्फुलिङ्गान् विसृजन्त्यो याः प्रधावन्ति समन्ततः । गोलवच्च प्रधावन्ति तासु राष्ट्रभयं भवेत् ॥
(५८ ,४.१०) उल्कासंघैः परिवृता याः पतन्ति नभस्तलात् । अनुसारिण्य उल्कास्ता राजराष्ट्रभयावहाः ॥
(५८ ,४.११) प्रेतानुगतमार्गाश्च वराहानुगताश्च याः । क्रव्याग्निव्यालरूपाश्च ता जनक्षयकारिकाः ॥
(५८ ,४.१२) क्षेवेडितास्फोटितोत्क्रुष्टा गीतवादित्रनिस्वनाः । उल्कापातेषु बोद्धव्या राजराष्ट्रभयावहाः ॥
(५८ ,४.१३) सस्वना दारुणाः संध्यावायोश्च प्रतिलोमगाः । नभो मध्यं च या यान्ति याश्च कुर्युर्गतागतम् ॥
(५८ ,४.१४) हिनस्ति शुक्ला शिरसा मध्येन क्षतजप्रभा । पार्श्वाभ्यां पीतका हन्ति कृष्णोल्का पुच्छयोगिनी ॥
(५८ ,४.१५) शुक्ला देवनृपान् हन्यात्क्षत्रियान् क्षतजप्रभा । पीता वैश्योपघाताय शूद्रान् हन्यात्सितेतरा ॥
(५८ ,४.१६) पतन्त्यो नोपलक्ष्यन्ते कर्म तासां प्रकाशते । क्षितावशनयो यत्र तत्र नास्ति भयागमः ॥
(५८ ,४.१७) सतारा निपतन्त्यन्या मारुतप्रतिलोमगाः । भवन्ति विद्युतो नेष्टा इष्टाश्च स्युरतोऽन्यथा ॥
(५८ ,४.१८) तारा धिष्ण्याश्च बोद्धव्याश्चिरान्मृदुफलोदयाः । तासामपि च भूयिष्ठं पतनं दोषकारकम् ॥
(५८ ,४.१९) यतोयतो विकाराः स्युर्निपतन्त्यतिमात्रशः । ततस्ततो नृपो यायाद्दैवो मार्गः स उच्यते ॥
(५८ ,४.२०) निमित्तेषु महाशान्तिमुल्कायां च विशेषतः । कृत्वा सिद्धिमवाप्नोति उल्कादोषाच्च मुच्यते ॥

(परिशिष्ट_५९. विद्युल्लक्षणम्)
(५९,१.१) अत ऊर्ध्वं प्रवक्ष्यामि विद्युल्लक्षणमुत्तमम् । वर्णरूपविकारांश्च देशभागाञ्शुभाशुभान् ॥
(५९,१.२) चतुर्थीं पञ्चमीं चैव प्रतीक्षेत सदा शुचिः । आषाढशुद्धे नियतं विद्युद्दर्शनमद्भुतम् ॥
(५९,१.३) अतिवृष्टिमनावृष्टिं भावाभावौ तथैव च । सर्वसस्येषु निष्पत्तिर्विद्युतो दर्शने नरः ॥
(५९,१.४) ऐन्द्र्यां चेत्स्यन्दते विद्युदैन्द्रस्थश्चापि मारुतः । सुभिक्षं क्षेममारोग्यं निरीतिं च विनिर्दिशेत् ॥
(५९,१.५) आग्नेय्यां चेदुभौ स्यातां भयं शस्त्राग्निवृष्टिह्तः । याम्यायां विषमारिश्च व्याधिमृत्युभयं तथा ॥
(५९,१.६) कनीयसी तु नैरृत्यां तथा बह्वीतिका समा । मध्यमा सस्यसंपत्तिर्वारुण्यां व्याधिसंकुला ॥
(५९,१.७) पतंगदंशमशका वायव्यां मध्यसपदः । अतिवारिभयं विद्यात्सौम्यायां भूरिसंपदः ॥
(५९,१.८) निरीतिः सस्यसंपत्तु प्रधानाइश्यां मनोरमा । प्रतिलोमेषु वातेषु ईतिबाहुल्यमादिशेत् ॥
(५९,१.९) अनुलोमेषु वातेषु निरीतिं तु समादिशेत् । शुभायां स्यन्दमानायामनिष्टा स्यन्दते यदि ॥
(५९,१.१०) संपद्यते महासस्यान्महांश्चेत्स्यादवग्रहः । अशुभा स्यन्दते पूर्वं यदि पश्चाच्च शोभना ॥
(५९,१.११) सुवृष्टिमेव तत्राहुर्न च सस्यं समृध्यति । यदा तु सर्वाः स्यन्दन्ते विषमां वृष्टिमादिशेत् ॥
(५९,१.१२) बहुलायां विद्युति तु बहुवारिभयं भवेत् । सविद्युतः सस्तनितो दर्शयन्ति यदा शुभाम् ॥
(५९,१.१३) पूर्वोत्तरां दिशं मेघाः सुवृष्टिं तां विजानते । पूर्वतः पूर्ववर्षेषु दृश्यन्ते यदि तोयदाः ॥
(५९,१.१४) प्रदक्षिणावर्तशुभाः सुवृष्टिमिति निर्दिशेत् । आग्नेयेष्वतिवृष्टिः स्यात्सस्यं चापि विपद्यते ॥
(५९,१.१५) विषमा वृष्टिर्याम्येषु व्याधिं मृत्युं च निर्दिशेत् । बह्वीतिका नैरृतेषु समूलफलदायिनी ॥
(५९,१.१६) वारुणेषु पयोदेषु मध्यमं सस्यमादिशेत् । वायव्यां प्रथमं वर्षं यत्र वर्षति वासवः ॥
(५९,१.१७) तत्रातिवृष्टिर्भवति स्वल्पबीजानि वापयेत् । वर्णस्नेभोपपन्नास्तु पूर्ववृष्ट्यां पयोधराः ॥
(५९,१.१८) सौम्यां यत्र प्रवर्षेयुस्तत्र सर्ववृष्ट्यां पयोधराः ॥
(५९,१.१९) इत्येतत्पूर्ववर्षेषु लक्षणं विद्युतां स्फुटम् । वर्षारावगतं सर्वं यथावत्परिकीर्तितम् ॥
(५९,१.२०) शुभेष्वपि महाशान्तिरविघाताय वोच्यते । अशुभेषु समर्घाय तस्मात्सर्वेषु शान्तिकमिति ॥

(परिशिष्ट_६०. निर्घातलक्षणम्)
(६०,१.१) अष्टौ भवन्ति निर्घातास्तेषामिन्द्रः प्रशस्यते । पूर्वेण वृष्टिं सस्यं च राजवृद्धिं च निर्दिशेत् ॥
(६०,१.२) पूर्वोत्तरे सुभिक्षं तु भूमिलाभस्तथोत्तरे । अपरोत्तरे चौरभयं वाजिनां चाप्युपद्रवः ॥
(६०,१.३) पश्चिमायां भयं राज्ञो जलजातिश्च पीड्यते । नैरृते सस्यगोस्त्रीणां गणानां च महद्भयम् ॥
(६०,१.४) दक्षिणे राजपीडा स्यादायुश्चात्र विनिर्दिशेत् । आनर्तस्य भयं विद्याद्यदि स्यात्पूर्वदक्षिणः ॥
(६०,१.५) स योजनपरः शब्दो निर्घातस्य विशाम्यति । सर्वत्र च भयं विद्यात्तत्र यत्र विशाम्यति ॥
(६०,१.६) भये रौद्रीं प्रकुर्वीत अभयां वाभयप्रदाम् । तया शाम्यन्ति चोत्पाताः सुखं चात्यन्तिकं भवेत् ॥