सामग्री पर जाएँ

अचिन्त्यविश्वसादाख्यम्

विकिस्रोतः तः
अचिन्त्यविश्वसादाख्यम्
[[लेखकः :|]]

चिन्त्यम्

अचिन्त्यविश्वसादाख्यः

वन्दे वेतण्ड तुण्डं तं चण्डिकासङ्गमण्डलम् ।
शुण्डादण्डेन वन्यानां प्रखण्डयति मण्डनम् ॥ १ ॥

प्रणम्य देवदेवेशं सर्वज्ञं तु सदाशिवम् ।
महेशः परिपप्रच्छ प्रणामाद्युपचारकृत ॥ २ ॥

आदौ महेश्वरात्पृच्छन् श्रीण्ठो गिरिजापतिः ।
ब्रह्मेशस्सत्य देवेशो रुद्रकारणकारणः ॥ ३ ॥

प्रणम्य चरणौ तस्य रत्नगर्भं तथा ब्रवीत् ।
कामिकं योगजं चिन्त्यं कारणं चाजितं तथा ॥ ४ ॥

दीप्तं सूक्ष्मं सहस्रं च अंशुमान्सुप्रभेदकम् ।
विजयं चैव निश्वासं स्वायंभुवमथानलम् ॥ ५ ॥

प्. २)

वीरं च रौरवं चैव मकुटं विमलं तथा ।
चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा ॥ ६ ॥

सिद्धं सन्तान शर्वोक्तं पारमेश्वरमेव च ।
किरणे वातुल चैव * * * * * * * * ? ॥ ७ ॥

पूर्वोक्तदिति ख्यात मसंख्यमुपभेदकम् ।
स विस्तरत्वात् संमार्ज्यै तज्जातस्य * *? मभो ॥ ८ ॥

  • * * * * * * * * * * * * * * * ।?
  • * * * * * * * * * * * * * * * ॥ ९ ॥?


  • * * * * * * * * * * * * * * * ।?
  • * * * * * * * * * * * * * * * ॥ १० ॥?


प्. ३)

प्रकाशितं मयानन्दिंस्तव स्नेहाद्विशेषतः ।
अचिन्त्यं विश्वसादाख्यं ग्रन्थमष्टसहस्रकम् ॥ ११ ॥

ज्ञानयुक्तं क्रियाचर्या-संयुक्तं चोत्तरोत्तरम् ।
निष्क्रियं निर्मलं यच्च हेतु दृष्टान्त वर्जितम् ॥ १२ ॥

तदेतद्बुद्ध्यतां नन्दिन् सम्यक्सन्मार्गमुत्तमम् ।
सम्यग्दर्शन सन्मार्ग ज्ञानपर्याय वाचकम् ॥ १३ ॥

श्रीनन्दिकेश्वर उवाच ।

सहमार्गो भवेत्कस्मात्पुत्रमार्गः कथं विभो ।
दासमार्गो भवेत्केन कथ्यतां भगवन्मम ॥ १४ ॥

ईश्वर उवाच ।

सहमार्गं प्रवक्ष्यामि पंचविंशार्ण गोचरम् ।
रूपध्यान विनिर्मुक्तमरूपध्यानसंयुतम् ॥ १५ ॥

अनेकोपाय संयुक्तमनेकापाय वर्जितम् ।
मायाविवर्जितं यच्च सहमार्गमिति स्मृतम् ॥ १६ ॥

स्वरूपं सहमार्गं च योगपर्याय वाचकम् ।
पुत्रमार्ग स्वभावोऽयं गुरुरेव हि दैवतम् ॥ १७ ॥

चिन्तयेत्स्वगुरुं भक्त्या भक्त्या ज्ञानप्रदं शुभम् ।
सर्वागमोदितं ज्ञानं सर्वैश्वर्यं तथैव च ॥ १८ ॥

कैवल्य पदसंप्राप्तिस्सर्वा गुर्वाज्ञया भवेत् ।
पुत्रमार्ग इति प्रोक्तो दासमार्गस्तथोच्यते ॥ १९ ॥

मुण्डी जटी शिखी वापि वश्यसाधन संयुतः ।
कौपिनमम्बरं ज्ञेयं कथं प्रावरणं तथा ॥ २० ॥

प्. ५)

भिक्षान्नं देहपोषार्थं प्रासादकरणं तथा ।
मठादीनि विधेयानि नैष्ठिका वासकारणात् ॥ २१ ॥

प्रपादिकरणं चैव शिवशास्त्रार्जनं तथा ।
तटाकं कूपयन्त्रं च स्थापयेद प्रयत्नतः ॥ २२ ॥

उद्यानकरणं चैव पुष्प ग्रहणबन्धनम् ।
स्नपनार्थं जलन्देयं देयं देहादिमार्जनम् ॥ २३ ॥

प्रोक्षणं लेपनं चैव त्यादि दासमार्गकम् ।
सन्मार्गं सहमार्गं च पुत्रमार्गमनन्तरम् ॥ २४ ॥

दासमार्गं च भगवन् किं विशिष्टं वद प्रभो ।

ईश्वरः ।

सन्मार्गं तत्वरत्नं हि सर्वतत्वैक नायकम् ॥ २५ ॥

प्. ६)

दासत्व पुत्रमार्गाभ्यां पुत्रमार्गो विशिष्यते ।
तथापि पुत्रमार्गं तु गुरुदेव प्रधानतः ॥ २६ ॥

तस्माच्छ्रेष्टस्तु विज्ञेयः पुत्रमार्गः स्वभावतः ।
एतच्चतुष्टये मार्गे सेव्यस्तन्मोक्षकांक्षिणम् ॥ २७ ॥

यद्यप्येकेन वै न्यूनं मोक्षसोपानभञ्जकम् ।
ऐश्वर्यादिफलं लब्ध्वा पुनर्जन्म प्रपद्यते ॥ २८ ॥

ततश्च ज्ञानयोगं च क्रियाचर्या चतुष्टयात् ।
लब्ध्वा गत्वा प्रकाशित्वा मोक्षात्मी व्रजति क्रमात् ॥ २९ ॥

संपर्केण शिवो ज्ञेयः प्रणयस्तदनन्तरम् ।
शिवस्य प्रीतिदं पौत्रं दासमार्गमनुग्रहम् ॥ ३० ॥

प्. ७)

तस्मात्सर्व प्रयत्नेन चतुष्पादमिदं भवेत् ।
अनुष्ठेयं सदानन्दिन् भोगमोक्षस्य कारणात् ॥ ३१ ॥

मदीयकरसस्थं हि हस्तकं नन्दिकेश्वर ! ।
त्वया मया विशेषत्वाद् दत्तमेतदभीष्टदम् ॥ ३२ ॥

इति चिन्त्योपभेदे अचिन्त्यविश्वसादाख्ये क्रियापादे तन्त्रावतारः प्रथमः
पटलः ॥


प्. ८)

ईश्वरः ॥

आचार्य लक्षणं वक्ष्ये शृणुत्वं नन्दिकेश्वरः ।
ज्ञानयोगक्रियाचर्याः सम्यगाचर्यते यतः ॥ १ ॥

तस्मादाचार्य इत्युक्तः सर्वभूतहिताय वै ।
आचार्यौ द्वौ समाख्यातौ विरक्तः प्रथमो भवेत् ॥ २ ॥

भौतिकश्च द्वितीयः स्यात् प्रथमस्तु विशेषतः ।
आजन्मब्रह्मचारी च यतिश्च तदनन्तरम् ॥ ३ ॥

एवं च यत्तु प्रथमे द्वितीयेऽपि द्वितीयकम् ।
गृहस्थो वानप्रस्थश्च चतुष्टयमुदीरितम् ॥ ४ ॥

जन्म वै द्विविधं प्रोक्तं दीक्षा प्रसवसंज्ञिकौ ।
नैष्ठिको नैष्ठिकश्चैव गृहस्थान्दीक्षयेत्क्रमात् ॥ ५ ॥

प्. ९)

भौतिकस्तु गृहस्थाच्च नान्यद्दीक्षा समाचरेत् ।
भौतिको लिंगं युक्तस्तु तस्य जातिर्न विद्यते ॥ ६ ॥

भार्या सहितवृत्तित्वात् तल्लिङ्गत्वात्तथैव च ।
चिन्तासन्तति संशून्या लोकाचार विमोहितम् ॥ ७ ॥

जातिभेदवशादेव दीक्षयेन्नन्दिकेश्वर ! ।
एतेषां देशिकानां तु लक्षणं शृणु सुव्रत ! ॥ ८ ॥

अहिंसा सत्यवादी च विश्वजीवदया परः ।
क्षमावान्शान्तचित्तश्च निग्रहानुग्रहे महान् ॥ ९ ॥

समाचारयुतो दक्षो जपध्यानपरायणः ।
विज्ञानदीक्षा संयुक्तो गुरुभक्तिविशारदः ॥ १० ॥

प्. १०)

ज्ञानयोगक्रियाचर्या चतुष्पादान्तशास्त्रवित् ।
डम्भ मायाविनिर्मुक्तः क्षुद्रकर्मविवर्जितः ॥ ११ ॥

शिष्याणां गुण दोषज्ञो विज्ञानी च जितेन्द्रियः ।
रागद्वेष विनिर्मुक्तः कृपागुणसमन्वितः ॥ १२ ॥

समयानां तु सर्वेषां ज्ञानसारपरिग्रही ।
अधिष्ठाने त्रियोपेतो गमनत्रय पारगः ॥ १३ ॥

आज्ञात्रय समायुक्तः नादत्रयसमन्वितः ।
शिवानुभूति संयुक्तः संशयच्छिद संशयः ॥ १४ ॥

वश्याकर्षण विद्वेष स्तम्भोच्चाटनमन्त्रवित् ।
ज्ञय कुष्ठादिरोगैश्च वीतः परमसुन्दरः ॥ १५ ॥

प्. ११)

निर्मदो निरहंकारो नृंशस्यो निर्विकल्पकः ।
तमोविहीनः शास्त्रज्ञः परमार्थविचिन्तकः ॥ १६ ॥

एतल्लक्षणसंयुक्तोऽप्याचार्यवर उच्यते ।
भौतिकोऽपि विशेषेण धर्मपत्नीसमन्वितः ॥ १७ ॥

पूर्वोक्त लक्षणोपेतो भौतिकाचार्य उच्यते ॥

इति चिन्त्योपभेदे अचिन्त्यविश्वसादाख्ये क्रियापादे आचार्य लक्षणो द्वितीयः
पटलः ॥


श्रीनन्दिकेश्वरः ।

भगवन्देवदेवेश ! कर्मानाचार्यलक्षणम् ।
वदस्वलोकरक्षार्थं अस्माकं च विशेषतः ॥ १ ॥

ईश्वर उवाच ।

विज्ञानदीक्षारहितो गुरुभक्तिविवर्जितः ।
गुर्वाज्ञालङ्घनश्चापि गुरुदोष विचारकः ॥ २ ॥

गुरुद्रव्याभिलाषी च सर्वद्रव्याभिलाषकः ।
गुरुशुश्रूषणाहीनो गुरुनिन्दासमन्वितः ॥ ३ ॥

गुरोरनिष्टकारी च ज्येष्ठभात्रवमानकृत् ।
क्रोधलोभजलोन्मेष पैशुन्यो डम्भवेषकः ॥ ४ ॥

अनृतो लुब्धकस्तेयो वक्रो मूर्खोपपादकः ।
चपलः करको दुष्टः क्षुद्रकर्मपरिग्रही ॥ ५ ॥

प्. १३)

अहंकारी कृतघ्नश्च समयाचारदूषकः ।
ज्ञानयोग विनिर्मुक्तः क्षयकुष्ठादि रोगवान् ॥ ६ ॥

धूर्तको विषया सक्तो दुश्शीलः कैतवस्तथा ।
ज्ञोरज्ञातिश्च दुर्मानी भक्षको दुर्मुखस्तथा ॥ ७ ॥

एवमादिगुणैर्युक्तो न पूज्यो हि महीतले ।
अस्यैवाचार्य नामत्वमभिषेकं न कारयेत् ॥ ८ ॥

प्रमादादभिषेकं तु कृतं चेद्दोषभाग्भवेत् ।

इत्यनाचार्य लक्षणं नाम तृतीयः पटलः ॥


अथ वक्ष्ये विशेषेण शिष्याणां लक्षणं शृणु ।
अहिंसा सत्य संयुक्तः क्रोधलोभविवर्जितः ॥ १ ॥

सहिष्णुरूर्जितमतिः सर्वक्लेश विवर्जितः ।
आसनं दन्तकाष्ठं च पादप्रक्षालनं तथा ॥ २ ॥

प्रसारणं च पादानां भस्मस्नानमतः परम् ।
तलस्य मर्दनं चैव संग्रामं च विवादनम् ॥ ३ ॥

महासंश्रयणं चापि न कुर्याद्गुरु संनिधौ ।
अतिहासमवष्टम्भं लीलामंगप्रसारणम् ॥ ४ ॥

कटिप्रदेशे हस्तं यो न कुर्याद्गुरुसंनिधौ ।
व्याख्यातं च प्रतिष्ठां च मण्डलं शिष्यसंग्रहे ॥ ५ ॥

प्. १५)

गूर्वाज्ञा प्रकर्तव्य मेकग्रासं पथो यदि ।
करस्फोटं च नृत्तं च गाथागानं च सुप्तकम् ॥ ६ ॥

गण्डकेशविशीर्णत्वं वर्जनं गुरुसंनिधौ ।
धामच्छायां गुरुच्छायां तथैवान्तेन वेदयेत् ॥ ७ ॥

वाचामधुरया चैव गुरवे संनिवेशयेत् ।
गुरोर्गुरौ तु दष्टे तु प्राचार्यान्वन्दयेत्तथा ॥ ८ ॥

दीक्षामुख्येन वा प्रीत्या शुश्रुषा गौरवेण च ।
सतां चैव प्रयच्छेच्च ज्येष्ठत्व गुरुकल्पनात् ॥ ९ ॥

तत्र ज्येष्ठस्तु संपूज्यो गुरुवन्नन्दिकेश्वर ! ।
रात्रौ जले भये मार्गे प्रत्यादेश परो व्रजेत् ॥ १० ॥

प्. १०)

सदाचार्थो गुणग्राह्यो न दोषश्च परिग्रहः ।
गुणग्रामे भवेत्सिद्धि न सिद्धिर्दोषसंग्रहे ॥ ११ ॥

सर्वेषामेव शिष्याणामधिकं स्याद्गुणं शृणु ।
भक्तिविश्वा समद्रोहं गुर्वाज्ञालङ्घनस्थितिः ॥ १२ ॥

श्रद्धा शान्तिः क्षमासत्यं तथा शौचं ततः श्रुतम् ।
कृतज्ञता द्वादशकं यस्य शिष्यस्य विद्यते ॥ १३ ॥

स शिष्याणां प्रधानश्च नास्त्येते ते प्रधानकाः ।
भक्ति युक्तश्च शिष्यश्च न शिक्षयति चेद्गुरुः ॥ १४ ॥

शिष्यज्ञानकृतं पापं गुरोर्भवति निश्चयः ।
तस्मात्सर्वप्रयत्नेन गुणान्सर्वान्परीक्षयेत् ॥ १५ ॥

प्. १७)


अल्पदोषगुणाधिक्ये समये चैव दीक्षयेत् ।
अब्दशुश्रूषणान्ते तु गुणागुणनिरूपणात् ॥ १६ ॥

गुणाधिक्येऽपि सच्छिष्यो दीक्षासंस्कारकादिभिः ।
कुर्यादाचार्यकस्तस्य विज्ञानावधिकं क्रमात् ॥ १७ ॥

दीक्षामात्रेण शिष्योऽपि सर्वदोषविवर्जितः ।
पश्चाद्दोषं समुत्पन्नं मनोवाक्काय कर्मभिः ॥ १८ ॥

व्यसनादिभिरस्येवं तत्सर्वं गुरवे पुनः ।
विज्ञाप्य सर्वदोषं च वन्दयेद्देशिकोत्तमम् ॥ १९ ॥

प्रायश्चित्तविधानं च गुरुः पश्चादुदीरयेत् ।
असंनिधौ गुरोरेवं कर्तव्यं ज्येष्ठसन्निधौ ॥ २० ॥

प्रायश्चित्ताद्भवेच्छुद्धः शुद्धत्वान्मोक्षमाप्नुयात् ॥

इति चिन्त्योपभेदे अचिन्त्यविश्वसादाख्ये शिष्य लक्षणः चतुर्थः पटलः ॥



प्. १९)

मन्त्रोद्धारादिकं गुह्यं वक्ष्येहं रत्नगर्भकम् ।
तत्वार्थमननाद्यादि जगत्त्राणास्त्रमुच्यते ॥ १ ॥

सादाख्य विश्वेमन्त्रार्थः शिवचित्तसमाधिकः ।
वाच्य वाचकता हीनं मनोवाक्काय गोचरम् ॥ २ ॥

अप्रमेयमसादृश्यमप्रपञ्च मलक्षणम् ।
निष्कलं परमं तत्वमनन्तमचलं ध्रुवम् ॥ ३ ॥

अरूपमविकारं च मनोमयमनामयम् ।
अनाधारं स्वसंवेद्यमधिष्ठानं परात्परम् ॥ ४ ॥

अचिन्त्यमव्ययं सूक्ष्मं हेतुदृष्टान्तवर्जितम् ।
शिवतत्वमिदं प्रोक्तं तत्वानां (स्थित्यमपत्ति) ॥ ५ ॥

प्. २०)

  • * * * * * * * * रुणां ज्ञानिनां तथा ।
  • * * शानिमित्ताया स्वेच्छया गृह्यते तनुम् ॥ ६ ॥


स्थित्युत्पत्ति निमित्ताया सा तनुर्द्विविधा भवेत् ।
मध्यमैकं समस्तैकमित्येवं द्विविधं मतम् ॥ ७ ॥

सौवीर्यान्नास्ति तत्कार्ये मांसास्थि रुधिराणि च ।
इन्द्रायुध समाकारं परांशक्त्यैकमूर्तिमात् ॥ ८ ॥

यत्नसंमोदये मध्ये वासिनं शक्तिसंयुतम् ।
स्वांगुष्ठब्रह्मणा तुल्यं तदूर्ध्वं शिवरक्षकम् ॥ ९ ॥

तद्रूपं च सदा भाव्यं यदा चार्यस्वरूपिणम् ।
सिद्ध्यर्थं साधकानां तु सूक्ष्मरूपमिदं परम् ॥ १० ॥

प्. २१)

त्रिणेत्रं चतुर्भुजं रौद्रं नीलोत्पलदलप्रभम् ।
ऊर्ध्वकेशं च पिंगाक्षं विश्वरक्षाकरं परम् ॥ ११ ॥

वस्त्रं नवरसोपेतं ईषद्दंष्ट्रा समायुतम् ।
गुरुरूपमिदं ज्ञेयं शैवानां शिवरूपकम् ॥ १२ ॥

सिध्यर्थं साधकानां तु सूक्ष्मरूपमिदं परम् ।
गुरुदेहमिदं प्रोक्तं सृष्टिदेहमिहोच्यते ॥ १३ ॥

चतुर्वर्णयुतं देवं जटामकुटमण्डितम् ।
तनुरेका चतुर्वक्त्रं नेत्रैर्द्वादशिर्युतम् ॥ १४ ॥

चतुरास्यं चतुर्नासि चतुःश्रोत्रं चतुर्दलम् ।
भुजाष्टक समोपेतं वरणाष्टकसंयुतम् ॥ १५ ॥

प्. २२)

रक्तं कृष्णं तथा श्वेतं श्यामं पूर्वादिवर्णकम् ।
टंकशूलयुतं पूर्वं खड्गं नागं तु दक्षिणे ॥ १६ ॥

पाशांकुशयुतं सौम्यं पश्चिमं वरदाभयम् ।
दिगम्बरं समं देवं चतुर्वक्त्रसमायुतम् ॥ १७ ॥

सर्वाभरणसंयुक्तं दिव्यमालाविभूषितम् ।
दिव्यगन्धानुलिप्तांगमासनं सर्वतो मुखम् ॥ १८ ॥

सन्मार्गं शैवमित्युक्तं शिवमुखं भवेत् ।
सन्ध्याख्यं दक्षिणं प्रोक्तं पिनाकं पश्चिमं भवेत् ॥ १९ ॥

उत्तरं वैष्णवं प्रोक्तं इच्छाज्ञानक्रियादिभिः ।
इच्छाज्ञानक्रियाशक्ति सन्मेसादाख्य संभवेत् ॥ २० ॥

प्. २३)

एकैकं पंचधा ज्ञेयं इशानादीनि पूर्वके ।

  • * * * * * * * * * शं चामरान्वितम् ॥ २१ ॥


पञ्चवक्त्रयुतं प्रोक्तं इच्छाज्ञान क्रियादिभिः ।
इच्छाज्ञानक्रिया शक्तिः समे सादाख्य संभवेत् ॥ २२ ॥

एकैकं पंचधा ज्ञेयमीशानादीनि पूर्वके ।

  • * * * * * * र जटामकुटमण्डितम् ॥ २३ ॥


पंचवक्त्रयुतं प्रोक्तमिच्छाज्ञानक्रियादिभिः ।
इच्छाज्ञानक्रियाशक्तिः समे सादाख्य संभवम् ॥ २४ ॥

  • * * * * * न्तेषु प्रतिवक्त्रं त्रिलोचनम् ।

सर्वाभरण संयुक्तं सर्वमालासमन्वितम् ॥ २५ ॥

प्. २४)

शूलं खट्वां तथा वज्रं खड्गं चाभय दक्षिणे ।
पाशांकुशं च नागं च खट्वां वरदं वामके ॥ २६ ॥

दिव्याम्बरधरं देवं दीर्घबाहुं नखोज्वलम् ।
दिव्यगन्धानुलिप्ताङ्गं दिव्यमालाविभूषितम् ॥ २७ ॥

मध्यमं तत्वसिद्धान्तं सन्मार्गैकप्रदायकम् ।
अर्घ्यमन्त्रं प्रवक्ष्यामि विविधेन द्विजोत्तम ! ॥ २८ ॥

नादं नादादिमं नादं शान्तामकुटसंयुतम् ।
भयमध्या पर हयमध्याक्षरान्वितम् ॥ २९ ॥

वारुणं वह्निसंयुक्तं मरुत् षष्ठस्वरान्वितम् ।
नवात्मकमिदं मन्त्रं सर्वभूतेष्ववस्थितम् ॥ ३० ॥

प्. २५)

हसक्ष्मालच्युसन्तमौ कारणसायु समन्वितम् ।
आदौ प्रणव संपन्नं बिन्दुनादविभूषितम् ॥ ३१ ॥

व्यक्ताव्यक्तमयं मन्त्रं सादाख्यं मन्त्रकायकम् ।
अर्चने जपकाले तु शिवाय सह योजयेत् ॥ ३२ ॥

  • * * * * * रक्ष्ये द्विभुजं च त्रिलोचनम् ।

कृष्णास्यं चोर्ध्वकेशं च शेषं पूर्ववदाचरेत् ॥ ३३ ॥

मनोन्मन्याकृतिं वक्ष्ये चतुर्बाहु समन्विताम् ।
त्रिणेत्रारुण संकाशां धिक्ष्यं * * * * * * ॥ ३४ ॥

सर्वाभरणसंयुक्ता कौलकंचुक भूषिता ।
पद्मोत्पलधरा देवी वरदाभयपाणिनी ॥ ३५ ॥

प्. २६)

सदाशिवस्य वामांगे ध्यातव्या साधकोत्तमैः ।
पूर्ववत् * * * * * * या नलसमन्वितम् ॥ ३६ ॥

बिन्दुनाद समायुक्तं विरक्तेर्मन्त्रमुत्तमम् ।
शिवमुद्दिश्यरागादि वर्जनं तु विरागिता ॥ ३७ ॥

तस्मात्सदा नमस्कार्या तत्वज्ञानसमन्वितः ।

  • * * शकलायुक्तं यत्रोतान्तस्त्रणीयते (?) ॥ ३८ ॥


नादबिन्दुसमाक्रान्तं विष्णुबीजं परम् विदुः ।
शिवानन्द स्वरूपत्वाद विष्णुर्वन्द्यः सदा बुधैः ॥ ३९ ॥

विष्णुना भिन्नरूपातो विष्णोश्शक्तिरखण्डता ।
सृष्टिस्थित्यन्तमोक्षाय वेदागम विवृद्धये ॥ ४० ॥

प्. २७)

सर्वशास्त्रावताराय भक्त्युत्पत्तिकराय च ।
प्राणिनामुपकाराय सादाख्यं तथ्यमुत्तमम् ॥ ४१ ॥

एकवक्त्रोऽनेकवक्त्रो द्विभुजोऽनेकबाहुकः ।
नानारूपधरो देवो नानावर्ण समन्वितः ॥ ४२ ॥

नानाशास्त्रार्थ संपन्नो नानालीलापरो हरः ।
न यानन्तं समासीनं नृत्तको पंचसौम्यकम् ॥ ४३ ॥

अनेकाकार संयुक्तो देवदेवोऽहिभूषणः ।
जटामकुट संयुक्तः चन्द्रार्धकृतशेखरः ॥ ४४ ॥

वृषध्वजो वृषारूढो भवानी सहितो विभुः ।
सूर्याचन्द्रमसौ नेत्रे वह्निनेत्रं तु पावकम् ॥ ४५ ॥

प्. २८)

क्षिदृग्भूतो महादेवी काञ्चन स्त्रिदशेश्वरः ।
नादं कालसमोपेतं वह्निमारुतसंयुतम् ॥ ४६ ॥

षष्ठस्वरसमायुक्तं बिन्दुनादसमन्वितम् ।
एकं महेशमन्त्रं तु सर्वसिद्धिकरं परम् ॥ ४७ ॥

महेश्वरस्य वामाङ्क विद्यां गौरीं शृणु द्विज ! ।
भवानी श्यामवर्णाभाप्येक वक्त्रा द्विबाहुका ॥ ४८ ॥

पीनस्तना सुवदना पीनोरुजघना परा ।
सर्वलक्षणसंपन्ना सर्वाभरणभूषिता ॥ ४९ ॥

तनुमध्या निम्ननाभि बिम्बोष्ठी चारुलोचना ।
पंचब्रह्म षडंगानि शृणु नन्दिरतन्द्रितः ॥ ५० ॥

प्. २९)

सान्तं तु प्रथमं सद्यस्तृतीयं वामदेवकम् ।
अघोरं पंचमं बीजं पुरुषं रुद्रसंख्यकम् ॥ ५१ ॥

त्रयोदशं भवेदीशं पंचब्रह्ममिहोच्यते ।
सब्रह्मसंहितः शास्त्रैः संहिता मन्त्रकं भवेत् ॥ ५२ ॥

बिन्दुनादयुतास्सर्वे स्वस्वनाम चतुर्थकाः ।
नमस्कारान्त मात्रास्ते तत्तद्ध्यानमतः परम् ॥ ५३ ॥

श्वेतं हैमं तथा नालं लम्बमं स्फटिक प्रभम् ।
सद्यादीनां च वर्णानां त्रिणेत्राश्च चतुर्भुजाः ॥ ५४ ॥

शूलटंकधराश्चैवमभयं वरदान्विताः ।
अघोरं रौद्रमित्युक्तं शेषाः सौम्या इति स्मृताः ॥ ५५ ॥

प्. ३०)

द्वितीयं हृदयं विद्याच्चतुर्थन्तु शिरो भवेत् ।
शिखा षष्ठाक्षरं विद्या द्वादशं कवचं भवेत् ॥ ५६ ॥

नेत्रं चतुर्दशं चैवमस्त्रं षोडशमुच्यते ।
सविसर्गो भवेदस्त्रं सानुस्वारो हृदादयः ॥ ५७ ॥

नमः स्वाहा वषड्वौषड् हुंफडन्ताश्च जातयः ।
हृदाद्यस्त्रान्तकैर्युक्ता मन्त्रास्युस्ते प्रकीर्तिताः ॥ ५८ ॥

श्वेतं पीतं तथा रक्तं कृष्णं चाञ्जनसन्निभम् ।
षडङ्गानां च वर्णाःस्युः त्रिणेत्राश्च चतुर्भुजाः ॥ ५९ ॥

अभयं वरदोपेताः टंकशूलसमन्विताः ।
रक्तं शूलं तथा श्वेतं हेम कृष्णं च कुङ्कुमम् ॥ ६० ॥

प्. ३१)

अरुणं चाञ्जन प्रख्यं क्रमाद्विध्येशवर्णकम् ।
क्षेत्रेशं चैव यक्षेशान् द्वारेशान्परिवर्जयेत् ॥ ६१ ॥

अन्यांश्च सर्वदेवानामासनावरण स्थितान् ।
आदौ प्रणवसंस्थानं हृदये तदनन्तरम् ॥ ६२ ॥

स्वनामाद्यक्षरैर्बीजं नमस्कारं तथान्तिकम् ।
स्वाहान्तं सर्वमन्त्रेषु होमकाले विशेषतः ॥ ६३ ॥

सर्वभूते बलिं मन्त्रं शृणुष्वैकाग्रमानसः ।
आकारं च मुखं सर्वं वर्णानां च ततः परम् ॥ ६४ ॥

ओं आ अ हुं फट्स्वाहान्तं मन्त्रमेतदुदीरयेत् ।
प्रणवादि प्रयोक्तव्यमसुगैतिकमन्त्रकम् ॥ ६५ ॥

प्. ३२)

सर्वत्र च हृदयाय स्वाहान्तं प्रणवादिकम् ।
अग्रमन्त्रमिति प्रोक्तं मन्त्रं पाशुपतं शृणु ॥ ६६ ॥

विद्युत्प्रभं परशुमान विलम्बिदंष्ट्रं
पाशं त्रिशूलमपि वामकरेऽक्षसूत्रम् ।
सर्वे भवे वरदहस्तयुतं त्रिणेत्रं
देवस्य पाशुपतरूपमिदं प्रशस्तम् ॥ ६७ ॥

एवं ध्यात्वा तु मनसा पूजयेत्तु विवक्षणः ।
अस्य मन्त्रं प्रवक्ष्यामि शृणु त्वं नन्दिकेश्वर ॥ ६८ ॥

षष्ठं च स्याद्द्वितीयं तु चतुर्थाभेन संयुतम् ।
द्वितीयाद्यपरोपेतं पंचवामाक्षरान्वितम् ॥ ६९ ॥

शिखामन्त्रेण संयुक्तमेतत्पाशुपतास्त्रकम् ।

हुं फट्कलः ।

कलान्ते नैव चान्तेन चतुर्थस्वरसंयुतम् ॥ ७० ॥

प्. ३३)

क्षुरिकाकलवदेवस्य शुद्धस्फटिक संनिभम् ।
दीक्षाकाले विशेषेण पाशच्छेदेन मन्त्रकम् ॥ ७१ ॥

अघोराख्यस्य मन्त्रस्य सूक्ष्मरूपं शृणु द्विज ।
नादं यान्तसमायुक्तमादौ प्रणव संयुतम् ॥ ७२ ॥

विसर्गान्तं प्रयोक्तव्यमेतद्द्रूपं शृणु द्विज ।

विद्युज्ज्वालानलाभं भुजगपरिकरं तीक्ष्ण दंष्ट्रं त्रिणेत्रं
शूलं पाशं च घण्टा मलमसि च महाखेटकं प्रज्वलन्तम् ।
सर्वे सर्वेऽपि यं कामांकुशमभीतिं दक्षिणे घोरवक्त्रे
पार्श्वे घोरास्त्रमेवं नियमित मनसा भावयेत्सर्वशान्तिम् ॥ ७३ ॥

परचक्र प्रशमने महाव्याधिप्रकोपमे ॥ ७४ ॥

भूमिकम्पे दिशादाहे ध्वंहाहे चण्डमारुते ।
एवमेवादिकालेषु अघोरस्य मुखाग्रतः ॥ ७५ ॥

प्. ३४)

अष्टोत्तरशतं कृत्वा जपेत्सर्वं प्रशाम्यति ।
व्योमव्यापि महामन्त्रं प्रवक्ष्यामि तवाधुना ॥ ७६ ॥

आदौ तु प्रणवं विद्याद् द्वितीयं तु द्वितीयकम् ।
तृतीयं त्रिस्वरं प्रोक्तं चतुर्थं षट्स्वरं भवेत् ॥ ७७ ॥

पञ्चमं यश्चतुर्थं स्यान्मन्त्रमोंकारसंयुतम् ।
अष्टमान्तमिति ख्यातं सप्तमं तु ततः परम् ॥ ७८ ॥

ला क्रमान्त समायुक्तं अकारस्वरसंयुतम् ।
अष्टमं तान्त संयुक्तं तृतीय स्वरभूषितम् ॥ ७९ ॥

नवमं यान्तमेकारं संयुक्तं प्रणवं दश ।
अस्य रूपं प्रवक्ष्यामि समासाच्छृणु सत्तम ॥ ८० ॥

प्. ३५)

त्रिमुखं सप्तपिंछाक्षं क्वचिद्रक्तं क्वचित्सितम् ।
अनुपाद्यमिदं रूपं व्योमाख्यं व्योमरूपिणम् ॥ ८१ ॥

ग्रहणे विषुवे चैव व्यतीपाते त्वनेकधा ।
राजाभिषेक समये युद्धारम्भे स्वजन्मनि ॥ ८२ ॥

उत्सवान्ते च तीर्थान्ते ज्वरमार्यादि पीडिते ।
क्षीरस्नानं मधुस्नानं महास्नानं प्रशस्यते ॥ ८३ ॥

मन्त्रेणानेन नन्दीशं कारयेदमरेश्वरम् ।
दुरिता नाशमायान्ति प्रार्थितं फलमाप्नुयात् ॥ ८४ ॥

सद्यांगानि प्रवक्ष्यामि षडङ्गानि यथाक्रमम् ।
प्रशान्तं हेति हृदयं प्रणवात्मन्नमः शिरः ॥ ८५ ॥

प्. ३६)

शिवाय जं शिखा ज्ञेया साकारन्तु पुरूस्वतम् ।
फट्कारस्तु स्त्रचास्त्र मों दुसो नेत्रमिष्यते ॥ ८६ ॥

हृदादिनेत्र पर्यन्तमामौ सर्वं प्रयोजयेत् ।
यात्रशं हृ च यादीनां विद्यारागं च तादृशम् ॥ ८७ ॥

भॄ इं ज्ञ ड ज्ञां महामन्त्रं बीजमुख्या त्रिरेव हि ।
अंकुरार्पण काले तु शम्भोरासनकल्पने ॥ ८८ ॥

एकांश्च त्रीणि मन्त्रांश्च तत्काले योजयेद्बुधः ।
आद्यन्तं बिन्दुसंयुक्तं ब्रह्मबीजमिति स्मृतम् ॥ ८९ ॥

वायव्यं प्रथमं बीजं कामराजं द्वितीयकम् ।
सौकारं स्यात्तृतीयं तु प्रत्येकं बिन्दुसंयुतम् ॥ ९० ॥

प्. ३७)

प्रणवादि विसर्गान्तं सारस्वतमिति स्मृतम् ।

नेत्रत्रयं स्फटिक घण्टिक साक्षसूत्रं
व्याख्यान पुस्तकविलासितदोश्चतुष्कम् ॥ ९१ ॥

चैतां सितांशुकधरां सितपुष्पग्रन्थां
स्तोत्रम्बुजासनरतां प्रणमामिवाणीम् ॥

यान्तं यान्त समायुक्तं मायाबीज समन्वितम् ॥ ९२ ॥

बिन्दुनाद समायुक्तं श्रीबीजं सर्वसिद्धिदम् ।
दुर्गाबीजं तथा तं तु पंचमस्वरसंयुतम् ॥ ९३ ॥

बिन्दुनादसमायुक्तं सर्वाभीष्टप्रदं भवेत् ।
एकानना त्रिणेत्रा च डाडिमाभा चतुर्भुजा ॥ ९४ ॥

पाशाङ्कुशधरा देवी वरदाभय पाणिका ।
पद्मासन स्थिता सौम्या सर्वाभरणभूषिता ॥ ९५ ॥

प्. ३८)

प्रसन्नवदना रक्त वस्त्रेणैव तु वेष्टिता ।
रुद्रशक्तिरियं विद्या सान्निध्या सर्वसिद्धिदा ॥ ९६ ॥

एतन्मन्त्रस्तु ह्रीं श्रीं क्लीं प्राकारममृतं भवेत् ।
यतश्चन्द्रमिति ख्यातं ह्रां ह्रीं स सूर्य गुण्यते ॥ ९७ ॥

गकारं तु गणेशस्य विश्वविघ्ननिवारणम् ।
वक्रतुण्डाय विद्महे हस्तिवक्त्राय धीमहि ॥ ९८ ॥

तन्नो दन्तिः प्रचोदयात् ।

सर्वान्तं क्षेत्रपालस्य चतुर्दश समन्वितम् ।
बिन्दुनाद समायुक्तं भयं सर्वं सुवर्जितम् ॥ ९९ ॥

अजपा वक्ष्यते नन्दिन् सर्वभूतहिताय वै ।
सर्वप्राणिषु सर्वासां सर्वज्ञानमयी शुभा ॥ १०० ॥

प्. ३९)

वाच्यवाचक रहिता शिवभक्ति समन्विता ।
व्योमाक्षरं च प्रथमं बिन्दुसन्धियुतं भृगुः ॥ १०१ ॥

अजपेति विजानीहि मन्त्राणां गुरुरूपिणी ।
निष्कलं परमं तत्वं सर्वतत्वबहिष्कृतम् ॥ १०२ ॥

अनादिनिधनं शून्यमनौपम्यमकारणम् ।
न शक्यं तन्तनादान्तं नलायाति तमेव च ॥ १०३ ॥

न भावं भावनातीतान्नैवाभावं न चोभयम् ।
नास्तीत्यभावमापन्नं परनिर्वाणमात्मगम् ॥ १०४ ॥

निरामयं निरस्तांगं व्यापकं सर्वतो मुखम् ।
असासन्तमनीशञ्च सर्वकारण कारणम् ॥ १०५ ॥

प्. ४०)

निर्मलं निष्प्रभं चैव निष्क्रियं निरपेक्षकम् ।
सदाशिवं शिवं शक्तिमीशं रुद्रं जनार्दनम् ॥ १०६ ॥

ब्रह्माणमिन्द्रमग्निं च सोमं सूर्यं तथैव च ।
सर्वदेवमयं चैव स्वग्वीं? दैवतं यजेत् ॥ १०७ ॥

मन्त्रश्रवणमात्रेण गुरुं दैवत चिन्तया ।
मन्त्रसिद्धिमवाप्नोति भक्तिविश्वास संयुतः ॥ १०८ ॥

प्रातः काले समुत्थाय गुरुरूपं विचिन्तयेत् ।
सहस्रं गुरुपूजान्तन्नियोगादमितः परम् ॥ १०९ ॥

षट्शतं तु गणेशाय षट्सहस्रं प्रजापतेः ।
विष्णोर्वै षट्सहस्रं तु षट्सहस्तं पिनाकिनः ॥ ११० ॥

सादाख्याय सहस्रं स्यादात्मने सहस्रं यथा सह ।
एति मन्त्रजपादेव सकृत्सन्ततकं जपेत् ॥ १११ ॥

ज्ञानयोगजपादीनि गुरोर्वक्त्रात्प्रसिध्यति ।
एवं विभक्तिमात्रेण दिवारात्रं जपं कृतम् ॥ ११२ ॥

वने वनतरोरग्निर्देहं मूलादि रक्षति ।
ते नैवानन्तरूपेण नाग्निमूलादि रक्षति ॥ ११३ ॥

मलं समूलञ्चरूपं दहत्यात्मानलो मनुः ।
महानदीं हि वा ज्ञासुरतैवान्ययथा भवेत् ॥ ११४ ॥

तथा तरन्ति पाशाब्धिं तान्यथैवात्ममन्त्रिणः ।
ब्रह्मचारी गृही वानप्रस्थो वा अथवा युतः ॥ ११५ ॥

प्. ४२)

परमाक्षरचिन्तं हि विरक्तो विषयी परः ।
ब्रह्महत्याश्च मेधाद्यैः पापपुण्यैर्न लिप्यते ॥ ११६ ॥

ध्यायन्नासाग्र दृष्ट्या तु परमाक्षररूपकम् ।
ध्याता गच्छन्त्स्वयं तिष्ठन् आसीनः स्वपनेऽपि सन् ॥ ११७ ॥

भुञ्जानश्च पिबन्खादन् क्रीडंश्च सार्वकालिकम् ।
क्रुद्धो वा अथवा शान्तो यत्र तत्र स्थितोऽपि वा ॥ ११८ ॥

शुचिर्वाप्यशुचिर्वापि सर्वावस्थासु योगवित् ।
ज्ञानं तत्कुरुते वाच्यं नान्यथा शास्त्र कोटिभिः ॥ ११९ ॥

तत इतो यतोत्यन्तं क्वापि लीनमवस्थितम् ।
गुरौ सन्तोषिते सर्वं तुष्यतीह चराचरम् ॥ १२० ॥

प्. ४३)

विमानिनं विमाने तु ततः सन्तोषयेद्गुरुः ।
गुरुर्माता पिता चैव भ्राता बन्धुजनश्चसः ॥ १२१ ॥

गुरुणापि समो बन्धुर्नास्ति नास्ति ह्यसंशयः ।
लब्ध्वा तु गुरुकारुण्यं शिवाज्ञा संप्रचोदितम् ॥ १२२ ॥

अनायासेन मुक्तिश्च शृणु सद्यैक जन्मनि ।
तस्माज्जनानां रुद्राक्ष कारणं शिवभक्तिमाम् ॥ १२३ ॥

एतन्मात्रेण मुक्तिः स्यात्पुनर्जन्म न विद्यते ।

इत्यचिन्त्य विश्वसादाख्ये पंचमः पटलः ॥


अथ वक्ष्ये विशेषेण करणानां तु लक्षणम् ।
अरणेर्लक्षणं चापि सृक्सृवौ च * * * * ॥ १ ॥

समिधां लक्षणं चैव परिधीनामनन्तरम् ।
प्रोक्षणीपात्र चिह्नं च घृतपात्रस्य लक्षणम् ॥ २ ॥

चरुस्थाल्याश्च तच्चिह्नं आहुतीनां प्रमाणकम् ।
स्नानोदञ्च तथाधारं पुष्पपात्रस्य लक्षणम् ॥ ३ ॥

पाद्यार्घ्याचम पात्राणां धूपपात्रस्य लक्षणम् ।
धूपघण्टा दीपपात्र लक्षणं दर्पणस्य तु ॥ ४ ॥

नीराजनस्य शंखस्य छत्रचामरयोरपि ।
चल प्रसादचिह्नं च वर्धनीशिवकुम्भयोः ॥ ५ ॥


प्. ४५)

सामान्य घटचिह्नं च कलशानां च लक्षणम् ।
पुण्डरीकाक्षचिह्नं च दण्डलक्षणमेव च ॥ ६ ॥

भक्तिकोशस्य चिह्नं च यज्ञसूत्रस्य लक्षणम् ।
पवित्र लक्षणम् तद्वदुष्णीषोत्तर्य लक्षणम् ॥ ७ ॥

रुद्राक्ष लक्षणं चापि जपमालादिलक्षणम् ।
कौपीनलक्षणं चैव लम्बकूर्चस्य लक्षणम् ॥ ८ ॥

लक्षणं जलभाण्डस्य महाघण्टासु लक्षणम् ।
स्थालिका लक्षणं चैव त्रिपादीलक्षणं तथा ॥ ९ ॥

दर्वीसु लक्षणं चैव दीपमालासुलक्षणम् ।
अष्टमङ्गलचिह्नमाभरणानां च लक्षणम् ॥ १० ॥

प्. ४६)

सुवर्ण पुष्पपट्टानां गोलकानां च लक्षणम् ।
लक्षणं योगपट्टस्य चासमानां च लक्षणम् ॥ ११ ॥

नारा च लक्षणं चैव सम्यक् पुस्तकलक्षणम् ।
मानाङ्गुलादिभेदं च तत्तद्भेदं शृणु क्रमात् ॥ १२ ॥

देशिकस्य करे दक्षे मध्याङ्गुल्यास्तु मध्यमम् ।
पर्वायामं तु यत्तुल्यं मात्राङ्गुलमिहोच्यते ॥ १३ ॥

समिद्दर्भे तु संगृह्य पिप्पिलं वारुणं तु वा ।
षोडशाङ्गुलमायामं तत्तारं वसुमात्रकम् ॥ १४ ॥

तदर्धं तद्घनं प्रोक्तं स्थापयेद्धरणीतले ।
गुणवेदाङ्गुलायामं तन्नाहं भूतमात्रकम् ॥ १५ ॥

प्. ४७)

मथनं खदिरेणैव सर्वत्रैव सुवृत्तकम् ।
रंज्वाङ्गुलसमायामं तस्यार्धं तस्य चापलम् ॥ १६ ॥

तदर्धं तद्घनं विद्यात् पार्श्वयोरुभयोरपि ।
मुष्टिरष्टाङ्गुलेनैव तन्नाहं चणमात्रकम् ॥ १७ ॥

मन्थनोपरि संस्थाप्य भ्राम्या गोपालरज्जुना ।
अरणीलक्षणं प्रोक्तं स्रुग्लक्षणमिदं शृणु ॥ १८ ॥

हैमेन राजते नैव ताम्रेण तरुणापि वा ।
खदिरेण करञ्जेन चतुर्भूरुहजेन वा ॥ १९ ॥

वैकङ्कतेन कर्तव्यं सर्वलक्षणसंयुतम् ।

सार्चिष्मन्मरुदङ्गुलैः परिणता सृक्तेन नेत्राङ्गुलं
कुम्भं सार्कमरुत्पथाङ्गुलि कृतो गर्भस्ततो गण्डिका ।
वेदांशास्त्वथ वैदिका द्विगुणिता कर्णोम्बरां शस्ततो
वक्त्रं स्यात्खुरि सम्मितं न दधरे तारस्त्रिभागैः कृतः ॥ २० ॥

तारादैर्घ्य समं मुखे युगकृतं कर्णे ततो वेदिका
तारेण द्विगुणाग्रमण्डितबिला घातान्तदर्धेन च ।
आद्या तत्र तु गण्डिका युगकृतं चार्धार्धहीने परे
दण्डस्यार्द्रसभागनाह सहिते कुम्भश्च निर्नाहकम् ॥ २१ ॥

परितो बल बाह्ये तु पंक्तिकार्धाङ्गुलेन तु ।
बाह्ये वयव निम्नं तु यवार्धं बाह्य पट्टिका ॥ २२ ॥

बिलादूर्ध्व मुखात्खात्वा कनिष्ठाङ्गुलमानतः ।
एवं स्रुग्लक्षणं प्रोक्तं स्रुवो लक्षणकं शृणु ॥ २३ ॥

द्वादशांगुल मायामं कनिष्ठांगुलिनाहकम् ।
स चर्मनिर्व्रणं स्निग्धं कृमिकोटर वर्जितम् ॥ २४ ॥

प्. ४९)

समिधां लक्षणं प्रोक्तं परिधीनामतः परम् ।
यैस्समिद्भिर्हुतं प्रोक्तं तैरेव परिधिर्भवेत् ॥ २५ ॥

हस्तमात्रसमायामं मध्यमांगुलिनाहकम् ।
परिधीनां तथां प्रोक्तं प्रोक्षणीलक्षणं शृणु ॥ २६ ॥

आदित्याङ्गुलविस्तारमुत्सेधं चतुरङ्गुलम् ।
ओष्ठमेकांगुलं प्रोक्तं पूर्णचन्द्रवदाकृतिः ॥ २७ ॥

प्रोक्षणी पात्रसदृशं धृतपात्रस्य लक्षणम् ।
चरुस्थालीसमाङ्गुल्यमोष्ठमेकाङ्गुलं भवेत् ॥ २८ ॥

कर्णं तु द्व्यङ्गुलं प्रोक्तं जठरं द्वादशाङ्गुलम् ।
चरुस्थाल्यास्तु चिह्नं स्यान्मृदा ताम्रेण वा भवेत् ॥ २९ ॥

होमद्रव्यं सभागं तु शृणुत्वं नन्दिकेश्वर ! ।
शताहुत्या घृतं प्रस्थं क्षौद्रेण द्विगुणं भवेत् ॥ ३० ॥

प्. ५०)

ऐक्षुरस होमे तु त्रिगुणं मक्षिवद्भवेत् ।
तिलसर्षपमुद्गांश्च यवमाष कुलुत्थकाः ॥ ३१ ॥

सक्थवो ब्रीहयश्चापि युष्ट्यर्धं तु तदर्धकम् ।
क्रमादुत्तममध्यस्था अधमं च भवेत्ततः ॥ ३२ ॥

आन्नमूलमपूपं च शमी बिल्वस्सदूर्वया ।
नेत्र वृक्षपलाशं वा मनुद्वययुतं तु वा ॥ ३३ ॥

त्रिगुणं चोत्तमं विद्यान् मध्यमं कन्यसं तथा ।
अधम मेवेति प्रोक्तं स्नान जलं तथा ॥ ३४ ॥

कलुषं हृदि संसुस्थं स्नानदोषसुसंयुतम् ।
पल्वलो दं च शैलोदं मार्गस्थमशुचि स्थितम् ॥ ३५ ॥

प्. ५१)

द्विवर्णं क्षीरसंयुक्तं वर्जयित्वा विशेषतः ।
नद्यां वापि तटाके वा प्लवे खाते ह्रदेऽपि वा ॥ ३६ ॥

निर्झराणां च कूपस्य सुस्वादु सलिलं भवेत् ।
अष्टद्रोणैरथाद्भिस्तु स्नानमुत्तममुच्यते ॥ ३७ ॥

तदर्धं मध्यमं प्रोक्तं तस्यार्धं तु कनीयसम् ।
स्नानतोयमिदं प्रोक्तं तद्भाजनमथो शृणु ॥ ३८ ॥

सौवर्णं राजतं ताम्रं पैत्तलं मृण्मयं तु वा ।
संगृह्य लक्षणोपेतं कृतं तु चतुरश्रकम् ॥ ३९ ॥

सभक्त युतद्रोणेन वसुयुक्तेन पूरितम् ।
स्नानपात्रमिदं प्रोक्तं पुष्पपात्रविधिः परम् ॥ ४० ॥

प्. ५२)

हस्तमात्र प्रविस्तारमुत्सेधं द्वादशाङ्गुलम् ।
वेत्रेणैव तु कर्तव्यं स्वर्णाद्यैरुत्तमं भवेत् ॥ ४१ ॥

पाद्यार्घ्यादि सुपात्राणां लक्षणं शृणु साम्प्रतम् ।
पंचाङ्गुलं तदुच्छ्रायं विस्तारं च तथैव च ॥ ४२ ॥

ओष्ठमेकाङ्गुलं प्रोक्तं घनमर्धार्धकं भवेत् ।
पाद्यार्घ्या चमनानां च पात्रं हैमादिरुच्यते ॥ ४३ ॥

शंखं तार समं प्रोक्तं गन्धपात्रं शशिप्रभम् ।
धूपपात्रादिपात्रं स्याच्चापातित तन्मुखम् ॥ ४४ ॥

पिधानं मुकुलाकारमनेकसुषिरान्वितम् ।
धूपपात्रमिदं प्रोक्तं धूपघण्टा ततः परम् ॥ ४५ ॥

प्. ५३)

चतुरंगुल मुच्छ्रायं विस्तारं द्विगुणं भवेत् ।
घण्टार्धं शिखरं प्रोक्तं गलमर्धाङ्गुलान्वितम् ॥ ४६ ॥

जिह्वायामाङ्गुलाङ्गुल्यं मूर्ध्निनालं तथैव च ।
तस्योर्ध्वमंगुलं पीठं तदूर्ध्वं वृषशूलभाक् ॥ ४७ ॥

धूपघण्टाविधिः प्रोक्तो महाघण्टा तु वृद्धितः ।
नवाधिका भवेदेव दीपाधारमनन्तरम् ॥ ४८ ॥

द्वादशाङ्गुलमारभ्य निवृत्त्यांगुलमध्यमम् ।
पंचवेदाङ्गुलान्तं तु नवमानमुदीरयेत् ॥ ४९ ॥

पादतारं त्रिभागैकं वक्त्रतारं तथैव च ।
तन्मध्ये मुकुलं कुर्यान्नाना दण्डिकयान्वितः ॥ ५० ॥

प्. ५४)

शेषं युक्त्या प्रकर्तव्यं हैमेन रजतेन वा ।
ताम्रेण पैत्तलेनाऽथ चायसेनापि वा भवेत् ॥ ५१ ॥

दीपाधारमिति प्रोक्तं हविः पात्रमतः शृणु ।
यावत्तण्डुल संपत्तिस्तावत्त्रिगुणमुच्यते ॥ ५२ ॥

चरुस्थाल्या यथा रूपं हविः पात्रं विधीयते ।
तदर्धमुपदंशाय पात्रमित्यभिधीयते ॥ ५३ ॥

ताम्रेण पार्थिवेनापि त्रिलोहैर्वाथ संभवैः ।
अस्य तारं समं तारं विधानवलयान्वितम् ॥ ५४ ॥

हविः पात्रं समाख्यातं स्थलिकालक्षणं तथा ।
स्मृत्यंगुलं तु विस्तारं विस्तारार्धेन वर्धयेत् ॥ ५५ ॥

प्. ५५)

ओष्ठमेकाङ्गुलं प्रोक्तं स्वर्णतारादिभिर्भवेत् ।
तदर्धं मध्यमं ज्ञेयं तदर्धं कन्यसंभवेत् ॥ ५६ ॥

स्थलिका लक्षणं प्रोक्तं त्रिपादीलक्षणं ततः ।
विद्यात्त्रीण्यङ्गुलोत्सेधं तस्यार्धं द्वक्त्रनाहकम् ॥ ५७ ॥

अङ्घ्रीनाहं युगाङ्गुल्यं त्यङ्गुलमेव वा ।
शरावाकृति मूले तु परमत्य विधीयते ॥ ५८ ॥

मध्यमं वसुमात्रं तु स्वरमात्रं तु कन्यसम् ।
जाम्बूनदमयं वाथ तारं वा ताम्रमेव वा ॥ ५९ ॥

पैत्तलं चारकूटं वा कृत्वाद्यैव त्रिपादिकम् ।
भास्कराङ्गुलविस्तारमुत्सेधं चतुरङ्गुलम् ॥ ६० ॥

प्. ५६)

तेषु मध्याङ्गुलं प्रोक्तं शुद्धकांस्येन कारयेत् ।
बलिपात्रं समाख्यातं दर्वी लक्षणमुच्यते ॥ ६१ ॥

देवदेवाङ्गुलायामं विस्तारं तुङ्गुलम् ।
तदर्धं पादविस्तारं तस्यार्धं मध्यवाहलम् ॥ ६२ ॥

शुद्धकांस्येन कर्तव्यं भुजङ्गस्य फणोपमम् ।
दर्वीलक्षणमेवं स्यादुस्णीषस्य विधिं शृणु ॥ ६३ ॥

उत्तमं वसुहस्तं स्यात्सप्तहस्तं तु मध्यमम् ।
षड्ढस्तमधमं प्रोक्तं भूतभागैरपि स्मृतम् ॥ ६४ ॥

सुसितं सूक्ष्मबलवच्चन्द्रस्य सदृशं भवेत् ।
दुकूलपट्टदेवाङ्गैः कार्पासेनैव वा कुरु ॥ ६५ ॥

प्. ५७)

उष्णीषलक्षणं ह्येबमुत्तरीयस्य लक्षणम् ।
षट्करायामसंयुक्तं कारयेन्नन्दिकेश्वर ॥ ६६ ॥

व्याघ्राजिनं प्रथमं स्याद्द्वितीयं कृष्णाजिनं भवेत् ।
तृतीयं तन्तुना कुर्यात् त्रिविधं योगपट्टिका ॥ ६७ ॥

आदित्याङ्गुलविस्तारमुत्सेधं चतुरङ्गुलम् ।
अधस्तादवकं कुर्यान् मुष्टि कुर्यात्तु पंचके ॥ ६८ ॥

कूर्मासनमिदं प्रोक्तं जपमालाविधिस्तदा ।
ईशाक्षहेमरूप्यैश्च सम्यङ्मुक्तिमवाप्नुयात् ॥ ६९ ॥

प्रवालैर्धनसंपत्ति पद्माक्षैर्दुरितक्षयम् ।
कुशग्रन्थिमयैः पाप नाशाय च भवेत्पुनः ॥ ७० ॥

प्. ५८)

पुत्रदीपैश्च पुत्रःस्याच्छंखैश्चैव यशो भवेत् ।
मौक्तिकैः श्रियमाप्नोति सौभाग्यं स्फटिकैर्भवेत् ॥ ७१ ॥

सर्वैश्च मुक्तिमाप्नोति रुद्राक्षैरुत्तमोत्तमम् ।
आनीयनयनानन्द जलाद्रुद्राक्ष संभवः ॥ ७२ ॥

एकवक्त्रं शिवस्साक्षाद् द्विवक्त्रं शक्तिरुच्यते ।
त्रिवक्त्रं तु त्रिमूर्तिः स्याच्चतुर्वक्त्रमजो भवेत् ॥ ७३ ॥

वरदाख्यं पंचवक्त्रं तत् षड्वक्त्रं गुहरूपकम् ।
मातरस्सप्तवक्त्रं तु विद्येशाश्चाष्टवक्त्रकम् ॥ ७४ ॥

गङ्गादि नवतीर्थं स्यान् नववक्त्रं प्रकीर्तितम् ।
नववक्त्रैक वक्त्रान्तं फलं शतगुणोत्तरम् ॥ ७५ ॥

प्. ५९)

अंगुली जपविख्यातैश्चैकाङ्गुलि समं भवेत् ।
रेखयाष्टगुणं विद्यात् पुत्रदीपैःशतं भवेत् ॥ ७६ ॥

शंखजैर्मणिभिश्चैव प्रवालैश्च सहस्रकम् ।
स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ ७७ ॥

पद्माक्षैर्दशलक्षं तु सौवर्णैर्भूतिरुच्यते ।
कुशग्रन्थ्याश्च रुद्राक्षैरनन्तगुणितं भवेत् ॥ ७८ ॥

पंचाधिकेन विंशत्या मोक्षसिद्धिमवाप्नुयात् ।
अष्टाविंशज्जपाच्चैव सिद्धिश्च धनधान्यदा ॥ ७९ ॥

पक्षसंख्यापि तन्त्रं स्याद्धेशं मरणं भवेत् ।
धनप्रदं कीर्तिकरं त्रिंशतिर्जयवर्धनम् ॥ ८० ॥

प्. ६०)

भक्त्या तु सर्वं संज्यप्य मक्षयं फलदं भवेत् ।
जपमालाविधिश्चैवं जपस्थानस्य लक्षणम् ॥ ८१ ॥

शुद्धे मनोरमे देशे स्वगृहे वा भवेत् पुनः ।
गवां गोष्ठे शतगुणं नद्यां शतसहस्रकम् ॥ ८२ ॥

ईशस्य सन्निधाने तु अनन्तं जपमुच्यते ।
समुद्रतीरे देव्यग्रे गिरौ देवालयेषु च ॥ ८३ ॥

पुण्याश्रमेषु सर्वेषु जपः कोटिगुणो भवेत् ।
ज्येष्ठाङ्गुलं मोक्षदं स्यात्तर्जन्या शत्रुनाशनम् ॥ ८४ ॥

मध्यमाद्भोगमोक्ष च श्रीकरं वै त्वनामिका ।
कनिष्ठाकर्षणं स्तम्भ मङ्गुल्यादिजपक्रमः ॥ ८५ ॥

शिवकुम्भविधिं वक्ष्ये शृणुत्वं नन्दिकेश्वर ।
विंशत्यङ्गुलविस्तारं जठरं समुदाहृतम् ॥ ८६ ॥

विद्रुतस्त्रिगुणं तेन नाहमित्यभिधीयते ।
कण्ठेऽप्यर्धाङ्गुलोत्सेधं विस्तारं कौशिकाङ्गुलम् ॥ ८७ ॥

ओष्ठमेकाङ्गुलं प्रोक्तं निर्गमं च त्रयाङ्गुलम् ।
शिवकुम्भमिति प्रोक्तमेव मन्यांश्च कुम्भकान् ॥ ८८ ॥

तदर्धं वर्धनीनां तु कलशानां तदर्धकम् ।
कुण्डिका कलशस्याङ्गं शेषं युक्त्या तु कारयेत् ॥ ८९ ॥

घटास्तालादि संप्रोक्तं लम्बकूर्चं ततः शृणु ।
षड्विंशद्दर्भ संयुक्तं षड्विंशाङ्गुलमानयुक् ॥ ९० ॥

प्. ६२)

लम्बकूर्चमिति प्रोक्तं पवित्रस्य तु लक्षणम् ।
रव्यङ्गुलसमोपेतं सद्दभीयुगलेन च ॥ ९१ ॥

सग्रन्थिकं च तत्कुर्यादुमाया तन्नियोजयेत् ।
दर्पणस्यापि चिह्नं तु द्वादशाङ्गुलविस्तृतिः ॥ ९२ ॥

तदर्धं पाददैर्घ्यं तु शुद्धकांस्येन कल्पयेत् ।
एवं तु दर्पणं प्रोक्तं दीपमालाविधिं शृणु ॥ ९३ ॥

आयसेनैव कर्तव्यमथवा पादपेन वा ।
द्वारे च द्वारवत्कुर्यात् प्रभाकारं च पृष्ठके ॥ ९४ ॥

दीपमालाविधिं हैममष्टाङ्गुलमिहोच्यते ।
याज्ञिकीवृक्षमादाय कारयेल्लक्षणान्वितम् ॥ ९५ ॥

प्. ६३)

श्रीदेवी पार्श्वयोर्युग्मे दर्पणं पूर्णकुम्भकम् ।
वृषं च मकरं चैव स्वस्तिकं मत्स्ययुग्मकम् ॥ ९६ ॥

तालवृन्त समायुक्तं मङ्गलं प्रोच्यते शृणु ।

चिह्नं चैव शृणु लक्षणान्वितं
भूतकरादय तत्र मयार्धम् ।
शूलकाराय ततगुणयुक्त पिप्पलहस्तवटं च
खदिरं तोरण विस्तारमुच्छ्राय मुक्तम् ॥ ९७ ॥

प्रमाणं तोरणस्योक्तं स्वर्ण पुष्पविधिं शृणु ।
कन्यसं चैकमात्रं तु मध्यं मध्याङ्गुलं भवेत् ॥ ९८ ॥

उत्तमं गुणमात्रं तु विस्तारार्धेन वर्धयेत् ।
नलिन्याकारवत्पुष्पं कर्णिकारवदाकृतिः ॥ ९९ ॥

तन्मध्ये पत्रसंयुक्तं केवलं वापि कारयेत् ।
सुवर्ण पुष्पमेवं स्याद्धेमपट्टविधिं शृणु ॥ १०० ॥

प्. ६४)

लिंगनाहसमं दीर्घं चतुर्भागैक विस्तृतम् ।
पट्टलक्षणमत्रोक्तं गोलका लक्षणं शृणु ॥ १०१ ॥

लिंगोदयसवं तुङ्गं अङ्गुलद्वयमालिकम् ।
तन्नाहसदृशं नाहं अधिकं सोममात्रकम् ॥ १०२ ॥

शुद्धहेम्ना तु कर्तव्यं रजतेनापि कारयेत् ।
दण्डलक्षणकं वक्ष्ये कल्माषेण समन्वितम् ॥ १०३ ॥

मंजु स्निग्धमवक्रं च निर्व्रणं सुषिरं भवेत् ।
कल्माषेण विहीनं वा तस्य लक्षणमुच्यते ॥ १०४ ॥

दण्डे षडंगुलाधिक्ये ग्रन्थिकर्माभिधीयते ।
उभयोग्रन्थितोर्मध्यं पर्व इत्यभिधीयते ॥ १०५ ॥

प्. ६५)

एकपर्वा तु या यष्टिः पजृकाद्या सुखावहा ।
द्विपर्वा राक्षसी ज्ञेया मांसशोणितभोजिनी ॥ १०६ ॥

त्रिपर्वा पद्मिनी नाम पद्मिनीव सुखप्रदा ।
कामिनी रसपर्वा तु सर्वसिद्धिविवर्धिनी ॥ १०७ ॥

मुनिपर्वा विपन्नार्थं नाशकारणदा भवेत् ।
मूर्तिपर्वा शिवानाम अत ऊर्ध्वं न कारयेत् ॥ १०८ ॥

पादांगुलमधोभागे पुत्रनाशाय कल्प्यते ।
तत्तत्सिध्यंगुलेनैव त्रिभिरस्तु न सिद्धिदम् ॥ १०९ ॥

वेदांगुलेन संसिद्धिः पंचमं मृत्युदं भवेत् ।
रसांगुलं धान्य सिद्धिः तन्नाशं सप्तमं भवेत् ॥ ११० ॥

प्. ६६)

अष्टांगुलमिदं प्रोक्तं तत ऊर्ध्वं न कारयेत् ।
मूलात्तु द्विगुणं पुच्छमेवं दण्डस्य लक्षणम् ॥ १११ ॥

मूर्धान्तं देशिकस्योक्तं नादान्तं साधकस्य तु ।
भ्रुवोऽन्तरं तु पुत्रस्य नासान्तं समयिनां सदा ॥ ११२ ॥

नैष्ठिकानां गृहस्थानां हस्तं व्योमेन कारयेत् ।
सर्वदा धारणीयं तु वैणवं दण्डमुत्तमम् ॥ ११३ ॥

भस्माधारपटैर्वापि कार्पासैस्तारवैरपि ।
दुकूलपट्टसंकल्पं प्रस्थभस्म समन्वितम् ॥ ११४ ॥

तदर्धार्धयुतं वापि कर्तव्यं नन्दिकेश्वर ! ।
वृत्तमूलं दृढं श्लक्ष्णं सुसूत्रं दण्डसंस्थितम् ॥ ११५ ॥

प्. ६७)

अथवा वेणुमध्यस्थं कक्षालम्बित विग्रहे ।
अन्तरीये पटे वापि धारयेत्स शिवस्सदा ॥ ११६ ॥

तक्ष्या तु कारयेन्नित्यं सर्वपाप प्रणुत्तये ।
कौपीन लक्षणं वापि हस्तं वा विद्धि हस्तकम् ॥ ११७ ॥

आयाममेवं विस्तारं दशांगुलमथाष्टकम् ।
कौपीनमेवमुक्तं तु कार्पासाद्यादिना भवेत् ॥ ११८ ॥

पंचाशत्सूत्रसंयुक्तं मेखलं त्र्यंश लम्बितम् ।
पुस्तकस्य विधिं वक्ष्ये नन्दीश शृणु तं पुनः ॥ ११९ ॥

मानाङ्गुलमथारभ्य अङ्गुलाङ्गुलवर्धनात् ।
वेदभूताङ्गुलान्तं तु नवमानमुदीरयेत् ॥ १२० ॥

प्. ६८)

स्वप्रमाणेन कर्तव्यं जालपत्रादिना भवेत् ।
ताम्रेण वाथ कर्तव्यं सुषिरद्वय संयुतम् ॥ १२१ ॥

पात्रमानं चतुष्कृत्वा तत्पुनस्त्रिविधं भवेत् ।
चतुस्त्रिभागयोर्मध्यं मध्यं च सुषिरं भवेत् ॥ १२२ ॥

आयामं पञ्चधा कृत्वा तन्मध्ये सुषिरं भवेत् ।
त्रिभागैकेन भागेन कर्तव्यं युक्तिपूर्वकम् ॥ १२३ ॥

यवोदरप्रमाणेन रज्जुं कुर्यात्तु भक्तितः ।
पत्रवद्दारुयुगलं वर्णविस्तारशोभितम् ॥ १२४ ॥

एवं पुस्तकचिह्नं स्यान्नाराचस्य तु लक्षणम् ।
षोडशाङ्गुलविस्तारं पीलिकाकृतमध्यगम् ॥ १२५ ॥

प्. ६९)

एवं हि प्रीति नालस्य लक्षणं चोभयं भवेत् ।
तीक्ष्णेनैव च कर्तव्यं सुदृढं दोषवर्जितम् ॥ १२६ ॥

संखेल्ययोऽस्तु नारा चं समतार समन्वितम् ।
चलप्रासादकं वक्ष्ये प्रासादकरणं ततः ॥ १२७ ॥

प्रासादकथनं चाप्तं हैमं वा रौप्यकन्तु वा ।
ताम्रेण दारवेणापि शरावेणापि वा भवेत् ॥ १२८ ॥

नेत्रेणैवापि सूत्रेण क्रमादेवं तु कारयेत् ।
घृतवारे बहिश्चैव मानाङ्गुलविजृम्भणात् ॥ १२९ ॥

समन्ताद्वृत्तसंयुक्तं चतुरश्रमथापि वा ।
लिंगपीठात्ततोच्छ्रायं द्विगुणं गर्भगेहतः ॥ १३० ॥

प्. ७०)

सुदृढं भित्तिकं कुर्यात्सर्वशोभा समन्वितम् ।
आयामोत्सेधकं वापि वर्धयेदङ्गुलेन वै ॥ १३१ ॥

लिंगपीठसमं तत्तु कारयेल्लक्षणान्वितम् ।
अत ऊर्ध्वं न कर्तव्यमुपानाद्यं ततः शृणु ॥ १३२ ॥

तदुच्चमष्टधा कृत्वा वैकांशेन धरातलम् ।
धरातलमधिष्ठानं वसुधारमसूरकम् ॥ १३२ ॥

एतानि वेद नामानि पर्याय वचनानि च ।
पादार्धवन्न सूत्रस्य द्विगुणं चेति कीर्तितम् ॥ १३४ ॥

प्रस्तारं चरणार्धं तु तत्समं गलमुच्यते ।
शिखरं चरणायामं तस्योत्सेधं तदर्धकम् ॥ १३५ ॥

प्. ७१)

यदाधिष्ठानमानं तु द्वादशाङ्गेन वापयेत् ।
जन्ममेकेन कर्तव्यं द्वाभ्यां वै जगती भवेत् ॥ १३६ ॥

तथैव कुमुदोत्सेधं कम्पमेकं न कारयेत् ।
पक्षांशं गलमित्युक्तं ऊर्ध्वपत्रमथांशकम् ॥ १३७ ॥

महापट्टी द्विभागेन वेत्रवंशेन कारयेत् ।
अधिष्ठानं समाख्यातं पादगर्भमतः परम् ॥ १३८ ॥

पादायामं चतुर्भागं वेदीमेकेन कारयेत् ।
एकात्रिपदिभिर्वापि भूतपंक्तिरथापि वा ॥ १३९ ॥

केवलस्तम्भमात्रं तु ताटिकादि विहीनकम् ।
वस्वश्रं वा षडश्रं वा समानाकृतिरुच्यते ॥ १४० ॥

प्. ७२)

ऊर्ध्वद्वारं प्रकर्तव्यमुत्तरान्तं प्रशस्यते ।
प्रोक्षयेत्पंचगव्येन हृदयान्यस्य च क्रमात् ॥ १४१ ॥

चल प्रासादमेवं तु छत्रलक्षणकं भवेत् ।
तालमानस्य हस्तस्य द्विविधं छत्रमुच्यते ॥ १४२ ॥

पूर्णचन्द्र समाकारं मुकुलेन समन्वितम् ।
सनालदण्ड संयुक्तं मुक्तादामविराजितम् ॥ १४३ ॥

अग्रं विचित्रवर्णाढ्यं श्वेतच्छत्रमिदं परम् ।
चामरं मणिषण्डेन भूषितं सितवालजम् ॥ १४४ ॥

हस्तदीर्घं च तन्नालं तालद्वय समन्वितम् ।
आलाम्ये तु तदर्धं वा तदर्धं वा तु कारयेत् ॥ १४५ ॥

प्. ७३)

अनुक्तं मूलभेदाद्यैर्गृह्यैस्सर्वत्र सर्वदा ॥ १४५ १/२ ॥

इत्यचिन्त्य विश्वसादाख्ये करणाधिकारः षष्ठः पटलः ॥



अथ वक्ष्ये विशेषेण चांकुरार्पणमुत्तमम् ।
सर्वमङ्गलकार्यादौ वीजावापं च कारयेत् ॥ १ ॥

न वाहे वाथ सप्ताहे पंचाहे त्रियहेऽपि वा ।
सद्योङ्कुरं वा कुर्वीत विधिवन्नन्दिकेश्वर ॥ २ ॥

बीजानामधिपश्चन्द्रो रात्रौ सस्यानि वापयेत् ।
दिनेऽपि च न कर्तव्यं कृतं चेत्कर्तृनाशनम् ॥ ३ ॥

प्. ७४)

हैमे वाप्यथवा तारे ताम्रे मृण्मयकेऽपि वा ।
पालिका नवविस्तारं परमं रन्ध्रमातृकम् ॥ ४ ॥

धर्माङ्गुलं तु मध्यं स्याच्छ्रेष्ठं रुद्राङ्गुलं भवेत् ।
विस्तारसममुत्सेधं तदर्धं पादविस्तरम् ॥ ५ ॥

तदर्धं नालविस्तारं सर्वत्रैव सुवृत्तकम् ।
पादपट्टं समाख्यातं प्रस्तरं चाधुनोच्यते ॥ ६ ॥

तदुत्तरं समारभ्य चैकांशेनोत्तमं भवेत् ।
ऊर्ध्व पद्ममथांशेन कपोतोच्चं गुणांशकम् ॥ ७ ॥

नेत्रमेकेन कर्तव्यं मनुनापि विहीनकम् ।
एवं प्रस्तरमाख्यातं ग्रीवं सुदर्तिकं भवेत् ॥ ८ ॥

महानास्यादिनाभिं च दिशामुर्त्यादि वर्जिता ।
सतारं कारयेद्धीमान् घण्टायाश्चाकृतिर्यथा ॥ ९ ॥

स्थूप्युत्सेधं द्विधाभज्य चैकेनाथ सरोरुहम् ।
एकेन मुकुलोत्सेधं सुवृत्तं चतुरश्रकम् ॥ १० ॥

नालतार त्रिभागैक पत्रिकायुगमुच्यते ।
वक्त्रताररसांशैकमोष्टमित्यभिधीयते ॥ ११ ॥

प्रोक्षयेत्पुरुषेणैव ब्रह्मा तस्याधिदैवतम् ।
शुद्धदेशे मनोरम्ये चैशान्यां दिशि संस्थितम् ॥ १२ ॥

बहिः कुर्याच्च कुर्याच्च स्थण्डिलात्सरलं तथा ।
दर्भैः पुष्पैरलं कृत्य पालितारवकेऽपि वा ॥ १३ ॥

प्. ७६)

पालिका नव सताभिः पंचभिर्वाथ कल्पयेत् ।
स्थण्डिलोपरि संस्थाप्य गन्धपुष्पादिनार्चयेत् ॥ १४ ॥

दर्भाग्रैश्च कुशैर्वापि निश्छिद्रं सुषिरं तथा ।
कषैर्वालुकाभिश्च मृद्भिस्ताः पूरयेत्क्रमात् ॥ १५ ॥

हृदये नैव मन्त्रेण पालिकास्तु प्रपूरयेत् ।
एतैस्तिलैर्मुद्गमाषैः शिम्बसर्षप वेणुजैः ॥ १६ ॥

ब्रीहिभिश्च कुलुत्थैश्च नवबीजैर्जलैस्तथा ।
क्षीरैश्च धेनुजैरेभिः कवचेन च वापयेत् ॥ १७ ॥

तन्मध्ये चन्द्रकुम्भं च साध्यतोयैश्च सेचयेत् ।
तत्कुम्भं चन्द्रमभ्यर्च्य गन्धपुष्पादिना तथा ॥ १८ ॥

प्. ७७)

दीक्षा प्रतिष्ठाकालेषु शुभेष्वन्येषु चेच्छिवम् ।
अङ्कुरार्पणकं चैव कार्यादौ नन्दिकेश्वर ! ॥ १९ ॥

अंकुरार्पणविधिस्सप्तमः पटलः ॥



देव देव ! महादेव ! लोकानुग्रहकारक ! ।
दीक्षासंकल्पमस्माकं महेश वक्तुमर्हसि ॥ १ ॥

ईश्वर उवाच ।

नन्दीश शृणु तत्सर्वं समाहितमनाः परम् ।
आदौ क्रियावतीं दीक्षां वक्ष्ये सदधिकारिणीम् ॥ २ ॥

दीयते ज्ञानसद्भावं क्षीयते च मलत्रयम् ।
तथा दीक्षा समाख्याता इच्छाज्ञान प्रदायिका ॥ ३ ॥

प्. ७८)

गुरुणां चैव सर्वेषां मुख्या सन्मार्गदायिका ।
धर्मार्थकाममोक्षाणां कारणं सद्गुरुः स्मृतः ॥ ४ ॥

विनश्यत्यन्धकारेण यथा सूर्यस्य सन्निधौ ।
गुरोर्निरीक्षणादेव सर्वपापात्प्रमुच्यते ॥ ५ ॥

गुरुस्पृशति हस्तेन यं यः पश्यति चक्षुषा ।
शिवं भवति तत्सर्वं शिवदेव प्रसादतः ॥ ६ ॥

न लिप्यते मलेनैव पद्मपत्रमिवाम्भसा ।
तस्माद्गुरुः शिवः प्रोक्तो गुरुश्शक्तिर्मनोन्मनी ॥ ७ ॥

दीक्षाशत सहस्रं तु पापानां कृतवानपि ।
शिवज्ञानमलब्धञ्चेद् ज्ञान यात्रां समाश्रयेत् ॥ ८ ॥

प्. ७९)

ज्ञानहीनं गुरुं प्राप्य कुतो मुक्तिरवाप्यते ।
भिन्ननावाश्रितस्सधौ यथा पारं न गच्छति ॥ ९ ॥

तस्मात् सर्वप्रयत्नेन संश्रयेद् ज्ञानपारगम् ।
मधुलुब्धो यथा भृंगः पुष्पात्पुष्पं वनान्तरे ॥ १० ॥

ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ।
तं लब्ध्वा विसृजेच्छिष्योप्यधः पतन निश्चयम् ॥ ११ ॥

चतुर्विधा क्रियादीक्षा स बीजा बीजवर्जिता ।
अधिकारेण संयुक्ताप्यन्या निरधिकारिणी ॥ १२ ॥

स बीजा समयाचार संयुक्तानां नृणां भवेत् ।
विधिहीना त्व पंकादि स्त्रीबालेषु विधीयते ॥ १८ ॥

प्. ८०)

साधकाचार्य योग्या या साधिकारा तु सा भवेत् ।
नित्ये नैमित्तिके काम्ये योग्यतास्ति विशेषतः ॥ १४ ॥

नित्यमात्राधिकारं वा निर्बीजान्येति चेतसा ।
एवं चतुर्विधाप्येषा क्रियादीक्षा मयोदिता ॥ १५ ॥

अथ भक्ति समायुक्तं शिवानुध्यान कांक्षिणीम् ।
परीक्ष्य चामलं शिष्यं विलोक्य कृपया गुरुः ॥ १६ ॥

दीक्षा कार्यं प्रकूर्वीत कृतनित्यक्रियो गुरुः ।
अनुग्राह्यास्त्रयश्शास्त्रे विज्ञान प्रलया कलौ ॥ १७ ॥

तृतीयस्सकलश्चैवमाद्यो विमलमातृकः ।
मलकर्मसमायुक्तः प्रलया कल एव च ॥ १८ ॥

प्. ८१)

सकलश्च निवृत्त्यादि कलावृद्धिं ततस्ततः ।
तेषां क्रियावती दीक्षा द्विविधा नन्दिकेश्वर ॥ १९ ॥

साधारा च निराधारा साधारा सकलस्य तु ।
निराधाराह्यथान्येषामेवं दीक्षा मयोदिता ॥ २० ॥

आचार्य निरपेक्षेण तीव्रशक्त्या तु शम्भुना ।
या क्रिया क्रियते सा तु निराधारेति कीर्तिता ॥ २१ ॥

गुरुमूर्तिं समास्थाय मन्दतीव्रादि भेदया ।
भक्त्या शंभुश्च कुरुते या दीक्षा सा साविकरण ॥ २२ ॥

महेन्द्रे च महामेरौ मलये पारियात्रिके ।
विन्ध्ये च मन्दरेचैव श्रीगिरौ हिमपर्वते ॥ २३ ॥

प्. ८२)

गंगातीरे च कालिन्दी नर्मदातुंग भद्रके ।
सरस्वत्यां पयस्विन्यां कावेरी कन्यका तटे ॥ २४ ॥

वाराणस्यादि पुण्येषु क्षेत्रदेशेषु वा तथा ।
समुद्रगाया नद्या वा तीरे शुद्धे महाह्रदे ॥ २५ ॥

पुष्पोद्यानेऽथवा नित्यं क्षीर वृक्षसमीपके ।
पासादे च मठे चैव श्रोत्रियस्य गृहे सदा ॥ २६ ॥

शुद्धदेशे मनोरम्ये मृजाधिकतले समे ।
मण्डपं कारयित्वा तु विरक्तस्तंभसंयुतम् ॥ २७ ॥

षोडशस्तंभसंयुक्तं द्वादशस्तंभमेव वा ।
वेदीं कुर्याद्विशेषेण दर्पणोदरसन्निभाम् ॥ २८ ॥

प्. ८३)

अथवा संकटस्थाने योग्यरूपेण कल्पयेत् ।
हस्तमात्रं तदुत्सेधं रत्निमात्रमथापि वा ॥ २९ ॥

तालमात्रेण वा कुर्यादुपवेदी समन्वितम् ।
चतुरंगुलमुत्सेधं विस्तारं द्व्यंगुलं भवेत् ॥ ३० ॥

त्र्यंगुलं वा द्व्यंगुलं वाप्युत्सेधं संप्रकीर्तितम् ।
अथ हस्तद्विहस्तं वा वेदीं कुर्याद्विचक्षणः ॥ ३१ ॥

अग्निकुण्डं तु कर्तव्यं चतुरश्रं तु पूर्वकैः ।
मेखलायोनि संयुक्तं नाभियुक्तं मनोहरम् ॥ ३२ ॥

सर्वलक्षणसंयुक्तं वृत्तकुण्डमथापि वा ।
गोमयालेपनं कुर्याद्दर्भमालाभिरावृतम् ॥ ३३ ॥

वितानध्वज संयुक्तं मुक्तादामैरलंकृतम् ।
पुष्पमालासमाकीर्णं तरंगेण निवेष्टयेत् ॥ ३४ ॥

स्तंभानि वेष्टयेत्तत्र मण्डलं वर्धयेत् क्रमात् ।
श्वेतरक्तं तथा श्यामं पीतं कृष्णं च वर्णकम् ॥ ३५ ॥

भक्त्या तु श्रद्धयाह्येवं मुक्ताद्यैः पंचरत्नकैः ।
स्फटिकैर्जाति लिंगोत्थैर्हरिदारैस्सजामिकैः ॥ ३६ ॥

अञ्जनैश्चूर्णनिकरैः पंचभिर्वा विधानवित् ।
श्वेतं स्याच्छालिपिष्टेन रक्तमिष्टिकया तथा ॥ ३७ ॥

श्यामाकञ्चं शाकचूर्णं पीतं हारिद्रमेव वा ।
तुषांगारभवं कृष्णं पञ्चचूर्णेन वा पुनः ॥ ३८ ॥

प्. ८५)

श्वेतं तु तण्डुलं प्रोक्तं धातुना रञ्जितं ततः ।
रक्तवर्णमिदं ज्ञेयं मुनिपत्रस्य सारयुक् ॥ ३९ ॥

श्यामं तदेव मुद्गैर्वा राजमाषैस्तु कृष्णकम् ।
एवं भूतैर्यथा लब्धैर्देशिकेन्द्र पुरस्सरैः ॥ ४० ॥

शालिपिष्टार्द्रकार्पास सूत्रेण च पदं न्यसेत् ।
पूर्वादि पश्चिमान्तं तु त्रयस्त्रिंशन्न्यसेत् क्रमात् ॥ ४१ ॥

दक्षिणोत्तरसूत्रं तु त्रयस्त्रिंशद्भवेत् पुनः ।
पुनर्विंशति संयुक्त सहस्र पदपंक्तिकम् ॥ ४२ ॥

षट्त्रिंशत्तु पदं तत्र मध्ये पद्मं प्रकल्पयेत् ।
अष्टपत्रसमायुक्तं कर्णिकाकेसरोज्वलम् ॥ ४३ ॥

प्. ८६)

तत्त्रिभागैक भागं तु कर्णिकाकेसराणि वै ।
कर्णिका पीतवर्णेन रक्तवर्णेन केसरान् ॥ ४४ ॥

मूले च तत्तदग्रे च श्वेतवर्णेन लेखयेत् ।
कर्णिकाबीजसंयुक्तं श्वेतरक्तसमन्वितम् ॥ ४५ ॥

दलाष्टकं तथा चक्रं रेखाश्वेतेन लेखयेत् ।
कृष्णेन तदनुज्ञेयं वृत्तं श्वेतमिति स्मृतम् ॥ ४६ ॥

पूर्व कुंकुम लिंगन्तु दक्षिणे कृष्णलिंगकम् ।
उत्तरे हेमलिङ्गन्तु श्वेतलिंगन्तु पश्चिमे ॥ ४७ ॥

आग्नेय दिशि तद्वर्णं लतयालंकृतं भवेत् ।
नैर्-ऋत्यां श्यामवर्णाभां वायव्यां कृष्णवर्णिकाम् ॥ ४८ ॥

प्. ८७)

ऐशान्यां व्रततिं शुक्लां पद्माग्रान्तां प्रकल्पयेत् ।
अवशिष्टं यदैकत्राप्युप लिंगांश्च स्वस्तिकान् ॥ ४९ ॥

शेषाण्यन्यानि सर्वाणि युक्त्या वर्णानि कल्पयेत् ।
तदा लिंगोद्भवं हेतन् मण्डलं परिकीर्तितम् ॥ ५० ॥

देशिकस्तारसंयुक्तः करार्ध्याम्बु समन्वितः ।
द्वाराधिपार्चनं कृत्वा देहलीविघ्नमुत्सरेत् ॥ ५१ ॥

तत्रास्त्रं विन्यसेदुच्चं स्वासने संस्थितो गुरुः ।
भूतशुद्धिं पुरा कृत्वा चान्तरंगे यजेत्पुनः ॥ ५२ ॥

सिद्धार्थ तण्डुलतिलं सुमं दूर्वा कुशोदकम् ।
क्षीरनीरं यवं चैव विशेषाच्च विधीयते ॥ ५३ ॥

प्. ८८)

तदर्घ्य वारिभिश्शुद्धिर्द्रव्याणां च विधीयते ।
तिलकं स्वासनं चैवमात्मनश्च विशुद्धये ॥ ५४ ॥

पूर्ववत्पूजितं मन्त्रं संशुद्धिः पञ्चगव्यकैः ।
विकीर्य द्रव्यमेवं हि लाजचन्दन भस्मभिः ॥ ५५ ॥

शुद्धाश्च कुशदूर्वैर्वा केवलं शुद्धलाजयुक् ।
अस्त्रजप्ताभिसंयुक्ता नस्त्रांबु प्रोक्षितांस्तथा ॥ ५६ ॥

वर्णाभान्वर्णितांश्चैव नाना प्रहरणोपमान् ।
प्रत्यूहध्वंसकानेतान् कृत्वा वा नन्दिकेश्वर ॥ ५७ ॥

षट्त्रिंशद्दर्भमन्त्रेण कृतां हालेन मानिताम् ।
शिवहेत्या सप्तजप्तां वेणुवाथासि रूपिणीम् ॥ ५८ ॥

प्. ८९)

मनसाध्या देवेशं सृष्ट्या ध्यानं यथेप्सितम् ।
शिवं च निष्कलं न्यस्य शिवोहमिति भावयेत् ॥ ५९ ॥

श्वेतोष्णीषं न्यसेन्मूर्ध्नि मूलमन्त्राभिमन्त्रितम् ।
उत्तरीयं तु गायत्र्या सद्योजातेन वाससम् ॥ ६० ॥

कर्पूरक्षोद संयुक्तैश्चन्दनैः कुंकुमैस्तथा ।
भस्मना गन्धयुक्तेन स्वात्मानं भूषणैस्तथा ॥ ६१ ॥

परिकुर्याद्विशेषेण देशिकोत्यन्तनिर्मलैः ।
क्षौमैश्च वस्त्रैश्शुद्धैश्च विविधाभरणादिभिः ॥ ६२ ॥

कुर्याद्दक्षिण हस्तेन स्वैर्गन्धैर्मण्डलं कुरु ।
तस्मिन्नीशं समभ्यर्च्य शिवहस्तं प्रकल्पयेत् ॥ ६३ ॥

प्. ९०)

शिवमन्त्रेण तं न्यस्त्वा तेजिष्ठो निजमस्तके ।
ईशादभिन्नमात्मानं कर्तारं भावयेत्तदा ॥ ६४ ॥

साक्षिभूतो निरीक्षेत कर्माण्यपि च मण्डले ।
कुंभे मखं पालयति वह्न्याधिकरणं तथा ॥ ६५ ॥

पाशौघमोचनं कुर्याच्छिष्ये तत्र विशेषतः ।
स्वस्मिन्नति गृहीतेति पञ्चाधारे महेश्वरः ॥ ६६ ॥

अहं स सोऽहमेवेति कुर्याद्भावं स्थिरं तथा ।
नैर्-ऋत्यामु शिष्ट्या स्थित्वा ज्ञानकृपाण युक् ॥ ६७ ॥

यज्ञधाम्नोक्षयेदर्घ्यं वारिभिः पञ्चगव्यकैः ।
चतुष्पथान्त संस्कारैरीक्षणाद्यैस्सुसंयुतः ॥ ६८ ॥

प्. ९१)

शुद्धिं कुर्याद्विशेषेण देशिकोऽपीश विग्रहः ।
तत्र विक्षिप्त विकिरात् कुशकूर्चान्समूहयेत् ॥ ६९ ॥

ऐशे हरति वर्धन्या स्वासनाय च तान्क्षिपेत् ।
मण्डलस्येश दिग्भागे स्थण्डिलं चतुरश्रकम् ॥ ७० ॥

द्रोणैरपि तदर्धैर्वा तदर्धैर्ब्रीहिभिस्तु वा ।
ब्रीह्यर्धं तण्डुलं प्रोक्तं तण्डुलार्धं तिलं स्मृतम् ॥ ७१ ॥

एककुंभस्य मानं तदन्यकुंभं विवृद्धये ।
सर्वलक्षणसंयुक्तं सर्वदोषविवर्जितम् ॥ ७२ ॥

हैमं रजतकुंभं वा ताम्रं मृण्मयमेव वा ।
शिवकुंभं कुंभमेवमन्यत्कलशमेव वा ॥ ७३ ॥

प्. ९२)

त्रिसूक्ति युक्ति सूत्रेण द्विजदृष्टिपदा वृतम् ।
चतुर्हस्तं त्रिहस्तं वा द्विहस्तं चैकहस्तकम् ॥ ७४ ॥

कृत्वा स्थण्डिलमेव तु मध्ये पालिं प्रकल्पयेत् ।
दलाष्टकसमोपेतं कर्णिकाकेसरोज्वलम् ॥ ७५ ॥

चतुष्पदसमायुक्तं बाह्येका वरणान्वितम् ।
पूर्वोत्तरात्रिदर्भैश्च पूर्वादिक्रमशो न्यसेत् ॥ ७६ ॥

सहदेव्यैकपत्रन्तु भद्रं वैकंकतं तथा ।
विष्णुक्रान्तिश्च पञ्चैते पञ्चौषधमिति स्मृतम् ॥ ७७ ॥

सुशालिकोद्रवैश्चैव यवनीवार वेणुकम् ।
एते पञ्चयवाः प्रोक्ताः कुंभेष्वेतान्समर्पयेत् ॥ ७८ ॥

प्. ९३)

पर्वते च तटाके वा समुद्रे वृषशृंगके ।
क्षेत्रे पञ्च मृदोग्राह्याः क्रमेणैव तु निक्षिपेत् ॥ ७९ ॥

मुक्ता माणिक्य वैडूर्य पुष्य वज्र प्रवालकान् ।
इन्द्रनीलं च गोमेदं तथा मरकतं त्विति ॥ ८० ॥

नवरत्नमिदं प्रोक्तं शिवकुंभादिषु न्यसेत् ।
हेमकुंभं च निक्षिप्य नववस्त्रैश्च वेष्टयेत् ॥ ८१ ॥

कूर्चं सर्वेषु निक्षिप्य चूतपत्रं मुखे क्षिपेत् ।
मातुलुंग फलैश्चैव पूर्वस्यां शोभनास्तथा ॥ ८२ ॥

नैर्-ऋत्यां वसुदेवांश्च लक्ष्मीं द्वारे प्रपूजयेत् ।
वारुण्यां संमुखी रक्तैः पूरयन्ती मखालयम् ॥ ८३ ॥

प्. ९४)

अर्चयेन्मण्डपाकारान् हृदा ध्यात्वा समाहितः ।
मण्डपस्योत्तरे भागे पूजयेच्छिवमव्ययम् ॥ ८४ ॥

अथ स्नातं विशुद्धं च शुद्धवस्त्रैश्च संयुतम् ।
निराहारं च श्रद्धालुं शिष्यमग्रे निधाप्य च ॥ ८५ ॥

अक्रोधं भक्तिविश्वासं गुर्वाज्ञापालनं तथा ।
गुरुद्रोह शिवद्रोह समयद्रोहवर्तिनम् ॥ ८६ ॥

अदीक्षितमबन्धुत्वात् कृतघ्नमविवेकिनम् ।
गुरुदोषावलोकं च स्वदोषानवलोकिनम् ॥ ८७ ॥

अष्टौतांश्च न कुर्वीत त्यज्याश्च शपथं भवेत् ।
शिष्यमेवं विधं वापि शासयित्वा तु देशिकः ॥ ८८ ॥

प्. ९५)

प्रोक्षयेच्छंखतीर्थेन दिव्यदष्ट्यावलोकयेत् ।
वज्रासनो परिन्यस्य सर्वालंकार संयुतम् ॥ ८९ ॥

पाशस्तोहं प्रकर्तव्यं जीवान्तं वह्नि संयुतम् ।
पिंगलादि समायुक्तं बिन्दुनाद समन्वितम् ॥ ९० ॥

कूटाक्षरद्वितीयं तु मायानलसमन्वितम् ।

ह्रीं ह्रीं ह्रीं
 
अग्निमण्डलमध्ये तु रश्मिज्वालासमाकुलम् ॥ ९१ ॥

कालवेष्टकतद्भावं गुह्यद्वारे सुयोजितम् ।
चक्षुर्भूतस्सदामन्त्रं पाशस्तोभो विधीयते ॥ ९२ ॥

क्षुरिकास्त्रं समुच्चार्य पाशच्छेदन्तु कारयेत् ।
सदाचार्यः प्रसन्नात्मा त्वेकचित्तस्समाहितः ॥ ९३ ॥

प्. ९६)

अस्त्रमंत्रं समुच्चार्य प्रोक्षयेच्छिष्य विग्रहे ।
तस्माद्दक्षिणहस्ते तु रक्षासूत्रं प्रकल्पयेत् ॥ ९४ ॥

उत्तराभिमुखं कृत्वा नैष्ठिकं कूटिकासनम् ।
भौतिकं पूर्वदिग्वक्त्रं पश्चिमास्यमथापि वा ॥ ९५ ॥

तण्डुलैस्तत्करं कुर्यात् रक्षासूत्रं तु भस्मना ।
अभिमन्त्र्य गुरुं पूज्य सव्यांगुष्ठ विवर्जितम् ॥ ९६ ॥

तत्तन्तु त्रिगुणीकृत्य शिष्यहस्तं च बन्धयेत् ।
कवचे नैव तद्ग्रन्थिं भस्मना रक्षणं भवेत् ॥ ९७ ॥

ब्रह्मादिकारणान्पूज्य हृदयेनैव तत्र वै ।
नैष्ठिके त्वीशमन्त्रेण भौतिके पुरुषादिभिः ॥ ९८ ॥

प्. ९७)

विप्रादीनां च कर्तव्यमुपवीतं यथाक्रमम् ।
मण्डल न्यासपूजां च ततः कुर्यात्तु देशिकः ॥ ९९ ॥

उत्तराभिमुखो भूत्वा पद्ममध्ये शिवं यजेत् ।
ईशानं तत्र विन्यस्य पूर्वे तत्पुरुषं यजेत् ॥ १०० ॥

अघोरं दक्षिणे भागे वामदेवं तु चोत्तरे ।
सद्यं पश्चिमदिग्भागे पञ्चब्रह्म न्यसेत्क्रमात् ॥ १०१ ॥

हृदये विन्यसेद्वह्निं दले नैर्-ऋत्यके शिरः ।
वायव्यां च शिखा प्रोक्ताप्यैशान्यां कवचं यथा ॥ १०२ ॥

कर्णिकायां पुरोभागे नेत्रन्यासो विशेषतः ।
अनन्ताद्यष्टविद्येशा नष्टाशासु यजेत्क्रमात् ॥ १०३ ॥

प्. ९८)

धर्मज्ञानं च वैराग्यं ऐश्वर्यं च तथैव च ।
अंगविद्येश्वराणां च मध्ये वह्न्यदिकोणके ॥ १०४ ॥

विन्यस्यैवं प्रसन्नात्मा पश्चात्कुंभार्चनं भवेत् ।
वर्धनीमीशदिक् संस्थां सिंहस्थां खड्गरूपिणीम् ॥ १०५ ॥

अस्त्रेण तां यजेत्पश्चात् प्रणवाद्यासनस्थिताम् ।
वाहनायुधदीप्तांश्च दिक्षु शक्रादिषु स्थितान् ॥ १०६ ॥

विष्ण्वन्तान्दश संपूज्य नमस्कारैः स्वनामभिः ।
तां वर्धनीं समादाय कुंभाग्रानुगमोन्मुखीम् ॥ १०७ ॥

अविच्छिन्नाम्बुधारां च भ्रामयेच्च प्रदक्षिणीम् ।
मखमण्डपरक्षार्थं मूलमन्त्रं समुच्चरन् ॥ १०८ ॥

प्. ९९)

शिवाज्ञां लोकपालेभ्यः श्रावयेद्देशिकोत्तमः ।
धृत्वा कुंभे यजेदेतान् पूजार्थं नन्दिकेश्वर ॥ १०९ ॥

पश्चात्स्थिरासनं कुंभे पूजयेत्स्वांगमीश्वरम् ।
शौण्ड्यं विन्यस्य चाध्वानं वर्धन्यां चास्त्रमर्चयेत् ॥ ११० ॥

ओं अस्त्रासनाय हुं फण्णमः । ओं अस्त्र मूर्तये हुं फण्णमः । ओं
क्लीं श्लीं पाशुपतास्त्राय हुंफण्णमः । ओं शिरसे हुं फण्णमः ।
ओं शिखायै हुं फण्णमः । ओं श्रूं कवचाय हुं फण्णमः । ओं
नेत्रत्रयायै हुं फण्णमः । ओं हुं अस्त्राय हुं फण्णमः ।

प्. १००)

सहस्रादित्यसंकाशं युगान्ताभ्र समस्वनम् ।
चतुर्भुजं चतुर्वक्त्रं प्रतिवक्त्रं त्रिलोचनम् ॥ १११ ॥

नागयज्ञोपवीतं च प्रदीप्तवदनं सदा ।
शक्तिमुद्गरशूलाग्नि हस्तं चन्द्रार्धशेखरम् ॥ ११२ ॥

योनिलिंगसमायामं प्रकुर्याद्योनिमुद्रया ।
अंगुष्ठेन स्पृशेत्कुंभं हृदा मुष्ट्या तु वर्धनीम् ॥ ११३ ॥

भोगमोक्षाय मुष्ट्यातां संस्पृशेन्नन्दिकेश्वर ।
ज्वलज्ज्वालानलप्रख्यं क्षमूर्ध्व सुसंयुतम् ॥ ११४ ॥

ज्ञानासिं नैर्-ऋते पूज्य कुंभोपरि शिवं यजेत् ।
ईशानं शिवकुंभं च पुरुषं पूर्वकुंभके ॥ ११५ ॥

प्. १०१)

अघोरं दक्षिणे कुंभे वामदेवं तु चोत्तरे ।
सद्यं पश्चिमकुंभं तु पूजयेन्नन्दिकेश्वर ॥ ११६ ॥

तद्बहिश्चाष्टकुंभेषु पूजयेन्नर्मदां पुनः ।
दक्षिणे कन्यकां पूज्य वारुण्यां च समुद्रिकाम् ॥ ११७ ॥

गंगामुत्तरकुंभे च यमुनां वह्निकुंभके ।
सरस्वतीं च नैर्-ऋत्यां काबेरीं वायुकुंभके ॥ ११८ ॥

ऐशान्यां तुंगभद्रां च पूजयेच्च यथा क्रमम् ।
आवाहन विसर्गान्तं ओं हां युक्तं स्वनामभिः ॥ ११९ ॥

नमस्कारान्तमन्त्रैश्च पूजयेत्तीर्थमातृकाः ।
ओं यथा कृतं यत्नेन भगवन्मुखमन्दिरम् ॥ १२० ॥

प्. १०२)

वणीयं वं जगन्नाथा सर्वाध्वरधुरन्तथा ।
ओंकारस्थं चतुर्बाहुं विघ्नेशं नैर्-ऋते यजेत् ॥ १२१ ॥

वायव्ये षण्मुखं पूज्य यथार्हं देशिकः क्रमात् ।
चन्दनेषु समायुक्तं वारिभिः कृतमण्डले ॥ १२२ ॥

स्थण्डिलाद्बहिरेवं तु संपूज्य विधिनाततः ।
स्थण्डिलात्सपतिर्मध्ये स विस्तारं च पूजयेत् ॥ १२३ ॥

तत्रानुज्ञां समादाय गच्छेत्सार्पेण देशिकः ।
मन्त्राणां तृप्तये चैव कुण्डपार्श्वं वजेद्गुरुः ॥ १२४ ॥

विक्तासनमासीनो श्रुतगन्धार्कवारि च ।
सर्वं वामे च विन्यस्य समिद्दर्भतिलादिकम् ॥ १२५ ॥

प्. १०३)

कुण्डाग्नि स्रुक्स्रुवाज्यं च संस्कारं पूर्ववद्भवेत् ।
अग्न्यूर्ध्वमुखमध्ये च शिवं संपूज्यदेशिकः ॥ १२६ ॥

स्वमूर्तौ मण्डले चैव शिवकुंभेग्निशिष्ययोः ।
सृष्टिक्रमेण विन्यस्य शोध्याऽध्वानं यथाविधि ॥ १२७ ॥

मुखनामाग्निजिह्वानां ज्वालानां लक्षणं शृणु ।
कुण्डमानं मुखं ज्ञात्वा हृदयेनाहुतिर्भवेत् ॥ १२८ ॥

शिष्य संस्कारहीनं च नित्यहोमं च पश्चिमे ।
उत्तरे पुष्टि सौभाग्य वश्याकर्षण शान्तिके ॥ १२९ ॥

पाशानां तु विशुद्धौ हि होमकर्मविधीयते ।
अस्त्राञ्जनपदालेपा गुलिकास्त्वभिलाषणे ॥ १३० ॥

प्. १०४)

छात्रसंजननार्थं च पूर्ववक्त्रे यजेद्गुरुः ।
स्तंभनोच्चाटनं चैव मारणं दक्षिणे भवेत् ॥ १३१ ॥

प्रायश्चित्ताहुतिस्तत्र मुक्तये चोर्ध्व वक्त्रके ।
हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा ॥ १३२ ॥

अतिरक्ता बहुरूपा सप्तजिह्वाः प्रकीर्तिताः ।
ऐशेन्द्र वह्नि नैर्-ऋत्या वारुणीदिक्पतिक्रमात् ॥ १३३ ॥

हिरण्याद्याश्चतस्रस्तु षट्स्थिता रक्तगर्भकाः ।
बहुरूपा मध्यतः स्थित्वा दक्षिणोत्तरगामिनी ॥ १३४ ॥

हिरण्या द्रुतहेमाभा कनका वज्ररूपिणी ।
रक्तारुणसमाभासा कृष्णा नीलमणिद्युतिः ॥ १३५ ॥

प्. १०५)

सुप्रभा मौक्तिक ज्योति रतिरक्ता परागवत् ।
बहुरूपा शरच्चन्द्र चन्द्रकान्तसमप्रभा ॥ १३६ ॥

प्रत्येकं काम्यभेदेन जिह्वाभेदो विधीयते ।
हिरण्याकर्षणे वश्ये स्तंभने कनका भवेत् ॥ १३७ ॥

शत्रु विद्वेष मोहे च रक्ता कृष्णा तु मारणे ।
सुप्रभा शान्ति पुण्यादौ सुरक्तोच्चाटने भवेत् ॥ १३८ ॥

एकैकवक्त्रे रूपा तु सर्वाभीष्टप्रदायिनी ।
अभीष्टवक्त्रे जिह्वानां होरे चेयं विधीयते ॥ १३९ ॥

विरेफावात्तिमौ मासौ रेफा षष्ठस्वरस्थितौ ।
इन्दुबिन्दु शिखायुक्तौ जिह्वा बीजान्यनुक्रमात् ॥ १४० ॥

प्. १०६)

शान्तिके पौष्टिके होमं मधुक्षीरैक्षवादिभिः ।
कीलालसन्तु पुण्याहमाभिचारे विशेषतः ॥ १४१ ॥

कन्दकैर्लवणैस्तक्र राजिका परतैलकैः ।
कारस्कारादनुजृंभिः समिद्भिः कथमन्त्रकैः ॥ १४२ ॥

कर्पूरजलेय विद्याधरफलाप्तये ।
अन्यथान जुहुयात्साधकोत्तमः ॥ १४३ ॥

यक्षिणीसिद्धिकामस्तु कदम्बकलिकां हुनेत् ।
चक्रवर्तित्वलाभाय पद्मैर्मुक्तादि संपदे ॥ १४४ ॥

आरोग्यकामी दूर्वाभिः सर्वप्राणिवशीकृते ।
प्रियंहुरं वा पुष्पाणि समाहितमना हुनेत् ॥ १४५ ॥

प्. १०७)

छिन्नोद्भवैस्समधुरैर्जुहुयात्सद्य एव हि ।
आम्रपल्लवहोमेन विषमज्वरशान्तिदम् ॥ १४६ ॥

तद्घृतेन सहार्वेण प्लुतं मृत्युञ्जयं भवेत् ।
अस्य मन्त्रः । अमुकस्य ज्वरं नाशयज्ञं सौ वषट्
पलाशकुसुमैश्चैव कवित्वं जनयेत्क्षणात् ॥ १४७ ॥

अस्य मन्त्रः । वद वद वाग्वादिनीं स्वाहा ।
प्रचेतसं जलेभ्यर्च्य वृष्टिकामो विशेषतः ॥ १४८ ॥

तिलानरुणमन्त्रेण वामदेवेन होमयेत् ।
जगत्समस्तं मेघौघैः इव संप्लावयेत्सदा ॥ १४९ ॥

भेदयेत्तिलहोमेन क्षणात्पाशुपताणुना ।

प्. १०८)

अस्य मन्त्रः । ओं श्लीं श्लीं शुं हुं फट् स्फोटय स्फोटय हुंफट् ॥

सप्तबाधाञ्चशान्त्यर्थं रुद्रशान्तिं तिलादिभिः ॥ १५० ॥

होमं सर्वं विशेषेण साधकाय निवेदयेत् ।
पूर्वोक्तविधिना चैव प्रकृतं वक्ष्यते क्रमात् ॥ १५१ ॥

मूलेनाष्टशतं हुत्वा दशांशैश्चाभिमन्त्रकैः ।
प्लुतमूलं समुच्चार्य दद्यात्पूर्णाहुतिं क्रमात् ॥ १५२ ॥

इति शिष्यं प्रवेशाय प्रत्येकं तु शतं हुनेत् ।
अथवा सर्वसंपत्यै जुहुयाद्देशकालयोः ॥ १५३ ॥

शुभाय दुर्निमित्तानां सुनिमित्तस्य सिद्धये ।
मूलमन्त्रेण जुहुयात् प्रत्येकं तु शतद्वयम् ॥ १५४ ॥

प्. १०९)

शिवाद्यस्त्रान्तमन्त्राणां स्वाहान्तं तर्पणं सकृत् ।
शिखासं पुटितैर्मन्त्रै हुंफडन्तैश्च दीपनम् ॥ १५५ ॥

ओं ह्रीं शिवाय स्वाहा इति तर्पणे
ओं ह्रीं हौं शिवाय वौषडित्यादि दीपनम् ।
स्थालीं शिवांभसा शुद्धां कवचेनाव गुण्डिताम् ॥
श्रीकण्ठाद्यैः समालब्धां बध्नीयात्कुण्डमण्डले ॥ १५६ ॥

कवचास्त्रजप्त सन्दर्भं प्रत्येकन्तु शतद्वयम् ।
वारिणा मण्डलं कृत्वा धर्मज्ञानादिरासनम् ॥ १५७ ॥

आवाह्य मूर्तिं मूर्तीशं ध्यातं पुष्पैः शिवं यजेत् ।
एवं स्थाल्यांगुलैः पुष्पैः पूजयेद्देशिकोत्तमः ॥ १५८ ॥

निरीक्षणादिशुद्धायां चुल्ल्यां कुण्डस्य लक्षणम् ।
हुंकारबीज युक्तायाः पश्चिमस्यां विशेषतः ॥ १५९ ॥

प्. ११०)

धर्माय धर्मरूपायामस्त्रं तस्यां तु विन्यसेत् ।
तत्र स्थालीं समारोप्य शुद्धां क्षुरिक वारिणा ॥ १६० ॥

वि ******** त्रासाश्च तु सिद्धये ।
अस्त्राभिजप्तां हां कृत्वा गव्यप्रासादमन्त्रितम् ॥ १६१ ॥

आमतण्डुलक्षीराज्यं शतं जप्त्वा तु विन्यसेत् ।
प्रसृतेः पंचसंयुक्तं शिष्यं प्रति गुरूत्तमः ॥ १६२ ॥

त्रयाधिकानां शिष्याणां प्रसृतिं वर्धयेत्क्रमात् ।
प्रधानं चाग्निमन्त्रेण पिधानं कवचेन तु ॥ १६३ ॥

मूलेन पूर्वमुख्यांश्च चरूंश्चारु पचेद्गुरुः ।
शिवपादकदीपिन्या सुच्छिन्ने चुल्लिमध्यतः ॥ १६४ ॥

आज्येन स्रुवमापूर्य स्वाहान्तं स्वाहृतां मनुम् ।
जप्त्वा हुत्वा ततः तप्त्वा न्तकारणो गुरुः ॥ १६५ ॥

प्. १११)

चुल्यधो मण्डले दर्भे अस्त्रजप्ते विशेषतः ।
स्थालीं संस्थाप्य तारेण पिधायास्यं समन्ततः ॥ १६६ ॥

उल्लेखनं ततः कुर्याल्लेपनं हृदयाणुना ।
शीताभिघारणं प्राप्य शीतलो भवति क्रमात् ॥ १६७ ॥

सकृत्सकृद्वौषडन्त सहितं मन्त्रपूर्वकम् ।
होमं कुर्यात्सुदीप्ताग्नौ हविषा नन्दिकेश्वर ॥ १६८ ॥

संपाताज्यस्य संसिद्धे धर्माद्यासन कल्पिते ।
स्रुवं निधाय पाश्चात्ये कुण्डमण्डलतो गुरुः ॥ १६९ ॥

स्रुवेणाज्याहुतिं कृत्वा संहितामन्त्र संयुतम् ।
विधूयात्स्रुवमेवं च पुनस्संहितया हुनेत् ॥ १७० ॥

प्. ११२)

वषडन्तं चरुं कृत्वा सकृदालभ्य देशिकः ।
धेनुमुद्रामृतीभूतं शान्त्यर्थं स्थण्डिलं नयेत् ॥ १७१ ॥

आज्यं त्रिभागां कुर्याच्च देवाग्निश्छानकारणम् ।
दिक्पालेभ्यश्चरुं कुर्यात्समिदाज्यत्रयं ततः ॥ १७२ ॥

हृदा दुग्धं नमोन्तेन ते नैवाचमनीयकम् ।
अस्त्रमष्टोत्तरशतं हुत्वा पूर्णाहुतिं हुनेत् ॥ १७३ ॥

कुण्डतः पूर्वभागे वा शिवकुंभस्य पूर्वकम् ।
मातृनुद्भगणादीनां स्वनामान्तहृदा ततः ॥ १७४ ॥

अन्तर्बलिविधानं च सिध्यान्नन्दिकेश्वर ।
ईशमध्याप्यलब्धाक्षो भावयेदेकभावनः ॥ १७५ ॥

प्. ११३)

सर्वाध्वो परिनिस्तीर्ण सर्वज्ञाति गुणैर्युतः ।
अस्मदध्वर सिद्ध्यर्थं अधिष्ठाता महाध्वरे ॥ १७६ ॥

शिवोहं भावयेदस्मान् निष्क्रामेद्यागमण्डपात् ।
शुक्लमस्त्रोपहारं च समसृस्त्राणु मण्डले ॥ १७७ ॥

प्राणवासनके सृक्स्यात्पूर्वाग्रयुतदर्भके ।
भुक्त्यै प्रागाननं कृत्वा मुक्त्यै चोत्तरवक्त्रकम् ॥ १७८ ॥

पञ्चगव्यं कुशोदं च प्राशयेत्तत्र वै गुरुः ।
पश्चादाचमनं कुर्यान् मन्त्रकर्मविधि क्रमात् ॥ १७९ ॥

स्नानमेवं प्रकुर्वीत शिवदृष्ट्या वलोकयेत् ।
उत्थाप्यासनतश्शिष्यं मुक्तिकामं विशेषतः ॥ १८० ॥

प्. ११४)

पादादारभ्य मूर्धान्तं दिव्यदृष्ट्या विलोकयेत् ।
मूर्धादि पादपर्यन्तं मुक्तिकांक्षी निरीक्षयेत् ॥ १८१ ॥

शिवतैजसमाहात्म्यं चिन्तयन्नन्दिकेश्वर ।
नेत्राणां संप्रदानेन प्रसन्नो देशिकोत्तमः ॥ १८२ ॥

अस्त्रतो परिसंप्रोक्ष्य मन्त्रस्नानं च सिद्धये ।
अन्तरायविनाशार्थं भस्मस्नानं विधीयते ॥ १८३ ॥

पाशौघच्छेदनं कुर्याद् ज्ञानखड्गेन देशिकः ।
मूर्धादि पादपर्यन्तं पार्श्वद्वयमथ स्पृशेत् ॥ १८४ ॥

पाशांकुरविनाशार्थं भूत्या स्नानं विशेषतः ।
सृष्टिसंहारयुक्त्या तु स्नापयेदस्त्र भस्मना ॥ १८५ ॥

प्. ११५)

अस्त्रांबुना पुनः प्रोक्ष्य सकलीकरणायतम् ।
ऊर्ध्वं नाभेः कुशाग्रेण शोधयेदस्त्रमुच्चरन् ॥ १८६ ॥

त्रिधा लाभे ततन्मूलैः पापनाशाय नाभ्यधः ।
पाशद्वैविध्यनाशाय लभेदस्त्रेण सद्गुरुः ॥ १८७ ॥

शिष्यदेहे शिवान्तांगं शासनं च निवेदयेत् ।
पुष्पैः शिष्यं समाराध्य नेत्रं नेत्रेण वा हृदा ॥ १८८ ॥

दशासहितु वस्त्रेण शुक्लेनावेष्टयेन्मुखम् ।
शिष्यांजलिपुटे पुष्पं निक्षिप्य श्वेतवर्णकम् ॥ १८९ ॥

अरुणं भक्तिकामः स्यात्तथैवाञ्जलिके क्षिपेत् ।
वत्करद्वयमादाय देशिकाग्रे व्रजेत्क्रमात् ॥ १९० ॥

प्. ११६)

शिवस्य दक्षिणे भागे प्रदक्षिणममुं नयेत् ।
प्रणवासनके न्यस्त्वा वर्णाध्वानं निवेशयेत् ॥ १९१ ॥

शिष्यस्य हृदयांभोजे मूर्तिपादाब्जलक्षणम् ।
आत्मानं विन्यसेत्पश्चाच्छिष्यदेहं विशोधयेत् ॥ १९२ ॥

संहारमेवोच्चैरेवं ततः शुद्धचरित्रके ।
न्यासं कृत्वा शिवं ध्यात्वा पुनश्चैनं प्रपूजयेत् ॥ १९३ ॥

प्राचीनमुखशिष्यस्य शिवमन्त्रेण मस्तके ।
रुद्रे च पद त्वर्थं शिवहस्तं च दापयेत् ॥ १९४ ॥

मण्डले क्षेपयेत्पुष्पं पश्चादन्धमधित्यजेत् ।
तत्पादस्थानमालोक्य दद्याच्छिष्यस्य नाम च ॥ १९५ ॥

प्. ११७)

देवान्तं सर्वजातीनां नामधेय विधिर्भवेत् ।
ब्रह्मक्षत्रियजातीनां शिवान्तं नामधेयकम् ॥ १९६ ॥

गणान्तं वा भवे देवमन्येषां पितृवद्भवेत् ।
नैष्ठिकस्य विशेषेण जातिभेदं न चिन्तयेत् ॥ १९७ ॥

अकारश्च इकारश्च उकारश्च तथैव च ।
एकारश्च तथोकारः पंचस्वरमिदं भवेत् ॥ १९८ ॥

आयुरारोग्यलक्ष्मीं च क्षयं मरणमेव च ।
यथासंख्यं भवेत्सिद्धिस्तस्मान्नैवविचारयेत् ॥ १९९ ॥

शिष्यपूर्वाभिधानस्य नामाद्यक्षरनिश्चयम् ।
ज्ञात्वायुरादित्रितये तेषामेकन्तु दापयेत् ॥ २०० ॥

प्. ११८)

क्षयमारणकारिण्यौ द्वौचापि परिवर्जयेत् ।
दद्यान्नाम च शिष्याणां स्वेच्छया वा गुरूत्तमः ॥ २०१ ॥

भक्तानां च गणानां च नामधेयमथापि वा ।
अंगना च विशेषेण शक्तिनाम च दापयेत् ॥ २०२ ॥

स्थण्डीलीकरणं कृत्य शक्तिरूपि च वर्धनीम् ।
वह्नीशञ्च गुरुञ्चैव प्रणतिं कारयेद्गुरुः ॥ २०३ ॥

उत्तराभिमुखं शिष्यं स्वस्य दक्षिण पार्श्वगम् ।
आसनोपरि संस्थाप्य शिष्यदक्षिणकर्णके ॥ २०४ ॥

मूलमन्त्रमुपादित्य वामकर्णे सदाशिवम् ।
महेशं विमुखं चैवं सर्वपापविनाशनम् ॥ २०५ ॥

प्. ११९)

सुषुम्ना मध्यमं मूलमिडायान्तु सदाशिवम् ।
पिंगलायां महेशं च शिष्यदेहे विभावयेत् ॥ २०६ ॥

तन्मूलं गुरुजंघायां निधाय विधिना ततः ।
शिष्यस्य हृदयं गत्वा मूलमन्त्रेण रेचयेत् ॥ २०७ ॥

पूरकेण समागत्य स्वकीयं हृदयाणुणा ।
पुनः शिवाग्निनापत्यन्नाडी सन्धानमुच्यते ॥ २०८ ॥

सान्निध्यार्थं हृदा हुत्वा त्रितये नन्दिकेश्वर ।
मूलेन च शतं हुत्वा शिवहस्तं स्थिरं भवेत् ॥ २०९ ॥

शिष्यपाणिद्वये पुष्पैः शुभैरापूर्यदेशिकः ।
उत्तरे पूजिते लिंगं विलोक्य कुसुमानि वै ॥ २१० ॥

प्. १२०)

निक्षिप्य पादमूले च दण्डवत्प्रणमेद्भुवि ।
शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् ॥ २११ ॥

विनीतं शिष्यमाचार्यः करुणादवलोकयेत् ।
मदीयाज्ञा प्रसादेन कर्तव्यं त्रितयं तु तत् ॥ २१२ ॥

दानधर्म तपश्चर्याः कुरुष्वेति वदेद्गुरुः ।
मठं वृक्षं च गोत्रं च गोचरं च तथैव च ॥ २१३ ॥

सन्तानं पंचकं चैवमेवं शिष्याय सद्गुरुः ।
मठमामर्दकं वृक्षं वटं गोत्रं तथैव च ॥ २१४ ॥

शुद्धं तत्वं समाख्यातं गोचरं शिष्यमुच्यते ।
सन्तानं नन्दिकेशाख्यं श्रावयेच्छिष्यकान्प्रति ॥ २१५ ॥

प्. १२१)

प्रोक्षयेत्कुंभतोयादीन् तत्तन्मन्त्रेण देशिकः ।

इति चिन्त्य विश्वसादाख्ये क्रियासमयदीक्षाविधिर्नाम अष्टमः पटलः ॥




श्रीनन्दिकेश्वरः ।

सन्ध्योपास्तिं च देवेश प्रणतार्तिविनाशन ।
कृपया मां समालोक्य वदस्व वदतांवर ॥ १ ॥

ईश्वर उवाच ।

ब्राह्मे मुहूर्ते उत्थाय वक्ता चोदङ्मुखस्थितः ।
गुरुं पादाम्बुजद्वन्द्वं संचिन्त्य गुरुमण्डले ॥ २ ॥

प्. १२२)

मूलमन्त्रं च जिह्वाग्रे नमस्कृत्य प्रसन्नधीः ।
निष्कंपदीपवद्ध्यात्वा शिवं हृदय पंकजे ॥ ३ ॥

कर्तव्यं शुभकार्याणि चिन्तयित्वा समाहितः ।
उत्थाय च बहिर्गत्वा दण्डपाणिकमण्डलुः ॥ ४ ॥

योग्यदेशे समागत्य शिष्यैर्दण्डकमण्डलू ।
विधायावश्यकं कार्यं योग्यं देशाधिकं क्रमात् ॥ ५ ॥

देवालयसमीपे तु गोष्ठे रूपे चतुष्पथे ।
भस्मस्थाने सुरोद्यादे चैत्यवृक्षसमीपके ॥ ६ ॥

जलावासे द्विजावासे मारिवासे श्मशानके ।
अन्यजातिसमीपे तु सेतौ वल्मीककेऽपि वा ॥ ७ ॥

प्. १२३)

आवास पार्श्वेऽपि कृष्णक्षेत्रे विशेषतः ।
नन्दीगोमयपाषाण मूत्रास्थियुत भूतले ॥ ८ ॥

पर्वते च न कर्तव्यं मलमूत्र विसर्जनम् ।
स्कन्धे वा कर्णमूले वा यज्ञसूत्रं च विन्यसेत् ॥ ९ ॥

वेष्टयित्वा शिरस्तत्र ऋजुकायो न वापयेत् ।
भूतले तृणमाधाय अर्धाद्वाथ विलोकयेत् ॥ १० ॥

रविं दक्षिणतः कृत्वा विण्मूत्रौ तौ विसर्जयेत् ।
नासाग्र दृष्टिसंयुक्तो दिशश्चानवलोकयन् ॥ ११ ॥

निष्ठीवनं द्विजातीनां तं देशं न विधीयते ।
अस्नागोमयपाषाण दारुभिर्गतमार्जनम् ॥ १२ ॥

प्. १२४)

न कर्तव्यं न कर्तव्यं तत्रैव तृणलोष्ठकैः ।
मेढ्रं वामेन संगृह्य शुद्धमृत्स्नां च दक्षिणे ॥ १३ ॥

ग्राममध्ये तरोर्मूले सेतौ वल्मीकसंभवाः ।
वर्जयित्वा मृदस्सर्वाः तिसॄः कामी विशेषतः ॥ १४ ॥

तोयतीरं समागत्य सम्यक् शौचं समाचरेत् ।
सकृद्धात्री फलसमां मृदं मध्यजलैस्ततः ॥ १५ ॥

लिंगस्यैकां गुदे पञ्च वामहस्ते दशावृतिः ।
हस्तद्वये सप्तवृत्तिं जलैर्मृज्यादुभौ भुजौ ॥ १६ ॥

यावद्भावस्य संशुद्धिः तावच्छोचं समाचरेत् ।
न विनाभाव संशुद्धिः सम्यक् शुद्धिरितीरिता ॥ १७ ॥

प्. १२५)

प्रविश्य कूलदेशं तु पादौ हस्तौ विशोधयेत् ।
एकं यामं समायोज्य क्षालयेच्छुद्धवारिणा ॥ १८ ॥

दक्षिणांघ्रिं स्थले क्षिप्य वामपादं जले न्यसेत् ।
पाणिं गोकर्णवत्कृत्वा माषमग्नं जलं पिबेत् ॥ १९ ॥

द्वितीयं च तृतीयं च पिबेदम्बु यथाविधि ।
दन्तानां शोधनं पश्चान्मनुष्याणां विशेषतः ॥ २० ॥

समच्छेदं दृढं शुद्धं सान्द्रसत्वगपर्वकम् ।
कनिष्ठानाहसंयुक्तं दन्तकाष्ठस्य लक्षणम् ॥ २१ ॥

अष्टांगुलं नैष्ठिकानां भौतिकानां दशांगुलम् ।
शिरीषचिरिबिल्वोत्थ करञ्ज खदिरार्जुनैः ॥ २२ ॥

प्. १२६)

नैष्ठिकानामिति प्रोक्तं भौतिकानां विधीयते ।
आम्रापामार्गखदिर प्लक्षचम्पक संभवैः ॥ २३ ॥

जम्बूकपित्थमेदैश्च माधवैर्व्रणरोपणैः ।
वालिकेरोत्थजाशोकैः पावनैः पत्रकैरपि ॥ २४ ॥

वारिभी रवि संख्यातैर्गण्डूषैरास्य शोधनम् ।
एरण्डशिग्रुवानीरवेलु पैशाचभक्षणैः ॥ २५ ॥

छात्री नेत्रयवक्षीरी निम्बकाशांगुलीयकैः ।
लूशांगुलितपोलोहैर्न कुर्याद्दन्तधावनम् ॥ २६ ॥

प्रतिपत्पर्वषष्ठीषु नवमीदशमीष्वपि ।
मुमुक्षोश्च विशेषेण नित्यं वैदन्तधावनम् ॥ २७ ॥

प्. १२७)

जलस्नानं प्रकर्तव्यं सर्वपापहरं शुभम् ।
बहिरन्तर्विशुद्ध्यर्थं शिवेज्यायोगकारणम् ॥ २८ ॥

सर्वाचारप्रधानत्वं सर्वदुःस्वप्ननाशनम् ।
आलस्यादौ हरिद्रानां शूद्राणां च क्षयंकरम् ॥ २९ ॥

ऊर्जाबलप्रदं चैव दीपनं पुष्टिवर्धनम् ।
श्रीकरं दीर्घमायुष्यं सर्ववश्यप्रदं तथा ॥ ३० ॥

नद्यां तटाके वाप्यां वा कूपे वापि चतुर्विधम् ।
कूपस्नानं न कर्तव्यं यदि नद्याद्यसंभवे ॥ ३१ ॥

कूपाद्दशगुणं वाप्यां वाप्या दशगुणं तटम् ।
तटाद्दशगुणं नद्यां अनन्तफलमुच्यते ॥ ३२ ॥

प्. १२८)

तटाकतीर्थसदृशं मध्यमं कन्यसं पुनः ।
कुण्डोदं च निपातं च वापिस्नानसमं भवेत् ॥ ३३ ॥

अल्पं वा बहुलं वापि शिवालयसमीपगम् ।
सर्वतीर्थानि तत्स्थानि शिवं गंगाविधानतः ॥ ३४ ॥

अष्टांगुलादधः खात्वा मृदं मन्त्रेण तां पुनः ।
हृदयेनैव संगृह्य पुनस्तेनैव चित्रकम् ॥ ३५ ॥

निधाय पश्चान्मृत्स्नापि ततस्तीरं समाविशेत् ।
शिरोमन्त्रेण तां मृत्स्नां निधायास्त्रेण शोधयेत् ॥ ३६ ॥

शिखामुद्धृत्य शिखया कवचेन त्रिधा भवेत् ।
प्रक्षाल्य नाभिपादान्तमेकान्तं शिखया पुनः ॥ ३७ ॥

प्. १२९)

मध्यांशमस्त्र संदीप्तामादाय पदमस्तकम् ।
सर्वांगं च त्रिरालभ्य निरुद्ध्याक्षाणि सर्वशः ॥ ३८ ॥

हस्ताभ्यां जलनिर्मग्नः प्राणानायम्य संयतः ।
आसीत हृदि कालाग्नि सममस्त्रं करं तदा ॥ ३९ ॥

जलस्नानमिदं प्रोक्तं शुद्धस्नानं ततः परम् ।
जाह्नव्यादि महातीर्थेष्वाकृष्यांकुशमुद्रया ॥ ४० ॥

आवाह्य हृदये नैव मन्त्रेण स्नानमुद्रया ।
हृदमुत्तरतस्तीर्थं आदायान्यानि वारिणी ॥ ४१ ॥

वामहस्ततले कृत्वा भागत्रयमुदङ्मुखः ।
एकं दक्षिणभागस्थ मंगमस्त्राभिमंत्रितम् ॥ ४२ ॥

प्. १३०)

अस्त्रेण सप्तधा पूर्वं शिवेन दश सौम्यगम् ।
एवं भागत्रयं कुर्यादस्त्रजप्तं तदाहरेत् ॥ ४३ ॥

हुंफडन्तास्त्र मन्त्रेण दशदिक्षु क्षिपेत्क्रमात् ।
उत्तरस्थं समादाय शिवं जप्तभुजं क्रमात् ॥ ४४ ॥

जलमध्ये क्षिपेत्तन्तु शिवतीर्थमिदं भवेत् ।
अंगजप्तेन सर्वांगं लेपयेदंगविद्यया ॥ ४५ ॥

शीर्षादिपादपर्यन्तं प्रथमं दक्षिणं क्षिपेत् ।
चत्वारिं हृदयादीनि जलमध्ये जपेत्क्रमात् ॥ ४६ ॥

पिधाय नेत्राद्यक्षाणि पाणिभ्यां प्राणमारुतम् ।
शिवतीर्थजले मग्नः शिवं वा हृदि संस्मरन् ॥ ४७ ॥

प्. १३१)

चन्द्रार्करूपहस्ताभ्यां सेचयेत्कुंभमुद्रया ।
वौषडन्त षडंगेन जुहुयाच्च मुहुर्मुहुः ॥ ४८ ॥

साधकस्साधकैर्मन्त्रैर्जपाद्दशांश संख्यया ।
केऽभिषिञ्चेत्क्रमान्नित्यं अमृताम्बु विभावयेत् ॥ ४९ ॥

आत्मसंरक्षणार्थाय सर्वविघ्नोपशान्तये ।
अस्त्राभिमन्त्रितं तोयमभितः परिषेचयेत् ॥ ५० ॥

अथवा मठदेशेऽपि कूपादुद्धृतवारिभिः ।
कुंभे स्नानं प्रकुर्वीत पूर्वोक्तविधिमन्त्रकैः ॥ ५१ ॥

मृत्कुंभात्ताम्रकुंभे तु स्नानं शतगुणं भवेत् ।
ताम्राच्छतगुणं रौप्यं रजताद्धैमकं शतम् ॥ ५२ ॥

प्. १३२)

नैष्ठिके वापि साग्नौ वा गृहे वापि समं भवेत् ।
चक्रवर्त्युपचारेण सुगन्धामलकादिना ॥ ५३ ॥

येन केन प्रकारेण नित्यस्नानं न वर्जयेत् ।
नैष्ठिकस्यापि काषायमुत्तमं श्वेतमेव वा ॥ ५४ ॥

हस्तं वापि द्विहस्तं वा कौपीनायामकं भवेत् ।
द्वादशांगुलविस्तारं दशांगुलमथापि वा ॥ ५५ ॥

एतद्वशित्वा वेष्टिं च वेष्टयित्वा विशेषतः ।
आचम्य विधिवच्छुद्धः तत्वत्रय समन्वितः ॥ ५६ ॥

काककंककपोतैश्च कुक्कुटातावटिट्टिभैः ।
नरैरेतादृशैश्चैव खरोष्ट्रग्रामसूकरैः ॥ ५७ ॥

प्. १३३)

मृगधूर्तश्वभिश्चैव तदुद्भूतांगवैरिभिः ।
गुरुद्रव्यापहर्ता च तत्तद्द्रव्यविनाशिभिः ॥ ५८ ॥

महापातकिभिश्चैव कृतघ्नैश्चान्यलिंगिभिः ।
अदीक्षिताश्च सर्वेऽपि तैस्संस्पृष्टैर्विशेषतः ॥ ५९ ॥

जलस्नानं प्रकुर्वीत पवने पवने तथा ।
मन्त्रविच्छुक्लसंपर्को नाभेरूर्ध्वं करौ विना ॥ ६० ॥

एवमुक्तं जलस्नानं भस्मस्नानमतः परम् ।
विजयं श्रीकरं पुण्यं सर्वपापविनाशनम् ॥ ६१ ॥

अस्माकं च प्रियं देव्या विघ्नेशगुहयोरपि ।
देवानां च विशेषेण दैत्यानां च विशेषतः ॥ ६२ ॥

प्. १३४)

जलस्नानात्परं भस्म पाशपंचकनाशनम् ।
भस्मसंस्पर्शनार्थाय जलस्नानं पुरोदितम् ॥ ६३ ॥

आर्द्रजं तु वधं सिद्धं भस्मस्नान विवृद्धये ।
भस्मस्नान विहीनं चेज्जन्तुहन्तृत्वमावहेत् ॥ ६४ ॥

भस्मस्नानवियुक्तो हि भक्तो नत्यत्यते क्वचित् ।
तस्मात्सर्व प्रयत्नेन भस्मना स्नानमिष्यते ॥ ६५ ॥

त्रिपुण्ट्रं भस्मनास्नानं नैष्ठिकस्य विशेषतः ।
भौतिकस्य विशेषेण त्रिपुण्ट्रं विधिनार्द्रतः ॥ ६६ ॥

चतुर्विधं तु तद्भस्म कल्पं प्रथममुच्यते ।
अनुकल्पं द्वितीयं च तृतियमुपकल्पकम् ॥ ६७ ॥

प्. १३५)

अकल्पं तु चतुर्थं स्यात्पूर्व पूर्वं तथोत्तमम् ।
वर्ज्या वृद्धा व्याधिताश्च दुर्लक्षणयुतास्तथा ॥ ६८ ॥

तणकेन विहीना च बाला मौख्यवतीं विना ।
सुलक्षणां च कपिलां रक्तां शुक्लां सितोत्तराम् ॥ ६९ ॥

एतासां गोमयं पद्मपत्रेह्यम्भोद्भवे तथा ।
पालाशपत्रके वापि हस्ताभ्यां व्योम्नि धारयेत् ॥ ७० ॥

गोष्ठे वा गोमयं ग्राह्यं सद्योमन्त्रेण धारयेत् ।
उपर्यधस्तथा कुर्याद् विसृजेन्मध्यमं पुनः ॥ ७१ ॥

गोलकाकारकं कुर्याद् वामदेवादि मन्त्रवित् ।
अघोरेण च संशोष्य शुद्धदेशे दहेत्पुनः ॥ ७२ ॥

प्. १३६)

पुरुषेण विशेषेण नवभाण्डे विनिक्षिपेत् ।
कर्पूरोशीर ह्रीबेरकेतकैश्चम्पकैस्तथा ॥ ७३ ॥

दमने देशमन्त्रेण जपेत्तस्माद्विशेषतः ।
अनुकल्पं ततश्चैव शृणुत्वं नन्दिकेश्वर ॥ ७४ ॥

वने शुष्कं शकृद्गृह्य कल्पवत्पूर्ववद्भवेत् ।
कुर्यात्पूर्वोक्तविधिना भवेद्भस्मोपकल्पकम् ॥ ७५ ॥

चूर्णं कृत्वा तु संगृह्य गोमूत्रैः पिण्डवत्कुरु ।
दग्धं पूर्वोक्त विधिना भवेद्भस्मोपकल्पकम् ॥ ७६ ॥

पूर्वोक्तविधि मुत्सृज्य केवलं भस्मसाधनम् ।
संस्कारे पिण्डवत्कुर्यादकल्पमभिधीयते ॥ ७७ ॥

प्. १३७)

अन्यैरापादितं भस्म अकल्पमिति पूज्यते ।
चातुर्विध्यमिदं प्रोक्तं सर्वपापनिकृन्तनम् ॥ ७८ ॥

कल्पभस्म च संगृह्य दिग्बन्धं कारयेत्ततः ।
शेषेण ब्रह्ममन्त्रेण मूर्धाद्यंगानि धूलयेत् ॥ ७९ ॥

कल्पस्नानमिदं प्रोक्तं शिवस्नानमतः परम् ।
पञ्चब्रह्मषडंगाद्यैर्निवृत्त्याद्यभिमन्त्रितम् ॥ ८० ॥

ईशानमूर्ध्नि विन्यस्य मुखे तत्पुरुषे न्यसेत् ।
अघोरं तु गलं नाभिजान्त्वन्तं वामदेवकम् ॥ ८१ ॥

सद्योजातं तु पादान्तं भस्मोद्धूलविधिक्रमः ।
सद्योजातेन बाहूद्वौ मूलमन्त्रेण वक्त्रकम् ॥ ८२ ॥

प्. १३८)

शंखतोयेन मूलेन भस्म व्यामिश्रणं भवेत् ।
त्रिपुण्ट्रं कारयेत्पश्चाद्ब्रह्मविष्णुशिवात्मकम् ॥ ८३ ॥

द्वात्रिंशत्स्थानके वापि षोडशस्थानकेऽपि वा ।
अष्टस्थाने तथा चैव पञ्चस्थानेऽपि योजयेत् ॥ ८४ ॥

उत्तमांगे ललाटे च करयोर्नेत्रयोस्तथा ।
नासावक्त्र गलेष्वेवमंसद्वयमतः परम् ॥ ८५ ॥

कोर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः ।
नाभौ गुह्यद्वयोश्चैवमूर्वोः स्फिग् द्वीद्विजानुनी ॥ ८६ ॥

जंघाद्वये वा पादौ द्वौ द्वात्रिंशत्स्थानमुत्तमम् ।
अमृत्यष्टौ च विद्येशान्दिक्पालान्वसुभिस्सह ॥ ८७ ॥

प्. १३९)

धरो ध्रुवश्च सोमश्च आपश्चैवानि लोऽनलः ।
प्रत्यूषश्च प्रभासश्च इत्यष्ट वसवः स्मृताः ॥ ८८ ॥

एतेषां वाममन्त्रेण त्रिपुण्ट्रं स्थापयेद्बुधः ।
विदध्यात् षोडशस्थाने त्रिपुण्ट्रं तु समाहितः ॥ ८९ ॥

शीर्षे कर्णे ललाटे च कण्ठे चांसद्वयोरपि ।
कोर्परे मणिबन्धे च हृदये नाभिपार्श्वके ॥ ९० ॥

पृष्ठे चैवं प्रतिष्ठानं जपेत्तत्राधि दैवतान् ।
शिवशक्तिं च सादाख्यमीशं विद्याख्यमेव च ॥ ९१ ॥

वामादि नवशक्तिश्च अश्विनौ षोडश स्मृताः ।
बाहुद्वये च हृदये नाभ्यामूर्वोर्युगे तथा ॥ ९२ ॥

प्. १४०)

जानुद्वये पदोश्चैव पृष्ठभागं तु षोडश ।
तेषु स्थानेष्वधिपकान्यथायोगं शृणुष्व तान् ॥ ९३ ॥

शिवः स्कन्दश्च चन्द्रार्कौ विघ्नेशो विष्णुरेव च ।
श्रीश्चैव हृदये देशे तथा नाभौ प्रजापतिः ॥ ९४ ॥

नागाश्च नागकन्याश्च उभयो ऋषिकन्यकाः ।
पादयोश्च समुद्राश्च तीर्थाः पृष्ठेऽपि चास्त्रकः ॥ ९५ ॥

एवं वा षोडश ध्यायेदष्टस्थानानि चोच्यते ।
शिरःस्थानं ललाटं च कर्णद्वयमतः परम् ॥ ९६ ॥

अंसद्वयं च हृदयं नाभिरित्यष्टमं भवेत् ।
ब्रह्मा च ऋषयस्सप्त देवताश्च प्रकीर्तिताः ॥ ९७ ॥

प्. १४१)

अथवा मस्तकं बाहू हृदयं नाभिरेव च ।
पञ्च स्थानान्यमून्याहुः पंचमूर्तिश्च देवताः ॥ ९८ ॥

गुरुदेवाग्निविद्यानां सन्निधौ वाज्यदर्शने ।
महापातकयुक्तानां कृतघ्नस्यापि दर्शने ॥ ९९ ॥

अशुद्धभूतके मार्गे धूलनं न विधीयते ।
तस्माद्विशुद्धदेशेऽपि चासने संस्थितः शुचिः ॥ १०० ॥

उत्तराभिमुखो भूत्वा मौनी ध्यात्वा शिवं गुरुम् ।
परमाणुसमं भस्म भूमौ न पतितं भवेत् ॥ १०१ ॥

तद्वत्संग्राह्य यत्नेन त्रिपुण्ट्रोद्धूलनं भवेत् ।
सर्वपाप विनिर्मुक्तः सर्वशुद्धि समन्वितः ॥ १०२ ॥

प्. १४२)

तस्य दर्शनमात्रेण सर्वपापात्प्रमुच्यते ।
बहुनात्र किमुक्तेन देशिकेक्षणसन्निधौ ॥ १०३ ॥

अनायासेन पापानि मनोवाक्कायजान्यपि ।
त्रिपुण्ट्रधारणेनैव प्रणश्यत्यखिलान्यपि ॥ १०४ ॥

भूतिधारणहीनस्य तत्तज्ज्ञानेन तत्परः ।
न च योगसमाधिश्च न चेज्या दानमेव च ॥ १०५ ॥

तस्मात्सर्व प्रयत्नेन भस्मना स्नानमुत्तमम् ।
भस्मसंस्पृष्टहस्तेन वारिणा प्रोक्षणं परम् ॥ १०६ ॥

द्विजात्यदीक्षितस्पर्शे भस्मस्नानं विधीयते ।
पश्चात्कौपीनमुत्सृज्य तालमुद्रासमन्वितः ॥ १०७ ॥

प्. १४३)

अन्यकौपीनमाच्छाद्य विक्ताचमनं भवेत् ।
अथ माहेन्द्रकं स्नानं सूर्यांशुसचिवैस्सह ॥ १०८ ॥

ऊर्ध्वबाहुः शिवं ध्यायपरस्सप्त पदागतिः ।
ईशमन्त्रं जपन्गच्छेद् गुरुभक्ति विशारदः ॥ १०९ ॥

वायव्यं स्नानमेवाहं गोरवुरोद्भूतरेणुभिः ।
पुरुषं कवचं वापि जपन्सप्तपदावधि ॥ ११० ॥

जलैस्सद्यादिभिर्मन्त्रैः मन्त्रस्नानं भवेत्पुनः ।
मूलमन्त्रेण मनसा प्राणायामसमन्वितः ॥ १११ ॥

मानसं स्नानमेवं हि सर्वत्र विहितं हि तत् ।
अथाचमनविधिं वक्ष्ये शृणुत्वं नन्दिकेश्वर ॥ ११२ ॥

प्. १४४)

पादप्रक्षालनं कृत्वा हस्तं संशोद्ध्य वारिणा ।
कुक्कुटासन संयुक्तं पाणिं गोकर्णवद्भवेत् ॥ ११३ ॥

जान्वन्तस्थित हस्तश्च फेनबुद्बुदवर्जिता ।
संगृह्यमाषमग्नाम्बु सव्यपाणिपुटेन च ॥ ११४ ॥

संवीक्ष्यां गुष्ठमूलस्थं ब्राह्मतीर्थेन वारिणा ।
मन्त्रशुद्धिं पुरा कृत्वा चात्मविद्याशिवात्मिका ॥ ११५ ॥

तारं प्रथममुच्चार्या हामात्मस्थं त्वया स्वधा ।
एतत्प्रथमपानेन संशुद्धिर्नन्दिकेश्वर ! ॥ ११६ ॥

एकत्रिंशत्तत्वशुद्धिः पृथ्व्या मायान्तु संयुता ।
पूर्वं प्रणवमुच्चार्य ह्रीं त्वया तत्वया स्वधा ॥ ११७ ॥

प्. १४५)

एवं द्वितीयपानेन यतत्व विशोधनम् ।
शुद्धविद्येशसादाख्यस्त्रितत्वमिति कीर्तितम् ॥ ११८ ॥

ओंकारान्तं तदुच्चार्य ह्रीं शिवाय स्वधात्मनः ।
पुनस्तृतीयपानेन शक्तितत्वस्य शोधनम् ॥ ११९ ॥

पंचत्रिंशत्तत्वशुद्धिरेवमाचमनेन हि ।
अधरोष्ठौ द्विः प्रमृज्यं नमोऽन्तं हृदयोपरि ॥ १२० ॥

दक्षिणांगुष्ठमूलेन ततो ज्येष्ठ कनिष्ठिकाः ।
विहाय मध्य संस्थापस्तिसृभिः संस्पृशेच्चतौ ॥ १२१ ॥

अंगुष्ठतर्जन्याक्रम्य प्राणसंस्पर्शनं क्रमात् ।
त्रिवारं वारिपानेन त्रितत्वस्य प्रियं भवेत् ॥ १२२ ॥

प्. १४६)

तथैव शिवभक्तानां प्रियमाम्नायकेष्वपि ।
अथर्वसामयजुषामधरोष्ठ प्रमार्जनात् ॥ १२३ ॥

ऋग्वेदस्य विशेषेण शिवभक्तस्य तत्प्रियम् ।
मध्यमांगुलत्रयेणापि चोर्ध्वाधो मार्जनं भवेत् ॥ १२४ ॥

गणेश्वराणां प्रीतिश्च मूलमन्त्रेण मन्त्रिणाम् ।
मूलमन्त्रं जलेनैव पादमूर्धावपि स्पृशेत् ॥ १२५ ॥

दक्षिणां च गणानां च प्रियं भवति सर्वदा ।
अंगुष्ठानामिकाग्रेण नेत्रद्वन्द्वं तथैव च ॥ १२६ ॥

तारयुक्तानि बीजेन सूर्याचन्द्रमसोः प्रियम् ।
तर्जन्यंगुष्ठकेनैव पृथ्वीबीजं ध्रुवं तथा ॥ १२७ ॥

प्. १४७)

संयोज्यानामिकात्सृष्टिमसौ प्रीतिरनुत्तमा ।
व्योमबीजं ध्रुवं चैव कनिष्ठांगुलिसंयुतम् ॥ १२८ ॥

जेलेन कर्णयोः स्पर्शं दिशां प्रीतिर्भवेत्तदा ।
तारवद्भवसंयुक्ता चतुरंगुल मूर्तिभिः ॥ १२९ ॥

नाभिसंस्पर्शपंचैव विष्णोः प्रीतिकरं भवेत् ।
दक्षहस्ततलेनैव हृन्मन्त्रं तु समुच्चरन् ॥ १३० ॥

हृदि संस्पर्शनादेव वह्निरह्नाय मोदते ।
शिवमन्त्रं समुच्चार्य पंचांगुलमुखेन च ॥ १३१ ॥

शिखासंस्पर्शनादेव शिवप्रीतिस्तदा भवेत् ।
क्षुते निष्ठीवने कालेप्याचामन्तु तदा भवेत् ॥ १३२ ॥

प्. १४८)

अथवा दक्षिणं श्रोत्रं संस्पृशेद्दक्षपाणिना ।
द्विराचामेद् विशुध्यर्थं भावशुद्धिसमन्वितः ॥ १३३ ॥

ततश्च सकलीकृत्य प्राणायामत्रयं भवेत् ।
तथैव संहत्य मन्त्रान् मनसा त्रि प्रवर्तयेत् ॥ १३४ ॥

पुनराचम्य विधिना विधाय श्रोत्रवन्दनम् ।
एकचित्तः प्रसन्नात्मा करांगन्यासमाचरेत् ॥ १३५ ॥

ओं ह्रीं अस्त्राय फट् ।

एवं मन्त्रं समुच्चार्य वामपाणिं च शोधयेत् ।
करेण दक्षिणेनैव दक्षिणं वामपाणिना ॥ १३४ ॥

एकवारं तमुच्चार्य शोधनं नन्दिकेश्वर ।

ओं हां हौं शिवाय नमः ।

अस्त्र तेजोन्वितौ हस्तौ मणिबन्धावनुस्मरन् ॥ १३७ ॥

प्. १४९)

पाणिभ्यां संपुटं कृत्वा चांगुष्ठद्वयमध्यमे ।
ध्यायेदमृतरूपेण शक्तिमण्डलमुत्तमम् ॥ १३८ ॥

ओं हौं शक्तयेवषड् संप्लावं तत्करद्वयम् ।
वकारं तत्पुटेभाव्यं तन्मध्येऽपि शिवासनम् ॥ १३९ ॥

ओं हां शिवासनाय नमः ।

मूर्तिं सूक्ष्मे तु संचिन्त्य पश्चान्मन्त्रं समुच्चरेत् ।

ओं हां विद्यादेहायनमः ।

एवं सदाशिवं रूपं विन्यसेन्नन्दिकेश्वर ॥ १४० ॥

ओं हां हौं शिवाय नमः ।

एवं सदाशिवं देवं चिन्तयेद्व्यापकं तदा ।
सकलीकरणं पश्चात् कनिष्ठांगुष्ठकान्तगम् ॥ १४१ ॥

प्. १५०)

ओं हां हृदयाय नमः । इति कनिष्ठिकायाम् ।
ओं हां शिरसे स्वाहा । इत्यनामिकायाम् ॥

ओं ह्रीं शिखाय वौषण्णमः । इति मध्यांगुलौ ।
ओं हौं कवचाय हुं फण्णमः । इति तर्जन्याम् ॥

ओं हां अस्त्राय फट् । इत्यंगुष्ठे ।

पश्चात्तु परमीकायं कारयेन्मूलमन्त्रतः ।
अवगुण्ठ्य तनुरुहौ पुनर्नाभौ शिवासनम् ॥ १४२ ॥

ओं हां शिवासनाय नम इति विश्वे व्यवस्थितः ।
सदाशिवस्य संप्राप्तिर्नाभेरा ब्रह्मरन्धकम् ॥ १४३ ॥

ओं हां हौं सदाशिवाय नमः ।

  • * * द्वादशोच्चारादासनादि चतुष्टयम् ।


प्. १५१)

हृदये हृदयं पश्चात् शिरः शिरसि विन्यसेत् ॥ १४४ ॥

शिखायां तु शिखां न्यस्य तनुत्रं तनुमध्यमे ।
नेत्रेषु नेत्रं विन्यस्य हस्तयोर्हस्तमेव च ॥ १४५ ॥

चोटिकामुद्रया तेन दशदिग्बन्धनं कुरु ।
मूलेन परमीकृत्वा महामुद्रा ततः क्रमात् ॥ १४६ ॥

हस्तद्वयेन पादाभ्यां मस्तकान्त डां स्पृशेत् ।
शा वौषडन्तेन मन्त्रेणैव तु कारयेत् ॥ १४७ ॥

निरीक्षणादिभिः शोध्य जलमंकुशमुद्रया ।
ललाटे तीर्थमाकर्षेद् ओं हां हृदयाय वौषट् ॥ १४८ ॥

तत्पुरुषमुच्चार्य नमोन्तं भवमुद्रया ।
निक्षिपेज्जलमध्ये तु मूलमन्त्रषडंगकैः ॥ १४९ ॥

प्. १५२)

अभिमन्त्र्य तनुत्रेण चावकर्णौ तु कारयेत् ।
अमृतीकरणं कुर्याद् विघ्नौघानां निवारणम् ॥ १५० ॥

ओं ह्रौं ह्रां ह्रीं ह्रूं हॄं ह्रैंश्च प्राणायामत्रयं भवेत् ।
पुनराचमनं कुर्याद् यथोक्तं तद्विधानतः ॥ १५१ ॥

दीक्षा विहीन जनता दीक्षादोषस्य नाशने ।
अरुणोदयमारभ्य नाडीपंचकसंयुतम् ॥ १५२ ॥

तदा * * * * * * * * * धेनुमुद्रया ।

ओं हौं शिखाय वौषट् । ओं हां हृदयाय नमः ॥
वौषट् ओं शिरसे वौषट् । ओं हृं शिखायै वषट् ॥
ओं हौं कवचाय हुम् । वौषट् । ओं हः अस्त्राय फट् ।
शिरोभिषेचनं कुर्यान्मन्त्रैस्तैः कुंभमुद्रया ।

प्. १५३)

ओं हैं कवचाय नमः ।

सुधामय जलेनैव देहसंवेष्टनं कुर्यात् ॥ १५३ ॥

प्रातस्सन्ध्येति तत्काले ब्राह्मीं हृदयपंकजे ।
रक्तमाल्याम्बरधरां रक्तगन्धानुलेपनाम् ॥ १५४ ॥

जटामकुटसंयुक्तां चतुर्वक्त्रां चतुर्भुजाम् ।
हंसपंकजमध्यस्थां अष्टद्रव्यावलोकिनीम् ॥ १५५ ॥

यज्ञोपवीतिनीं बालां पद्ममालाविराजिताम् ।
सृगक्षमालां सव्यक्तां बाहुभ्यां दधतीं पराम् ॥ १५६ ॥

दण्डं कमण्डलुं द्वाभ्यां वामाभ्यां च तथैव च ।
त्रिपुण्ट्रावलिसंदीप्तां सर्वाभरणभूषिताम् ॥ १५७ ॥

प्. १५४)

शतयोजनकोटीभिर्विस्तृते रक्तमण्डले ।
तन्मध्ये सुस्थिरां देवीं सर्वकर्मणि साक्षिणीम् ॥ १५८ ॥

मध्याह्ने वैष्णवीं ध्यायेच्छुक्लां शुक्लां शुकोज्वलाम् ।
वैनतेयाब्जमध्यस्थां एकवक्त्रां सुयौवनाम् ॥ १५९ ॥

वनमालोपवीतां च संहतस्तनसंयुताम् ।
बिम्बोष्ठीं चारुवदनां नेत्रयुग्मां स कुण्डलाम् ॥ १६० ॥

शंखं वामे च चक्रं च दक्षिणे दधतीं करे ।
गदाभयं च दधतीं त्रिपुण्ट्रांकितमस्तकाम् ॥ १६१ ॥

सर्वालंकारसंयुक्तां साक्षिणीं सर्वकर्मणाम् ।
द्विशतकोटियोजनविस्तीर्णे श्वेतमण्डले ॥ १६२ ॥

प्. १५५)

तत्र मध्य स्थितां देवीं सारां संस्थितिकारिणीम् ।
सायाह्ने शिवसिद्धा ये रौद्रीं नीलोत्पल प्रभाम् ॥ १६३ ॥

गंगेन्दु मण्डितजटामीषद्गलित यौवनाम् ।
वृषपंकजमध्यस्थां एकवक्त्रां त्रिलोचनाम् ॥ १६४ ॥

कृष्णाजिनोपवीतं च सर्वाभरणभूषिताम् ।
सर्वलक्षणसंयुक्तां संहारक्रमकारिणीम् ॥ १६५ ॥

भस्मत्रिपुण्ट्रसंयुक्तां त्रिशूलाक्षां च दक्षिणे ।
वामे शक्त्याभयं देवीं सर्वकर्मसु साक्षिणीम् ॥ १६६ ॥

अर्धास्तमितत्रिशतकोटियोजन विस्तृते ।
बिन्दुमण्डलमध्यस्थां भावयेन्नन्दिकेश्वर ॥ १६७ ॥

प्. १५६)

तासां प्रभाभिर्गगनं भासितं भावयेत्तदा ।
उत्तमा परमा सन्ध्या मध्यरात्रे विशेषतः ॥ १६८ ॥

शिवशक्ति स्वरूपेण चैकत्वे चैकतां गता ।
बिसतन्तुनिभां सूक्ष्मां रक्तां शुक्लां सितेतराम् ॥ १६९ ॥

चतुर्थी निष्कलानित्या कृष्णा सा च विभाव्यते ।
शिवबोधापराया तु सा सन्ध्या परमा भवेत् ॥ १७० ॥

अंगुष्ठमूले ब्राह्मं च कनिष्ठाधः प्रजापते ।
पैत्रं तु तर्जनीमूले कराग्रे देवतीर्थकम् ॥ १७१ ॥

दक्षहस्ततले चाह्नं देवं वा वामहस्तके ।
सर्वपर्व स्वंगुलीनामार्षतीर्थं विशेषतः ॥ १७२ ॥

प्. १५७)

मणिबन्धप्रवेशे तु भूततीर्थमथाष्टकम् ।
ब्राह्मतीर्थादधस्तीर्थं दिशानां नन्दिकेश्वर ॥ १७३ ॥

पश्चाच्छिवात्मकैर्मन्त्रैस्तत्तोयेन प्रकारयेत् ।
त्रिवारं हृदयं जप्त्वा रुद्धाधस्थकरद्वये ॥ १७४ ॥

कुशा दक्षिणहस्तेन सन्दर्भं वामपाणिना ।
षडंगेनाभि मन्त्र्यैतत् कवचेनाव गुण्ठितम् ॥ १७५ ॥

शस्त्रेण रक्षां कृत्वा वै वेणुमुद्रामृती कृतिम् ।
जलं प्रक्षिप्य तदधो गलितेन च वारिणा ॥ १७६ ॥

वौषडन्तं षडंगेन मार्जनं मूर्ध्नि चाचरेत् ।
सव्यहस्ततिले नीत्वा शेषितं वारि तत्पुनः ॥ १७७ ॥

प्. १५८)

करांगन्यासकं कृत्वा रविमण्डलमध्यमे ।
शिवायार्घ्यं ततः कृत्वा गायत्रीं मनसा जपेत् ॥ १७८ ॥

उक्षितः पूर्वसन्ध्यायां मध्याह्ने चोदितो भवेत् ।
सायमुत्थाप्य दत्वार्ध्यमुपविश्य त्रिलोचनाम् ॥ १७९ ॥

पद्मोपरिस्थितां शुक्लां सौम्यदेहां शुचिस्मिताम् ।
एकवक्त्रां प्रसन्नाक्षीं पंकजासन संस्थिताम् ॥ १८० ॥

जटामकुटसंयुक्तामर्धेन्दुकृत शेखराम् ।
त्रिपुण्ट्रावलिभिर्दीप्तां शुक्लयज्ञोपवीतिनीम् ॥ १८१ ॥

चतुर्भुजां चतुर्वक्त्रां साक्षसूत्रधरां पराम् ।
पद्माभयान्वितां देवीं चतुर्वेदफलान्विताम् ॥ १८२ ॥

प्. १५९)

गायत्रीं मनसा ध्यायेत् सर्वपाप विकृन्तनीम् ।
ओं तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि ॥

तन्नः शिवः प्रचोदयात्

त्रिसन्ध्यं शिवगायत्रीं जपेद्भक्ति समन्वितः ॥ १८३ ॥

ओं हां शिवायार्घ्यं स्वाहा ।

एवं मन्त्रं जपित्वार्ध्यं दत्वा सद्यो विसर्जनम् ।
त्रिः प्रदक्षिणमावर्त्त्य मूलमन्त्रं जपेद्बुधः ॥ १८४ ॥

मन्त्राणां दीपनार्थाय कुर्यात्तर्पणमप्यथ ।

ओं हौं शिवाय स्वाहा । ओं हृदयाय स्वाहा ।
ओं हां शिरसे स्वाहा । ओं हूं शिखायै स्वाहा ।
ओं हैं कवचाय स्वाहा । ओं हौं नेत्रत्रयाय स्वाहा ।

प्. १६०)

ओं हां विष्णवे स्वाहा ओं हां रुद्राय स्वाहा ।
ओं हां सदाशिवाय स्वाहा ओं हां वाग्वादिनी स्वाहा ।
ओं हां सरस्वत्त्यै स्वाहा ।

साध्यानां मन्त्रदेवानां तर्पयेन्नन्दिकेश्वर ॥ १८५ ॥

एतैर्मन्त्रैश्च दिक्पालानिन्द्राद्यैः स्वस्वनामभिः ।

ओं हां ऐन्द्र्यै स्वाहा । ओं हां आग्नेययै स्वाहा ।
ओं हां दक्षिणायै स्वाहा । ओं हां नैर्-ऋत्यै स्वाहा ।
ओं हां वारुण्यै स्वाहा । ओं हां वायव्यै स्वाहा ।
ओं हां उत्तरायै स्वाहा । ओं हां ऐशान्यै स्वाहा ।
ओं हां अन्तरिक्षाय स्वाहा ।

एवं दशदिशां तृप्तिं कारयेद्दक्षिणाय च ॥ १८६ ॥

प्. १६१)

ओं हां आदित्येभ्यः स्वाहा । ओं हां वसुभ्यः स्वाहा ।
ओं हां रुद्रेभ्यः स्वाहा । ओं हां विश्वेभ्यः स्वाहा ।
ओं हां साध्येभ्यः स्वाहा । ओं हां मरुद्भ्यः स्वाहा ।
ओं हां भृशभ्यः स्वाहा । ओं हां अंगिरोभ्यः स्वाहा ।

आदित्याद्यं गिरोऽन्तं तु तर्पयेद्देवतीर्थकैः ।
तत्र कण्ठोपवीती च ऋषीणां तर्पणं क्रमात् ॥ १८७ ॥

कुशमध्येन तत्सर्वमंगुली सर्वसन्धिभिः ।

ओं हां अत्रये नमः । ओं हां वसिष्ठाय नमः ।
ओं हां पुलस्त्याय नमः । ओं हां क्रतवे नमः ।
ओं हां भारद्वाजाय नमः । ओं हां विश्वामित्राय नमः ।
ओं हां प्रचेतसे नमः । ओं हां सनातनाय नमः ।

प्. १६२)

अत्र्यादि प्रचेतान्तमृषयो देववंशजाः ॥ १८८ ॥

कनिष्ठामूलदेशाभ्यां मानुषाणां च तर्पणम् ।

ओं हां सनकाय वषट् । ओं हां सनन्दनाय वषट् ।
ओं हां सनातनाय वषट् । ओं हां सनत्कुमाराय वषट् ।

ओं हां कपिलाय वषट् । ओं हां ऋभवे वषट् ।
ऋभ्वन्तसनकादीनां सप्तानां मुनिनां क्रमात् ॥ १८९ ॥

सिद्धांश्च तण्डुलैः सार्धं पूर्ववत्तर्पणं भवेत् ।

ओं हां शिखायै वषट् । ओं हां रुद्राय वषट् ।
शिवादिचण्डपर्यन्तं दशचण्डांश्च तर्पयेत् ॥ १९० ॥

हस्तमाल्येन भूतानां तण्डुलैस्सह तर्पयेत् ।

ओं हां आकाशभूतेभ्यो वौषट् ।

प्. १६३)

आकाशादिपृथिव्यन्तं भूतेभ्यस्तर्पणं कुरु ॥ १९१ ॥

कृत्वा यज्ञोपवीतं तु दक्षिण स्कन्धसंयुतम् ।
कुशाग्रं तत्तिलैः सार्धं तर्जनीमूल तर्पणम् ॥ १९२ ॥

ओं हां कव्यवाहनाय स्वधा । ओं हां अनलाय स्वधा
ओं हां सोमाय स्वधा । ओं हां यमाय स्वधा ।
ओं हां अर्यम्णे स्वधा । ओं हां अग्निष्वात्ताय स्वधा ।
ओं हां आज्यपाय स्वधा । ओं हां सोमपाय स्वधा ।

पितॄणां कव्यवाहादि सोमपान्तं प्रवर्तयेत् ॥

ओं हां पितृभ्यः स्वधा । ओं हां पितामहेभ्यः स्वधा ।
ओं हां प्रपितामहेभ्यः स्वधा । ओं हां मातुः पितामहेभ्यः स्वधा ।
ओं हां मातुः प्रपितामहेभ्यः स्वधा ।

प्. १६४)

ओं हां सर्वेभ्यः पितामहेभ्यः स्वधा ।
ओं हां सर्वेभ्यो ज्ञातिभ्यः स्वधा ।
ओं हां सर्वेभ्य आचार्येभ्यः स्वधा ।

पित्राद्याचार्यपर्यन्तं मनुष्याणां पितॄंस्तदा ॥ १९३ ॥

मातॄणां च ग्रहाणां च राक्षसानां तथैव च ।
स्वधान्तं तर्पणं कुर्याद् यथा विधिस्तथैव च ॥ १९४ ॥

ओं हां सर्वेभ्यो मातृभ्यः स्वधा ।
ओं हां सर्वेभ्यो ग्रहेभ्यः स्वधा ।
ओं हां सर्वेभ्यो राक्षसेभ्यः स्वधा ।
ओं हां हुं अस्त्राय फडिति जलतीरे विनिक्षिपेत् ।
ओं हां हृदयाय नम इति ।

प्. १६५)

हंसारयमुद्राया तीर्थानि सर्वांश्च हृदि संहरेत् ।
यत्र कारे समो वामो मन्त्रमन्यामनन्तरम् ॥ १९५ ॥

करन्यासं पुरा कृत्वा देहन्यासमनन्तरम् ।
बालबालिश वृद्धस्त्रीरोगिणां भोगि भूभुजाम् ॥ १९६ ॥

गुरुवक्त्रेण संकोच्य तर्पणादींश्च कारयेत् ॥ १९६ १/२ ॥

इत्यचिन्त्य विश्वसादाख्ये संध्योपासनविधिर्दशमः पटलः ॥



प्. १६६)

शृणु वक्ष्ये विशेषेण सूर्यार्घ्यं चापि पूजनम् ।
आचम्य विधिवत्सव्यी करांगन्यासमारभेत् ॥ १ ॥

हृदयादस्त्रपर्यन्तं देहन्यासमतः परम् ।
सूर्यात्मानं स्वयं ध्यात्वा साधयेदर्घ्यभाजनम् ॥ २ ॥

आसने प्राङ्मुखो भूत्वा मण्डलं वृत्तमाचरेत् ।
स्वहस्तं वापि तत्कृत्वा आचामं शुद्धभूतले ॥ ३ ॥

गोमयेन जलेनापि लेपयेद्रविमण्डलम् ।
अस्त्रेण प्रोक्षयेत्तत्र रक्तचन्दनवारिभिः ॥ ४ ॥

ताम्रपात्रे जले पूर्य रक्तचन्दनतण्डुलैः ।
रक्तपुष्पैः कुशैर्दर्भैः तिलसर्षपतण्डुलैः ॥ ५ ॥

प्. १६७)

ललाटकोष्ठबिन्दुं च निक्षिपेदमृताकृतिम् ।
अंगैरादित्यमभ्यर्च्य कवचेनावगुण्ठनम् ॥ ६ ॥

अस्त्रेण रक्षणं कृत्वा जानुभ्यामवनीं गतः ।
आसक्तं प्रोद्धरेत्तत्र द्रव्यमण्डल दृष्टियुक् ॥ ७ ॥

भक्तार्ध्यं च रवेर्दद्यान् मूलमन्त्रेण साधकः ।

ओं आं ह्रीं ह्रूं सं सूर्याय नमः ।
ओं हं खं खषोल्काय मूर्तये नमः ।

मूर्तिमूर्तीश्वरं जप्त्वा दापयेदर्ध्यवारिचेत् ॥ ८ ॥

देवपूजां समारभ्य गन्धपुष्पादिभिस्सह ।
शिखोर्ध्वे पूजयेत्सम्यक् गुरुमण्डलमादृतः ॥ ९ ॥

प्. १६८)

हृदये भास्करं ध्यात्वा सांगावरणभासुरम् ।
वहिः कल्पित बिम्बे च भानुं सोमे प्रपूजयेत् ॥ १० ॥

दण्डिनं पिंगलं चैव द्वारपालं समर्चयेत् ।

ओं हं दण्डिने नमः ॥ ओं अं पिंगलाय नमः ।
ओं अं गणपतये नमः । ओं अं गुरुभ्यो नमः ॥

ओं ईशान्यां तु गणेशानं आग्नेययां गुरुमावहेत् ॥ ११ ॥

प्रभूतासनं तु जप्त्वैवं श्वेतपीठस्य मध्यमे ।

ओं हां प्रभूतासनाय नमः ॥

आग्नेययां दिशि पर्यन्तं कोणेषु च यथा क्रमम् ॥ १२ ॥

विमलासनमाराध्य परमाख्यं सुखं ततः ।

  • * रक्तं च हेमं च हरिताभं यथाक्रमम् ॥ १३ ॥


प्. १६९)

ओं हां अं विमलाय नमः । ओं अं आराध्याय नमः ।
ओं अं परमसुखाय नमः ।

तेषामुपरि संकल्प्य श्वेतं भासुरकर्णिकम् ।

ओं अं पद्माया * * ॥

दीत्तां सूक्ष्मां रुचं भद्रां विभूतिं विमलां तथा ॥ १४ ॥

अमोघा विद्युता चैव तन्मध्ये सार्वतो मुखम् ।
पूर्वादीशान्त मध्ये च नवशक्तीर्यजेत्क्रमात् ॥ १५ ॥

ओं रां दीप्तायै नमः ॥ ओं रीं सूक्ष्मायै नमः ।
ओं रं रुचायै नमः ॥ ओं रूं भद्रायै नमः ॥
ओं रैं विभूत्यै नमः । ओं रैं विमलायै नमः ॥

प्. १७०)

ओं रौं अमलायै नमः ॥ ओं रौं विद्युतायै नमः ।
ओं रीं सर्वतो मुख्यै नमः ।

सर्वतोमुखि सर्वस्था लोकयेयुः समन्ततः ।
उपर्यर्कासनं ज्ञात्वा तस्यास्त्रं मंत्रमर्चयेत् ॥ १६ ॥

ओं अं अर्कासनाय नमः ॥

श्वेत पंकजसंरूढं मायापुष्पनिभं शुभम् ।
ज्वलरक्तातितेजस्य मण्डलान्तर्व्यवस्थितम् ॥ १७ ॥

अनेकदीपसंकाशं मणिमौलिविराजितम् ।
रक्तांशुकपरीधानं रक्तचन्दनचर्चितः ॥ १८ ॥

वाहुमूलगतश्वेत पुण्डरीककरद्वयम् ।
हारकेयूरकटकं मुद्रायुक्तांगुलं शुभम् ॥ १९ ॥

प्. १७१)

एकाननं विशालाक्षं द्विभुजं भास्करं विभुम् ।
सहस्ररश्मिसंयुक्तं चिन्तयेन्मूर्तिरूपिणम् ॥ २० ॥

ओं अं खषोल्काय सूर्याय मूर्तये नमः ॥

कराभ्यामञ्जलिं पूर्य ललाटाकृष्टवन्धुना ।
व्यापकं मूलमन्त्रेण कुर्यादारोपणं तदा ॥ २१ ॥

ओं हां ह्रीं हौं सौं सूर्याय नमः ॥

आहानं स् अन्निधानं निरोधाना व गुण्ठनम् ।
स्थापनं चैव मूर्तीनां मुद्रया भावयेत्तदा ॥ २२ ॥

प्रीत्यर्थं ग्रहराजाय बिन्दुमुद्रां प्रदर्शयेत् ।
मुदिता तृमुद्रैते अत्र वै विहिता हि सा ॥ २४ ॥

प्. १७२)

एकत्वस्याप्यसं चिन्त्यं सकलीकरणं पुनः ।
खषोल्किना तदाकुर्यात्तदा चाचमनीयकम् ॥ २५ ॥

शिरोर्घ्यं गन्धपुष्पं च धूपं दीपं चरुं तदा ।
पिनाकं पत्रमुद्रां च दर्शयेत्साधकोत्तमः ॥ २६ ॥

अंगानि सौम्यरूपाणि द्विभुजान्युज्वलानि च ।
वरदाम्बुज हस्तानि डाडिमी सन्निभानि च ॥ २७ ॥

भास्करस्यांगरूपाणि भावयेन्नन्दिकेश्वर ! ।
ज्वलत्पावकसंकेशं द्विनेत्रं चोग्रविह्वलम् ॥ २८ ॥

दंष्ट्रा करालवदनं विघ्नौघोत्तर्जनोत्तमम् ।
भास्करस्य स्वरूपं च चिन्तयेद्भक्ति संयुतः ॥ २९ ॥

प्. १७३)

ओं सं हृदयाय नमः ॥ ओं अं अर्काय शिरसे नमः ॥

अग्नीशदलयोरन्ते सम्यगभ्यर्च्य साधकः ।
नै-ऋत्यां वायुदिग्भागे शिखां वर्म च पूजयेत् ॥ ३० ॥

ओं रं भूर्भुवःस्वरोम् ॥ ज्वालिनी शिखायै नमः ।
भुं कवचाय नमः ॥ ओं हां नेत्राभ्यां नमः ॥

  • * * * * * * * तन्मध्ये तु यजेत्क्रमात्

ओं अस्त्राय नमो भद्राक्ष्युत्तरतो यजेत् ॥

हृदादीनां च कर्णांश्च धेनुमुद्रां प्रदर्शयेत् ॥ ३१ ॥

अस्त्रस्य त्रासनीमुद्रान्देवीभ्यां योनिमुद्रया ।
उषां देवीं दक्षभागे प्रत्युषां वामपार्श्वके ॥ ३२ ॥

प्. १७४)

द्विभुजां च द्विनेत्रां च सरोजवदनान्विताम् ।
सर्वाभरण संयुक्तां सर्वलक्षण संयुताम् ॥ ३३ ॥

उभयोस्तु * * * त्वा पूजयेत्साधकोत्तमः ।

ओं ह्रीं उषादेव्यै नमः ॥ ओं ह्रीं प्रत्युषायै नमः ॥ ३४ ॥

सोमपूर्वदले चेषा संसोमाय नमोऽन्तकम् ।
बुधं दक्षिणदिक्पात्रे बुधायाथ नमोऽन्तकम् ॥ ३५ ॥

पश्चिमेपि दलाग्रे तु बृं बृहस्पतये नमः ।

पुष्टि वर्धनकरी । दिनेशोर्घ्य पूजातस्मादिनादिषु मदीय समर्चनेऽपि ।
सूर्यार्चनं च करणाय * * * * मध्ये सदे ॥

इत्यचिन्त्य विश्वसादाख्ये सूर्यपूजाविधि दशमः पटलः ॥



प्. १७५)

अथ क्रमेण संस्कारदीक्षालक्षणकं शृणु ।
मण्डपं मण्डलं कुण्डं स्थण्डिलं लिंगपूजनम् ॥ १ ॥

यथा समयदीक्षा च कलशेत्वभिषेचनम् ।
अष्टविद्येश्वरान्बाह्ये शेषं पूर्ववदाचरेत् ॥ २ ॥

पूर्व शिष्योक्त संवादं श्रद्धापूर्वं कृतं यदि ।
अक्रोध भक्तिविश्वासं शर्वाज्ञा पालनं सदा ॥ ३ ॥

चतुष्टयसमायुक्तं सर्वक्लेशविवर्जितम् ।
गुरुद्रोह शिवद्रोह समयद्रोह कर्मकृत् ॥ ४ ॥

अदीक्षितस्य बन्धुत्व कृतघ्नत्वा विवेकिता ।
गुरुदोषावलोकं च स्वदोषा न वलोकनम् ॥ ५ ॥

प्. १७६)

एतैरष्टगुणैर्हीनः शिष्यः संस्कारमर्हति ।
विपरीतगुणं शिष्यं दीक्षयेत्समये पुनः ॥ ६ ॥

पश्चात्संस्कार दीक्षायामन्तेवासि भविष्यति ।
मण्डलाद्यग्निपूजान्तं कृत्वा वै देशिकोत्तमः ॥ ७ ॥

शौचस्नानादि संयुक्तं शिष्यं सव्ये निवेदयेत् ।
अग्निमध्ये महेशस्य हृदयाम्बुजमध्यमे ॥ ८ ॥

आवाहयेच्च संश्लिष्टौ शिवौ च हृदया सुधा ।
संतर्प्य पूजां कुर्यात् तयोः संनिधिकारणम् ॥ ९ ॥

हृदये नैव मन्त्रेण हुनेदाहुति पंचकम् ।
शिष्यस्य हृदयं पश्चात् पुष्पेणास्त्रेण ताडयेत् ॥ १० ॥

प्. १७७)

ज्वालान्तराकृतिर्ज्योतिश्चैतन्यं तस्य भावयेत् ।
तत्र प्रविश्य हुंकारयुक्तये चक्रयो गता ॥ ११ ॥

संहारमुद्रया कृष्य पूरकेण हृदि न्यसेत् ।

ओं हां हं हां आत्मने नमः ।

शिवं प्राप्तोऽपि चैतन्यं शिष्यस्य वदनान्तरम् ॥ १२ ॥

तद्दोषगुणमभ्यर्च्य सर्वमग्नौ तु दृश्यते ।
निर्धूमे ज्वलिते वह्नौ होमः सर्वार्थसिद्धिदः ॥ १३ ॥

अदीप्ते धूमसंयुक्ते होमात्विष्टं न सिध्यति ।
प्रदक्षिण शिखः स्निग्धः सुगन्धस्तेजसा युतः ॥ १४ ॥

मृदंगघोष सदृशो मेघनाद समन्वितः ।

प्. १७८)

उद्दीप्तः सुसमायुक्तः श्वेतो रक्तः शुभप्रदः ॥ १५ ॥

अर्चिस्सवयः शिखीयुक्तः स्फुलिंगभस्मसंयुतः ।
मीनं च शिशुनिर्घोषः कौशिकस्वरसन्निभः ॥ १६ ॥

एवमादिस्वरैर्युक्तो होतुः कालं स्वमावहेत् ।
शिष्यस्य पापचिह्नानि पावकेन विलोकयेत् ॥ १७ ॥

ब्रह्महा पितृहा चैव सुरापो गुरुतल्पगः ।
कृतघ्नो देव निन्दश्च ज्ञानिनिन्दस्तथैव च ॥ १८ ॥

ज्ञानचोरश्च भूहताश्च संपर्की गुरुनिन्दकः ।
महापातकिनामेषां विष्ठागन्धिर्भवेत्तदा ॥ १९ ॥

भ्रूणहर्तानि कुष्ठोऽग्निर्भ्रमति स्त्रीवधे पुनः ।

प्. १७९)

वालस्य वर्धके वह्नि स्फुटम स्फुटयेत्क्षणात् ॥ २० ॥

कम्पते होमचारेऽपि निस्तेजा गर्भघातजे ।
पावकस्य गुणैः शिष्य कल्मषं ज्ञापयेद्भृशम् ॥ २१ ॥

पापभक्षणहोमेन दहेदन्तेन चात्मना ।
ओं खड्गहस्त ! पापकलुष बृहन्मयूख फट् फट्

पापभक्षणाय स्वाहा ॥ इति पापभक्षणमन्त्रः ॥
द्विर्जप्त्वा पापनाशाय तथा रुद्रांशं भावयेत् ॥ २२ ॥

द्विजभोजनसंशुद्धौ गर्भाधानाय पुंकृतौ ।
सीमन्तोन्नयने चैव जातकर्मणि नाम च ॥ २३ ॥

होमयेन्मूलमन्त्रेण पंचब्रह्म शतं शतम् ।
निष्क्रामणे तथान्नस्य प्राशने चौलकर्मणि ॥ २४ ॥

प्. १८०)

उपनीतौ व्रतादेशे गोदाने स्नानकर्मणि ।
विवाहे वनवासत्वे यतित्वे नन्दिकेश्वर ! ॥ २५ ॥

पञ्चांशं मूलमन्त्रेण प्रत्येकं होममाचरेत् ।
चतुराश्रमनिष्ठेषु तत्तदाश्रमका विधि ॥ २६ ॥

संस्कारं च ततः कुर्यात्तत ऊर्ध्वं न कारयेत् ।
गृहस्थारण्यवासित्वं यतित्वं च विशेषतः ॥ २७ ॥

पूर्ववन्मूलमन्त्रेण जुहुयाद्देशिकोत्तमः ।
शिथिलीभूतबन्धस्य शक्तादुर्कर्षणं तु यत् ॥ २८ ॥

आत्मनो रुद्रपुत्रत्वे गर्भाधानं तदुच्यते ।
स्वातन्त्र्यादि गुणं व्यक्तिस्तथा पुंसवनं भवेत् ॥ २९ ॥

प्. १८१)

मायात्मनो विरेकेन ज्ञानं सीमन्तवर्धनम् ।
शिवादिसदसद्वस्तु स्वीकारो जननं भवेत् ॥ ३० ॥

बोधनं यच्छिवत्वेन शिवत्वार्हत्वमाप्नुयात् ।
शिवत्वस्य प्रवेशो हि निष्क्रामणमितीर्यते ॥ ३१ ॥

परमानन्दमित्वमन्न प्राशनमुच्यते ।
शिव प्रसादोत्कर्षन्तु यत्तच्चूडात्मना भवेत् ॥ ३२ ॥

निर्वाण ज्ञानसूत्रेण सम्बद्धमुप जीवकम् ।
इन्द्रियाणां च संरोधो व्रतादेश इति स्मृतः ॥ ३३ ॥

पुनर्जन्म परित्यागो गोदानमिति कीर्तितम् ।
सर्वेषु निरपेक्षित्व सद्भावः स्नानमुच्यते ॥ ३४ ॥

प्. १८२)

अनन्तशक्ति संयुक्तिर्विवाह इति कीर्तितम् ।
अनन्तशक्ति विश्लेषो वानप्रस्थत्वमिष्यते ॥ ३५ ॥

केवलं शिवसद्भावो यतित्वमिति निदिर्शिते ।
शिखाबाह्योपवीतादि संत्यजेद्यदि तं प्रति ॥ ३६ ॥

तत्सर्वासु च दीक्षासु निर्वाणादिषु वाचरेत् ।
चत्वारिंशत्तु संस्काराः सारभूताः प्रकीर्तिताः ॥ ३७ ॥

ततस्तारक संकाशं समाना संहरेत्तदा ।
संहारमुद्रयादाय गुरोर्हृदयपंकजे ॥ ३८ ॥

स्थापयित्वा यथायोगं मूलमन्त्रेण कुम्भयेत् ।
शिवयोस्समरसीभावं मूलमन्त्रेण कारयेत् ॥ ३९ ॥

प्. १८३)

ब्रह्मादि कारणत्यागात् क्रमाद्रेचकयोगतः ।
आत्मानं शिवसद्भावं नीत्वा सद्भावयोगतः ॥ ४० ॥

उद्भवेन तदादाय हृत्संपुटितकेन च ।
मन्त्रेण रेचकेनैव शिष्यस्य हृदयाम्बुजे ॥ ४१ ॥

समाहितमना भूत्वा क्षिपेत्तत्कर्णिकोपरि ।
शिवमग्निं च संपूज्य पूजयित्वार्भकेण च ॥ ४२ ॥

प्रणीय प्रणतिं चैव कारयित्वा तथैव च ।
शिष्यस्य समयात्सर्वात् श्रावयेद्गुरुसत्तमः ॥ ४३ ॥

न निन्देत्कारणं देवं ज्ञाननिन्दां तथैव च ।
साधकं ज्ञानवृद्धं च ज्येष्ठं भक्तिसमन्वितम् ॥ ४४ ॥

प्. १८४)

आचार्यस्य तु ज्येष्ठस्य लिंगच्छायां न लंघयेत् ।
निर्माल्यन्तु न भुञ्जीत शिवभक्तान्न निन्दयेत् ॥ ४५ ॥

न लंघयेन्न दद्यात्तु दीक्षितस्य विशेषतः ।
शिवाग्नि गुरुपूजा वै कर्तव्या जीविकार्थिभिः ॥ ४६ ॥

श्रद्धाथ भक्तिविश्वासगुर्वाज्ञा पालनं तथा ।
नियमेन च कर्तव्यं चतुष्टयमपि क्रमात् ॥ ४७ ॥

गुरुद्रोह शिवद्रोह समयद्रोहमेव च ।
अदीक्षितस्य बन्धुत्वं कृतघ्नत्वाविवेकताम् ॥ ४८ ॥

गुरुदोषावलोकश्च स्वदोषानवलोकनम् ।
एतेषां सप्तविंशानां श्रावकाणां विशेषतः ॥ ४९ ॥

प्. १८५)

एकोनविंशत्कर्तव्यं कर्तव्यमिति चाष्टकम् ।
पूर्ववत्पञ्चगव्यं च चरुसंभोजनं भवेत् ॥ ५० ॥

शिवभक्तप्रधानादि कर्तव्यमत ऊर्ध्वके ।
व्रतांगपोषास्सर्वेऽपि योग्यमेव तदादिकम् ॥ ५१ ॥

भक्तदण्डं च कौपीनं तथैव च कमण्डलुम् ।
पञ्चब्रह्मतदंगैश्च परिजप्य यथोदितम् ॥ ५२ ॥

निधायपात्रे स्वाहान्तं संहितामन्त्रसंहितम् ।
लब्ध्वा शिवाज्ञां योग्याय व्रतानेतान्वदेद्गुरुः ॥ ५३ ॥

प्रणम्य दण्डवद्भूमौ भक्तियुक्तो दृढव्रतः ।
समादाय हृदादेवं धरेच्छिष्योपसंयुतः ॥ ५४ ॥

प्. १८६)

संस्कारदीक्षा समयाद्विशिष्टा
विशेषतोऽप्यागम होमयोग्यः ।
शिष्योदयेत्सन्तत बुद्धियुक्तो
लिंगार्चनं चापि तथैव कुर्यात् ॥ ५५ ॥

इत्यचिन्त्य विश्वसादाख्ये कर्मदीक्षाविधिरेकादशः पटलः ॥

 

वक्ष्ये नित्यार्चनं पुण्यं शिवदं पापनाशनम् ।
योगदं ज्ञानदं चैव मोक्षदं भक्तिवर्धनम् ॥ १ ॥

शिवपूजासमं पुण्यं न भूतं न भविष्यति ।
आत्मार्थं च परार्थं च द्विविधं शिवपूजनम् ॥ २ ॥

प्. १८७)

तत्फलं स्वार्थमापेक्ष्य आत्मार्थं प्रतिपद्यते ।
पूजाफलं तु सामान्ये सर्वभूताय निर्दिशेत् ॥ ३ ॥

तत्परार्थं समाख्यातं सर्वेषामात्मनः फलम् ।
सर्वतत्वादिकं ज्ञेयं सर्वकारणकारणम् ॥ ४ ॥

शिवरूपं परं ज्योतिर्लिंगमित्यभिधीयते ।
तत्प्रभा शक्तिरित्युक्ता पीठिका सैव नाद्यथा ॥ ५ ॥

सर्वस्योत्पत्ति लक्ष्यत्वात्प्रथमं लिंगमुच्यते ।
लीयते निखिलं तस्मिन् लयत्वाल्लिंगमुच्यते ॥ ६ ॥

शिवशक्त्यात्मकं सर्वं चराचरमिदं भवेत् ।
तृप्तिर्भवति शाखानां वृक्षमूले जलार्पणात् ॥ ७ ॥

प्. १८८)

तस्माल्लिंगार्चनात्तृप्ता गीर्वाणाः सर्वदेहिनः ।
आत्मार्थं चरलिंगं च तद्विशेषाच्छृणुष्वथ ॥ ८ ॥

शैलजं लोहजं चैव रत्नजं च त्रिधा भवेत् ।
शैलजं चैकभेदं स्याद् भोगमोक्ष फलप्रदम् ॥ ९ ॥

रत्नजं चाष्टभेदं स्याल्लोहजं च तथैव च ।
माणिक्यं च प्रबालं च वैडूर्यं स्फाटिकं तथा ॥ १० ॥

वज्रं मरकतं नीलं पुष्परागं च रत्नजम् ।
माणिक्यं श्रीप्रदं ज्ञेयं प्रवालं वश्यदं भवेत् ॥ ११ ॥

वैडूर्यं पुत्रसंसिद्ध्यै स्फाटिकं सर्वसिद्धिदम् ।
शत्रुक्षयकरं वज्रं मरकतं पुष्टिवर्धनम् ॥ १२ ॥

प्. १८९)

धनधान्यप्रदं नीलं पुष्परागं तु भोगदम् ।
एवं रत्नजमाख्यातं लोहजं पुनरुच्यते ॥ १३ ॥

सौवर्णं राजतं ताम्रं कांस्यं चैवारकूटकम् ।
आयसं सीसकं चैव त्रपुकं चैव लोहजम् ॥ १४ ॥

सौवर्णं श्रीप्रदं ज्ञेयं राजतं राजसिद्धिदम् ।
ताम्रं पुत्रप्रदं चैव विषमं कांस्यमेव च ॥ १५ ॥

उच्चाटनं चारकूटं जयकारणमायसम् ।
सीसकं रोगहरणं त्रिपु चायुष्यवर्धनम् ॥ १६ ॥

एवं लोहजमाख्यातं शैलजं पुनरुच्यते ।
नर्मदाद्यादितीर्थेषु संगमेषु समुत्थितम् ॥ १७ ॥

प्. १९०)

यल्लिंगं तत्तु बाणाख्यं तल्लिंगं नैष्ठिकार्चनम् ।
सल्लिंगं पिण्डिकायुक्तं भुक्तिमुक्ति फलप्रदम् ॥ १८ ॥

तस्मात्तु भौतिकश्चैव नैष्ठिकश्च तथैव च ।
शौचमाचमनं स्नानं पूर्वोक्तविधिना सह ॥ १९ ॥

पादप्रक्षालनं कृत्वा पूजास्थानं समाविशेत् ।
उत्तराभिमुखो भूत्वा रुचिरासनमास्थितः ॥ २० ॥

परात्मार्थमथवा स्वात्मार्थं च विशेषतः ।
करांगन्यासकं कृत्वा पूजाद्रव्याणि कल्पयेत् ॥ २१ ॥

प्रणवार्घ्यं च संकल्प्य द्वारपूजां च कल्पयेत् ।
श्रीकरं ज्ञानदं चैव पूर्वद्वारस्य पूजनम् ॥ २२ ॥

प्. १९१)

विजयं कीर्तिसौभाग्यं दक्षिणं बलदं तथा ।
पश्चिमद्वारपूजायं वैराग्यं प्राभवन्तथा ॥ २३ ॥

भक्तेर्मोक्षस्य सामान्यं सर्वद्वारेषु पूजनम् ।
उदग्द्वारं न कर्तव्यं पूर्वद्वारमथोच्यते ॥ २४ ॥

ओंकारं दशकृत्वा तु जप्त्वा चार्घ्यं प्रकल्पयेत् ।
अस्त्रमन्त्रेण संप्रोक्ष्य पूजयेद् द्वारपालकान् ॥ २५ ॥

द्वाराग्रे वृषभं पूज्य ॥ ओं हां वृषभाय नमः ।
ओं हां अस्त्राय नमः ॥

ऊर्ध्वोदम्बरके याम्ये गणेशं पूजयेत्तदा ।
रक्तवर्णं चतुर्बाहुं टंकांकुशसमन्वितम् ॥ २६ ॥

प्. १९२)

अक्षमालां स्वदन्तं च बीजपूरं च पुष्करे ।

ओं हां गणपतये नमः ॥

द्वारस्योर्ध्वोत्तरे भागे पूजयेच्च सरस्वतीम् ॥ २७ ॥

इन्दु कुन्दसितां देवीं चतुर्हस्तां सुभूषिताम् ।

ओं हां सरस्वत्यै नमः ।

तयोर्मध्ये महालक्ष्मीं स्वर्णवर्णां विभूषिताम् ॥ २८ ॥

गजहस्तस्थ शृंगार सुधाधाराभिषेचिताम् ।
चतुर्भुजां त्रिनेत्रां च सर्वाभरणभूषिताम् ॥ २९ ॥

ओं हां महालक्ष्म्यै नमः ॥

रक्तं त्रिनेत्रं जटिलं चतुर्बाहुं महोदरम् ।
मुद्गरं तर्जनीं चैव शूलमक्षस्रजं तथा ॥ ३० ॥

प्. १९३)

दधानं नन्दिनं चैव ओं हां नन्दिने नमः ।
शुद्धस्फटिकसंकाशां द्विनेत्रां द्विभुजां शिवाम् ॥ ३१ ॥

सर्वाभरणसंयुक्तां सर्वगन्धसमन्विताम् ।
मकरासनमारूढां सुधाकलशमुत्पलम् ॥ ३२ ॥

दधानां जलरूपार्थं ओं हां गंगायै नमः ।
गंगां च नन्दिनं चैव शाखादक्षिणके यजेत् ॥ ३३ ॥

नीलजीमूतसंकाशं चतुर्बाहुं त्रिनेत्रकम् ।
मुद्गरं च त्रिशूलं च शून्यमुद्रां कपालकम् ॥ ३४ ॥

व्यालयज्ञोपवीतं च भिन्नपाद युगं स्मरेत् ।
ओं हां महाकालाय नम इति मन्त्रमुच्चरेत् ॥ ३५ ॥

प्. १९४)

यमुनां श्यामवर्णां च द्विभुजां च त्रिणेत्रकाम् ।
नीलोत्पलसुधापूर्णकलशेन समन्विताम् ॥ ३६ ॥

कूर्मवाहां प्रसन्नाक्षीं पुण्यराशिं शिवप्रियाम् ।
शाखाया उत्तरे भागे ओं हां यमुनायै नमः ॥ ३७ ॥

आवाहनादि दीपान्तं प्रत्येकं पूजयेत्क्रमात् ।
अंगुष्ठानामिकाभ्यां ओं हां हौं शिवाय नमोन्तम् ॥ ३८ ॥

नेत्रत्रये विन्यस्य निरस्येद्दिव्य विघ्नकान् ।
सन्त्यज्य दिव्यविघ्नांश्च पुनर्नाराच मुद्रया ॥ ३९ ॥

तर्जन्यंगुष्ठ पुष्णेत्य ओं हः अस्त्राय फट् ।
इत्यन्तरिक्ष विघ्नानां निरासन्नन्दिकेश्वर ! ॥ ४० ॥

प्. १९५)

सव्यपार्ष्णित्रिघातेन भूमिष्ठान्विघ्ननाशनम् ।
हुंफडन्तास्त्रमन्त्रेण विघ्ननिस्सरणं भवेत् ॥ ४१ ॥

परार्थदेहली शाखा दक्षिणाशाग्रतो भवेत् ।
दक्षिणेनैव पादेन प्रविशेन्मन्दिरं पुनः ॥ ४२ ॥

ओं हामस्त्रायफडिति विन्यस्यास्यमू दुब्मरे ।
चतुर्वक्त्रं चतुर्बाहुं प्रदीप्ताग्निसमप्रभम् ॥ ४३ ॥


दक्षवामकरैश्शक्ति शूलाभयवरान्वितम् ।
जटामकुटसंयुक्तं मूर्धेन्दुकृतशेखरम् ॥ ४४ ॥

ओं हां वास्त्वधिपतये ब्रह्मणे नम इत्यपि ।
देहलीमध्यमे चैव वास्तुदेवस्य पूजनम् ॥ ४५ ॥

प्. १९६)

द्वारस्याभ्यन्तरे युष्मत् पूजां कुर्वन्तु दक्षिणे ।
रक्तवर्णं चतुर्बाहुं त्रिणेत्रं चन्द्रशेखरम् ॥ ४६ ॥

जटामकुट संयुक्तं नमो मुद्रासमन्वितम् ।
परशुं च मृगं चैव धारिणं गणनायकम् ॥ ४७ ॥

वेत्रं स्वबाहुमूलेन्यत् क्षुरिकां च नितम्बके ।
सर्वाभरण संयुक्तं भस्मोद्धूलितविग्रहम् ॥ ४८ ॥

रुद्राक्षेणोपवीतं च शुक्लयज्ञोपवीतिनम् ।
रुद्राक्षालम्बमालां च हस्तमालां तथैव च ॥ ४९ ॥

ओं ह्रीं श्रीं च स मुच्चार्य नन्दिकेश्वराय नमः ।
एवं च नन्दिनं पूज्य यशो देवीं च वामके ॥ ५० ॥

प्. १९७)

श्यामवर्णां प्रसन्नाक्षीं द्विभुजां गणनायकीम् ।
सर्वभूषण संयुक्तां सर्वलक्षणसुन्दरीम् ॥ ५१ ॥

उत्पलं दक्षहस्तेन दधानां पूजयेत्ततः ।
ओं हां ह्रीं च समुच्चार्य यशोदेव्यै नमश्च हि ॥ ५२ ॥

एवं तां पूज्य भक्त्या च भोगमोक्षसुसिद्धये ।
ऐशान्ये स्वगुरौ भक्त्या चासनं पूजयेत्ततः ॥ ५३ ॥

ओं हां गुं गुर्वासनाय नमश्चैव तु कल्पयेत् ।
पञ्चशुद्धिक्रमेणैव पूजयेच्छिवमव्ययम् ॥ ५४ ॥

आत्मशुद्धिं पुराकृत्वा स्थानशुद्धिमनन्तरम् ।
द्रव्यशुद्धिस्तृतीयास्याच्चतुर्थं मन्त्रशुद्धिका ॥ ५५ ॥

प्. १९८)

पञ्चमं लिंगशुद्धिःस्या देवं शुद्धिः क्रमोदिता ।
त्रिवारं मूलमन्त्रेण जप्त्वा संहारमुद्रया ॥ ५६ ॥

मूर्धादिपादपर्यन्तं कराभ्यां संस्पृशेत्तदा ।
ओं हिं सद्योजात मूर्तये नम इत्यपि ॥ ५७ ॥

ओं हिं वामदेवाय गुह्याय नम इत्यपि ।
ओं हुं पूर्वमुच्चार्य अघोरं हृदयाय च ॥ ५८ ॥

नमस्कारन्नमः पश्चाद् ओं हेन्तत्पुरुषन्तथा ।
वक्त्राय नम इत्यन्ते ओं होमीशानमूर्तये ॥ ५९ ॥

नमस्कारं कनिष्ठाद्यमंगुष्ठान्तं न्यसेत्क्रमात् ।
ओं सद्योजात पादमूर्तये नमः ॥ ओं हिं वामदेवाय नमः ।

प्. १९९)

ओं हुं अघोरहृदयाय नमः ॥ ओं हें तत्पुरुषाय नमः ।
ओं होमीशानमूर्तये नमः ।

षडंगं तु ततः कुर्यादों हां हृदयाय नमः ॥ ६० ॥

ओं हीं हं शिरसे स्वाहा । ओं हों शिखायै च ततः परम् ।
वषडन्तं समुच्चार्य ततो ओं हैं कवचाय हुम् ॥ ६१ ॥

ओं हौं नेत्रत्रयाय वौषट् ओं हः अस्त्राय फट् ।
अंगुलीषु सपर्या सु तदग्रेषु च विन्यसेत् ॥ ६२ ॥

कवचेन कराभ्यां च वेष्टयेत्तु विशेषतः ।
मूलमन्त्रं समुच्चार्य मूर्धाद्यर्घ्याद्यसंयुतम् ॥ ६३ ॥

महामुद्रां प्रदृश्येत चिन्तयेद्गुरु मण्डलम् ।

प्. २००)

शिखाग्रे द्वादशांगुल्ये सहस्रदलसंयुतम् ॥ ६४ ॥

कोट्यादित्यप्रतीकाशं चन्द्रकोटि सुशीतलम् ।
चिच्छक्तिमात्रं रूपं च तारकर्णिकयोज्वलम् ॥ ६५ ॥

अष्टत्रिंशत्कलारूपं केसरोज्वलमुत्तमम् ।
पंचाक्षर स बीजाढ्यं यस्य मुखेतत्पुरुषं न्यसेत् ॥ ६६ ॥

अघोरं हृदये चैव वामं गुह्ये प्रकल्पयेत् ।
सद्योजातं न्यसेत्पादौ मकुटादि क्रमोन्यसेत् ॥ ६७ ॥

हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् ।
शिखां शिखायां विन्यस्य कवचं स्तन मध्यतः ॥ ६८ ॥

प्. २०१)

नेत्रं नेत्रप्रदेशे वै दिक्ष्वस्त्रं विन्यसेत्क्रमात् ।
ओंकारं मूर्ध्नि विन्यस्य आकारं हृदि विन्यसेत् ॥ ६९ ॥

सूंकारं कण्ठदेशे तु विन्यसेन्नन्दिकेश्वर ! ।
अकारादिक्षकारान्तं श्रीकण्ठं विन्यसेत्क्रमात् ॥ ७० ॥

श्रीकण्ठान्तं ततः सूक्ष्मः त्रिमूर्तिरमरेश्वरः ।
अधिशोभारभूतिश्चातिथीशः स्थाणुको हरः ॥ ७१ ॥

झषेशो भौतिकस्सद्योजातश्चानुग्रहेश्वरः ।
अक्रूरश्च महासेनः स्वराणां मूर्तयो भवेत् ॥ ७२ ॥

क्रोधेशश्च ततश्चण्डः पञ्चान्तकशिवोत्तमः ।
एकरुद्रस्तथा कूर्म एकद्रुच्चतुराननः ॥ ७३ ॥

प्. २०२)

अजेशस्सर्व पेरीशो लांगली दारुकस्तथा ।
अर्धनारीश्वरश्चोमाकान्तश्चाषाढदण्डिनौ ॥ ७४ ॥

अत्रिर्मीनश्च मेषश्च लोहिताश्च शिखी तथा ।
चलरण्डो द्विरण्डश्च समहाकालतानिनौ ॥ ७५ ॥

भुजङ्गेशोणिनाकीश खट्भीति च बकः पुनः ।
श्वेतेभ्र कूलकूली च शिवस्संवर्तकः स्मृतः ॥ ७६ ॥

पूर्णोदरी च विरजा तृतीया शाल्मली भवेत् ।
लोहालोहावर्तुला तु दीर्घकोणा तथैव च ॥ ७७ ॥

सुदीर्घमुखी गौरी च नवमी दीर्घजिह्विका ।
कुण्डोदर्यूर्ध्वकेशिन्यौ मुखी विकृतपूर्विका ॥ ७८ ॥

प्. २०३)

सज्वालिकीश्रिया विद्या मुख्याः स्युः स्वरशक्तयः ।
महाकाली सरस्वत्यौ सर्वसिद्धियुतौ तथा ॥ ७९ ॥

गौरीत्र्यैलोक्यविद्या च तथा मन्त्रात्मशक्तिके ।
भूतं माता विद्यते था लम्बोदरी नागर्ययौ ॥ ८० ॥

खेचरी मञ्जरी चैव विरूपी विरिणी तथा ।
कोदरी पूतना भद्रा कालीयोगिन्य एव च ॥ ८१ ॥

शंखिनी गर्जनी कालरात्रि कुब्जिन्य एव च ।
कपर्दिनी तथा भद्राजया च सुमुखेश्वरी ॥ ८२ ॥

रेवती मायवी चैव वारुणी वायवी तथा ।
रक्षोवधारिणीचान्या तथैव स गया च या ॥ ८३ ॥

प्. २०४)

लक्ष्मीश्च व्यापिनी मार्ये माख्या ताण्डवशक्तयः ।
एताभिः शक्तिभिः सार्धं विन्यसेदक्षरान्क्रमात् ॥ ८४ ॥

अकारं मूर्ध्नि विन्यस्य आकारं मुखवृत्तके ।
इकारं दक्षिणे नेत्रे ईकारं वामनेत्रके ॥ ८५ ॥

उकारं दक्षिणे कर्णे ऊकारं वामकर्णके ।
ऋकारं दक्षिणे नासि ॠकारं वामनासिके ॥ ८६ ॥

ऌकारं दक्षिणे गण्डे ॡकारं वामगण्डके ।
एकारं तु तथोर्ध्वोष्ठे ऐकारमधरे ततः ॥ ८७ ॥

ओकारमूर्ध्वदन्तोष्ठे औकारमथदन्तके ।
अंकारं तालुमूले च अःकारं तालुमध्यतः ॥ ८८ ॥

प्. २०५)

एवं विधिक्रमेणैव विन्यसेत्षोडश स्वरान् ।
कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके ॥ ८९ ॥

टवर्गं दक्षिणे पार्श्वे तवर्गं वामपार्श्वके ।
पवर्गं पृष्ठदेशे तु हकारं नाभ्यधःस्थितः ॥ ९० ॥

नाभौ मकारं न्यस्योर्ध्वे यकारायादि सप्तकान् ।
त्वगसृङ्मांस मेदोऽस्थिमज्जाशुक्ला * * * * ॥ ९१ ॥

एकारं हृदये न्यस्य लकारं गुददेशतः ।
क्षकारं गुह्यके न्यस्य न्यासमन्त्र समन्वितः ॥ ९२ ॥

ओं अं श्रीकण्ठाय पूर्णोदर्यै नमः ।
ओं आं अनन्ताय बिन्दुजायै नमः ॥

प्. २०६)

ओं जं सूक्ष्माय शाल्यै नमः ॥
ओं रं त्रिमूर्तये लोलाक्ष्यै नमः ॥
ओं उं अमरेश्वराय वर्तुलायै नमः ॥
ओं ऊं अघीशाय दीर्घकोणायै नमः ॥
ओं रं स्थाणवे दीर्घजिह्विकायै नमः ॥
ओं ऌं हाराय कुण्डोदर्यै नमः ॥
ओं ऋं भारभूतये दीर्घमुख्यै नमः ॥
ओं ॠं अधीशाय गोमुख्यै नमः ॥
ओं एं न्यण्डुशाय ऊर्ध्वकेश्यै नमः ॥
ओं ऐं भौतिकाय विकृतमुख्यै नमः ॥

प्. २०७)

ओं ओं सद्योजाताय ज्वालामुख्यै नमः ॥
ओं औं अनुग्रहेशाय उल्कामुख्यै नमः ॥
ओं अं अक्रूराय श्रीमुख्यै नमः ॥
ओं हः महासेनाय विद्यामुख्यै नमः ॥
ओं क्रोधीशाय महाकाल्यै नमः ॥
ओं खं चण्डीशाय सरस्वत्यै नमः ॥
ओं गं पञ्चान्ताय सर्वसिद्धिकार्यै नमः ॥
ओं घं शिवोत्तमाय त्रैलोक्य विद्यायै नमः ॥
ओं ङं एकरुद्राय मन्त्रशक्त्यै नमः ॥
ओं चं कूर्माय शक्त्यै नमः ॥

प्. २०८)

उम् एकनेत्राय भूतमात्रे नमः ॥
जम् चतुराननाय लम्बोदर्यै नमः ॥
झम् अजेशाय द्राविण्यै नमः ॥
ञम् सर्वाय नगर्यै नमः ॥
टम् सोमेश्वराय खेचर्यै नमः ॥
ठम् लांगलिने मञ्जर्यै नमः ॥
डम् दारुकाय रूपिण्यै नमः ॥
ढम् अर्धनारीश्वराय वीरिण्यै नमः ॥
णम् उमाकान्ताय काकोदर्यै नमः ॥
तम् आषाढाय पूतन्यै नमः ॥
थम् दण्डिने भद्रकाल्यै नमः ॥

प्. २०९)

दम् अत्रये योगिन्यै नमः ॥
धम् मीनाय शंखिन्यै नमः ॥
नम् मेषाय गर्भिण्यै नमः ॥
पम् लोहिताय कालरात्र्यै नमः ॥
फम् शिखिने कुब्जिन्यै नमः ॥
बम् चिकरण्डाय कपर्दिन्यै नमः ॥
भम् द्विरण्डाय वज्रायै नमः ॥
मम् महाकालाय जयायै नमः ॥
यम् त्वगात्मने बलिसंमुखेश्वर्यै नमः ॥
रम् असृगात्मने भुजंगेशाय रेवत्यै नमः ॥
लम् मांसात्मने पिनाकिने माधव्यै नमः ॥

प्. २१०)

वम् मेदसात्मने खड्गिने वारुण्यै नमः ॥
शम् शुक्लात्मने बकेश वायव्यै नमः ॥
षम् मज्जात्मने श्वेताय रक्षोवधारिण्यै नमः ॥
सम् शुक्लात्मने भ्रुकुटीशाय सहजायै नमः ॥
ओं ह्रौ हम् प्राणात्मने बकुलिने लक्ष्म्यै नमः ॥
लम् शक्त्यात्मने शिवाय व्यापिन्यै नमः ॥
क्षम् आत्मने संवर्तकाय मायायै नमः ॥

ओं ह्रौं ह्रीं पृथगुच्चार्य ईशानाय मूर्ध्ने नमः ॥
तत्पुरुषाय वक्त्राय अघोराय हृदयाय वा ॥ ९३ ॥

वामदेवन्तु गुह्याय सद्योजातं तु मूर्तये ।
तारं बीजं च शक्तिं च मन्त्राद्यैकं तमोन्तिकम् ॥ ९४ ॥

प्. २११)

ओं ह्रौं ह्रीं ईशानाय मूर्ध्ने नमः ॥
ओं ह्रौ ह्रीं अघोराय हृदयाय नमः ॥
ओं ह्रौं ह्रीं वामदेवाय गुह्याय नमः ॥
ओं ह्रौं ह्रीं सद्योजाताय मूर्तये नमः ॥

हृदयानि षडंगानि विन्यसेन्नन्दिकेश्वर ।
शान्त्यतीतानि मूर्धादि चरणानि न्यसेत्क्रमात् ॥ ९५ ॥

अष्टत्रिंशत्कलान्यासं विन्यसेन्नन्दिकेश्वर ! ।
ईशानस्य कलाः पञ्च पुरुषस्य चतुष्कलाः ॥ ९६ ॥

अघोरस्य कलाश्चाष्टौ वामदेव त्रयोदश ।
अष्टौ सद्यकला ज्ञेया मकुटादि क्रमान्न्यसेत् ॥ ९७ ॥

ईशानश्चेश्वरो ब्रह्म शिवश्चेति सदाशिवः ।
तत्पुरुषो महादेवो तन्नो रुद्रः प्रचोदयात् ॥ ९८ ॥

प्. २१२)

अघोरश्चाथघोरश्च ततो घोरस्तथैव च ।
ततो घोरतरेभ्यश्च सर्वतः शर्व इत्यपि ॥ ९९ ॥

सर्वेभ्यश्च नमस्तेस्तु रुद्रश्चाष्ट कलाः स्मृताः ।
वामो ज्येष्ठश्च रुद्रश्च कलविकरणस्तथा ॥ १०० ॥

बलविकरणो बलप्रमथनस्सर्वभूतदमनस्तथा ।
मनश्च उन्मनश्चैव वामदेवकलाः स्मृताः ॥ १०१ ॥

सद्योजातश्च सद्यश्च भवश्चोद्भव एव च ।
तथानादिभवश्चैव भवस्कभवदुद्भवः ॥ १०२ ॥

अष्टत्रिंशत्कलाः प्रोक्ताः कलाशक्तिरथोच्यते ।
शशिनीइ चांगगा चेषा मरीच ज्वालिनी तथा ॥ १०३ ॥

प्. २१३)

एताः पञ्चकलाः पञ्चपञ्चमूलोपरि न्यसेत् ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ १०४ ॥

एवं चतुष्कला शक्तिरीरिताचोर्ध्ववक्त्रके ।
तमो दोहाक्षया निद्रा धृतिः क्षान्तिः स्मृतिः क्षमा ॥ १०५ ॥

अघोरे चाष्टशक्तिश्च वामदेवे तथोच्यते ।
रजपक्षापतिः पाल्या कामांस्यंधमनी क्रिया ॥ १०६ ॥

तृष्णा मोहक्षुधा चिन्ता मोहिनी भ्रमणी तथा ।
वामदेवकलाशक्तिस्त्रयोदश समीरिताः ॥ १०७ ॥

सिद्धिर्द्युतिश्च लक्ष्मी वा मेधा कान्तिःस्वधा प्रजा ।
सद्यश्चाष्टकलाशक्तिरीरिता नन्दिकेश्वर ॥ १०८ ॥

प्. २१४)

ईशानस्य कलाः पञ्च ऊर्ध्वमूर्धादि पञ्चके ।
ऊर्ध्ववक्त्रे शक्त्यतीतां पूर्वादि पुरुषोद्भवः ॥ १०९ ॥

एवं चतुर्षु वक्त्रेषु विन्यसेच्छक्तिसंयुताः ।
अघोरहृदये कर्णे सव्ये वामकरे तथा ॥ ११० ॥

नाभौ च जठरे पृष्ठे वाक्षस्यापि तथैव च ।
वामदेवं च गुह्ये च तथैव वृषणद्वये ॥ १११ ॥

ऊरुद्वये च जान्वोश्च जंघायुग्मे तथैव च ।
स्फिक्त्वज्ये च कटीदेशे पार्श्वयोर्विन्यसेत्क्रमात् ॥ ११२ ॥

सद्योजातः पदद्वन्द्वे पाणिद्वन्द्वे तथैव च ।
नासिकायां शिरोदेशे बाहुयुग्मे च विन्यसेत् ॥ ११३ ॥

प्. २१५)

ओमीशानस्सर्वविद्यानां शशिन्यै नमः इत्यूर्ध्वशिरसि ॥
ओमीश्वरस्सर्वभूतानां गदायै नमः इति पूर्वशिरसि ॥
ओं ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा इष्टदायै नमः इति दक्षिण शिरसि ॥
ओं शिवो मे अस्तु मरीच्यै नम इत्युत्तर शिरसि ॥ सदाशिवों ज्वालिन्यै नम इति
पश्चिम शिरसि ॥

ओं शान्त्यतीताय नम इत्यूर्ध्ववक्त्राय नमः ॥
ओं तत्पुरुषाय विद्महे शान्त्यै नम इति पूर्ववक्त्रे ॥
ओं महादेवाय धीमहि विद्यायै नम इति दक्षिणवक्त्रे ॥
तन्नो रुद्रः प्रतिष्ठायै नमः । इत्युत्तरवक्त्रे ॥
प्रचोदयान्निवृत्त्यै नम इति पश्चिमवक्त्रे ॥

प्. २१६)

अघोरेभ्यस्तमां लयै नमः । इति हृदि ॥
अथ घोरेभ्यो मोहायै नमः । कण्ठे ॥
अघोरायै नमः दक्षिणांसे ।
अघोरतरेभ्यो निद्रायै नमः । वामहंसे ॥
सर्वतस्सर्वधृत्यै नमः नाभौ ॥
सर्वेभ्यः क्षान्त्यै नमः जठरे ॥ नमस्ते अस्तु रुद्रस्य समृतौ नमः पृष्ठे

रूपेभ्यः क्षयायै नमः उरसि ॥ एवमष्टाघोरकलाः ॥

वामदेवायै नमः कलायै नमः गुह्ये ॥ च ज्येष्ठाय नमो यक्षाय नमो
लिंगे ॥ रुद्राय नमो रत्यै नमो दक्षिणोरौ ॥ कालाय नमः पाल्यायै नमो
नमः । वामोरौ ॥ कल विकरणाय विकरणायै नमः ॥

प्. २१७)

संयमिन्यै नमः वामजानुनी ॥ बलक्रियायै नमः दक्षिणजंघायाम् ॥
विकरणाय नमः स्त्रणायै कामायै नमः वामजंघायाम् ॥
बलमोहनायै नमः दक्षिणस्फिचि ॥ प्रमथनायै नमः क्षुधायै नमः
वामस्फिचि ॥ सर्वभूतदमनाय नमः दक्षिणजानुनि ॥ चितायै नमः
कट्याम् ॥ मोहिन्यै नमः दक्षिणपार्श्वे उन्मत्तायै नमः भ्रामिण्यै नमः
वामपार्श्वे ॥ वामदेवकलास्त्रयोदश ॥

सद्योजातः प्रपद्यामि सिद्ध्यै नमः दक्षिणपादे ॥
सद्योजाताय नमः ऋद्ध्यै नमः वामपादे ॥

प्. २१८)

भवेद्युतये नमः दक्षिणपाणौ ॥ अभवे अलक्ष्म्यै नमः वामपाणौ ॥
अनादिभवे नमः मेधायै नमः नासिकायाम् ॥ भजस्व मां कान्त्यै नमः
ललाटे ॥ भवस्वधायै नमः दक्षिणबाहौ ॥ उद्भवाय प्रजायै नमः
वामबाहौ ॥ इति सद्योजातकलाः अष्टौ ॥

पञ्चब्रह्मषडंगैश्च कलान्यासं समाचरेत् ।
केवलं बीजमन्त्रैश्च देववक्त्रादिरंगकैः ॥ ११४ ॥

नेत्रेषु देवस्योरसि मूलेन व्यापकं न्यसेत् ।

इति न्यासविधिः ॥

अन्तर्यागं ततः कुर्याद् ध्यानपूजापुरस्सरम् ॥ ११५ ॥

प्. २१९)

भावनाद्यैश्च पुष्पाद्यैर्हृदम्भोजे शिवं यजेत् ।
तन्नाभिकन्दात्संभूतं दलाष्टक समन्वितम् ॥ ११६ ॥

कर्णिकाकेसरैर्युक्तं सुषुम्नापार्श्व संस्थितम् ।
आधारशक्तिमारभ्य क्षित्यन्तं चासनं भवेत् ॥ ११७ ॥

शिवासनं च मूर्तिं च विन्यसेन्नन्दिकेश्वर ।
आवाहनादिबल्यन्तं मन्त्राणां तर्पणं तथा ॥ ११८ ॥

भावद्रव्यैरहंसाद्यैर्गन्धगत्या सुपूजयेत् ।
सदाशिवस्वरूपे तु भक्तियुक्तो विशेषतः ॥ ११९ ॥

पिंगलानाडिद्वारेण नाभिकुण्डे स्वकोदितम् ।
शिवाग्निं पूजयेत्तत्र बलिं याजनवत्क्रमात् ॥ १२० ॥

प्. २२०)

इडया पूरकाकृष्य सुधया च शिवाणुभिः ।
द्वादशान्तामृतेनैव कर्तव्यं नन्दिकेश्वर ॥ १२१ ॥

शरदिन्दु प्रतीकाशं बिन्दुरूपं महेश्वरम् ।
ललाटदेशमध्यस्थं विमलं चिन्तयेत्सदा ॥ १२२ ॥

आत्मशुद्धिक्रमश्चोक्तः स्थानशुद्धिं शृणुष्वह ।
प्रोक्षयेदस्त्रमन्त्रेण सामान्यार्घ्यजलेन च ॥ १२३ ॥

मूलं नेत्रत्रयं न्यस्य दिव्यदृष्ट्या वलोकयेत् ।
पात्रशुद्धिस्ततस्तत्र तत्तद्द्रव्यं च शोधयेत् ॥ १२४ ॥

सौवर्णं रजतं ताम्रं केवलाक्षरशंखकम् ।
पलाशपद्मपत्रोत्थं दारवं मृत्तिकामयम् ॥ १२५ ॥

प्. २२१)

अन्यद्वा यन्त्रिकादिस्थं परमुक्तं शिवार्चने ।
प्रक्षाल्यास्त्राम्बुना पश्चाच्चर्मणाधोमुखं कुरु ॥ १२६ ॥

विजृम्भणं च नेत्रं च हृदयेन तु शोधयेत् ।
बिन्दुप्रसृतपीयूषरूपतोयेन पूरयेत् ॥ १२७ ॥

उशीरं चन्दनं पाद्ये पश्चादाचमनीयकम् ।
एलालवंगतक्कोलजातिकर्पूरसंयुतम् ॥ १२८ ॥

पूगरेणुकसप्तैते वेद्यमाचमनीयकम् ।
धूपक्षीरकुशाग्राणि पुष्पदूर्वाक्षतानि च ॥ १२९ ॥

तिलसिद्धार्थकं चैव मध्यमष्टांगमुत्तमम् ।
शुद्धगन्धेन तोयेन हृदयेन च पूरयेत् ॥ १३० ॥

प्. २२२)

सामान्यार्घ्यं यथा युक्तं स्नापनं गन्धवारिणा ।
चन्दनागरुकर्पूरकोष्ठकुंकुम पत्रकम् ॥ १३१ ॥

उशीरं च जलं चैवमष्टगन्धं शिवार्चने ।
षडंगेन हृदा पूर्य पूरयित्वाऽभिमन्त्रयेत् ॥ १३२ ॥

रक्षां विधायशस्त्रेण वर्मणाचावगुण्ठयेत् ।
पुष्पं च निक्षिपेत्पात्रे शोधयेद्धेनुमुद्रया ॥ १३३ ॥

श्वेतार्कतुलसीं चैव निगुण्डी भद्रकासुमम् ।
दूर्वाम्रबिल्व जम्बूकमुनिपत्रकपित्थजम् ॥ १३४ ॥

मातुलुंगं च वकुलं कर्णिकारामहीवतीम् ।
सप्तच्छदं प्रियंगुं च लवंगं नागकेसरम् ॥ १३५ ॥

प्. २२३)

अंकोलं भुजपत्रं च कदम्बं बकपुष्पकम् ।
किरञ्चारण्डकं गुञ्जा दीर्घवृत्तं च चम्पकम् ॥ १३६ ॥

पुन्नागो देवदारुश्च बिल्वो धूर्धूर एव च ।
तमालश्चाग्निमन्थश्च पाटलो वरुका तथा ॥ १३७ ॥

ब्रह्मकी च परिक्रूर सभातेमाकुली तथा ।
भृंगराजश्च क्रीणीहिदानवं सुमुखी तथा ॥ १३८ ॥

सुगन्धि मुण्डिसूर्या च पादपर्णी तथैव च ।
देवताली च मल्ली च कंकिरातं तथैव च ॥ १३९ ॥

या साचिकरवीरं च नन्द्यावर्तं तथैव च ।
ह्रीबेरं ग्रन्थिपर्णी च महापद्मं तथैव च ॥ १४० ॥

प्. २२४)

पद्मं च मालती चैव कल्हारं द्रोणपुष्पकम् ।
व्याघ्रात पुष्पमेतेषां सुपत्रैः पुष्पकैरपि ॥ १४१ ॥

नन्द्यावर्त्त्योदये चैव मध्याह्ने करवीरकम् ।
सायं च मल्लिका प्रोक्ता निशीथेऽपि च मालती ॥ १४२ ॥

यत्कालोचित पुष्पाणि तत्काले तैश्च पूजयेत् ।
मुकुलं पतितं शीर्णमाघ्रातं जन्तु दूषितम् ॥ १४३ ॥

अंगसंस्पृष्टकं वापि पर्यूषितं न पूजयेत् ।
सर्वेषां पद्मपुष्पाणां नीलोत्पलमिदं परम् ॥ १४४ ॥

सहस्रनीलोत्पलतो भक्तिरत्यन्तमुत्तमा ।
भक्तिः श्रद्धाभियुक्ता चेत्तस्मादभ्यधिकं फलम् ॥ १४५ ॥

प्. २२५)

भक्तिश्रद्धासुविश्वासैरेतैर्युक्तस्समो भवेत् ।
एकचित्तस्सुसंयुक्तो निन्दितैश्चापि पूजयेत् ॥ १४६ ॥

सद्यः पूजनमेवं हि भवेत्तत्त्रितयं परम् ।
पुष्पाभावेऽपि पत्रं स्यात्पत्राभावे फलं भवेत् ॥ १४७ ॥

फलाभावे तण्डुलाद्यै स्त्रितयैरपि पूजयेत् ।
पूजोपकारपुष्पादि निषिञ्चेदर्घ्यवारिणा ॥ १४८ ॥

अस्त्रदृष्टेन जप्तेन दिव्यदृष्ट्या वलोकयेत् ।
द्रव्यशुद्धिरियं प्रोक्ता मन्त्रशुद्धिरथोच्यते ॥ १४९ ॥

प्रणवं पूर्वमुच्चार्य बिन्दुनादं ततः परम् ।
सर्वमन्त्रं च तन्मध्ये नमस्कारान्तमुच्चरेत् ॥ १५० ॥

प्. २२६)

तदन्ते च कलायुक्ता मन्त्रशुद्धिरितीरिता ।
दिवा पूजां च गृह्णाति सूर्यस्सोमस्तथा निशि ॥ १५१ ॥

सन्ध्यायाः पूजनं चादौ गृह्णाति च पुनः पुनः ।
चन्द्रार्कनाशनं लब्ध्वा गुरुवक्त्रेण पूजयेत् ॥ १५२ ॥

आत्मानं चैव पुष्पेण पूजयेदर्घ्यवारिणा ।
पञ्चगव्यं च संकल्प्य स्नपनार्थं विशेषतः ॥ १५३ ॥

लिंगस्य पूर्वभागे वा ईशाने वापि कल्पयेत् ।
गोमयेनोपलिप्याथ मण्डलं चतुरश्रकम् ॥ १५४ ॥

द्विहस्तं हस्तमात्रं वा स्थण्डिलं दर्भसंयुतम् ।
पञ्चकोष्ठं प्रकल्प्येत मध्ये शिवपदं यजेत् ॥ १५५ ॥

प्. २२७)

पूर्व सदाशिवं पूज्य विद्यातत्वं च दक्षिणे ।
उत्तरे पुरुषं तत्वं पश्चिमे कालतत्वकम् ॥ १५६ ॥

एवं क्रमेण संपूज्य तेषु पात्राणि विन्यसेत् ।

ओं हां शिवतत्वाय नमः ॥
ओं हां सदाशिवतत्वाय नमः ॥
ओं हां विद्यातत्वाय नमः ॥
ओं हां कालतत्वाय नमः ॥

सुप्रतिष्ठं च शान्तं च तेजोरूपं यथा तथा ॥ १५९ ॥

रक्षोदयामृतं रूपं पञ्चैतानि प्रपूजयेत् ।
मध्येक्षीर कुडुम्बं पूर्व प्रस्थास्य दध्युतः ॥ १५८ ॥

घृतं दक्षिणके चैककुडुम्बेन समन्वितम् ।
उत्तरे प्रस्थगोमूत्रं गोमयं गोकुलाहृतम् ॥ १५९ ॥

प्. २२८)

पश्चिमे जलसंयुक्तं पञ्चपादं भवेत्तदा ।
कुशोदकं चैशदेशे पूरयेच्छुद्धवारिणा ॥ १६० ॥

षट्त्रिंशद्दर्भ संयुक्तमथवा पञ्चविंशतिः ।
द्वादशं पञ्चकं वापि त्रिभिर्वा संप्रकल्पयेत् ॥ १६१ ॥

कूर्चं प्रदक्षिणं तत्र भस्ममात्रं च दीर्घकम् ।
ग्रन्थेरुपरि चाग्राणि चतुरंगुलमेव च ॥ १६२ ॥

कालमात्रेण वा कूर्चं कुशाय च कुशोदकम् ।
ईशानं क्षीरपात्रे तु वारमात्रं जपेत्क्रमात् ॥ १६३ ॥

द्विवारं पुरुषं पूर्वं पूजयेन्नन्दिकेश्वर ।
त्रिवारं घोरमन्त्रेण घृतपात्रं तु दक्षिणे ॥ १६४ ॥

प्. २२९)

उत्तरे वामदेवेन चतुर्वारं भवेत्ततः ।
सद्यः पश्चिमभागे च विन्यसेत्पञ्चवारकम् ॥ १६५ ॥

कुशोदकं षढृदयमन्त्रेणैव तु मन्त्रयेत् ।
मध्य पात्रे तु दध्यादीन्मूलमन्त्रेण योजयेत् ॥ १६६ ॥

पञ्चगव्यमिदं प्रोक्तं पञ्चामृतमथोच्यते ।
पञ्चगव्यं च पुरतः पूर्ववत्स्थण्डिलं भवेत् ॥ १६७ ॥

क्षीरं मध्ये दधि पूर्वे दक्षिणे घृतमेव च ।
उत्तरे मधु संयोज्य शर्करा पश्चिमे भवेत् ॥ १६८ ॥

अध्योदक प्रदानं च मन्त्रन्यासादि पूर्ववत् ।
पञ्चामृतमिदं प्रोक्तं शिवस्य स्नपनं भवेत् ॥ १६९ ॥

प्. २३०)

पावके नैर्-ऋते वापि सुखासनः शिवं यजेत् ।
संमुखीकृत्य देवेशं पूजने चोपचारकम् ॥ १७० ॥

पूजासंभारमखिलं हृदयेनाभिमन्त्रितम् ।
कवचे नावगुण्ठ्यैव धेनुमुद्रां प्रदर्शयेत् ॥ १७१ ॥

कुसुमं चासने दत्वा तस्मिन्नीराजनं ।

  • * * पे च यागे च भोजने पूजने तथा ॥ १७२ ॥


याने चोद्धूलने चैव सन्ध्यावन्दनकेऽपि च ।
आवश्य बन्धनैर्वस्त्रैः सदावाचंयमो भवेत् ॥ १७३ ॥

आत्मार्थं च विशेषेण प्रस्थारादींश्च कारयेत् ।
तारयित्वा महाघण्टान्निरासायश्च लक्षणम् ॥ १७४ ॥

प्. २३१)

पूर्वकालेन सहितां पूजां चैव विशेषतः ।
गायत्र्या लिंगमभ्यर्च्य पञ्चब्रह्मभिरर्चयेत् ॥ १७५ ॥

तेन सद्यादिनाबाह्य निर्माल्यं लिंगतः क्षिपेत् ।
कनिष्ठानामिकाभ्यां तु पुष्पं संगृह्य संयुतः ॥ १७६ ॥

निर्माल्यक्षेपणे काले पुष्पं तन्मूर्ध्नि विन्यसेत् ।
कदाचित्पुष्पशून्यं तु न कुर्याल्लिंगमूर्धनि ॥ १७७ ॥

ऐशं चण्डाय निर्माल्यं हृदयेन निवेदयेत् ।
अस्त्रेण पिण्डितालिंगं प्रक्षाल्य च मुहुर्मुहुः ॥ १७८ ॥

योगिनस्तु विशेषेण नवधारं विचिन्तयेत् ।
सकलीकरणं पश्चात् कनिष्ठाद्यं गुलान्तकम् ॥ १७९ ॥

प्. २३२)

हृदादिमन्त्रविन्यासकरणं भजते सुधीः ।
कूर्ममुद्रां परित्यज्य महामुद्रां प्रकल्पयेत् ॥ १८० ॥

मूलेन व्यापकं कुर्यात् करयोरुभयोरपि ।
कोटिकोटि शिवस्यास्त्रं रक्षार्थं विघ्नवारणम् ॥ १८१ ॥

क्षिपेदाशासु काष्ठासु तालत्रय पुरस्सरम् ।
प्राकारं कवचेनैव परिघावेष्टितं बहिः ॥ १८२ ॥

ऊर्ध्वाधश्शक्तिजालेन सर्वत्रैव तु भावयेत् ।
दर्शयेत्तु महामुद्रां मस्तकाच्चरणावधि ॥ १८३ ॥

प्राणायामत्रयं कृत्वा प्रणवेन समन्वितम् ।
वामेन षोडशं मात्रां अकारेण तु पूरयेत् ॥ १८४ ॥

प्. २३३)

उकारेण चतुष्षष्टिमात्रकं कुम्भयेत्ततः ।
द्वात्रिंशन्मात्रयारेच्यं मकारेण विशेषतः ॥ १८५ ॥

कनिष्ठांगुष्ठपूर्वं तु संहारं सद्यपूर्वकम् ।
नेत्रहस्ततले न्यस्य तर्जन्या चास्त्रकं भवेत् ॥ १८६ ॥

पादादिमूर्धपर्यन्तं यदिना न्यास उच्यते ।
अंगुष्ठादि कनिष्ठान्तमैशान्यादिश्च सृष्टिकम् ॥ १८७ ॥

मध्यमानामिके चैव कनिष्ठा जैर्पिका तथा ।
न तु त्रयं शिखां चैव शिरोहृदयादिना क्रमात् ॥ १८८ ॥

निवृत्त्यादिकलाः पञ्च क्रमेणैव तु विन्यसेत् ।
ईशानं मूर्ध्नि विन्यस्य * * * * * * * * ॥ १८९ ॥

प्. २३४)

एवं पद्मं सुसंचिन्त्य तस्मिन्संपूजयेत् क्रमात् ।
परात्परतरं पश्चात् परात्परमनन्तरम् ॥ १९० ॥

एवं प्रकारं स्वगुरुं चिन्तयेत्पद्ममध्यमे ।
ज्ञानयोग विहीनश्चेद् दीपाकारं विचिन्तयेत् ॥ १९१ ॥

हृत्पद्मकर्णिका मध्ये सूर्यसोमाग्निशक्तिवत् ।
एवं बिम्बचतुष्काणां ऊर्ध्वे संहार मुद्रया ॥ १९२ ॥

(देह * * * * * * * * * * * * * *

ओं हां हं हां समुच्चार्य चात्मने नम इत्यपि ।
ओं हां हं हां आत्मने नमः ॥

तस्योपरि च शक्तिं च व * * * * * * *

  • * * * * * त्मानं पाणि कश्छपमुद्रया ॥ १९३ ॥


प्. २३५)

अथापि द्वादशान्तेन विधायान्यत्र शोधयेत् ।
पृथिव्यादीनि भूतानि म * * * * * * *

  • * * * * * * * कलिनं वज्रलांछितम् ॥ १९३ ॥


लकार बीजसंयुक्तमिन्द्रबीजस्य दैवतम् ।
हृद्वं सद्यमन्त्रस्य निवृत्तिकलया * * * ॥

  • * * * * * * * * * * तथैव च ॥ १९४ ॥


ब्रह्मास्यान्मण्डलेशः स्यात्यादजान्वन्तरं स्मरन् ।
ओंकारं पूर्वमुच्चार्य * * * * * * * * ॥
हांकारं पञ्च * * * * * श्श्छेदकं भवेत् ॥ १९५ ॥

ओं ह्लां ह्लां ह्लां ह्लां ह्लां हुं फट् ॥

एवं भूमण्डलं चिन्त्य वारुणं मण्डलं तथा ॥ १९६ ॥

प्. २३६)

  • * * * * * * * * * * * * * सितम् ।

द्रवरूपं वकाराढ्यं वारुणं बीजदैवतम् ।
पद्मद्वितीयसंयुक्तं शिरोधाम समन्वितम् ॥ १९७ ॥

मण्डलाधि पतिर्विष्णुः प्रतिष्ठा कलयान्वितः ।
आप्यमेवं सुसंचिन्त्य प्रणवं पूर्वमुच्चरन् ॥ १९८ ॥

ह्रींकार * * * * * * * * * * * * *
दर्शं च रूपं च गुणत्रयसमन्वितम् ।
रुद्राधिदैवतं बिम्बं चिन्तयेन्नन्दिकेश्वर ॥ १९९ ॥

गलाद्भूदेशपर्यन्तं बिन्दुषट्के ।

युंकार संयुतम् ॥

बीजाधि दैवतं वायुः शान्त्या च कलयान्वितम् ॥ २०० ॥

कवचं पुरुष संयुक्तं शब्दस्व ।

प्. २३७)

महेशस्तत्र कीर्तितः ।
औंकारमादौ संजप्य हैं हुं फट् कककास्तथा ॥ २०१ ॥

ओं ह्यैं ह्यैं हुं फट् कृतं । ए * * * * * * परम् ।
भ्रूदेशाद्ब्रह्मरन्ध्रान्तं शुद्धस्फटिकसन्निभम् ॥ २०२ ॥

संवृत्तलाञ्छनं बिन्दुबीजं हुंकारमेव च ।
शब्द जम देवस्सदाशिव इतीरितः ॥ २०३ ॥

अस्त्रं चैशानमन्त्रं च ओं जं हुं फट् ततः पुनः ।
एतेषां * * * * * * * * * * * स्तधा ।
सदाशिवोपरिगतो बिन्दुनाथस्ततोपरि ॥ २०४ ॥

नादो परिस्थिता शक्तिश्शक्तिमध्ये परः शिवः ।
शिवो ब्रह्म परन्धाम परमात्मा सनातनः ॥ २०५ ॥

प्. २३८)

तत्वं सूक्ष्मं परेशानं शक्तिस्थान निरञ्जनम् ।
अव्यक्तं व्यक्ताव्यक्तं वाच्यावाच्यमनौपमम् ॥ २०६ ॥

तस्माद्योगेन मनसा निध्यायेदीश्वरः परः ।
गुरुप्रसादमार्गेण सर्वं सिध्यति सर्वदा ॥ २०७ ॥

तस्मात्सर्वार्थ सिद्ध्यर्थं गुरुवन्दनमुत्तमम् ।
अथ मारुतरन्ध्रेण पृथिवीं शोषयेत्ततः ॥ २०८ ॥

पृथिवीमन्त्रकेणैव गुणवर्णादिकं पुनः ।
ब्रह्मणे निखिलं दद्याद्विष्णवे वारिमण्डलम् ॥ २०९ ॥

वह्निना शोध्य तद्बिम्बं वह्ने बिम्बगुणादिकम् ।
रुद्राय दद्यात्तत्सर्वं वह्निं तोयेन शोधयेत् ॥ २१० ॥

प्. २३९)

वायुं बिम्बगुणादींस्तु चेश्वराय निवेदयेत् ।
पृथिव्यां वायुं संशोध्य व्योमशब्दगुणादिकम् ॥ २११ ॥

सदाशिवाय तद्दद्याद् दिव्यभावेन शोधयेत् ।
अथवा स्वशरीरं च वटवृक्षादिकं स्मरन् ॥ २१२ ॥

ऊर्ध्वमूलमधश्शाखं शोषणादि च पूर्ववत् ।
पादांगुष्ठद्वयोर्मध्ये विचिन्त्यसुषिरं तनौ ॥ २१३ ॥

व्यापिनं चिन्तयेच्छक्तिं सुषिरान्तर्बहिः क्रमात् ।
ह्यैंकारशान्तियुक्तेन कुम्भकेनाथ शोधयेत् ॥ २१४ ॥

ह्यैः ह्यैः शान्तिकलायैव हुंफड्मन्त्रं भवेत्ततः ।
ह्रांकारेणाग्निबीजेन सुषिरं चिन्तयेत्पुनः ॥ २१५ ॥

प्. २४०)

विद्यया कलया युक्तं ज्वलत्कालानलोपमम् ।
ओं ह्रूं ह्रूं ह्रूं विद्याकलायै नमः ।
हुं फट् ततश्च काख्येन तत्सर्वं हृदि भावयेत् ॥ २१६ ॥

वायुनापि प्रतिध्यायेत्तत्सर्वं क्षीरसागरे ।
रेचकाख्येन कर्तव्यं नभोरूपमतीतया ॥ २१७ ॥

ओं हां शान्त्यतीतकलायै नमः । हुं फट् कृतः ।
एकोच्चारेण कर्तव्यं नभोरूपं तु धारणात् ॥ २१८ ॥

शुद्धस्फटिकसंकाशं चिन्तयेन्नन्दिकेश्वर ।
शिरोह्यनन्त पद्माद्यैः सौरीं धारां विचिन्तयेत् ॥ २१९ ॥

तस्मिन्मन्त्रं समुच्चार्य ओं हौं च शक्तये वौषट् ।
ब्रह्मरन्ध्र शान्त्यतीतकलावधिः ॥ २२० ॥

प्. २४१)

एकोच्चारेण कर्तव्यं ततः शान्तिकलावधि ।
सामान्यार्घ्य जलेनैव स्नापयेल्लिंग शुद्धये ॥ २२१ ॥

लिंगशुद्धिः क्रमादुक्ता पञ्चशुद्धिरिहोच्यते ।
इत्थमात्माश्रयं द्रव्यं मन्त्रलिंगं विशुद्धिषु ॥ २२२ ॥

कृतासु पूजनं कार्यं देवस्य वचनं यथा
ताम्रपीठे च नैर्-ऋत्यां पूजयेत्तु गजाननम् ॥ २२३ ॥

ऐशान्यां गुरुपंक्तिं च पूजयेन्नन्दिकेश्वर ।
आवाहनादिकं सर्वं स्वस्वमन्त्रेण कारयेत् ॥ २२४ ॥

दक्षिणे दक्षिणामूर्तिमुत्तरे तु नटेश्वरम् ।
ब्राह्मे विरिञ्च वारुण्यां आग्नेययां महिषान्तकीम् ॥ २२५ ॥

प्. २४२)

वायव्यां दिशि गांगेयं पूजयेच्च समाहितः ।
प्रणवं पूर्वमुच्चार्य ह्रीं गणपतये नमः ॥ २२६ ॥

समस्तमन्त्र संसृष्टिस्थिति संहृतिकारणम् ।
समस्ताधारमाधेयं गुरुमन्त्रं महाद्भुतम् ॥ २२७ ॥

हुंकारबीजसंयुक्तं आं हां गुं गुरुभ्यो नमः ।
ओं हां हीं समुच्चार्य दक्षिणामूर्तये नमः ॥ २२८ ॥

ओं हां महेश्वरायेति नमोऽन्तं मन्त्रमुच्चरेत् ॥
ओं हां महेश्वराय नमः ।
ओं हां ब्रह्मेश्वरायेति नमोऽन्तं मन्त्रमुच्चरेत् ॥ २२९ ॥

ओं हां ह्रीं ब्रह्मेश्वराय नमः ।
ओं हां हुंकारमुच्चार्य दुर्गायै च नमोन्तकम् ।
ओं हां हुं दुर्गायै नमः ।

प्. २४३)

ओं हां स्कन्दाय संभाष्य नमस्कारान्तमीरितम् ॥ २३० ॥
ओं हां स्कन्दाय नमः ॥

इति षमणीये पूजार्णवे शिवकाण्डे अन्तर्यागादि विधिरेकोन त्रिंशत् पटलः ॥



आसनं च विशेषेण पूजयेन्नन्दिकेश्वर ।
पूर्वं कूर्मशिवं ध्यात्वा मूलप्रकृति विग्रहम् ॥ १ ॥

अणोरप्यणुरूपं च महतोऽपि महीयसम् ।
सोमसूर्याग्नि तेजोऽयं यद्यत्तत्तन्मयो विभुः ॥ २ ॥

सितरक्तादिभिर्वर्णैः न ध्यातव्यं कदाचन ।
न व्यवस्था विशेषेण न भूतेषु गुणेषु च ॥ ३ ॥

प्. २४४)

अन्तर्बहिश्च तत्सर्वं व्याप्य सर्वत्र संस्थितम् ।
स्वसंवेद्यस्वरूपां तां दर्शनीयां गुरोर्मुखात् ॥ ४ ॥

पुंनपुंसकयोस्तुल्या विनीत्मा विशिष्यते ।
प्रधान कूर्ममित्युक्तं शक्तिः पर्यायवाचकम् ॥ ५ ॥

तां शिलां वृत्तरूपां च सुगन्धाद्यैः समर्चयेत् ।
प्रथमं तारमुच्चार्य हां कूर्माय नमोऽन्तकम् ॥ ६ ॥

ओं हां कूर्माय नमः ॥

कूर्मासनो परिस्थितां शक्तिमाधाररूपिणीम् ।
कूर्मकुन्दप्ररोहाभां नादरूपोज्वलाकृतिम् ॥ ७ ॥

ओं हां आदौ वदेत्पश्चादाधारशक्तये नमः ।
शरदिन्दु प्रतीकाशं मृणालसदृश प्रभम् ॥ ८ ॥

प्. २४५)

एवं ब्रह्मशिलारूपमनन्ताख्यासनान्वितम् ।
ओं हां स्कन्दाय च प्रोक्तो नमस्कारमतः परम् ॥ ९ ॥

ओं हां स्कन्दाय नमः ॥ ओं हां नालाय नमः ।
ओं हां मुकुलाय नमः ॥

नालं च मुकुलं चैव नाममन्त्रेण पूजयेत् ।
बिम्बप्रवालवर्णाभमंकुरं रजत प्रभम् ॥ १० ॥

वैडूर्य सदृशं नालं कन्दाख्यं रक्तपिंगलम् ।
शंखवर्णा दलाग्राश्च रक्ताश्चोपदलाः स्मृताः ॥ ११ ॥

किंचिल्लोहित पीतानि मध्ये स्युः केसराणि तु ।
तन्मध्ये कलयेद्धीमान्कर्णिकां कनकप्रभाम् ॥ १२ ॥

प्. २४६)

नवबीजानि तन्मध्ये हेमाभानि प्रकल्पयेत् ।
अनन्ताख्यासनं वक्ष्ये समाहितमनाः शृणु ॥ १३ ॥

धर्मयुक्तो वृषाकारो ज्ञानस्सिंहस्वरूपकः ।
वैराग्यं पीतभूतं स्यादारोग्यं श्वेतकुञ्जरः ॥ १४ ॥

अनन्तासनपादानि पार्श्वयष्टिमथो शृणु ।
अधर्माज्ञानावैराग्यमनैश्वर्यं च कल्पयेत् ॥ १५ ॥

राजावर्तनिभास्सर्वे प्रागादिषु च कल्पयेत् ।
प्रथमं नागराजानमनन्तं वासुकिं तथा ॥ १६ ॥

तक्षकं चाथ कार्कोटं पद्माख्यं च ततः परम् ।
महापद्मं शंखपालं गुलिकं नवमं स्मृतम् ॥ १७ ॥

प्. २४७)

विद्येश्वराणामष्टानां प्रत्येकं रूपमास्थिताः ।
फणपञ्च त्रयं चैकं पुच्छादारभ्य नागवत् ॥ १८ ॥

पुरुषाकार संयुक्तमुदरे परिशोभितः ।
सुमुखं कुण्डलोपेतं सर्वाभरणभूषितम् ॥ १९ ॥

फणतत्परभागेऽपि द्विबाहुं क्षौमवस्त्रकम् ।
वरदाभयदं हस्तं सुवृत्तिं तद्वरं ततः ॥ २० ॥

गुलिकाद्यानन्तादीन् परितो दिक्षु कल्पयेत् ।
एकैकफणसंयुक्तं कृताञ्जलिपुटान्वितम् ॥ २१ ॥

प्रधानमीक्ष्य सर्वे ते नागाधिपमनूपमम् ।
ओं हां पूर्वं समुच्चार्य नाममन्त्रेण पूजयेत् ॥ २२ ॥

प्. २४८)

ओं हां नागराजाय नमः ॥ ओं हां अनन्ताय नमः । इत्यादि ॥

फुल्लाष्टदलकं कृत्वा देवानन्तपंकजम् ।
नागाधिप शिरोदेशे कल्पयेन्नन्दिकेश्वर ॥ २३ ॥

अनन्तासनमित्युक्तं योगासनमतः परम् ।
अव्यक्तो नियतिःकालः कला चेति चतुष्टयम् ॥ २४ ॥

महादिक्षु न्यसेद्वृत्तं मध्यपादस्तु केशवः ।
अव्यक्तः सर्वनैजाभो यतिः कालाञ्जनद्युतिः ॥ २५ ॥

कालो डाडिमपुष्पाभः कला भिन्नाञ्जनप्रभा ।
ओं हां चैवं समुच्चार्य स्वस्वनाम्नैव पूजयेत् ॥ २६ ॥

मध्ये तु केशवं पूज्य नीलजीमूतसन्निभम् ।
चतुर्बाहुं त्रिणेत्रं च शंखचक्राभयान्वितम् ॥ २७ ॥

प्. २४९)

वरदं दक्षहस्तेन सर्वाभरणभूषितम् ।
ऊर्ध्वाधोमुखपद्मं च कल्पयेत्तस्य मूर्धनि ॥ २८ ॥

ओं हां पूर्वं समुच्चार्य अधश्छदहृदयाय नमः ।
ऊर्ध्वेऽप्येवं समुच्चार्य नमोऽन्तं योगपीठके ॥ २९ ॥

ओं हां ऊर्ध्वश्छतीनाय नमः ।
ओं हां योगपीठाय नमः ।

योगासनमिदं प्रोक्तमष्टकोणयुतं परम् ॥ ३० ॥

सिंहासनमथो वक्ष्ये शृणुत्वं नन्दिकेश्वर ! ।
ऊर्ध्वच्छदं तु संपूज्य दशबीजं न्यसेत्क्रमात् ॥ ३१ ॥

ओंकारं प्रथमं बीजं आकारं च द्वितीयकम् ।
ईकारं च तृतीयं स्यादूकारं च चतुर्थकम् ॥ ३२ ॥

प्. २५०)

व्योकारं पञ्चमं प्रोक्तं व्यांकारं षष्ठमेव च ।
व्यापिं च सप्तमं प्रोक्तं अक्षरद्वय संयुतम् ॥ ३३ ॥

नैकारमष्टमं प्रोक्तं होकारं प्रतिबीजकम् ।
दशबीजमिदं प्रोक्तं पूर्वादीशान्तकं न्यसेत् ॥ ३४ ॥

ओं हां ओं नमः ॥ ओं हां आं नमः ॥
ओं हां ईं नमः ॥ ओं हां ऊं नमः ॥
ओं हां व्यों नमः ॥ ओं हां व्यां नमः ॥
ओं हां व्यापिन्नमः ॥ ओं हां नें नमः ॥
ओं हां ओं नमः ।

कृतत्रेतादिरूपेण सिंहरूपेण पादकान् ।
कोटिकोटिकसंघैश्च प्रत्येकं परिवारितम् ॥ ३५ ॥

प्. २५१)

कन्दकाश्मीरमुक्ताभ भृंगाभास्वरवर्णकैः ।
दंष्ट्राकरालवदनैः त्रिणेत्रैर्भीमरूपिभिः ॥ ३६ ॥

कृतयुगादिनाम्ना तु नमोऽन्तं पूजयेत्क्रमात् ।

ओं हां कृतयुगाय नमः इत्यादि ।

चतुरश्रं च सिंहाख्यं पद्मासनमतः परम् ॥ ३७ ॥

पूर्वं नालोत्थितं पद्ममष्टपत्रं स केसरम् ।
श्वेतं प्राप्तस्सुवर्णाभं चतुष्षष्टिककेसरम् ॥ ३८ ॥

पञ्चाशद्बीज संयुक्तं नवशक्ति समन्वितम् ।
वामा ज्येष्ठा च रौद्री च काली कलविकरिणी तथा ॥ ३९ ॥

तथा बलविकरिणी चेति बलप्रमथिनी तथा ।
सर्वभूतदमनी चैव मनोन्मन्यन्तशक्तयः ॥ ४० ॥

प्. २५२)

कोट्यादित्य समास्सर्वाः जटाखण्डेन्दु ताडिताः ।
चतुर्भुजास्त्रिणेत्राश्च घृतचामरहस्तकाः ॥ ४१ ॥

वरदाभय हस्ताश्च शिवासक्त कराम्बुजाः ।
पूर्वादीशान पत्रान्तं केसराग्रेषु विन्यसेत् ॥ ४२ ॥

शंखकुन्देन्दुधवलां कर्णिकायां मनोन्मनीम् ।
ओं हां पूर्वं समुच्चार्य नमोऽन्तं स्वस्वनामभिः ॥ ४३ ॥

ओं हां वामायै नमः । ओं हां ज्येष्ठायै नमः ।
ओं हां रौद्र्यै नमः । ओं हां काल्यै नमः ॥
ओं हां कलविकरिण्यै नमः । ओं हां बलविकरिण्यै नमः ।
ओं हां बल प्रमथिन्यै नमः । ओं हां सर्वभूतदमन्यै नमः ।
ओं हां मनोन्मन्यै नमः । इति कर्णिकायाम् ।

प्. २५३)

मण्डलत्रयमप्यासामूर्ध्वोर्ध्वे कल्पयेत्क्रमात् ।
कोट्यादित्यप्रतीकाशं शिवसूर्यस्य मण्डलम् ॥ ४४ ॥

आदित्यं चैव ब्रह्माणमात्म तत्वस्वरूपिणम् ।
पञ्चवक्त्रं चतुर्बाहुं प्रतिवक्त्रं त्रिलोचनम् ॥ ४५ ॥

तप्तकार्तस्वराभासं सर्वाभरणभूषितम् ।
नमो रुद्रान्वितं देवं सृष्टिकारणकारणम् ॥ ४६ ॥

ओं हां पूर्वं समुच्चार्य सूर्यमण्डलाय नमः ।
मण्डलान्तं पुनश्चोक्त्वा त्वधिपतये ब्रह्मणे नमः ॥ ४७ ॥

सूर्यमण्डलाय नमः ।
ओं हां सूर्यमण्डलाधिपतये ब्रह्मणे नमः ।

एवं क्रमेण विष्णुं च सोममण्डलनायकम् ।

प्. २५४)

तथैव वह्निबीजं च रुद्रं तत्रैव मन्त्रयुक् ॥ ४८ ॥

ब्रह्माणं चोर्ध्वमौलौ च चन्द्रबिम्बं सुभावयेत् ।
कोटिचन्द्रद्युतीयुक्तं कोटिचन्द्रसुशीतलम् ॥ ४९ ॥

ओं हां सूर्यमण्डलाय नमः ।

तन्मध्ये चादिविष्णुं च नीलजीमूत सन्निभम् ।
भस्मोद्धूलितसर्वांगं सर्वाभरणभूषितम् ॥ ५० ॥

एकवक्त्रं द्विनेत्रं च कर्णकुण्डलभूषितम् ।
चतुर्भुजं शंखचक्रं नमस्कार समन्वितम् ॥ ५१ ॥

पीताम्बरधरं विष्णुं स्थितिकारणकारणम् ।
किरीट मकुटोपेतं विद्यातत्व स्वरूपिणम् ॥ ५२ ॥

प्. २५७)

ओं हां सोममण्डलाधिपतये विष्णवे नमः ।
आग्नेय लन्तस्य विष्णोर्मूर्ध्नि सुविन्यसेत् ॥ ५३ ॥

अनन्ताग्निसमप्रख्यं शैवाग्निं तत्र कल्पयेत् ।

ओं हां अग्निमण्डलाय नमः ।

रुद्रं माणिक्यवर्णाभं एकास्यं च त्रिलोचनम् ॥ ५४ ॥

चतुर्भुजं जटाजूड्मिन्दुरेखा प्रसूनकम् ।
भस्मोद्धूलित सर्वांगं त्रिपुण्ट्रेण विराजितम् ॥ ५५ ॥

उमारुद्रान्वितं देवं लयकारणकारणम् ।
ओं हां वह्निमण्डलाधिपतये रुद्राय नमः ।
तत्वत्रयाधि पाश्चैव सर्वविद्यासमन्विताः ॥ ५६ ॥

प्. २५८)

सर्वाभरणसंयुक्ताः प्रत्येकं भारयेत्क्रमात् ।
विमलासनमेवोक्तं बिम्बत्रयसमन्वितम् ॥ ५७ ॥

चिच्छक्तिमण्डलं पश्चात्सर्वतेजोमयं परम् ।
दलैः सहस्रैः संकीर्णं इन्दुगोक्षीरसन्निभम् ॥ ५८ ॥

गौरीगायत्रिसंयुक्तमिच्छा ज्ञानक्रियात्मकम् ।
क्षित्यादिशुद्धविद्यान्तं तत्वव्यापकमानसम् ॥ ५९ ॥

ओं हां शक्तिमण्डलाय शिवासनाय नमः ।
ओं हां इच्छाशक्तये नमः ।
ओं हां क्रियाश्क्तये नमः ।
ओं हां ज्ञानशक्तये नमः ।
ओं हां अम्बिकाय विद्महे महातपाय धीमहि । तन्नो गौरी प्रचोदयात् ॥

प्. २५९)

उत्तरादि चतुर्दिक्षु गौरी गायत्रिमन्त्रयुक् ।
आत्मत्रयं च संपूज्य प्रणवाकार मध्यमे ॥ ६० ॥

प्रसाद बीजतन्मध्ये शिवासनमिदं परम् ।
तन्मध्ये देवदेवेशं परमेशं तु भावयेत् ॥ ६१ ॥

सदाशिव स्वरूपेण शुद्धस्फटिक सन्निभम् ।
पञ्चवक्त्रयुतं तेषु प्रतिवक्त्रं त्रिलोचनम् ॥ ६२ ॥

जटामकुटसंयुक्तं दशदोर्भिस्समन्वितम् ।
शूलं परशुखड्गं च वज्राभये च दक्षिणे ॥ ६३ ॥

पाशनागांकुशं चैव घण्टां वह्निं च वामके ।
सर्वावयसंपूर्णं दिव्याम्बरधरं शुभम् ॥ ६४ ॥

प्. २६०)

दिव्यगन्धानुलिप्तांगं दिव्यपुष्पैरलंकृतम् ।
सर्वाभरणसंयुक्तमर्धेन्दुकृतशेखरम् ॥ ६५ ॥

द्वात्रिंशल्लक्षणोपेतं युवानं पुष्करस्रजम् ।
प्रसन्नवदनोपेतं प्रशान्तं सर्वकारणम् ॥ ६६ ॥

बद्धपद्मासनासीमं देवदेवं विचिन्तयेत् ।
एवं सदाशिवं न्यस्य मूर्तिशक्त्यान्तगोचरम् ॥ ६७ ॥

ओं हां हं समुच्चार्य शिवमूर्तिं नमोन्तकम् ।
ओं हां हं शिवमूर्तये नमः ।

अनेनैव तु मन्त्रेण चिदानन्दमयं प्रभुम् ॥ ६८ ॥

सन्मार्गनिष्कलं चैव विचिन्त्य परमेश्वरम् ।
ब्रह्मादिकारणं त्यक्त्वा मन्त्रं नीत्वा शिवास्पदम् ॥ ६९ ॥

प्. २६१)

पञ्चब्रह्म षडंगानां बीजमूलं महोदयम् ।
तद्बिन्दुनादसंयुक्तं शिवं परमकारणम् ॥ ७० ॥

ललाटे मध्ये तन्ध्यात्वा स्फुरत्तारापतीं प्रभाम् ।
कुसुमाञ्जलिकं भाव्यं लक्षमूर्तौ प्रवेशयेत् ॥ ७१ ॥

मूलमन्त्रं समुच्चार्य मुद्रया चार्चयेत्तदा ।
अथवा सूक्ष्ममूर्तीशं भूततत्वं सबिन्दुकम् ॥ ७२ ॥

शैवीं शक्तिमिति ध्यात्वा पूजयेल्लिंगं वेष्टयेत् ।
ओं हां औं विद्यादेहाय नमोन्तमन्त्रमुच्चारयेत् ॥ ७३ ॥

ओं हां हौं विद्यादेहाय नमः ।

सदाशिवस्य शक्त्या च व्यापिकां ब्रह्मरन्ध्रकाम् ।
सदासां मुख्यमूर्तिं तां लिंगदैर्घ्यं च पूजयेत् ॥ ७४ ॥

प्. २६२)

ईशाना शान्त्यतीतान्तं पुरुषं शान्तिवक्त्रकम् ।
अघोरविद्याहृदयं वामप्रेक्षणगुह्यकम् ॥ ७५ ॥

सद्योनिवृत्ति जान्वंघ्रिभुवनानां तनूरुहम् ।
ब्रह्मान्तं दुर्धरं देवं परमांस विराजितम् ॥ ७६ ॥

तत्वास्थिमज्जशुक्लादि सहितं धातुरूपकम् ।
दृक्क्रियेच्छात्रिपञ्चाक्ष ज्ञानचन्द्रकलोत्थितम् ॥ ७७ ॥

शुद्धस्फटिकसंकाशमूर्ध्ववक्त्रं विशेषतः ।
पुरुषं कुंकुमाकारमघोरं भृंगभास्वरम् ॥ ७८ ॥

जपाकुसुमसंकाशं वामदेवं प्रकीर्तितम् ।
शंखकुन्देन्दुगोक्षीरसदृशं सव्यवक्त्रकम् ॥ ७९ ॥

प्. २६३)

एवं ध्यानसमायुक्तं पूजयेन्नन्दिकेश्वर ।
आवाहन क्रमादीनां स्वरूपं कथ्यते शृणु ॥ ८० ॥

व्याप्तस्यातिविनीतस्य सादरं संमुखीक्रिया ।
आवाहनमितिप्रोक्तं मूर्त्त्यवच्छेदनेन तु ॥ ८१ ॥

हृत्कण्ठतालुभ्रूमध्य ब्रह्मरन्ध्रान्तमेव च ।
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ८२ ॥

कारणानां च पञ्चानां त्यागं कृत्वा समाहितः ।
द्वादशान्तोन्मनीशक्ति व्यापिनं परमेश्वरम् ॥ ८३ ॥

ज्योतिर्मन्त्रमयं बुध्वा ललाटाकृष्टबिन्दुकः ।
पुष्पयुक्तकरद्वन्द्वे हृन्मन्त्रे विन्यसेत्क्रमात् ॥ ८४ ॥

प्. २६४)

हृदारभ्य ललाटान्तं मूर्ध्नि चावाहनं हितम् ।
बद्धाञ्जलिं च हस्ताभ्यां कनिष्ठामूलपर्वणोः ॥ ८५ ॥

सन्ताग्रांगुष्ठयुग्योसौ मुद्राचावाहनी भवेत् ।
आवाहनमिदं प्रोक्तं स्थापनं तदनन्तरम् ॥ ८६ ॥

ओं हां हौं शिवायनमः ।

भक्त्या निवेशनं तत्र मूर्तौ क्वचिदपि स्थिरः ।
अविच्छिन्नोपनीतं तु * * * * * कीर्तितः ॥ ८७ ॥

तथैवाधोमुखीं चैव स्थापनीबद्धमुष्टिकम् ।
परमेशतन् ध्यायेत् स्वस्वकार प्रदर्शनम् ॥ ८८ ॥

सन्निधीकरणं चोक्त्वा मूर्त्यवच्छेदबुद्धये ।
संसक्ता सुश्रितांगुष्ठौ मुद्रा स्यात्संनिधापिनी ॥ ८९ ॥

प्. २६५)

आकर्मणः समाप्तौ तु सन्निधेयो परिक्षये ।
निरोधस्सतु विज्ञेयः तद्वत्स्यापि वरस्य तु ॥ ९० ॥

गूढांगुष्ठौ तथा युक्तौ भवेत्तत्वनिरोधनी ।
निष्ठुरेति च सा प्रोक्ता कामिकादि शिवागमे ॥ ९१ ॥

बोधानन्द स्वरूपस्य सर्वानन्दमयस्य च ।
अयोग्येष्वप्रकाशायेस्तं भवेदावकुण्ठनम् ॥ ९२ ॥

शिरस्यधोमुखी कृत्वा तन्नौ पुष्पांजलिं करौ ।
तत आपादसंस्पर्शान् मुद्रा स्यादवकुण्ठनी ॥ ९३ ॥

मुद्रया यत्कृतं कर्म तदक्षय फलं भवेत् ।
लिंगमुद्रां नमो मुद्रां दर्शयेन्नन्दिकेश्वर ॥ ९४ ॥

प्. २६६)

उच्छ्रितां गुष्ठमध्ये तु लिंगमुष्टिरिहोच्यते ।
पाणिभ्यामञ्जलिं कृत्वा हृदये तु निवेशनम् ॥ ९५ ॥

नमोमुद्रेति सा प्रोक्ता योनिमुद्रां प्रदर्शयेत् ।
अनामिके तु संवेष्ट्य तर्जनीभ्यां तु मध्यमे ॥ ९६ ॥

प्रासार्यान्योन्य संयुक्ते ज्येष्ठात्वे मध्यमान्तरे ।
कृत्वा तु योनिमुद्रेयं लिंगपीठे प्रदर्शयेत् ॥ ९७ ॥

सकलीकरणं कुर्यात् षड्भिर्मन्त्रैरथैकदा ।
अजिनामंग संयुक्तिरमृतीकरणं परम् ॥ ९८ ॥

हस्तौ तु संपुटं कुर्याद् अन्योन्याग्रथितांगुलिम् ।
तर्जनीभ्यां मध्यमे तु कनिष्ठाभ्यामनामिके ॥ ९९ ॥

प्. २६७)

बध्वा तु धेनुमुद्रेयममृतीकरणं तथा ।
अथोक्त्वा तु प्रयुक्तेन गोस्तनाकारवद्भवेत् ॥ १०० ॥

सूर्यस्य रश्मिभिःकल्यो प्रधृष्यश्च प्रदीपितैः ।
निजांगैर्देवदेवोऽपि ध्यातव्यो नन्दिकेश्वर ॥ १०१ ॥

चिच्छक्तिं हृदये न्यस्य विद्याद्यैश्वर्यमष्टधा ।
शिवत्वं नान्यधीनं यत् सा शिखोपरि संस्थिता ॥ १०२ ॥

अभेद्यं देवदेवस्य तेजोवर्जं निगद्यते ।
सर्वकालेऽपि सर्वत्र सदावस्था सु सन्ततम् ॥ १०३ ॥

आत्मनश्चा विशेषस्य सनिवारकदृक् च यत् ।
नेत्रं तदिति विज्ञेयं देवेशस्य शिवस्य तु ॥ १०४ ॥

प्. २६८)

अत्यसह्यप्रतापाग्नि विघ्नौघविनिवारकम् ।
देवेशस्यास्त्रमित्युक्तं अभेद्यं देवदानवैः ॥ १०५ ॥

हृदयाद्यंगमन्त्राणां न्यासमुद्राः शृणुष्वथ ।
ज्येष्ठाग्रं च तु विन्यस्य मध्यमानामिकान्तरे ॥ १०६ ॥

मुष्टिबद्धेतराभ्यस्तु हृदये विनिवेशयेत् ।
हृदयाख्या भवेन्मुद्रा संसक्तांगुष्ठमुष्टिकम् ॥ १०७ ॥

हस्तं शिरसि विन्यस्य शिरोमुद्रेयमीरिता ।
उच्छ्रितांगुष्ठकं मुष्टिं शिरः पृष्ठे निवेशयेत् ॥ १०८ ॥

शिखामुद्रा भवेदेषा शिखरासन्निवेशिता ।
बद्धमुष्टिकरौ कृत्वा सारितांगुष्ठतर्जनी ॥ १०९ ॥

प्. २६९)

तदूर्ध्वं शिरसो नीत्वा पार्श्वाभ्यां हृदये न्यसेत् ।
भवत्कवच मुद्रेयं सर्वरक्षाकरी मता ॥ ११० ॥

कनिष्ठांगुष्ठकौ बध्वा किंचिदाकुञ्च्य तर्जनीम् ।
अनामिकां च नेत्राख्या मध्यमांगुलि सारणा ॥ १११ ॥

तर्जन्यंगुष्ठकाभ्यां तु पार्श्वयोर्विसृजेद्बहिः ।
छोटिकामस्त्रमुद्रेयं सर्वोपद्रवहारिणी ॥ ११२ ॥

देवस्य पुरतो मूर्ध्नि हस्ताभ्यां मुकुलं भवेत् ।
तन्मुद्रां विसृजेत्पश्चादापादतललम्बिताम् ॥ ११३ ॥

पुनः पूर्ववदाकुर्यान् महामुद्रा च सा स्मृता ।
प्रभाकरवती कृत्य प्ररोच्य शिवमव्ययम् ॥ ११४ ॥

प्. २७०)

प्रसन्नस्य पदाम्भोजे पाद्यं दद्याद्धृदा सदा ।

ओं हां ओं पाद्यं शिवाय नमः ।

वक्त्रेष्वाचमनं दद्यात् स्वधान्ते प्राङ्मुखादिषु ॥ ११५ ॥

तथा च पुनरों हां हौं शिवाय मनसः स्वधा ।
ईशानादि सद्योजातान्तं शिवस्यार्घ्यं प्रदर्शयेत् ॥ ११६ ॥

ओं हां हौं शिवायार्घ्यं स्वाहान्तं दापयेत्क्रमात् ।
गन्धं च पुष्पं धूपं च दीपं दूर्वाक्षतान्वितः ॥ ११७ ॥

वौषडन्तेन मन्त्रेण द्रव्यनाम्ना च पूजयेत् ।
गन्धं ललाटे पुष्पं च मूर्ध्नि धूपं तथैव च ॥ ११८ ॥

अगरुं चैकभागं स्यान् निर्यासं द्विगुणं भवेत् ।
चन्दनं द्विगुणं प्रोक्तमीषत्कर्पूरसंयुतम् ॥ ११९ ॥

प्. २७१)

मधुना प्लावितं ह्येतत् शीतारन्नाम धूपयेत् ।
नेत्रे प्रदेशे दीपं च पार्श्वे पृष्ठे निवेदयेत् ॥ १२० ॥

ओं हां हौं शिवाय गन्धं वौषडित्यादि ।
पञ्चगव्याभिषेकं च मूलमन्त्रेण कारयेत् ॥ १२१ ॥

पञ्चामृतैश्च स्नपनं स्थाप्यमन्त्रैः पुनः क्रमात् ।
मध्ये मध्ये च धूपं च दीपं चैव प्रदापयेत् ॥ १२२ ॥

जलप्रदानं पुष्पं च तदेवार्घ्यं निवेदयेत् ।
सुगन्धिशालिपिष्टेन पीठं देवं विघृष्य च ॥ १२३ ॥

उद्वर्त्योद्वर्त्यबिल्वादि पत्रैरपि विशेषतः ।
नमोन्तं कवचेनैव निर्मार्जनमथो भवेत् ॥ १२४ ॥

प्. २७२)

ओं हैं कवचाय नमः ।

ओं हां शिवायोत्तिष्ठेति स्नपनं याचयेच्छिवम् ।
उत्तिष्ठमानं संभाव्य ओं हां हौं शिवाय नमः ॥ १२५ ॥

ईषदुष्णजले नैव स्नानं कुर्यादनन्तरम् ।
महास्नानं ततः कार्यं गन्धैरामलकादिभिः ॥ १२६ ॥

सुगन्धवारिभिः पश्चाद् गण्डूकाणां क्रमेण तु ।
शतं साष्टोत्तरं देयमभिषेकं समाचरेत् ॥ १२७ ॥

आत्मार्थं स्नानकं दद्याद्वामहस्तजलेऽपि वा ।
पुष्पं यत्पूर्वं विन्यस्तं तदर्घ्येण विसर्जयेत् ॥ १२८ ॥

गण्डूकां मूलमन्त्रेण निपतेदाढकां पुनः ।
जलं देयं लिंगमूर्ध्नि शेषं वेद्यां विनिक्षिपेत् ॥ १२९ ॥

प्. २७३)

विशेषदिवसे काले यावत्कल्पितकं जलम् ।
तावत्स्नानं प्रकर्तव्यमभिषेकं क्रियाय च ॥ १३० ॥

अलाभे पञ्चगव्यादि स्नापयेच्छुद्धवारिणा ।
संमार्ज्य सूक्ष्मशुद्धेन वस्त्रेण तदनन्तरम् ॥ १३१ ॥

कुंकुमागरुकर्पूरचन्दनैः श्लक्ष्णपिष्टकैः ।
हिमाम्बुमिश्रितैर्गन्धैः लेपयेद्देव विग्रहे ॥ १३२ ॥

मूलमन्त्रेण कर्तव्यं पुष्पं शिरसि निक्षिपेत् ।
निबन्धयेदधोमुद्रां नोपरि भ्रामयेत्करम् ॥ १३३ ॥

सर्वदापुष्पमारोप्यमशून्यं लिंगमस्तके ।
वस्त्रमाभरणं पुष्पं धूपदीपौ ददेद्बुधः ॥ १३४ ॥

प्. २७४)

मूलमन्त्रेण तत्सर्वं कुर्यादस्त्रं विशेषतः ।
शिरसा पुष्पमभ्यर्च्य घण्टामन्त्रेण ताडयेत् ॥ १३५ ॥

स्वधान्तं हृदयेनैव कुर्यादाचमनीयकम् ।
ईशानं कर्णिकामध्ये पूर्वे तत्पुरुषं यजेत् ॥ १३६ ॥

अघोरं दक्षिणे पूज्य वामदेवं तु चोत्तरे ।
सद्यं पश्चिमदेशे तु पूजयेद्ब्रह्मपञ्चकम् ॥ १३७ ॥

आरात्रिकं समुत्तीर्य रक्षौघविनिवारकम् ।
भस्म दर्पणं छत्रं च चामरं तालवृन्तकम् ॥ १३८ ॥

एतैस्सन्तोष्य देवेशं कुशदूर्वांकुरैस्सह ।
लक्ष्मीपुष्पैर्विशेषेण मौलौ वारोपयेत्तदा ॥ १३९ ॥

प्. २७५)

रजन्यां तु विशेषेण कुर्यादारात्रिकं क्रमैः ।
नीराजनं प्रकुर्वीत नवपात्रमथापि वा ॥ १४० ॥

पञ्चपात्रं समादाय दीपाधार समायुतम् ।
एकपिष्टेन संतप्तान् दीपान्प्रज्वाल्य सर्वशः ॥ १४१ ॥

यन्त्रिकोपरि संवेश्य दिव्यदृष्ट्या निरीक्षणम् ।
अस्त्रेण प्रोक्षणं प्रोक्तमभ्युक्षणमथो हृदा ॥ १४२ ॥

ताडनं च तथैवास्त्रमेवं संस्कारकं कुरु ।
नाभिस्थेनाग्निना चैव पूरकेणाग्निना सह ॥ १४३ ॥

संयोज्य रेचकेनैव नीत्वा सद्यादिमन्त्रयेत् ।
वह्निबिम्बे बहिःक्षिप्य क्षिपेदारात्रिकेऽथवा ॥ १४४ ॥

प्. २७६)

पाद्याचमनकार्यार्थं अर्घ्यबिन्दुं त्रिवारकम् ।
प्रतिदीपं तथा दत्वा दीपमुद्रां प्रदर्शयेत् ॥ १४५ ॥

तां सर्वांगुलिभिर्बद्धादन्तराले न्यसेत्क्रमात् ।
वामांगुष्ठं निरोधाय दर्शयन्नवदीपकैः ॥ १४६ ॥

गन्धपुष्पादिना पूज्य त्रिवारं हृदयाणुना ।
उच्चनीचक्रमेणैव देवमस्तकसन्निधौ ॥ १४७ ॥

भ्रामयेन्नेत्रमन्त्रेण भक्तियुङ् नन्दिकेश्वर ।
सुगन्धिसितसूनानि प्रोक्षयेदस्त्रवारिणा ॥ १४८ ॥

अभिमन्त्र्य षडंगेन भस्मनाऽस्त्रेण मार्जयेत् ।
निक्षिप्य दीपे तत्रास्मै शेषभस्म च संग्रहे ॥ १४९ ॥

प्. २७७)

हृदयेनैव मन्त्रेण ललाटेषु न्यसेत्क्रमात् ।
हृदये बाहुदेशेषु चैशाने कोणके भवेत् ॥ १५० ॥

गन्धयोरेव तद्दद्यात् पृथग्देवी व्यवस्थिता ।
नीराजनादि तत्सर्वं पूर्ववत्कारयेत्क्रमात् ॥ १५१ ॥

विनायकस्कन्दयोश्च नीराजनविधिस्तदा ।
पात्राणि तानि सर्वाणि बहिःपीठे विनिक्षिपेत् ॥ १५२ ॥

ततः प्रणम्य देवाज्ञां लब्ध्वा गौरीं प्रपूजयेत् ।
अग्नीशाया तु वायूनां दिक्षु चत्वार्यनुक्रमात् ॥ १५३ ॥

हृन्मन्त्रमिन्दुसंकाशं शिरः काञ्चनसन्निभम् ।
शिखा जपाभा नन्दीश तनुत्राणं च भृंगवत् ॥ १५४ ॥

प्. २७८)

सर्वतेजोमयं नेत्रं कर्णिकायां प्रपूजयेत् ।
अंभोजासनसंयुक्ताज्जटामकुटधारिणः ॥ १५५ ॥

चतुर्भुजां स्त्रिणेत्रांश्च सर्वाभरणभूषितान् ।
शक्तिशूलाभयवरान् शिवस्याभिमुखस्थितान् ॥ १५६ ॥

चतुर्वक्त्रं निजैर्मन्त्रैरुच्चरेन्नन्दिकेश्वर ।
तत्कालदंष्ट्रमत्युग्रमस्त्रं चाशनि सन्निभम् ॥ १५७ ॥

पूर्वादिषु चतुर्दिक्षु पूजयेद्विघ्नवारकम् ।
स्वस्वमन्त्रेण संपूज्य पाद्यादीन् हृदयाणुना ॥ १५८ ॥

धूपदीपं च नैवेद्यं तोयमाचमनीयकम् ।
करोचर्तनताम्बूलं मुखवासं च दर्पणम् ॥ १५९ ॥

प्. २७९)

दद्यात्स परिवाराय शिवमन्त्रेण देशिकः ।
नैवेद्यं दापयेत्तस्माद् देवदेवस्य पूर्वके ॥ १६० ॥

अच्छिन्नैर्धवलैः शालीतण्डुलैः क्षालयेच्छुभैः ।
सुपक्वं च सुगन्धं च कल्पयेद्विधिना सह ॥ १६१ ॥

सुवर्णादिषु पात्रेषु यन्त्रिकासु विनिक्षिपेत् ।
आज्यान्नेषु घृतान्नेषु निक्षिपेत्तदनन्तरम् ॥ १६२ ॥

सूपापूपोपदंशाद्यैः फलैर्नानाविधैरपि ।
पक्वैरपक्वैस्तद्भूरि परितः परिमण्डयेत् ॥ १६३ ॥

चक्रार दलसोपान पङ्क्त्याद्याकृति संयुतः ।
पात्रकैः क्षीरदध्याज्य सुपक्वान्नेन संयुते ॥ १६४ ॥

प्. २८०)

सितां फलादि मुद्गादीन् कल्पयेद्विभवानुगम् ।
अन्नैर्नानाविधैः शुद्धैः घृतदध्यादिसंयुतैः ॥ १६५ ॥

नैवेद्यमीदृशं प्रोक्तमभावे भावना भवेत् ।
तत्प्रियं च प्रकर्तव्यं सुस्वच्छं तु विशेषतः ॥ १६६ ॥

अस्त्रमन्त्रेण संशोध्य रेचयेद्धेनुमुद्रया ।
कवचीकरणं कुर्याद् हृन्मन्त्रेण निवेदयेत् ॥ १६७ ॥

मध्यमानामिकांगुष्ठ गतपुष्पेण दापयेत् ।
अस्त्रेण मनुना घण्टां ताडयेच्च क्षणात्तदा ॥ १६८ ॥

अंगानां परिवाराणां नैवेद्यं च प्रदापयेत् ।
पानीयं च प्रदातव्यं स्थल्या मज्जकमिन्दुवत् ॥ १६९ ॥

प्. २८१)

ईषच्चन्दनसंयुक्त नवमृद्घटसंयुतम् ।
सुस्वादुशीतलं तोयं पानीयं परिकल्पयेत् ॥ १७० ॥

हृदयेन तु मन्त्रेण चषकेन प्रदापयेत् ।
शिवादि परिवाराणां बलिं तत्र प्रदापयेत् ॥ १७१ ॥

निवेद्यान्तं प्रदातव्यं देवायाचमनं तदा ।
हस्तोद्वर्तनकार्यार्थं पटीरं दापयेत्पुनः ॥ १७२ ॥

निर्माल्यं चण्डदेवाय निवेद्यं च समाहितः ।
अस्त्रेण प्रोक्षयेत्पश्चात् ताम्बूलादीन्प्रदापयेत् ॥ १७३ ॥

शुभ्रं ताम्बूलपत्रं च पूगोत्तमफलानि च ।
तैलकर्पूरसंयुक्तं ताम्बूलमिति कीर्तितम् ॥ १७४ ॥

प्. २८२)

जातीलवंगतक्कोलमुखवासं प्रदापयेत् ।
तेजिष्ठं दर्पणं पश्चान् मूलमन्त्रेण दापयेत् ॥ १७५ ॥

पवित्रमक्षतोपेतं दूर्वायुक्तं विशेषतः ।
तत्वत्रयेण संजप्य मूलमन्त्रेण दापयेत् ॥ १७६ ॥

मोक्षार्थी शिवतत्वानि भोगार्थी तद्विपर्ययात् ।
प्रत्यहं वाङ्मनः कायव्यापारजनितातलम् ॥ १७७ ॥

पूर्वं पवनधात्वर्थे पालनं च युतेऽपि च ।
शुद्धिरक्षां च कुरुते पवित्रमिति कीर्तितम् ॥ १७८ ॥

विष्णुब्रह्मेन्द्रदेवाद्यैस्तैस्तैर्नानाविधैरपि ।
संतुष्टं परमेशानं ताडयेन्नन्दिकेश्वर ॥ १७९ ॥

प्. २८३)

मूलमन्त्रं जपेत्पश्चादक्षमालासमन्वितम् ।
वामहस्ते च कुसुमं निक्षिपेद्दक्षपाणिना ॥ १८० ॥

दक्षहस्तं परेन्यस्य जपं कुर्याद्विशेषतः ।
मानसोपरि शिष्याणां प्रथमं चोत्तमोत्तमम् ॥ १८१ ॥

उपांशु मध्यमं प्रोक्तमधमं भाष्यते वचः ।
तस्माद्भाष्यं समुत्सृज्य मनसोपांशु वा जपेत् ॥ १८२ ॥

मूलस्याष्टशतं जप्त्वा न द्रुतं न विलम्बितम् ।
मन्त्रितं हृदयेनैव कवचेन तु वेष्टितम् ॥ १८३ ॥

अस्त्रेण रक्षितं चैव मुद्रयोद्भवसंज्ञया ।
शिवांगानां जपं चापि दशांगं दापयेत्तदा ॥ १८४ ॥

प्. २८४)

गुह्याति गुह्य गोप्यस्त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे येन तत्प्रसादात्त्वयि स्थिते ॥ १८५ ॥

एतन्मन्त्रं जपित्वा तु भोगदेवस्य दक्षिणे ।
वामहस्ते प्रदातव्यं मूलमन्त्रार्घ्यवारिणा ॥ १८६ ॥

अर्घ्यं दक्षिणभागे तु चाग्निकार्याय यत्कृतम् ।
पश्चादागत्य तद्दत्वा विज्ञाप्य तदनन्तरम् ॥ १८७ ॥

देवस्य पुरतस्सव्ये गोमयेनोपलेपितम् ।
बहिस्सुतण्डुले कार्ये दूर्वापुष्पं च संयुतम् ॥ १८८ ॥

प्रातर्मध्याह्नकालेऽपि सायमक्षतकं भवेत् ।
ताम्रपात्रे कृताधारे लिंगं विन्यस्य देशिकः ॥ १८९ ॥

प्. २८५)

तारपूर्वं नमोन्तं वै चासनं परिकल्पयेत् ।
पाशुपतास्त्रमूर्तये नम इत्यासनमूर्तिको भवेत् ॥ १९० ॥

ओं ग्लां पशुहुंफडिति पाशुपतास्त्राय नमः ।
ओं श्रीं पशुं हुंफट् पाशुपतास्त्राय नमः ॥ १९१ ॥

हृदयाद्यंगमस्त्रेण न्यासं कृत्वा समाहितः ।
ओं भों हृदयाय हुंफट् ओं श्रीं शिरसे हुंफडन्तकम् ॥ १९२ ॥

ओं श्रीं शिखायै हुंफट् ओं हुं कवचाय हुंफडन्तकम् ।
ओं हुं नेत्राभ्यां हुंफडिति ओं हं फडन्ताय हुंफडन्तकम् ॥ १९३ ॥

षडंगमेवमुच्चार्य प्रत्येकं चार्चयेत्क्रमात् ।
अन्नलिंगार्चमथैकं वा पञ्चकं दशकं तु वा ॥ १९४ ॥

प्. २८६)

विन्यसेत्तत्र पात्रेषु पूजयेन्नन्दिकेश्वर ! ।
पात्रास्सोपादुकाद्वन्द्वं वज्राद्यायुध संयुतम् ॥ १९५ ॥

प्रणवेन वृषं पूज्य सवितानं ससात्विकम् ।
सर्वालंकार संयुक्तं गीतनृत्तकवाद्यकैः ॥ १९६ ॥

प्रदक्षिण क्रमेणैव नित्योत्सवालिं क्षिपेत् ।
अन्तः प्रविश्य प्रासादं संयोज्यैतान्समाहितः ॥ १९७ ॥

अन्नलिंगादि कान्सर्वान् सर्वान्हृत्य तदन्तरम् ।
शुद्धेन ताण्डवेनैव भगवन्तं प्रतोषयेत् ॥ १९८ ॥

तत्रदेवाग्रतो देशे नाट्यमण्डपके पुनः ।
गोमयेनोपलिप्तेन प्रणवासनके पुनः ॥ १९९ ॥

प्. २८७)

प्रणवेन तु मन्त्रेण मूर्तिं ध्यात्वा समाहितः ।
नन्दिदेवं समावाह्य संपूज्य तदनन्तरम् ॥ २०० ॥

स्वनाम्नैव तु संपूज्य शुद्धताण्डवकं भवेत् ।
रूपयौवन संपन्नां सुस्नातां सर्वभूषणाम् ॥ २०१ ॥

तां रुद्रकन्यामाहूय संप्रोक्ष्यास्त्रेण वारिणा ।
भस्म प्रधानमाल्यं च दत्वा ताण्डवमुत्तमम् ॥ २०२ ॥

भरतोक्तेन मार्गेण कारयेच्छुद्धताण्डवम् ।
ब्रह्माणं केशवं चैव रुद्रमीश्वरमेव च ॥ २०३ ॥

प्रातर्मध्याह्न सायेऽपि मध्यरात्रौ विशेषतः ।
लालकारण देवानां पूजनं स्वस्वनामभिः ॥ २०४ ॥

इति चिन्त्यविश्वसादाख्ये पूजार्णवे शिवकाण्डे त्रिंशत्पटलः ॥



प्. २८८)

अग्निकार्यविधिं वक्ष्ये कुण्डलक्षणपूर्वकम् ।
कुण्डं वा स्थण्डिलं वापि वह्नेरायतनं द्विधा ॥ १ ॥

चतुरश्रं च योनिं च अर्धचन्द्रं त्रिकोणकम् ।
वृत्तं षडश्रकं चैव पद्ममष्टाश्रकं भवेत् ॥ २ ॥

पूर्वादीशान पर्यन्तं कुण्डानां लक्षणं भवेत् ।
कुण्डानामष्टकानां च लक्षणं चाधुनोच्यते ॥ ३ ॥

प्राक्सूत्रे तु न्यसेत्पूर्वं अन्यद्दक्षिणतोत्तरम् ।
कुर्यात्पश्चिम पूर्वं तु यावत्कुण्डस्य विस्तरम् ॥ ४ ॥

रुद्र सूत्रेण काष्ठासु चतुरश्रावधिं कुरु ।
कुण्डानामपि सर्वेषामुत्पत्तिश्चतुरश्रके ॥ ५ ॥

प्. २८९)

चतुरश्राद्बहिस्सोमे पंचांशं तु च विन्यसेत् ।
दक्षिणोत्तरसूत्रेण चतुष्पादयुतं भवेत् ॥ ६ ॥

आग्नेयादीशपर्यन्तं चतुष्पदमिति स्मृतम् ।
आग्नेयादीशपर्यन्तं सूत्रान्तं विन्यसेत्तदा ॥ ७ ॥

ऐन्द्रसूत्राग्निमारभ्य यमसूत्रान्तकं नयेत् ।
अर्धचन्द्राकृतिप्रख्यं नैर्-ऋतेऽप्येवमेव हि ॥ ८ ॥

वारुण्यां तन्नयित्वासौ सोमे विन्यस्यभागयुक् ।
तदग्रादैन्द्रसूत्रान्तं त्रिकोणाकृतिवन्नयेत् ॥ ९ ॥

बाह्यमध्यमरेखाणां मार्जनाद्योतिरुत्तमः ।
भक्तिभागकृते क्षेत्रे त्यजेद्भागकृतं बुधः ॥ १० ॥

प्. २९०)

तेन मानेन तन्मध्याद् भ्रामयेदर्धचन्द्रकम् ।
क्षेत्रं तु पञ्चधा कृत्वा पार्श्वयोरुभयोरपि ॥ ११ ॥

एकैकांशं न्यसेत्तत्र मानसूत्रस्य बाह्यतः ।
मत्स्यद्वयं ततः कृत्वा राक्षसे मारुतेऽथवा ॥ १२ ॥

योज्यं तु त्रिभुजानेन त्रिकोणं भवति स्फुटम् ।
कुण्डार्धं तु परिग्राह्यं क्षेत्रार्धं तु विनिक्षिपेत् ॥ १३ ॥

अधिकं तु द्विधा कृत्वा चैकांशं बाह्यतस्त्यजेत् ।
वर्तयेत्तेन मानेन वर्तुलं कुण्डमुत्तमम् ॥ १४ ॥

क्षेत्रं तु षोडशं कृत्वा बहिरंशद्वयं न्यसेत् ।
क्षेत्रं च व्यासमानेन पार्श्वे मध्यद्वयं द्वयम् ॥ १५ ॥

प्. २९१)

सूत्रषट्कस्य पादेन षष्ठमंशं तदुत्तमम् ।
दशांशं क्षेत्रबाह्यं तु चैकांशं विन्यसेद्बहिः ॥ १६ ॥

तेन मानेन संभ्राम दक्षिणां भ्रामणं भवेत् ।
मध्यमे कर्णिकां कुर्याद् वृत्तं कुण्डवदाचरेत् ॥ १७ ॥

चतुर्विंशांशकं क्षेत्रं बाह्यैकांशं तु विन्यसेत् ।
तेनांशेन च कुर्वीत चतुरश्रं समन्ततः ॥ १८ ॥

तद्बाह्ये चतुरश्रस्य कोणार्धेन तु लांछयेत् ।
कोणे कोणे च संग्राह्य संग्राह्यं च विशेषतः ॥ १९ ॥

वांछनात्सूत्र पादस्य गजमानमनुत्तमम् ।
कुण्डस्य यादृशं रूपं मेखलायाश्च तादृशम् ॥ २० ॥

प्. २९२)

त्रिमेखला समायुक्तं श्रुत्याग्नि सनिमानकम् ।
हेतु भूतगणोच्छ्राय मध्यायं परिकल्पयेत् ॥ २१ ॥

व्यासेन सदृशं खातं निम्नोन्नत विवर्जितम् ।
अश्वत्थ पत्रवद्योनिं मेखलोपरि विन्यसेत् ॥ २२ ॥

भूतांगुलं तु विस्तारमायामं सप्तमांगुलम् ।
व्योमांगुलं तदुत्सेधं योनिलक्षणमुत्तमम् ॥ २३ ॥

एकांगुलं तदुत्सेधं भूतांगुलं तु विस्तरम् ।
पद्माकार समाकारं कुर्यात्कुण्डस्य मध्यमे ॥ २४ ॥

पद्ममात्रं न कर्तव्यमोष्ठमेकांगुलं भवेत् ।
बहिरेकांगुलं कण्ठे द्व्यंगुलं तु तथा भवेत् ॥ २५ ॥

प्. २९३)

सुधापक्वेष्टकाभिर्वा मृदा चैव तु कारयेत् ।
चतुर्णामक्षदं प्रोक्तं विश्वभोग विवर्धनम् ॥ २६ ॥

आरोग्यं पूरितं चैव शक्षदाहमिदं भवेत् ।
श्रीकरं पद्मकुण्डं तु पुष्टिदं जयवर्धनम् ॥ २७ ॥

अष्ठ्यश्र कुण्डं शत्रूणां ऋणदं भयदं तथा ।
शतार्धहोमे मुष्टिः स्यात् चन्नवार * * * म् ॥ २८ ॥

सहस्रहोमे हस्तं स्याद्द्विहस्तं चायुते हितम् ।
लक्षहोमे चतुर्हस्तं द्व्ययुते षट्करं भवेत् ॥ २९ ॥

गुणांगुलं समुत्सेधं निम्मोन्नत विवर्जितम् ।
द्व्यंगुलैकांगुलं वापि संक्षिप्तैस्तण्डुलैर्भवेत् ॥ ३० ॥

प्. २९४)

रेखात्रयं तु पूर्वाग्रे उत्तरार्धं तथैव च ।
ब्रह्मा वैवस्वतः सोमो रुद्रश्शक्रश्च केशवः ॥ ३१ ॥

तत्पूर्वाग्रोत्तराग्राणां अधिदेवाः प्रकीर्तिताः ।
कुण्डबाह्यार्चने कालेऽप्यर्घ्यपात्रे ददेन्मुनिः ॥ ३२ ॥

होमद्रव्यस्य शेषाणि शिवदृष्ट्या विलोकयेत् ।
तस्य नाभिः पुरस्कुर्यादुपविश्योत्तराननः ॥ ३३ ॥

कुण्ड संस्कार हीनश्चेदग्निपत्तिर्न विद्यते ।
निरीक्षणं प्रोक्षणं च खननं सेचनं तथा ॥ ३४ ॥

कुट्टनं मार्जनं चैव निर्माणं लेपनं तथा ।
गोषण्डं शोधनं चैव पूर्वमेव कृतं यदि ॥ ३५ ॥

प्. २९५)

पुनरन्निरीक्षणं चैव प्रोक्षणं ताडनं कुशैः ।
अस्त्रमन्त्रेण कर्तव्यं वर्मणाभ्युक्षणं क्रमात् ॥ ३६ ॥

खड्गेन खातमुद्धारं पूरणं समतापि च ।
सेकितं कवचे नैव कुट्टनं तु शराणुना ॥ ३७ ॥

मार्जनं लेपनं चैव हृन्मन्त्रेण समर्चयेत् ।
कवचेनाक्षपादं च मध्ये पीडं हृदा भवेत् ॥ ३८ ॥

तन्मध्ये सुस्थितां देवीं नीलोत्पलदलप्रभाम् ।
ऋतुस्नातां विशालाक्षीं गन्धमाल्यानुलेपनाम् ॥ ३९ ॥

सर्वलक्षण संपूर्णां वयः षोडशकाश्रिताम् ।
वागीश्वरीं महादेवीं एवं ध्यात्वा विचक्षणः ॥ ४० ॥

प्. २९६)

पञ्चवक्त्रयुतं देवं सादाख्यं विश्वरूपिणम् ।
तद्वद्वागीश्वरं देवं विन्यस्य हृदयाणुना ॥ ४१ ॥

पूजयेद्गन्धपुष्पाद्यैः स्वस्वनाम्नैव देशिकः ।
सूर्यकान्तोद्भवं वह्नि मरण्युद्भवमेव वा ॥ ४२ ॥

क्षेत्रे वा श्रोत्रियागारे सुपथेन समानयेत् ।
मृत्पात्रे ताम्रपात्रे वा निक्षिप्य हृदयेन तु ॥ ४३ ॥

होतुरग्ने तु विन्यस्य पूजयेत्तु विशेषतः ।
क्रव्यांशं पूर्ववत्सृज्य वीक्षणाद्या विशोधयेत् ॥ ४४ ॥

औदार्यं बैन्दवं भौमं समीकृत्वानलत्रयम् ।
विन्यस्य वह्निचैतन्यं प्रदीपकलिकोपमम् ॥ ४५ ॥

प्. २९७)

ओं ह्रीं वह्निचैतन्याय नमोऽन्तं मन्त्रमुच्चरन् ।
पिम्गलानाडिमार्गेण बहिर्निस्सार्य रेचकात् ॥ ४६ ॥

ज्वलितोग्नौ विनिक्षिप्य संहिता मन्त्रितं पुनः ।
सद्यादीशानपर्यन्तं नमोन्तं पूजयेत्क्रमात् ॥ ४७ ॥

धेनुमुद्रामृतीकृत्य रक्षणं चास्त्रकेन च ।
तनुत्राणावकुण्ठेन हस्तेनोद्धृत्य देशिकः ॥ ४८ ॥

त्रिः परिभ्राम्य कुण्डोर्ध्वे शिवबीजमिति स्मरन् ।
भूमिष्ठजानुको भूत्वा वागीशीगर्भगोचरे ॥ ४९ ॥

वागीश्वरेण देवेन क्षिप्यमाणं विभावयेत् ।
उभयत्र तु संमेलं हृदयासंमुखं क्षिपेत् ॥ ५० ॥

प्. २९८)

ततोत्थितं च गर्भाग्नौ नाभिदेशे समूहनम् ।
अन्यवस्त्रं परीधाय शौचमाचमनं हृदा ॥ ५१ ॥

वागीश्वरीपाणिपद्मे गर्भाग्नेः पालनाय च ।
दर्भसूत्रेण बध्नीयाद्रक्षार्थं नन्दिकेश्वर ॥ ५२ ॥

गर्भाधानाय सद्येन पूजयेत्पावकं पुनः ।
आहुतित्रितयं कुर्याद् हृन्मन्त्रेण समाहितः ॥ ५३ ॥

तृतीये मासि पुंसवनं पुष्येण श्रवणेन च ।
वामदेवेन होतव्यं शिरसाम्बुकणान्वितम् ॥ ५४ ॥

अघोरेणैव सीमन्तं षष्ठे मासि तथैव च ।
जुहुयादाहुती स्त्रिस्त्रिः शिखाया शिखयेव तु ॥ ५५ ॥

प्. २९९)

वक्त्रांगनिर्णयं कार्यं वक्त्रोन्मीलन निष्कृतिम् ।
वर्मणा पुरुषेणैव जातकर्मयुतक्रिया ॥ ५६ ॥

वह्निमुज्वाल्य गर्भाद्यैः स्नानं गर्भमलापहम् ।
स्वर्णादिभूषणं देव्या हृन्मन्त्रेण प्रदापयेत् ॥ ५७ ॥

सूतकाग्नौ च शुध्यर्थं प्रोक्षयेदस्त्रवारिणा ।
अस्त्रेण कुण्डमाताड्य वह्निस्सेकं तु वर्मणा ॥ ५८ ॥

पूर्वोत्तराग्रमार्गेण मेखलाः कुशला न्यसेत् ।
अस्त्रेणास्तीर्य तस्योर्ध्वे स्थापयेत् परिधीन्हृदा ॥ ५९ ॥

वक्त्र लालापनोदाय समिधः पञ्च होमयेत् ।
आद्यन्ते घृतसंसिक्तां खड्गेनैव विशेषतः ॥ ६० ॥

प्. ३००)

चतुर्मुखं शंकरं च शार्ङ्गिणं तदनन्तरम् ।
प्राच्याद्युत्तरपर्यन्तं हृदा विष्टरकान्यजेत् ॥ ६१ ॥

शक्रादिलोकपालांश्च वह्नेरभिमुखस्थितान् ।
पीठस्थं हृदयेनैव पूजयेन्नन्दिकेश्वर ॥ ६२ ॥

वसासंघं निवार्याशु बालकं रक्षयिष्यति ।
शिवस्याज्ञामिमां तेषां श्रावयेद्दिक्पतीन्प्रति ॥ ६३ ॥

सलक्षणौ सृक्सृवौ च गृहीत्वोर्ध्वमुखौ तथा ।
अधोमुखौ तान्संताड्य क्रमान्मूलाग्रमध्यमे ॥ ६४ ॥

मूलं मूलेन संस्पृश्य मग्रमग्रेण संस्पृशेत् ।
मध्यं मध्येन संमार्ज्य दर्भैः स्त्रिभिरनुक्रमात् ॥ ६५ ॥

प्. ३०१)

आत्मनो दक्षिणे भागे स्थाप्यौ पुष्पादि पूजितौ ।
दर्भौ परिनिधायैतौ दर्भसंस्पृष्टदेशके ॥ ६६ ॥

आत्मविद्यां शिवं यष्ट्वा नमोऽन्तं पूजयेत्क्रमात् ।
सृचि शक्तिं स्रुवे शंभुं पूजयेन्नन्दिकेश्वर ॥ ६७ ॥

दर्वीं च सर्पिरादाय शोधितं वीक्षणादिभिः ।
अस्त्रेण तापयित्वाग्नौ स्वधामिति विचिन्तयेत् ॥ ६८ ॥

कुण्डस्यो परिसंभ्राम्य स्थापयेद्बह्निकोणके ।
ततो विष्णुमयं धृत्वा घृतमीशादि विन्यसेत् ॥ ६९ ॥

आज्रमुद्धृत्य दर्भाग्रे स्वग्रहान्तं शिरोणुना ।
मुकुन्दाय हुनेद्बिन्दुं कुण्डनाभौ निवेशयेत् ॥ ७० ॥

प्. ३०२)

रुद्ररूपमिति ध्यात्वा भावयेद्भक्तिसंयुतः ।
प्रादेशमात्रदर्भाभ्यां अंगुष्ठानामिकाग्रकैः ॥ ७१ ॥

अस्त्रेणाभिमुखं वह्नेर्घृतमुत्प्लवनं भवेत् ।
हृदात्मसंमुखं कुर्यात् तस्मात्संप्लवनं भवेत् ॥ ७२ ॥

नमोऽन्तास्त्रेण दर्भेण क्षेपाद्भस्मनि शुद्धये ।
क्षिप्त्वा चान्योन्यदर्भेण नीराजनविधिर्भवेत् ॥ ७३ ॥

दग्धमन्त्रेण दर्भान्तमग्नौ क्षिप्त्वा समाहितः ।
निधायाग्नौ कृतं दग्धं कुशान्प्रादेशसंमितान् ॥ ७४ ॥

भावयेत्पक्षयुग्मं च घृतेध्मादित्रयं क्रमात् ।
भागत्रयात्स्रुवेणैव घृतमादाय होमयेत् ॥ ७५ ॥

प्. ३०३)

स्वेत्यग्नौ तद्भागे शेषमाज्यं क्रमात्क्षिपेत् ।
ओं हामग्नीषोमाभ्यां स्वाहान्तं मन्त्रमुच्चरेत् ॥ ७६ ॥

ओं हां अग्नये स्वाहा । ओं हां अग्नीषोमाभ्यां स्वाहा ।

ओं हां अग्नये स्विष्टकृते स्वाहा ॥ ७७ ॥

नयनोन्मीलनार्थाय वह्नेर्नेत्रत्रयोन्मुखः ।
आज्यपूर्णस्रुवेणैव चतुर्थीमाहुतिं यजेत् ॥ ७८ ॥

ओं हां अग्नये स्विष्टकृते स्वाहा ।
षडंगेनाभिमन्त्र्यैव रोधयेद्धेनुमुद्रया ॥ ७९ ॥

कवचेनावकुण्ठ्याज्यं रक्षयेद्धेतिना पुनः ।
घृतबीजहृदाक्षेपे भवेदन्याज्यशोधनम् ॥ ८० ॥

प्. ३०४)

आज्याभिघारसन्तानमास्यैककरणीरिता ।
सद्योवाममघोरं च पुरुषं चेशमेव च ॥ ८१ ॥

प्रणवाग्निजयाद्यन्तं स्वस्वमन्त्रेण होमयेत् ।
एकैकयाज्यहोमेन वाभिघारमिदं भवेत् ॥ ८२ ॥

वक्त्रसंधानकं चैव मन्त्रं मन्त्रेण योगतः ।
क्रमादीशानपर्यन्तं पञ्चब्रह्मभिरन्वितम् ॥ ८३ ॥

ओं हां सद्योजाताय स्वाहा ओं हां वामदेवाय स्वाहा ।
ओं हां अघोराय स्वाहा ओं हां तत्पुरुषाय स्वाहा ॥ ८४ ॥

ओं हां ईशानाय स्वाहा ओं सद्योजात वामदेवाभ्यां स्वाहा ।
ओं वामदेवाघोराभ्यां स्वाहा ओं हां अघोरतत्पुरुषाभ्यां स्वाहा ॥
८५ ॥

प्. ३०५)

ओं हां पुरुषेशानाभ्यां स्वाहा ।
पावकाद्वायुपर्यन्तं हृदयानां समर्पणम् ।
नैर्-ऋत्यादीशाकाष्ठान्तं अविच्छिन्नाज्यधारया ॥ ८६ ॥

स्रुवेण कुर्यादाज्यान्तमेकदान्नन्दिकेश्वर ।
ओं हां सद्योवामाघोर तत्पुरुषेशानेभ्यः स्वाहेति ॥ ८७ ॥

स्वेष्टवदनेषु वक्त्रं मैकमन्यकम् ।
अन्यथा कुण्डमानेन वक्त्रमिष्टं स्मरंस्तदा ॥ ८८ ॥

इतराणामन्यवक्त्राणामेकं भावमिदं भवेत् ।
संपूर्णेशानवह्नौ च हेतिना चाहुतित्रयम् ॥ ८९ ॥

प्रकुर्याच्छिवगावस्थः कुर्यान्नाम विचक्षणः ।
एकं नाम ददेत्पश्चात् शिवाग्निं स्वं हुताशने ॥ ९० ॥

प्. ३०६)

वैदिकं मिश्रकं चैव मिश्रवैदिकं तथा ।
त्रिविधं वह्निरूपं तु स्वरूपं नन्दिकेश्वर ॥ ९१ ॥

एकास्यं च द्विवक्त्रं च नानाद्वितयसंयुतः ।
षण्णेत्रो मेखलायुक्तः पादत्रय समन्वितः ॥ ९२ ॥

चतुशृंगसमायुक्तो द्विशिरा जटिलो मतः ।
उपवीती च मौनी च सप्तहस्तसमन्वितः ॥ ९३ ॥

सप्तजिह्वासमायुक्तो वृषवाहनसंयुतः ।
हिरण्या कनका रक्ता कृष्णाजिह्वाश्च दक्षिणे ॥ ९४ ॥

संप्रभावाति रक्ता च बहुरूपानुवामके ।
एवं जिह्वा समुद्दिष्टा वैदिके मेषवाहनः ॥ ९५ ॥

प्. ३०७)

शैवाग्नेर्वर्णनं पश्चाच्छृणु नन्दीश तत्वतः ।
पञ्चवक्त्रयुतं रक्तं सप्तजिह्वा विराजितम् ॥ ९६ ॥

दशहस्तं त्रिणेत्रं च सर्वाभरणभूषितम् ।
रक्तवर्णपरीधानं पंकजो परिसंस्थितम् ॥ ९७ ॥

बद्धपद्मासनासीनं दशायुध समन्वितम् ।
कनका बहुरूपा च अतिरक्ता ततः परम् ॥ ९८ ॥

सुप्रभा चैवं कृष्णा च रक्ता चान्या हिरण्मयी ।
ऊर्ध्ववक्त्रे स्थितास्तिस्रः शेषाः प्रागादिषु स्थिताः ॥ ९९ ॥

शैवाग्नेर्ध्यानमुद्दिष्टं त्रिविधोग्निः प्रकीर्तितः ।
नेत्र श्रोत्रादिकं ज्ञात्वा वह्नेर्होममथाचरेत् ॥ १०० ॥

प्. ३०८)

श्रोत्रे होमाद्व्याधिरेव नेत्रे नेत्रस्य रोगता ।
नासिकायां मनोदुःखं केशे दारिद्र्य संभवम् ॥ १०१ ॥

इष्टन्नसिद्धिदं गात्रे तस्माज्जिह्वासु होमयेत् ।
बन्धनं श्रोत्र देशे स्यान् नासारूपस्वरूपकम् ॥ १०२ ॥

इति प्रज्वलनं नेत्रं भस्म चाग्निशिरो मतम् ।
यत्र चोज्वलिता वह्निजिह्वा तत्रैव होमयेत् ॥ १०३ ॥

कुण्डमध्यगतं वक्त्रं तस्य मध्ये तु जिह्विका ।
त्रिभिः परिधिभिश्चोर्ध्वं समिद्वा संयुतस्तु यः ॥ १०४ ॥

वैदिकाग्निस्समुद्दिष्टो मिश्राग्निस्तूभयात्मकः ।
त्रिचतुः परिधिश्चैव शास्त्रेऽस्मिन्संप्रकीर्तितः ॥ १०५ ॥

प्. ३०९)

संपूज्य पितरौ वह्नेर्हृदयेन समन्वितः ।
वागीश्वरीं च वागीशं विसृजेत्तदनन्तरम् ॥ १०६ ॥

वौषडन्तेन मन्त्रेण मध्यात्पूर्णाहुतिस्तथा ।
अग्नेः प्रियार्थमग्रं वा स्वाहान्त तिलकेन च ॥ १०७ ॥

पञ्चाहुतीः क्रमाद्दत्वा चाग्नेयपदमध्यमे ।

ओं हां हूं अग्नये स्वाहा । ओं अग्नयेह्नमैश्वरं तेजः ॥ १०८ ॥

पावनं परमं यतः ॥

तस्मात्त्वदीयहृत्पद्मे संस्थाप्य तं विधाम्यहम् ।
एवं शिवाज्ञां संप्रार्थ्य सांगोपांगयुतं शिवम् ॥ १०९ ॥

आसनं चात्महृदये पूजयेत्पूर्ववन्मुनिः ।
ततोऽग्निहृदयाम्भोजे चावाहन पुनः शिरः ॥ ११० ॥

प्. ३१०)

आवाहनादि सर्वं च पूजयेच्छिवमव्ययम् ।
यागाग्निं शिवयोः कुर्यान्नाडीसन्धानमात्मना ॥ १११ ॥

जुहुयान्मूल मन्त्रेण शक्त्यंशैश्च दशांशकम् ।
आज्यक्षीरमधूनां च कर्षके होम उच्यते ॥ ११२ ॥

दधि भुक्ति प्रदं प्रोक्तं प्रसृतिः पायसे पुनः ।
पथ्यं मात्रं च भक्ष्याणां लाजानां मुष्टि मात्रकम् ॥ ११३ ॥

फलानां स्वप्रमाणेन मूलानां चांगुलत्रयम् ।
पत्रं पुष्पं स्वमानेन कनिष्ठांगुलिसंमिताः ॥ ११४ ॥

समिधस्सत्वचश्चैव वल्कवोष्ट दशांगुलः ।
चन्दनं कुंकुमं चैव कर्पूरं यक्षकर्दमम् ॥ ११५ ॥

प्. ३११)

कस्तूरीकाणां सर्वेषां कलानां मानदं हुनेत् ।
निदानामष्टमं भागे गुग्गुलुश्चा दास्थित् ॥ ११६ ॥

होमद्रव्यप्रमाणं हि कथितं नन्दिकेश्वर ।
पञ्चभिर्ब्रह्मबीजैस्तु होमयेत्तु पदे स्थितः ॥ ११७ ॥

साधकस्साध्यमन्त्रेण जुहुयाद्भक्तिसंयुतः ।
पूर्णाहुतिं ततः कुर्यात् स्रुवा पूर्णं घृतं भवेत् ॥ ११८ ॥

स्रुवेण सव्यहस्तेन निधायाधामुखं शनैः ।
पुष्पं सृगग्रमारोप्य पश्चाद्वामेन पाणिना ॥ ११९ ॥

पुनस्सव्येन तौ धृत्वा कम्बुसन्निधिमुद्रया ।
सावधानोर्ध्वकायश्च समांघ्रिस्संमुखस्थितः ॥ १२० ॥

प्. ३१२)

निधाय नाभौ तन्मूलं निश्वासोच्छ्वासवर्जितम् ।
स्रुगग्रे दृष्टिमाधाय ब्रह्मविष्ण्वादिकारणात् ॥ १२१ ॥

सुषुम्नानाडिमार्गेण विसृज्य च समाहितः ।
तयोर्नीलं समुन्नीय सव्यहस्तसमीपके ॥ १२२ ॥

निधायातन्द्रितो भूत्वा मूलमन्त्रं समुच्चरेत् ।
वौषडन्तं सनातीं च सजपन्नन्दिकेश्वर ॥ १२३ ॥

पावके जुहुयादग्निं यवमात्रैकसाधनः ।
आचामं तु पटीरं स्यात्ताम्बूलादींश्च दापयेत् ॥ १२४ ॥

घृतादिद्रव्यालाभे तु तिलं वा तण्डुलं तथा ।
अनेन वा यथा लाभं शक्त्या हुत्वा दिने दिने ॥ १२५ ॥

प्. ३१३)

न सभूतिं समादाय नमस्कुर्याच्च भक्तितः ।
पश्चादग्निं समभ्यर्च्य पीडितास्त्रेण शंकरान् । १२६ ॥

संहारिण्या तदाहृत्य सर्वमन्त्रान्यसदैवतान् ।
सादरं तत्क्षमस्वेति चोक्तभावसमन्वितः ॥ १२७ ॥

ब्रह्मादींस्ताननन्तांस्तान् इन्द्राग्नि दिक्पतींस्तदा ।
पूरकेण हृदम्भोजे श्रद्धया हृदयाणुना ॥ १२८ ॥

धूपयेद्देवदेवेश मसमान्सप परम् ।
प्रागग्रं सर्वमादाय कुर्यात्कुण्डल युग्मकम् ॥ १२९ ॥

कुण्डं प्रवह्निकरणे बहिरन्तर्बलिं क्षिपेत् ।
दर्भानास्तीर्य प्रागग्रान् पूर्वरात्रौ बलिं क्षिपेत् ॥ १३० ॥

प्. ३१४)

याम्ये मातृबलिं दद्याद् गणेभ्यः पश्चिमे भवेत् ।
यक्षाणामुत्तरे भागे ग्रहानामैशदेशके ॥ १३१ ॥

असुराणां तथाग्नेर्ययां नैर्-ऋते राक्षसाय च ।
नागानां वायुदिग्भागे नक्षत्राणां च मध्यमे ॥ १३२ ॥

ईशाने वापि मध्ये तु राशीनां च बलिं क्षिपेत् ।
आग्नेययां प्रणवस्यापि नैर्-ऋते विश्वदेवताः ॥ १३३ ॥

वायव्ये क्षेत्रपालाय नाममन्त्रैः क्षिपेद्बलिम् ।
ओं हां रुद्रेभ्यः स्वाहा । ओं हां मातृभ्यः स्वाहा ॥ १३४ ॥

ओं हां गणेभ्यः स्वाहा । ओं हां यक्षेभ्यः स्वाहा ।
हृदेभ्यः स्वाहा । ओं हां असुरभ्यः स्वाहा ॥ १३५ ॥

प्. ३१५)

ओं हां राक्षसेभ्यः स्वाहा । ओं हां नागेभ्यः स्वाहा ।
ओं हां नक्षत्रेभ्यः स्वाहा । ओं हां राशिभ्यः स्वाहा ॥ १३६ ॥

ओं हां विश्वेभ्यः स्वाहा । ओं हां क्षेत्रपालाय स्वाहा ।

  • * * * * * * * दत्वाबलिरथोच्यते ॥ १३७ ॥


इन्द्रादीशानपर्यन्तं स्वस्वनाम्ना च पूजयेत् ।
ब्रह्मणे चोर्ध्वमुद्दिश्य पूजयेदन्तरीयके ॥ १३८ ॥

रसाभागमथोद्दिश्य नैर्-ऋते विष्णुमर्चयेत् ।
मध्यमुद्दिश्य मध्ये तु क्षेत्रपालबलिं क्षिपेत् ॥ १३९ ॥

वायसादिबलिं वापि दिग्विदिक्षु बलिं क्षिपेत् ।
ओं हां इन्द्राय स्वाहा । ओं हा मग्नये स्वाहा ॥ १४० ॥

प्. ३१६)

ओं हां यमाय स्वाहा । ओं हां निर्-ऋतये स्वाहा ।
ये रुद्रा रुद्रकर्माणो रुद्रस्थान निवासिनः ॥ १४१ ॥

सौम्याश्चैव केचिच्च सौम्यस्थाननिवासिनः ।
मातरो रुद्ररूपाश्च गणानामधिपार्श्वयोः ॥ १४२ ॥

विघ्नभूतास्तथाचान्ये दिग्विदिक्षु समाश्रिताः ।
सर्वे सुप्रीतमनसः प्रतिगृहन्त्विमं बलिम् ॥ १४३ ॥

सिद्धिं जुषन्तु मे नित्यं भयेभ्यः पातु मां सदा ।
एवं बलिप्रदानं च कृत्वा भक्तो नतो भवेत् ॥ १४४ ॥

पूजितं च शिवं भक्त्या प्रणम्याभ्यर्थ्य भक्तितः ।
भगवन्मम पूजां च होमादिसकल क्रियाम् ॥ १४५ ॥

प्. ३१७)

आत्मानं च गृहाणेति मूलमन्त्रेण होमयेत् ।
अष्टदिक्षु तथा पश्चात् संपूज्य शिवमव्ययम् ॥ १४६ ॥

न्यूनं वाप्यधिकं वापि यन्मया मोहतः कृतम् ।
सर्वं तदस्तु संपूर्णं त्वत्प्रसादान्मम प्रभो ॥ १४७ ॥

पूर्ववत्प्रोक्तमार्गेण संप्रार्थ्य तदनन्तरम् ।
यस्य पूजां ततः कुर्यात् पूजान्ते नन्दिकेश्वर ॥ १४८ ॥

इत्यचिन्त्य विश्वसादाख्ये अग्निकार्य विधिश्चतुर्दशः पटलः ॥



प्. ३१८)

देवभागे च चण्डाय पूजां तामासमाश्रयेत् ।
विन्यस्य चास्त्रमन्त्रेण तद्देशस्थान्तरायकम् ॥ १ ॥

निरस्य सकलीकुर्याच् चण्डेशस्यान्तरीयकम् ।
निरस्य सकली कुर्यान् निर्माल्यं गांगमूलकैः ॥ २ ॥

प्रथमद्वयमुच्चार्य पाशुपतास्त्राय फडिति ।
अस्त्रेण हस्तौ संशोध्य न्यासार्चन मतः परम् ॥ ३ ॥

ओं प्रथमप्रथमपाशुपतास्त्राय हुंफट् सनाय नमः ।
अमुं मूर्तीश्वरश्चैव स्वस्वनाम्ना तु पूजयेत् ॥ ४ ॥

ओं चण्डमूर्तये नमः । ध्वनि चण्डेश्वरायेति हुंफट् स्वाहेति मन्त्रतः ।

आवाहयेत्तदा चण्डं महापातकनाशनम् ॥ ५ ॥

प्. ३१९)

ओं ध्वनि चण्डेश्वराय हुंफट् स्वाहा ।
ओंकारं पूर्वमुच्चार्य षडंगानां च सर्वशः ॥ ६ ॥

सर्वयोगाधिकृतये हृदयाय नमः ।
ओं परमेश्वरायेति शिरसे नम इत्यपि ॥ ७ ॥

प्रथमं ज्योतिरूपाय शिखायै नम इत्यपि ।
गोप्त्रे कवचायेति नमस्कारमतः परम् ॥ ८ ॥

चण्डनेत्राय वौषड् वर्धनी पूर्वमन्त्रकम् ।
ओं सर्वयोगाधिकृताति हृदयाय नमः ॥ ९ ॥

ओं परमेश्वराय पदाय शिरसे नमः ।
जोतीरूपाय शिखायै वौषट् । ओं गोप्त्रे कवचाय नमः ॥ १० ॥

प्. ३२०)

ओं चण्डनेत्राय वौषण्णमः । ओं प्रथम पाशुपतास्त्राय फट्
एवं करांग(क) न्यासं कृत्वा पूर्वं षडंगकम् ॥ ११ ॥

हृदयादिक्रमेणैव विन्यसेन्नन्दिकेश्वर ।
कं स्वराग्निसंभूतां मूर्तिन्निराजनप्रभाम् ॥ १२ ॥

चतुर्वक्त्रेण संयुक्तां नेत्रद्वादशसंयुताम् ।
ज्वलज्जटामर्धचन्द्रां केयूरकटकोज्वलाम् ॥ १३ ॥

शूलं कमण्डलुं वामे दक्षे टंकाक्षमालिनी ।
फणिकंकणसंयुक्तां व्यालयज्ञोपवीतिनीम् ॥ १४ ॥

दंष्ट्राकरालवदनां अतिरक्तां विभावयेत् ।
श्वेतपद्मासनासीनां भक्तानां भयभञ्जिनीम् ॥ १५ ॥

प्. ३२१)

ध्यात्वा तन्मूलमन्त्रेण यथाशक्ति जपं जपेत् ।
अंगानां तु दशां चैव जपित्वा नन्दिकेश्वर ॥ १६ ॥

परमीकृत्य मूलेन चाशुदीक्षापयेत्क्रमात् ।
गोभूहिरण्यवस्त्राणि मणिभेदादि भूषणम् ॥ १७ ॥

विहाय शेषं निर्माल्यं चण्डेशाय निवेदयेत् ।
ध्वनिपूर्वेण मन्त्रेण स्वाहान्तेन विशेषतः ॥ १८ ॥

लेह्यशोष्यान्नपानादि ताम्बूलं स्रग्विलेपनम् ।
निर्माल्य भोजनं तुभ्यं प्रदत्तं तु शिवाज्ञया ॥ १९ ॥

क्रियाकाण्डं मयाचण्ड सर्वमेव त्वदाज्ञया ।
न्यूनाधिकं कृतं मोहात् परिपूर्णं तदस्तु मे ॥ २० ॥

प्. ३२२)

एवं विज्ञाप्य चण्डेशं अर्घ्यं दत्वा समन्त्रकम् ।
उद्वास्य मूर्तिं मन्त्रेण संहारिण्या च पुष्पयुक् ॥ २१ ॥

मूलेन पूरकेणैव मन्त्रानात्मनि पूजयेत् ।
चण्डाय ततनिर्माल्ये बाधकाद्यथ संचयम् ॥ २२ ॥

संपत्प्रवालं निर्माल्यमस्पृश्यं सर्वदा गणैः ।
चण्डध्यानसमायुक्तं तन्निर्माल्यं क्षणात्त्यजेत् ॥ २३ ॥

प्रक्षाल्य पादौ हस्तौ च गोमयालेपनं ततः ।
निर्माल्यापनयस्थानं प्रोक्षयेदस्त्रवारिणा ॥ २४ ॥

तस्मात्प्रदेशादुत्थाय क्षालयेत्पादमस्तकम् ।
आचम्य विधिना सम्यक् सम्यग्भस्मानि संस्पृशेत् ॥ २५ ॥

प्. ३२३)

मन्त्रांग न्यासकं कृत्वा शिवभागं प्रभावयेत् ।
समाधि योगमारभ्य कुर्यादुक्तक्रमेण च ॥ २६ ॥

इत्यचिन्त्यविश्वसादाख्ये चण्डपूजाविधिः पञ्चदशः पटलः ॥



अर्धनारीश्वरस्यैव साधनं वक्ष्यतेऽधुना ।
असंज्ञकात्परात्तत्वात् परं सूक्ष्ममनन्तकम् ॥ १ ॥

बिन्दुनादस्वरूपं च ज्योतिर्लिंग स्वरूपकम् ।
शिवशक्तिमयं तेजो यत्तत्वं सृष्टिकारणम् ॥ २ ॥

अर्धनारीश्वरं रूपमास्थितं नन्दिकेश्वर ।
शिवशक्त्यैक्यरूपे तु वार्धनारीश्वरं मतम् ॥ ३ ॥

प्. ३२४)

पुंसयोः प्रथमं रूपं शुद्धये जगदीश्वर ।
सदाशिवस्वरूपाभूदीशोप्यैशी मनोन्मनी ॥ ४ ॥

लिंगार्चनं पुरा प्रोक्तमिदानीं चार्धनारिकम् ।
शिवरूपं तथा रौद्रं आज्ञासिद्धिप्रदं शुभम् ॥ ५ ॥

सम्यग्रूपं सदानारीत्युभयं मोक्षदं भवेत् ।
आज्ञाकार्यकृतं रौद्रं शक्त्यर्थं शमनाय च ॥ ६ ॥

तस्माद्द्वौ रौद्रसौम्यौ हि चार्धनारीश्वरं परम् ।
गुरुं खं शि हेतुर्वा भयं द्रावयति प्रभुः ॥ ७ ॥

रुद्र इत्युच्यते यस्माच्छिवः परमकारणः ।
मृद्वासने सुखासीनोऽप्येकचित्तः प्रसन्नधीः ॥ ८ ॥

प्. ३२५)

गुरुपूजां प्रकुर्वीत चार्धनारीश्वरं यजेत् ।
सव्यं श्वेतं तथा श्यामं वामं रूपमिदं भवेत् ॥ ९ ॥

पद्मासनस्थितौ ज्ञेयावर्धाधिक्य द्विनेत्रकौ ।
ललाटनयनं देवे चार्धेक्षणमनूपमम् ॥ १० ॥

दशहस्तसमोपेतं मकुटद्वयसन्निभम् ।
देवस्य भागे षण्मुद्रां पञ्चमुद्रां तु वामके ॥ ११ ॥

पञ्चमुद्रासमायुक्तं शिरोमालासमायुतम् ।
कपालिकर्णे पिंछञ्च पलं चैवापसव्यके ॥ १२ ॥

खट्वांगं च त्रिशूलं च चास्थिमालाधरोहरः ।
निवेद्यहस्तमेकं तु सर्वाधारे सुधारयेत् ॥ १३ ॥

प्. ३२६)

द्वौ हस्तौ गजचर्मापि धारयेदूर्ध्वबाहुके ।
एवं ध्यात्वा विशेषेण पूजयेद्गन्धपुष्पकैः ॥ १४ ॥

लिंगे वा स्थण्डिले वापि वर्धयित्वा पटेऽपि वा ।
चित्रे वा स्वगिरा वापि भावयेत्पूजयेत्क्रमात् ॥ १५ ॥

ओं ऐं ग्लौं ह्रें ह्रीं ह्रें ह्रौं ह्लौं अघोरेभ्यः ह्रौं ह्लौं प्रों
ह्रीं श्रीं ग्लें क्ष्मां (६६)
एतन्मन्त्रं जपित्वा तु शिवाज्ञां लभते सदा ॥ १६ ॥

पाद्यमाचमनं चार्घ्यं गन्धं पुष्पं च धूपकम् ।
दीपं नैवेद्यकं चैव मूलमन्त्रेण पूजयेत् ॥ १७ ॥

होमं च तर्पणं चैवाप्यभिषेकं तथैव च ।
त्रिपंचाशन्तु बीजानां मालया मन्त्रितं भवेत् ॥ १८ ॥

प्. ३२७)

सप्तभिः पूर्वबीजैश्च पञ्चब्रह्मषडंगकम् ।
ओं हें हौं क्षौं श्रीं ह्रीं ह्रौं ईशानाय नमः ॥ १९ ॥

एवं च पञ्चब्रह्म स्यात् षडंगं तु ततः परम् ।
ओं ऐं ह्लौं प्रं प्रीं प्रें ह्रें ह्रौं हृदयाय नम इत्यादि ॥ २० ॥

षडंगविधिरेवं स्यादर्चा पूजा च पूर्ववत् ।
पूजान्ते तु पुनर्न्यासं साधको वर्धयेत्क्रमात् ॥ २१ ॥

सदा मन्त्रं सदाध्यानं कल्पयित्वात्वकल्पितम् ।
कल्पमाकर्षणं चैव पुरक्षोभं प्रतिश्रयः ॥ २२ ॥

अतीतानागतं चैव वर्तमानं तथैव च ।
भूमित्यागं तथावेशं प्रभुत्वं बुद्धिवर्धनम् ॥ २३ ॥

प्. ३२८)

मायालीनान्नरेन्द्रांश्च देवान्गरुडकिन्नरान् ।
दानवानसुरान्यक्षान् किंकरांश्च विधीयते ॥ २४ ॥

सर्वज्ञानं च लभते विश्वामरजयं भवेत् ।
सर्वदा समरूपा च देवी देवेन वक्ष्यते ॥ २५ ॥

वश्यमाकर्षणं रक्षां द्विभुजं वरदाभयम् ।
पुण्यादिशान्त्यौ च स्वर्णवर्णं चतुर्भुजम् ॥ २६ ॥

फलं त्रिशूलाभयदं वरदं च तथैव च ।
स्तंभने मोहने चैव हरिद्रासन्निभं प्रभुम् ॥ २७ ॥

चतुर्भुजमुदारांगं मूत्रापूर्वत्र चोदितम् ।
कृष्णमुच्चाटने प्रोक्तं दीर्घबाहुं भयानकम् ॥ २८ ॥

प्. ३२९)

शूलं कपालटंकं च खट्वांगमेव च ।
खेटं खड्गं च पाशं च दधानं भावयेत्तदा ॥ २९ ॥

वारुणे धूम्रवर्णाभं भस्मैः षोडशभिर्युतम् ।
पाशांकुशाभयदं च कपालं चोर्ध्वबाहुके ॥ ३० ॥

शेषद्वादशशूलं च महाघोरभयान्वितः ।
ज्ञानेन श्वेतवर्णाभं प्रसन्नवदनं प्रभुम् ॥ ३१ ॥

अक्षमालाभयं चैवमभयं वरदं तथा ।
चतुर्भुजैर्दधानं तं ध्येयं वै उमासरवम् ॥ ३२ ॥

अतीतानागते कार्ये योगध्यानसमायुतः ।
इन्द्रियाणां चले काले सर्वं दृश्यं च यद्भवेत् ॥ ३३ ॥

प्. ३३०)

स्वप्ने च दृश्यते सर्वं तत्कार्यं च विमर्शयेत् ।
कुक्कुटासन संस्थोपि लोकयेत्तु शनैः शनैः ॥ ३४ ॥

हस्तांगुल क्रमेणैव विनम्य च विनम्य च ।
वारणायोगसंयुक्तोऽप्याकाशगमनं भवेत् ॥ ३५ ॥

अनुक्तः सर्वकार्यं तु विज्ञाप्य गुरवे यदा ।
आज्ञां कब्ध्वोक्तमार्गेण पूजयेन्नन्दिकेश्वर ॥ ३६ ॥

पुण्यक्षेत्रे सुखासीनो मन्त्रमेतत्सुधारयेत् ।
आशु तेन जपात्सिद्धिर्जपान्तं होमतर्पणम् ॥ ३७ ॥

अभिषेकं दशांशं तु षडंगं तु दशांशकम् ।
भक्तिविश्वास अद्रोह श्रद्धाशान्ति समन्वितम् ॥ ३८ ॥

प्. ३३१)

गुर्वाज्ञा पालनं सत्यज्ञान क्लेशसमानसः ।
हविष्य भोजनं चैव दशकं साधकश्चरेत् ॥ ३९ ॥

प्रोक्त संपूर्णता विद्या सार्धविद्यामथोच्यते ।
मानुषं त्र्यम्बकायाथ उमायै तदन्तरम् ॥ ४० ॥

क्षरमेवेदमित्युक्तं द्वादशाक्षरमेव हि ।
ओं तु षट्त्र्यम्बकायाथ उमायै तदनन्तरम् ॥ ४१ ॥

क्षरमेवेदमित्युक्तं द्वादशाक्षरमेव हि ।
ओं मानुषं त्र्यम्बकाय उमायै क्षमिति ॥ ४२ ॥

एतन्मन्त्रं जपित्वा तु लक्षमात्रेण साधकः ।
पूर्वोक्तानि च कार्याणि सर्वमेतेन कारयेत् ॥ ४३ ॥

प्. ३३२)

वल्मीकारूढमंकोलं शस्त्राशनिनिबाधितम् ।
सोमवारे च तन्मूले रक्षामन्त्रेण बन्धयेत् ॥ ४४ ॥

सूत्रेण तिष्ठतिष्ठेति महाबलाय महापुनः ।
वीर्याय शिवायेति नमस्कारान्तमन्त्रकम् ॥ ४५ ॥

ओं तिष्ठ तिष्ठ महाबलाय महावीर्याय शिवाय नमः ।
एतन्मन्त्रं जपित्वा तु पश्चादंगारवारके ॥ ४६ ॥

उत्तराभिमुखश्चैव जटामादाय साधकः ।
हरिद्रारोचनायुक्तं पेषणं पेषयेत् क्रमात् ॥ ४७ ॥

नक्तगलिकतोयेन शुद्धकीकृत्य बुद्धिमान् ।
वर्षा न्यातपे देशे शुद्धभाण्डे विनिक्षिपेत् ॥ ४८ ॥

प्. ३३३)

मूलमन्त्र सहस्रेण संजप्य कुसुमादिभिः ।
महापातकसंयुक्तान् शिवद्रोहयुतान्परान् ॥ ४९ ॥

गुरुद्रोहांश्च राष्ट्राणां ग्रामद्रोहांश्च साधकैः ।
गुरुमूर्ध्नि नमस्कुर्यात् तत्प्रसादं च सर्वदा ॥ ५० ॥

आलिप्य हन्ति तान्भस्म जपध्यानसमायुतः ।
लाभं चालाभकं चैव सुखदुःखं महाद्भयम् ॥ ५१ ॥

सेनान्तगं पुरक्षोभवह्न्यादि सकलानपि ।
यदेतेषामेकतमः संसिद्धिर्नास्तिनास्ति च ॥ ५२ ॥

तालत्रयं च कृत्वा तु जलंमध्ये निमज्जयेत् ।
अन्यतीरेण वासांसि विसृज्यान्येन वेष्टयेत् ॥ ५३ ॥

प्. ३३४)

नालोकयेत्पृष्ठपार्श्वं अन्यतीर्थं समाश्रयेत् ।
वक्रवत्युपचारेण सुगन्धामलकादिना ॥ ५४ ॥

शिवशक्तिमथाप्याप्त्वा सुधामन्त्राभिषेचनम् ।
भैरव इत्युक्तकलाषोडशकलान्वितः ॥ ५५ ॥

मन्त्रं जप्त्वा सुधाकुम्भैरभिषेकं च कारयेत् ।
स्वक्रियावाससादींश्च यायाद्भावसमन्वितः ॥ ५६ ॥

दुर्निमित्तावलोकेऽपि पुनःस्नानजपादिकम् ।
शिवोहं भावयित्वातु घृतक्षीराभिषेचनम् ॥ ५७ ॥

भुक्त्वा तु भोजने लोकमक्षिकाद्यादिकुत्सिते ।
तुषा च दर्शने चैवमपक्वं जातिपक्षकम् ॥ ५८ ॥

प्. ३३५)

अन्नक्षत्रिधापरिस्पन्ददीपनाशादिदुर्गुणे ।
दृष्टश्चेदुत्थितो भूत्वा समाचम्य प्रसन्नधीः ॥ ५९ ॥

अमृताक्षरमन्त्रं च जपेच्छक्त्या समाहिताः ।
दुर्निमित्त विहीनश्चेत् समं हुत्वा समाचरेत् ॥ ६० ॥

मन्त्रन्यासादिकं कृत्वा चामृताक्षरकं जपेत् ।
शुद्धदेशे शयानस्य स्वप्ने सर्व प्रकाश्यते ॥ ६१ ॥

स्वप्नं सकलमावेद्य गुरवे कार्यमाचरेत् ।
तदाज्ञा सर्वकार्याणां सफलांशं प्रकल्प्यते ॥ ६२ ॥

तत्वचिन्तामणि ख्यातोप्येकाक्षरमनेकयुक् ।
रेफञ्च दक्षबाहुं च श्वेतं च तदनन्तरम् ॥ ६३ ॥

प्. ३३६)

महाकालं च वह्निं च मारुतं च मरुस्सरम् ।
अं ईशान्त क्रमाज्ज्योत्स्ना पिण्डमेकाक्षरं परम् ॥ ६४ ॥

भुक्तिदं मुक्तिदं चैव देवदेव प्रियावहम् ।
क्षौं ऊं रेफेण हृदयं विद्या अकारौ शिरो भवेत् ॥ ६५ ॥

षकारेण शिखाकार्या मकारेणत्वनुक्रमाः ।
नेत्रं तु वह्निना चैव यकारेणास्त्रकं भवेत् ॥ ६६ ॥

व्यालं च चन्द्रचूडं च जटाचूडधरं हरम् ।
अर्धद्विनेत्रयुक्तं च स्त्रीविलासपरं प्रभुम् ॥ ६७ ॥

सोत्पलामालती मालाविलसत्कुन्तलां शिवाम् ।
एकनेत्रां प्रशान्तान्तां पतिप्रेमप्रवर्धनीम् ॥ ६८ ॥

प्. ३३७)

कर्णपूरयुतं सच्यं ताटकं वामकर्णके ।
कालकण्ठं सुनाशं च दंपत्योस्ससमद्भुतम् ॥ ६९ ॥

हेमरत्नादिकं वामे सव्ये कूर्माभिसंयुतम् ।
भाविभावयुतं वामे सोत्पलं पाणिपल्लवे ॥ ७० ॥

कपालशूलसंयुक्तं द्विहस्तं फणिकंकणम् ।
दक्षिणं बाहुयुगलं रत्नहेमादिभूषणैः ॥ ७१ ॥

वाममेकभुजं पीनस्तनमेकं मनोहरम् ।
व्यालोपवीतहारं च दक्षिणं भस्मलेपितम् ॥ ७२ ॥

मुक्ताहारलसद्वीरं कुंकुमचन्दनैः ।
कर्पूरागरुकस्तूरीलेपितं वामपार्श्वकम् ॥ ७३ ॥

प्. ३३८)

व्याघातमालभागं च कह्लारकृतमालकम् ।
व्याघ्रचर्मोपरिलसद्वासुकीमेखलांचितम् ॥ ७४ ॥

दक्षिणं देवदेवस्य विचित्रक्षौमवस्त्रयुक् ।
रत्नकांचीकलापाढ्यं जगद्धातुं च वामकम् ॥ ७५ ॥

नूपुरं वीरबलयं महापद्मविराजितम् ।
दक्षिणं चादिदेवस्य मणिमंजीरसंयुतम् ॥ ७६ ॥

लाक्षया रंजितं वामं ह्रस्वकिंकिणिकांचितम् ।
देवासुरनुतं वेदैराक्रन्दितमहर्निशम् ॥ ७७ ॥

अर्धनारीश्वरं देवं भोगमोक्षफलप्रदम् ।
एवं ध्यात्वा जपेल्लक्षं गुरौ भक्तिसमन्वितः ॥ ७८ ॥

प्. ३३९)

दशांशं तर्पणं कुर्यादभिषेकं तथैव च ।
अयुतं च हुनेत्पश्चात् तिलतण्डुलकैरपि ॥ ७९ ॥

मधुक्षीरघृतासक्तैः गुरौ भक्तिसमन्वितः ।
अनन्तादि षडुत्थं यद् आसनं परिकल्पयेत् ॥ ८० ॥

तस्योपरि समावाह्य गन्धपुष्पादिमार्चयेत् ।
आवाहनादि सद्यान्तं पूर्ववन्नन्दिकेश्वर ! ॥ ८१ ॥

अंगैगद्यावृतिः पूज्या चाष्टाक्षरमतः परम् ।
अष्टमूर्तिस्वनाम्ना च भक्त्या पुष्पैः प्रपूजयेत् ॥ ८२ ॥

रं सूर्यात्मने नमः । कञ्जालात्मने नमः ।
रं वाप्यात्मने नमः । यं आकाशात्मने नमः ॥ ८३ ॥

प्. ३४०)

अं आत्मने नमः । उं सोमात्मने नमः ।
द्वितीयावरणं प्रोक्तं वृषं पूर्वे च दिग्दले ॥ ८४ ॥

दुर्गाग्नेयदिग्भागे संपूज्यं नन्दिकेश्वर ।
नन्दिनं दक्षिणे पूज्य गणेशं नैर्-ऋते तथा ॥ ८५ ॥

पश्चिमे त्वां विशेषेण वायत्ये तु गुहो भवेत् ।
उत्तरे चास्य देवस्या दैशान्ये क्षेत्रपालकः ॥ ८६ ॥

स्वस्वनामनमोऽन्तैश्च स्वबीजैः पूजयेत्क्रमात् ।
इन्द्रादि लोकपालानां पंचमावरणे यजेत् ॥ ८७ ॥

छिन्नोद्भवलवोद्भूतैः जात्यंगुलसमन्वितैः ।
दुग्धसिद्धैः समिद्धेग्नौ षट्सहस्रद्वयं हुनेत् ॥ ८८ ॥

प्. ३४१)

यावत्संख्येन जुहुयात् तावत्संख्यैस्सुधाघटैः ।
आम्लादितोऽग्निना नित्यं प्रीयेतां परमेश्वरौ ॥ ८९ ॥

एवं साध्ये कृते पश्चाद् आचार्याय वदेत्पुनः ।
गुरूणां साध्यकालेन क्रियते वाभिषेचनम् ॥ ९० ॥

पश्चादभीष्टं कार्यं तु सर्वं कर्तुं क्षमः क्षणात् ।
आयुरारोग्यमैश्वर्यं वाक्सिद्धिं जयदं तथा ॥ ९१ ॥

वश्यमाकर्षणं स्तंभं मोहमुच्चाटनं तथा ।
मारणं चैन्द्रकानां च परमन्त्रापहारिणम् ॥ ९२ ॥

पराभिचारशान्तिं च सर्वग्रहनिवारणम् ।
कथं शक्तिर्भवेत्तस्य गुरुभक्तस्य निश्चयम् ॥ ९३ ॥

प्. ३४२)

हकारं च सकारं च रेफस्थाने नियोजयेत् ।
नवाक्षरयुतं पिण्डं दानादौ साधको जपेत् ॥ ९४ ॥

अयुतेन जपेनैव स्तोभो वैशादिकं भवेत् ।
सकार पूर्वयुक्तं चेच्छान्ति पौष्टिकवर्धनम् ॥ ९५ ॥

षोडशस्वरमध्यस्थं सुसितं नवपिण्डकम् ।
चन्द्रबिम्बमिदं ध्यात्वा गुरुमण्डलकोपरि ॥ ९६ ॥

तत्सूत्रोदकधाराभिः गुरुं तमभिषेचयेत् ।
तत्पदाब्जसुधाधारापूजितां स्वां तनुं स्मरेत् ॥ ९७ ॥

अपमृत्युविषं हन्ति शिरोरोगज्वरादिकम् ।
ग्रहग्रस्तस्य शिरसि वह्निमण्डलसंपुटे ॥ ९८ ॥

प्. ३४३)

मध्ये मनुस्वरं चैव प्रतिलोमे रसस्वरम् ।
कोणरेफादिषट्कं च पूर्वकोणादि भावयेत् ॥ ९९ ॥

साध्यनाम च तन्मध्ये निवेश्य ज्वलदग्निवत् ।
रेफादिवामश्रुत्यन्तं कालानलसमं स्मरेत् ॥ १०० ॥

अशनिध्वनिसंकाशं मूर्ध्नि दग्धं क्षणात्स्मरेत् ।
वश्याकर्षणयोरक्तं स्तम्भसंक्षोभणादिषु ॥ १०१ ॥

अकारादि सुवर्णान्तं चिन्तयेन्नन्दिकेश्वरः ।
धूम्राभं मर्दनोच्चाटे स्तंभ राष्ट्रकरस्य च ॥ १०२ ॥

चा बीणादिवत्सूत्रं स्तंभने पीतवर्णकम् ।
भूबीजादि तथा प्रोक्तं अनादिमुक्तिकांक्षिणाम् ॥ १०३ ॥

प्. ३४४)

नयने श्रवणे चैव वहने कुक्षिके तथा ।
मर्मस्थाने च शिरसि वायुमण्डलमध्यगम् ॥ १०४ ॥

कृष्णाभं सस्मरेत्तत्र शिवादित्रयनन्दिके ।
भुक्तांगं ध्यानमात्रेण तत्तदंगं विनश्यति ॥ १०५ ॥

अनेन साधितः पश्चात् वापी पश्चात्प्रमुच्यते ।
कण्ठनाले च वा श्रोघं भूमण्डलगतं स्मरेत् ॥ १०६ ॥

पिण्डधारायुतं श्वेतं नेत्रं ध्यातं रुचापहम् ।
एतद्ध्यानं च नेत्रादि सर्वांगेषु च संस्मरेत् ॥ १०७ ॥

तत्तद् व्याध्यादिशमनमन्योन्यप्रीतिवर्धनम् ।
वश्याकर्षणकार्येण गुणाहीनो गुणी भवेत् ॥ १०८ ॥

प्. ३४५)

तस्माद्वाकर्षणं कार्यं कुण्डार्चं तु पथा?गुरुः ।
साध्यस्य हृदयाम्भोजे मध्ये तद् रुबन्धनम् ॥ १०९ ॥

कृत्वा पञ्चाक्षरेणैव तन्मूर्ध्निरेफमुस्वलम् ।
ध्यात्वा तस्योर्ध्वके चैव चन्द्रबिम्बं सुधामयम् ॥ ११० ॥

विधाय वायुबीजेन दिव्य?भाव समन्वितम् ।
आकर्षात्सोऽपि सा चैव सर्वमागच्छति ध्रुवम् ॥ १११ ॥

सर्वे ते तस्य कार्याणि सर्वाण्यपि च कुर्वते ।
पिण्डस्य मान्तरेफस्य मध्ये साधकनामयुक् ॥ ११२ ॥

साधकाख्यां पूर्वभागे संलिखेन्नन्दिकेश्वर ।
अग्निबिम्बं ततः कृत्वा तद्बहिः कोणषट्ककम् ॥ ११३ ॥

प्. ३४६)

तत्कोणस्यैव रेफं च प्रज्वलत्पावकप्रभम् ।
प्रतिलोमस्वरेणैव क्रमेणैव प्रवेष्टयेत् ॥ ११४ ॥

पुष्पादिभिस्समभ्यर्च्य प्राणानां च प्रतिष्ठितम् ।
कृत्वा संग्रहमौ पि निखन्यात्कर्षणं परम् ॥ ११५ ॥

शालिपिष्टमधुक्षीरं घृतसंमिश्रपुत्तलम् ।
त्रिधा विभज्य जुहुयात् सत्कर्मत्व प्रसिद्धये ॥ ११६ ॥

त्रिधा नेत्रविशेषेण कर्तव्यं वश्यकांक्षिणाम् ।
पिण्डाक्षरमकारः स्यान् मध्ये नामकम् ॥ ११७ ॥

विलिप्योर्ध्वगरेफे च व्याधिनाम विशेषतः ।
ठकारेणावृतं पश्चात् तद्बहिर्भूपुरं भवेत् ॥ ११८ ॥

प्. ३४७)

तत्कोणे च ठकारं च नागवल्लीदलै लिखेत् ।
पुण्यं जपश्शन्ति पश्चात् तस्य रोगो विनश्यति ॥ ११९ ॥

पूर्वरेफककाराभ्यां साध्यकर्णं प्रबन्धयेत् ।
षकारेण वकारेण वक्षोरुहयुगं पुनः ॥ १२० ॥

वामदक्षिणपार्श्वाभ्यां संवेष्ट्य तदनन्तरम् ।
रेफेण वायुबीजेन बहुदेयं सयुग्मकम् ॥ १२१ ॥

ओंकारांगस्वरेणैव मुखं नाभिं च बन्धयेत् ।
बिन्दुपक्षस्थले न्यस्त्वा दीर्घचन्द्राकृतिर्भवः ॥ १२२ ॥

अन्योन्यमकरं बध्वा विहरेत्कन्तुकोपमम् ।
वशिस्तोभूमिदं चैव स्तोहकं विषभूतले ॥ १२३ ॥

प्. ३४८)

त्रिकोणसंपुटसर्वान्तः पिण्डाक्षरमशेकम् ।
बिन्दुजीवरसेनैव विलिखेत्साधकोत्तमः ॥ १२४ ॥

अग्निं तत्र प्रतिष्ठाप्य संपूज्य विधिना पुनः ।
सलोहमंगुलीकं च ताम्रपात्रे निधाय च ॥ १२५ ॥

आज्येन हुत्वा संपातं निक्षिपेदंगुलीयके ।
त्रिकोण संपुटस्यान्तः पिण्डाक्षरमशेषकम् ॥ १२६ ॥

बन्धुतीव्ररसेनैव विलिखेद् कोत्तमः ।
अग्निं तत्र प्रतिष्ठाप्य संपूज्य विधिना पुनः ॥ १२७ ॥

त्रैलोहमंगुलीयं च ताम्रपात्रे निधाय च ।
आज्येन हुत्वा संपातं निक्षिपेदंगुलीयते ॥ १२८ ॥

प्. ३४९)

शतवृद्धा च संपाद्य विदध्यादंगुलीयके ।
साध्यस्यांगुलिं निक्षिप्य अभीष्ठफलसिद्धिदम् ॥ १२९ ॥

वज्राभिषेकमात्रं तु तन्मन्त्रैर्नन्दिकेश्वर ।
लिखित्वाष्टदलं पद्मं कर्णिकायां षडश्रकम् ॥ १३० ॥

मध्ये त्रिकोणं तन्मध्ये पिण्डान्तं मध्यसाध्यकम् ।
षट्कोणे च षडंगं च पूर्वादिदलके पुनः ॥ १३१ ॥

रेफादिवर्णमारभ्य लिखेद्बीजाष्टकं क्रमात् ।
सानुस्वरान्लिखित्वा तु बाह्ये वृत्तत्रयं भवेत् ॥ १३२ ॥

बिन्दुनादसमायुक्तं स्वरषोडशकं न्यसेत् ।
तद्बहिः कादिमान्तं च पञ्चविंशतिभिर्युतम् ॥ १३३ ॥

प्. ३५०)

तद्बहिर्वृत्तके वापि हकारान्ताष्टकं लिखेत् ।
तद्बाह्ये भूपुरं लिख्य तत्कोणेषुहकारकम् ॥ १३४ ॥

तन्मध्ये पूर्णकुम्भं च निधायावाह्य दैवतम् ।
अष्टगन्धादिभिः पूज्य सर्वपुष्पैश्च भक्तियुक् ॥ १३५ ॥

अभिषेकं ततः कुर्यात् सर्वरक्षाकरी परा ।
इकारान्तं लिखेत्पिण्डं षोडशस्वरवेष्टितम् ॥ १३६ ॥

तन्मध्ये साध्यनामाभिर्वह्निगेहद्वयावृतम् ।
नकारे रेफमालिख्य ज्वलत्पावकसप्रभम् ॥ १३७ ॥

तद्बहिर्भानुबीजं च कादिजान्ताक्षरीं न्यसेत् ।
तन्मध्ये तद्बहिर्भूयो भूमण्डलयुगं न्यसेत् ॥ १३८ ॥

प्. ३५१)

संवर्तकं च तत्कोणेष्यालिख्य नन्दिकेश्वर ।
एतच्चक्रं समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ॥ १३९ ॥

ग्रहक्ष्वेलभयादीनां नाशनं यन्त्रधारणम् ।
काश्वान्यबिम्बयुग्मस्य मध्ये चिन्तामणिं लिखेत् ॥ १४० ॥

साध्याख्यां चैव तन्मध्ये कोणेष्वग्न्यादिषट्ककम् ।
कोणे पार्श्वेषु वैकारमुकारं च क्रमाल्लिखेत् ॥ १४१ ॥

तद्बहिर्भानुबिम्बं च तन्मध्ये प्रणवं लिखेत् ।
तद्बाह्ये भूपुरद्वन्द्वं संलिख्य विधिवत्पुनः ॥ १४२ ॥

लाक्षागोरोचनाभ्यां च तत्पात्रे विलिखेत्क्रमात् ।
संपूज्याभ्यर्च्य पुष्पाद्यैः धारयेद्यन्त्रमुत्तरम् ॥ १४३ ॥

प्. ३५२)

आयुष्करं पुष्टिकरं लक्ष्मीवर्धनमेव च ।
अपवादादि दोषघ्नं वश्यके?त्सौम्यवर्धनम् ॥ १४४ ॥

चोरव्यालमहागे?ग भूतापस्मारहारकम् ।
रक्षामध्यगतं ह्येतत् सर्वरक्षाकरं परम् ॥ १४५ ॥

वह्निमण्डलयुग्मस्य मध्ये मध्याक्षरं लिखेत् ।
मूलमन्त्रं च संलिख्य बाह्ये * लोपमुज्वलम् ॥ १४६ ॥

अग्निज्वालावृतं चैव विषवृक्षैः समन्ततः ।
साग्रशाखावृतश्चैव जप्त्वा सं * * * * * ॥ १४७ ॥

  • * * * * पूज्य स्थापयेद्यतित सत्तम ।

व्याघ्रचोरवराहाश्च शत्रुवर्गवराहकाः ॥ १४८ ॥

प्. ३५३)

न व्रजन्ति समीपेऽपि लोकरक्षाकरं परम् ।
एवं प्रथमसद्यादि स * * * * * * * ॥ १४९ ॥

  • * * * * * तस्मिन् देहान्ते मुक्तिमाप्नुयात् ।


इत्यचिन्त्यविश्वसादाख्ये अर्धनारीश्वर पूजाविधिः पञ्चदशः पटलः ॥



लोकसंरक्षणार्थाय * * * शंसनाय च ।
देवानां प्रार्थनासिध्यै गजास्यासुररूपिणः ॥ १ ॥

नाशाय विघ्नराजस्य चोत्पत्त्यै शंकरस्वयम् ।
गजरूपं समास्थाय देव्या सह ॥ २ ॥

  • * * * * * जान्तां शृणुत्वं नन्दिकेश्वर ।

अष्टारं पद्ममालिख्य पूर्वाद्यष्टदले पुनः ॥ ३ ॥

प्. ३५४)

दलमूले सुरद्वन्द्वयुक्तं षोडशकं न्यसेत् ।
पूर्वस्य दलमध्येऽपि कवर्गं पञ्चकं न्यसेत् ॥ ४ ॥

आग्नेयेऽपि चवर्गं स्याद्याम्ये चैव ठवर्गकम् ।
राक्षसे च तवर्गं स्यात्पवर्गं पश्चिमे न्यसेत् ॥ ५ ॥

ओं श्रीं ग्लीं शिरसे स्वाहा । ओं ह्रीं ह्रूं शिखायै वषट् ।
ओं क्लीं गैं कवचाय हुम् । ओं ग्लौं गों नेत्रत्रयाय वौषट् ॥ ६ ॥

ओं गं गः अस्त्राय फट् । उक्तं षडंगं परिकीर्तितम् ।
षडश्रं कर्णिकामध्ये तन्मध्ये च त्रिकोणकम् ॥ ७ ॥

योनिरूपमिदं ध्यात्वा दलेषु नवशक्तयः ।
तीव्रा च ज्वालिनी कन्दा * * * * * * * * ॥ ८ ॥

प्. ३५५)

  • * * * वती सन्ध्या नवमी विघ्ननाशिनी ।

सर्वशक्तिपदं चोक्ता कमलासनसन्नुतिः ॥ ९ ॥

पूर्वादीशानपर्यन्तं दलेषु क्रमशो न्यसेत् ।
अष्टशक्तिं च विन्यस्य नवमी काम्यदायिनी ॥ १० ॥

सकल संपत्तियुते कमलासन मध्यमे ।
देवमावाह्य सर्वश्री वचनं विघ्ननाशनम् ॥ ११ ॥

ऐंक्षवं चादिमध्ये तु रत्नद्वीपं विचिन्तयेत् ।
मन्दारपारिजातादि कल्पवृक्षैः समाहितः ॥ १२ ॥

सर्वर्तुफलसंयुक्तैः अभीष्ठफलदायिभिः ।
ज्योत्स्नाबालातपैर्युक्तं चतुर्दिक्षु सुशीतलम् ॥ १३ ॥

प्. ३५६)

मलयानिलपोतेन नृद्वच्छीकरहारिणा ।
खरिनादिना
सेवितं सर्वदा वज्रप्रवालमणिपल्लवैः ॥ १४ ॥

सर्वगन्धसमोपेतैः पुष्पैः फलसमन्वितैः ।
कोटिकोटिमहाशाखा
रंगदा चैव मिक्षुचापमनन्तरम् ॥ १५ ॥

तथा त्रिशूलं चक्रं च सर्वभागगताः क्रमात् ।
वामे पद्मं च पाशं च रक्तोत्पलमनूपमम् ॥ १६ ॥

मञ्जीरं * * * * * * * * * न्द्र निर्मलम् ।
सरत्नं हेम कुंभं च पूरितं वसुभिर्वृतम् ॥ १७ ॥

पुष्करेण दधानं तं कुंकुमाभमनूपमम् ।
किरीटमकुटोपेतं नेत्रत्रयविराजितम् ॥ १८ ॥

प्. ३५७)

शूर्प * * * * * * * * * * * * वृतान् ।
क्षेपयन्तं मदोन्मत्तं सर्वाभरणभूषितम् ।
तस्य वामोरुसंलीनां जगत्कारणकारणाम् ॥ १९ ॥

सुवर्णवर्णां सुश्रोणीं सर्वलक्षण संयुताम् ।
अर्धचन्द्रसमाकारललाटां चन्द्रमण्डिताम् ॥ २० ॥

त्रिणेत्रां चतुर्भुजां देवीं सर्वाभरणबूषिताम् ।
सव्यहस्तेन देवेशं श्लिष्यन्तीं प्रेमनिर्भराम् ॥ २१ ॥

वामहस्तेन पाशं च दधानां मदविह्वलाम् ।
देवं च वामहस्तेन निबिडस्तनमध्यमम् ॥ २२ ॥

श्लिष्यन्तं सर्वदा सम्यगानन्दामृतनिर्भरम् ।
रत्नौघं पुष्कराग्रेण साधिका च मुहुर्मुहुः ॥ २३ ॥

प्. ३५८)

वर्षन्तं देवदेवेशं चिन्तयेत्साधकोत्तमः ।
आवाहनादिभिस्सर्वैः संपूज्य परमेष्टिनम् ॥ २४ ॥

तद्वद्देवीं समभ्यर्च्य भक्तियुक्तो दृढव्रतः ।
त्रिकोणबाह्यषट्कोण स्यान्तराग्रे च देवयोः ॥ २५ ॥

बिल्वमूले च विष्णुं च श्रियं सर्वांगसुन्दरीम् ।
चतुर्भुजं विशालाक्षं शंखचक्रगदाम्बुजम् ॥ २६ ॥

दधानं तस्य वामे च लीनां पद्मकरद्वयम् ।

  • * * * * * * * * * लेष्ठां पार्वतीं तथा ॥ २७ ॥


परश्वथं च शूलं च वरदं चाभयं तथा ।
दधानं भावयित्वा मां पाशांकुशसमुज्वलाम् ॥ २८ ॥

प्. ३५९)

पूर्वे पिप्पलवृक्षस्य मूले कामं रतिं तथा ।
इक्षुचापं च पुष्पेषुं अभयं वरदं तथा ॥ २९ ॥

तस्य देवीं कराभ्यां तु रक्तोत्पलयुतां स्मरेत् ।
उत्तरे भूमिदेवीं च वराहं विष्णुविग्रहम् ॥ ३० ॥

गदाचक्राभयवरान् दधानं च चतुर्भुजैः ।
तस्य देवीं शुक्रं चैव कण्ठिशंकलमोद्भवम् ॥ ३१ ॥

दधानां वर्णान्तां सर्वाभरणसंयुताम् ।
प्रियंगुमूले सन्दीप्तां भावयेन्नन्दिकेश्वर ॥ ३२ ॥

प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
सट्कोणमध्ये षड्विघ्नान् सर्वाभीष्ट प्रदायकान् ॥ ३३ ॥

प्. ३६०)

आमोदमग्रभागे च प्रमोदं सुमुखास्वतम् ।
गणपं रत्नसंकाशं गजवक्त्रसमन्वितम् ॥ ३४ ॥

मौक्तिकाभं शंखनिधिं पद्माख्यं मणी सन्निभम् ।
द्वितीयावरणं प्रोक्तं तृतीयं चांगसंयुतम् ॥ ३५ ॥

चतुर्भिश्च त्रिभिश्चैव पंचमं लोकपालकैः ।
स्वस्वनाम्ना च गन्धाद्यैः पूजयेन्नन्दिकेश्वर ॥ ३६ ॥

चत्वारिंशत्सहस्रं च चतुर्लक्षमतः परम् ।
चतुस्सहस्र संयुक्तं जपसंख्या क्रमोदिता ॥ ३७ ॥

वा * * * * * णां च चत्वारिंशत्प्रतर्पयेत् ।
जपान्ते जुहुयादष्टद्रव्यैस्तत्तु दशांशतः ॥ ३८ ॥

प्. ३६१)

पृथुकं मोदकैश्चैव लाजैश्चेक्षुस्तिलं तथा ।
सक्तवो नालिकेरश्च कदली फलमष्टकम् ॥ ३९ ॥

एतैर्द्रव्यैश्च जुहुयाद् अन्वहं भक्तिसंयुतः ।
गुरुणाचाभिषिक्तश्च कलशैश्च चतुर्विधैः ॥ २० ॥

चतुर्दलयुते पद्मे तन्मूलेन कृते तथा ।
क्षीरपादपबिल्वं च वटं पिप्पलमेव च ॥ ४१ ॥

फलिनीं च समादाय तेषां चाक्षय वारिभिः ।
पूजयेत्कलशान्सम्यक् गणेशान्षट् समर्चयेत् ॥ ४२ ॥

विन्यस्यामृतबीजं तु चत्वारिंशच्छतं जपेत् ।
अभिषिंचेद्गुरुः शिष्यं अनुग्रहपुरस्सरम् ॥ ४३ ॥

प्. ३६२)

हेमपुष्.पैः समभ्यर्च्य हेमयज्ञोपवीतकैः ।
हेमांगुलीयकैश्चैव चित्रवस्त्रैश्च व्रीहिभिः ॥ ४४ ॥

शिष्योऽपि दक्षिणां दद्याद्गुरुभक्तिसमन्वितः ।
विभवस्यानुसारेण देशिकाय निवेदयेत् ॥ ४५ ॥

पश्चात्सर्वाणि कार्याणि साधकोपि समाचरेत् ।
अष्टद्रव्यैश्च हुत्वा तु तत्तद्द्रव्यसमाप्तये ॥ ४६ ॥

काञ्चनाप्त्यैव मधुना जुहुयादयुतद्वयम् ।
गोक्षीरेण ज्ञानसिध्यै लक्ष्म्यै गोसर्पिषा तथा ॥ ४७ ॥

कीर्त्यै शर्करया लाजैः सर्वसिध्यै दधिं हुनेत् ।
अन्नेनान्नसमृद्धिः स्यात्तिलैर्ग्रन्थसमृद्धये ॥ ४८ ॥

प्. ३६३)

तण्डुलैस्सहितैरेव कुसुम्भैर्वाससैस्तथा ।
अभीष्टक्षेत्रमृत्स्नां च संगृह्य क्षीरमिश्रितम् ॥ ४९ ॥

जुहुयात्क्षेत्रसिध्यै च राज्यसिध्यै विशेषतः ।
प्रतिपक्षक्षत्रियस्य नगरोत्सवमृत्स्नुभिः ॥ ५० ॥

अष्टद्रव्यादिभिस्सार्धं क्षीरैस्सहैव होमयेत् ।
राज्याप्तिर्नचिरादेव सिध्यत्येव न संशयः ॥ ५१ ॥

कन्यार्थी शालिजैः पुष्पैः पु द्योतिभिरन्वहम् ।
जुहुयात्पतिकामी च छिन्नोद्भवसमिद्वरैः ॥ ५२ ॥

आक्तैः स्त्रिमधुरैश्चैव वरं सा लभते क्षणात् ।
राज्यानां वृद्धये पद्मैः त क् फलैरपि ॥ ५३ ॥

प्. ३६४)

मन्त्रिणां कैरवैरेवमश्वत्थादिभिरग्रजान् ।
समिद्वरैश्च जुहुयाल् लवणैरश्वायवैतसः ॥ ५४ ॥

दृष्टयेप्यन्त्यजातीनां पारिभद्रस्य पुष्पकैः ।
मधुरत्रयसंयुक्तैः जुहुयान्नन्दिकेश्वर ॥ ५५ ॥

पाटलैः पुत्र संसिध्यै राज्यस्य शत्रुशान्तये ।
दूर्वाकाण्डस्य होमेन दीर्घायुश्च भवेत्सदा ॥ ५६ ॥

अपामार्गसमिद्धोमाद् विस्मृत्यादिविनाशनम् ।
छिन्नोद्भवैस्समिद्भिश्च पञ्चमृतसमन्वितैः ॥ ५७ ॥

कालकूटादिगरलनाशनं सर्वसिद्धिदम् ।
चतुर्थितं जपेन्नित्यं गुरौ भक्तिसमन्वितः ॥ ५८ ॥

प्. ३६५)

देहान्ते मुक्तिमाप्नोति स तत्रैव न संशयः ॥ ५८ १/२ ॥

इत्यचिन्त्य विश्वसादाख्ये महागणपतिपूजाविधिः षोडशः पटलः ॥



क्षिप्रप्रसादविघ्नेश मन्त्रपूजाविधिं शृणु ।
भोगमोक्षप्रदं चैव सर्वविघ्ननिवारणम् ॥ १ ॥

पञ्चार्धकं चार्धचन्द्रं संपर्त्तः क्रमतः परम् ।
सूक्ष्मयुक्तं तथानास्त्रमग्निबीजसमन्वितम् ॥ २ ॥

लोहितो वह्नियुक्तश्च भृगुः पाशसमन्वितः ।
अत्रदीर्घ समायुक्तः शिखा वायुर्नमोन्तकः ॥ ३ ॥

मूलबीजस्य दीर्घाद्यैः जातियुक्तैः षडंगकम् ।
तीव्रादिनवशक्तिस्थदेवं पद्मे सुपूजयेत् ॥ ४ ॥

प्. ३६६)

पूर्ववद्गन्धपुष्पाद्यैः विघ्नं सम्यक् प्रपूजयेत् ।
रक्तांगं रागसंयुक्तं रक्तमाला विभूषितम् ॥ ५ ॥

पाशांकुशं सदन्तं च कल्पद्रुमलतायुतम् ।
त्रिणेत्रं पुष्करस्याग्रे बीजापूरसमन्वितम् ॥ ६ ॥

बद्धपद्मासनोपेतं बालार्कसमतेजसम् ।
यज्ञोपवीतसंयुक्तं ब्रह्मचारिस्वरूपिणम् ॥ ७ ॥

तद्बहिर्दलमूले तु पूजयेदष्टमूलकान् ।
विघ्नं विनायकं चैव वीरं शुरमनन्तरम् ॥ ८ ॥

वरदं गजवक्त्रं च तथैव ह्येकदन्तकम् ।
लम्बोदरमिति प्रोक्तं स्वस्वनाम्ना च बीजयुक् ॥ ९ ॥

प्. ३६७)

गं विघ्नाय नमः । गं विनायकाय नमः ।
गं वीराय नमः । ओं गं शूराय नमः ॥ १० ॥

गं वरदाय नमः । गं गजवक्त्राय नमः ।
गं एकदन्ताय नमः । गं लम्बोदराय नमः ॥ ११ ॥

प्रथमावरणं चैतेन्मातृभिश्च ततोंगकैः ।
चतुर्थं लोकपालैश्च क्रमाद्देवं प्रपूजयेत् ॥ १२ ॥

घृतेन पायसेनैव शर्कराभिश्च होमयेत् ।
इन्दिराले च यशसे सर्वसिध्यै विशेषतः ॥ १३ ॥

केवलेन घृतेनैव जगत्सद्यो वशं नयेत् ।
सत्वचं नालिकेरं च कोष्ठयुक्तं क्रमाद्धूनेत् ॥ १४ ॥

प्. ३६८)

एकमेकं हुनेन्नित्यं चत्वारिंशद्दिनं तथा ।
वांछितार्थं समभ्यैति चाष्टद्रव्यैश्च होमयेत् ॥ १५ ॥

अष्टद्रव्यस्य होमेन सर्वसिद्धिश्च जायते ।
दिनान्ते तर्पणं कुर्याद् भौतिको नैष्ठिकस्तथा ॥ १६ ॥

गृहयात्रा भौतिकस्य कैवल्यं नैष्ठिकस्य तु ।
चत्वारिंशद्दिनात्सिद्धिः मन्त्रस्य तु विशेषतः ॥ १७ ॥

मण्डलात्सवितुश्चैव सोपानं राजतं भवेत् ।
तन्मार्गेणागतस्तोये तस्यैसाकांक्षितं लभेत् ॥ १८ ॥

मस्तके तर्पणं विघ्नः प्रीणाति च मुहुर्मुहुः ।
पूजाहोमं च कार्यं च महागणपतेरिव ॥ १९ ॥

प्. ३६९)

सर्वागमोचितं देवं सर्वविघ्नविनाशनम् ।
तमेव पश्चाद्वक्ष्यामि शृणुत्वं नन्दिकेश्वर ॥ २० ॥

पूर्वोक्तस्नानसंयुक्तः पूर्वोक्तगुणवांच्छुचिः ।
स्वकीयाचारसंयुक्तः व्रतापी लोभवर्जितः ॥ २१ ॥

वाङ्मौनेन समायुक्तः साधयेद्विघ्नराजकान् ।
उत्तमं तारमुच्चार्य पञ्चान्तकमतःपरम् ॥ २२ ॥

बिन्दुयुक्तं गणैर्युक्तं पतये नम इत्यपि ।

ओं गं गणपतये नमः ।

तर्पणे च हुते चैव स्वाहान्तं मन्त्रमुच्चरेत् ॥ २३ ॥

दीर्घयुक्तस्वबीजैश्च पूर्ववच्च षडंगकम् ।
ओं हां हृदयाय नमः ओं हीं शिरसे स्वाहा ॥ २४ ॥

प्. ३७०)

ओं हूं शिखायै वषट् । ओं हैं कवचाय हुम् ।
ओं हौं नेत्रत्रयाय वौषट् । ओं हः अस्त्राय फट् ॥ २५ ॥

एवं षडंगं संपूज्य करांगन्यासमाचरेत् ।
ऐक्षवाम्भोधिमध्ये तु द्वीपे कनकरत्नके ॥ २६ ॥

कल्पद्रुमसमोपेतं दिव्यपुष्पलतान्वितम् ।
दिव्यद्रुमलतोपेतं दिव्यमाराधसेवितम् ॥ २७ ॥

हंसकोकिलभृंगाद्यैः शुककेकी समावृतम् ।
सर्वर्तुफलसंयुक्तं पनसैश्चन्दनैरपि ॥ २८ ॥

चूतजम्बूकपित्थश्रीरम्भा डाडिमपूगयुक् ।
नालिकेरैश्च विविधैरिक्षुभिर्मातुलंगकैः ॥ २९ ॥

प्. ३७१)

दिव्यैरन्यैश्च तरुभिः पूर्वपुण्यनिषेविते ।
तन्मध्ये पारिजातं च नानारत्नसमन्वितम् ॥ ३० ॥

अनेकशाखासंयुक्तं फलपुष्पसमन्वितम् ।
निश्छिद्रपल्लवैर्युक्तं चन्द्रकान्तसुशीतलम् ॥ ३१ ॥

बालार्क रश्मिभिर्युक्तं सर्वशोभासमन्वितम् ।
तस्य मध्येऽप्यनन्तादि शिवाद्यास्नापनं स्मरेत् ॥ ३२ ॥

तन्मध्ये मातृकापद्मं पूजयेत्पूर्ववत्क्रमात् ।
अनेकशाखासंयुक्तं फलपुष्पसमन्वितम् ॥ ३३ ॥

तीव्रादिनवशक्तीश्च पूजयेन्नन्दिकेश्वर ।
तन्मध्ये च त्रिकोणे च तस्य मध्ये च भावयेत् ॥ ३४ ॥

प्. ३७२)

गजः क्रीडं शिरः पद्मे पूजयेद्विघ्ननायकम् ।
आवाहनादि नैवेद्यं पूजयेत्पूर्ववत्क्रमात् ॥ ३५ ॥

मोदकं नालिकेरं च काजसक्तुतिलाश्च ये ।
इक्षुं च पृथुकं चैव रम्भाफलयुतं क्रमात् ॥ ३६ ॥

द्रव्यैरष्टभिरेतैस्तु हुत्वा प्रतिपदादिभिः ।
चतुर्थ्यारभ्य वा सम्यक् शुभवारे शुभे दिने ॥ ३७ ॥

पूजयेद्विघ्नराजं तं तदग्रेण गणाधिपम् ।
नैर्-ऋत्यां तु गणेशं च वायव्यां गणनायकम् ॥ ३८ ॥

तद्बाह्यदलमूले च षडंगं पूजयेत्क्रमात् ।
दलाष्टकस्य मध्ये तु वक्रतुण्डैकवक्त्रकौ ॥ ३९ ॥

प्. ३७३)

महोदरं गजास्यं च लम्बोदरमनन्तरम् ।
विकटं विघ्नराजं च धूम्रवर्णं च पूजयेत् ॥ ४० ॥

मातॄश्च पूजयेत्पश्चाच्चतुर्थावरणे क्रमात् ।
तद्बहिर्लोकपालांश्च दलान्ते स्वस्वनामभिः ॥ ४१ ॥

प्रणवादिनमोऽन्तैश्च पूजयेद्भक्तिसंयुतः ।
सप्तप्रतियुतं दिव्यं प्रथमं रत्ननिर्मितम् ॥ ४२ ॥

द्वितीयं हेमवर्णं स्यात् तृतीयं राजतं भवेत् ।
चतुर्थं सालताम्रेण पंचमं स्फटिकं भवेत् ॥ ४३ ॥

षष्ठं सीसमयं प्रोक्तं प्राकारमायसं बहिः ।
एवं तु सप्तभिस्सालैः वेष्टितं चिन्तयेद्बहिः ॥ ४४ ॥

प्. ३७४)

माणिक्य व प्रद्वारे च शंखपद्मनिधीयतः ।
शंखं शंखेन्दुवर्णाभं पद्मयुक्तनिभं भवेत् ॥ ४५ ॥

महोदरौ ह्रस्वबाहू शंखपद्मभृतावुभौ ।
गणपद्वादशानां च तथांगानां स्वरूपकम् ॥ ४६ ॥

रक्तवर्णा गजमुखाः पाशांकुशनमोयुताः ।
एवं संचिन्त्य संपूज्य जपसंख्यादि वक्ष्यते ॥ ४७ ॥

चत्वारिंशत्सहस्रं च चतुर्लक्षजपं भवेत् ।
दशांशं तर्पणं चैवमभिषेकाहुतिक्रिया ॥ ४८ ॥

घृतैस्समिद्भिरन्नैश्च अष्टद्रव्यैर्विशेषतः ।
प्राणप्रतिष्ठामन्त्रेण जप्त्वा मूलं ततः क्रमात् ॥ ४९ ॥

प्. ३७५)

अष्टोत्तरशतं जप्त्वा तूष्णीमेतत्प्रभक्षयेत् ।
साध्यदिश्यमनोभूत्वा सप्तरात्राद्वशीकृतम् ॥ ५० ॥

मधुरत्रयसंयुक्तं गडूची वह्निहोमतः ।
सर्वोपद्रवनाशश्च ज्वरनाशश्च जायते ॥ ५१ ॥

तिलतण्डुलकैर्लक्ष्मीवर्धनं वश्यकृद्भवेत् ।
कन्यार्थीलाजकैश्चैव मयूरत्रयकेक्षुभिः ॥ ५२ ॥

सप्तरात्रं च जुहुयाद् वरार्थी चैवमेव हि ।
नालिकेरैश्च जुहुयाच्चतुर्थीं प्रति साधकः ॥ ५३ ॥

राजश्रीस्तस्य वैभूयादन्वहं वर्धते क्रमात् ।
घृतसंसिक्तहविषा सर्वकार्यं च साधयेत् ॥ ५४ ॥

प्. ३७६)

दधिसंमिश्रलवणैरर्धरात्रे हुतक्रिया ।
आकर्षणादिभिश्चैव संवादस्य फलं तथा ॥ ५५ ॥

मयूरत्रयसंयुक्तैः पलाशकुसुमैस्तथा ।
होमात्कवित्वसंसिद्धिर्बृहस्पतिसमो भवेत् ॥ ५६ ॥

बिल्वैः संसिक्तजैश्चैव स्वर्णपुष्पसमुद्भवैः ।
उत्पलैर्बन्धुजीवैश्च नन्द्यावर्तैश्च चम्पकैः ॥ ५७ ॥

पाटलैर्नागपुष्पैश्च पुन्नागैर्मधुरत्रयैः ।
होमेनेन्द्रसमः श्रीमान् गुरुभक्तिविशारदः ॥ ५८ ॥

शर्करा लाजहोमेन तेजस्वी चार्कसन्निभः ।
आत्मान मनुसंचिन्त्य सम्यग्घुत्वा विचक्षणः ॥ ५९ ॥

प्. ३७७)

साम्यस्य हृदयाम्भोन्नं जीवयुक्तं प्रबन्धयेत् ।
पातिघ्नबध्वा तत्सर्वं कण्ठं तत्पुष्करेण तु ॥ ६० ॥

घृणिश्च शिरसि न्यस्य गणपैः पृष्ठपार्श्वयोः ।
तलप्रहारैरभितः प्रेर्यमाणं विभावयेत् ॥ ६१ ॥

सप्तरात्र प्रयोगेण सर्वाघघर्षणं भवेत् ।
स्वबीजयुक्तभूबीजं अनुस्वरयुतं तथा ॥ ६२ ॥

चन्द्रं चण्डसमोपेतं ग्लौकारं स्तम्भनं भवेत् ।
हरिद्रया शरावास्यं मध्ये साध्यस्य नाम च ॥ ६३ ॥

ग्लौकारं मध्यसंवीतं संलेख्य तदनन्तरम् ।
प्राणप्रतिष्ठां कृत्वा तु वक्ष्यमाणक्रमेण तु ॥ ६४ ॥

प्. ३७८)

अमुष्य प्राण इहप्राण अमुष्य जीव इह स्थितः ।
अमुष्य सर्वेन्द्रियाणि वाङ्मनः कायकर्म च ॥ ६५ ॥

प्राणाश्च इह आयान्तु स्वाहान्तं मन्त्रकं भवेत् ।
गुरुः शिष्यं शक्रमतः कुर्यात्प्राणप्रतिष्ठिकाम् ॥ ६६ ॥

अनेनैव क्रमेणैव साध्यप्राणान्प्रतिष्ठिपेत् ।
पीतपुष्पैः समभ्यर्यच मूलमन्त्रेण संजपन् ॥ ६७ ॥

सहस्रकं जपं कृत्वा शरावेणान्य संपुटम् ।
चतुष्पदे तु निखनेन मध्यरात्रौ विशेषतः ॥ ६८ ॥

साध्यं चाधो मुखं ध्यात्वा चात्मानं विघ्ननायकम् ।
सृक् गजस्तम्भनं चैव गमनं क्रोधमेव च ॥ ६९ ॥

प्. ३७९)

उत्साहस्तम्भनं चैव धर्महानिं च वर्जयेत् ।
साध्यसाधकयोर्नाम लिखेद्योषारचेन च ॥ ७० ॥

इष्टकायुगले चैव पूर्ववन्मन्त्रसंपुटम् ।
त्रिसहस्रं जपित्वा तु निखनेत्सैन्यमार्गके ॥ ७१ ॥

सेनास्तम्भं भवेदेवमष्टद्रव्यैश्च पूजयेत् ।
एभिर्द्रव्यं तु बालेभ्यो दद्यान्नित्यं तु भक्तियुक् ॥ ७२ ॥

शत्रुनाम लिखेद्बिम्बे तत्पत्राणां रसेन च ।
नवसाहस्रजापेन साधितं रिपुमार्गके ॥ ७३ ॥

निखनेत्स्तंभास्था नं पूर्ववद्विघ्नपूजने ।
पापिष्ठं धर्मरोधिं च पिशुनं भंजनं तथा ॥ ७४ ॥

प्. ३८०)

देवद्रव्यापहारिं च गुरुद्रव्यापहारकम् ।
उच्चाटयेत्स्वदेशात्तु तदुपायमिहोच्यते ॥ ७५ ॥

श्मशानांगारमाहृत्य तपोनिधनवृक्षके ।
विचूर्ण्य तदक्षकं च मन्त्र संपुटमालिखेत् ॥ ७६ ॥

गजासिहसृकं चैव वैरिगेहे विनिक्षिपेत् ।
तच्चूर्णमात्रसंपर्काद् देशाद्देशान्तरं व्रजेत् ॥ ७७ ॥

श्मशानास्थि समादाय इष्टार्थांगुलसंमितम् ।
सहस्रजप्तमेतेन शत्रुद्वेषे निखानयेत् ॥ ७८ ॥

उच्चाटनं भवेदेतत् पापकर्मरतस्य हि ।
निम्बकाकालयं गृह्य दग्ध्वा चांगारवारके ॥ ७९ ॥

प्. ३८१)

श्मशानचित्या तद्दग्ध्वा तद्देशोद्भूतवह्निना ।
तन्मध्ये शत्रुसंज्ञां च मन्त्रसंपुटके लिखेत् ॥ ८० ॥

त्रिसहस्रं जपित्वा तु तन्मूर्ध्नि च विनिक्षिपेत् ।
देशाद्देशान्तरं भूत्वा दुःखीभवति निश्चयम् ॥ ८१ ॥

पापस्मृतियुतं क्रूरं अशिक्षितमनर्थकम् ।
होमयेदुक्तमार्गेण शृणुत्वं यत्तदुच्यते ॥ ८२ ॥

तन्नाममक्षरं मध्ये लिखित्वा कर्मसंपटम् ।
तालपत्रे च पुत्तल्यां निधाय तदनन्तरम् ॥ ८३ ॥

मधूच्छिष्टेन तत्सर्वं पिण्डं कृत्वार्धरात्रके ।
तीक्ष्णं च तैलेनाज्येन श्मशाने शुष्कदूर्धरे ॥ ८४ ॥

प्. ३८२)

समिद्भिर्दाहयेत्तत्तत् सप्तरात्र प्रयोगतः ।
मोहनं च भवेत्तस्य विस्मृतिश्च विशेषतः ॥ ८५ ॥

धर्मस्य कृतमेतच्च प्रायश्चित्तं च कारयेत् ।
भूर्जपत्रे लिखेत्साध्य वि * * तमनुक्रमात् ॥ ८६ ॥

कुलालहस्तमृत्स्नां च संगृह्याकृतिवद्भवेत् ।
तस्योदरे विनिक्षिप्य भृंगीस्नेहेन लेपयेत् ॥ ८७ ॥

आलोढ्य तज्जलेनैव लिपेद्वश्यमनुत्तमम् ।
अथाञ्जलिकरीं चैन्द्रवल्लीलक्ष्मीं च भद्रिकाम् ॥ ८८ ॥

विष्णुक्रान्तिं च वाराहिं भृंगीपूर्वां च देविकाम् ।
सहां चैव समुद्धृत्य प्रत्येकं तु शतं जपेत् ॥ ८९ ॥

प्. ३८३)

अष्टोत्तरं जपित्वा तु धारयेत्सर्ववश्यकम् ।
प्रत्येकमुक्तं तत्रापि सर्वसंयोजनं शृणु ॥ ९० ॥

दशांशमञ्जलिः प्रोक्ता रविसंख्येन्द्रिका लता ।
लक्ष्मीर्वसुसमांशास्या द्रुमांगं सर्वभद्रिका ॥ ९१ ॥

विष्णुक्रान्तिं मनोसंख्या मुसली षोडशांशकम् ।
मयूरद्व्यंशकं प्रोक्तं वश्ये दूर्वा विशेषतः ॥ ९२ ॥

देवी तु गुणसंख्या स्यादेकांशं तु सदा भवेत् ।
अष्टोत्तरशतं जप्त्वा प्रत्येकं तदनन्तरम् ॥ ९३ ॥

संयोज्य पिष्ट्वा सकलं शुष्यैः पूर्णयुते दधि ।
गुलिकीकृत्य संजप्य सहस्रं भक्ति संयुतम् ॥ ९४ ॥

प्. ३८४)

गणनाथं च संपूज्य तिलकालेपनं भवेत् ।
भस्म संयुक्तमेतत्तु सर्ववश्यकरं परम् ॥ ९५ ॥

सर्वपापक्षयं चैव धनधान्यविवर्धनम् ।
महागणपपूजायां यत्प्रोक्तं तद्धि युज्यते ॥ ९६ ॥

उक्त साधनतः पश्चाच्चतुरावृत्तिसाधनात् ।
प्रत्यक्षी भवति क्षिप्रं गणनाथो विशेषतः ॥ ९७ ॥

इत्यचिन्त्य विश्वसादाख्ये क्षिप्रगणाधिपपूजाविधिः सप्तदशः पटलः ॥



मायानां तु च सर्वेषां ज्ञानरूपां परां शिवाम् ।
वागीश्वरीं महादेवीं शृणुत्वं नन्दिकेश्वर ॥ १ ॥

प्. ३८५)

प्रथमं कलशं प्रोक्तं अत्र तदनन्तरम् ।
तावेव वर्णौ दीर्घं च वारि पञ्चान्तकं पुनः ॥ २ ॥

स्वरहीनश्च दीर्घेण युक्तं तोयमतः परम् ।
यान्तौ सूक्ष्मेण संयुक्तौ स्वाहान्तं तु दशाक्षरी ॥ ३ ॥

जातियुक्तं षडंगं च वक्ष्यामि तदनन्तरम् ।
आद्यन्तस्वरषट्कस्य मध्यमं यच्चतुष्टयम् ॥ ४ ॥

एतन्नपुंसकं त्यक्त्वा सेवितं त्वादशं भवेत् ।
कवर्गं च चवर्गं च टवर्गं च तवर्गकम् ॥ ५ ॥

पवर्गं च यकारादि क्षकारान्तं भवेत्क्रमात् ।
एवमादि षडंगं च हृदयादि षडंगकम् ॥ ६ ॥

प्. ३८६)

स्वरद्वन्द्वं यथा संख्यं कादियान्तेन संपुटम् ।
अकारं प्रथमं विद्यात् कवर्गं च स बिन्दुकम् ॥ ७ ॥

अंकारं च नमोऽन्तं च हृदयं च भवेदिदम् ।
एवमादि कवर्गादि स्वरसंपुटितं भवेत् ॥ ८ ॥

अं कं खं गं घं ङं आं हृदयाय नमः ।
इं चं छं जं ह्यं ञं ईं रं शिरसे स्वाहा ॥ ९ ॥

उं टं ठं डं ढं णं ऊं शिखायै वषट् ।
एं तं थं दं धं नं ऐं कवचाय हुम् ॥ १० ॥

ओं पं फं बं भं मं औं नेत्रत्रयाय वौषट् ।
अं यं रं लं वं शं षं सं हं लं क्षं अः अस्त्राय फट् ॥ ११ ॥

प्. ३८७)

एवमुक्तं षडंगं च मूलमन्त्रार्णकं न्यसेत् ।
द्वादशान्ते वकारः स्यात् श्रोत्रयोर्देवकं न्यसेत् ॥ १२ ॥

नेत्रे दशाक्षरद्वन्द्वं नासे वादिद्वयं तथा ।
निकारं चास्य मध्ये तु विन्यसेन्नन्दिकेश्वर ॥ १३ ॥

लिंगे गदें च स्वाहाश्च व्यावीकरं समाचरेत् ।
पूर्वोक्तं च गुणैर्युक्तः साधकोत्साह संयुतः ॥ १४ ॥

शौचमाचमनं स्नानं सन्ध्यावन्दन संयुतम् ।
नित्यानुष्ठानकं कृत्वा गुरुभक्ति समन्वितः ॥ १५ ॥

स्थानशुद्धिं च देहं च पात्रशुद्धि मनन्तरम् ।
द्रव्यशुद्धिं च मन्त्राणां तथा कृत्वा च भावयुक् ॥ १६ ॥

प्. ३८८)

पुण्डरीकैश्च सुश्वेतैः नन्द्यावर्तैश्च जातिभिः ।
सुगन्धैश्चैव पुष्पैश्च चन्दनैरिन्दुभिस्तथा ॥ १७ ॥

कालेयकैः पुरैश्चैव कुंकुमैः कपिमांसकैः ।
रोचना रसंयुक्तैः सुगन्धैः शीतलैर्जलैः ॥ १८ ॥

पाद्यमाचमनं चार्घ्यं धूपदीपं तथैव च ।
नैवेद्यमपि ताम्बूलं मुखवासं च कल्पयेत् ॥ १९ ॥

अनन्तादि समारभ्य मातृकाम्बुजकान्तगम् ।
पञ्चासनमिदं ध्यात्वा कर्णिकायां विशेषतः ॥ २० ॥

विद्येश्वरीं च तन्मध्ये तदूर्ध्वे श्वेतपंकजम् ।
केसरे कामराजं च वाग्भवं तस्य मध्यमे ॥ २१ ॥

प्. ३८९)

तन्मध्ये चापि वागीशीं अर्थपञ्चकवासिनीम् ।
शुद्धस्फटिकसंकाशां सुखासीनां शुचिस्मिताम् ॥ २२ ॥

जटामकुटशोभाढ्यामर्धेन्दुकृतशेखराम् ।
चतुर्भुजां त्रिणेत्रां च सर्वलक्षणसंयुताम् ॥ २३ ॥

पुस्तकं वामहस्तेन लेखनीं दक्षिणेन च ।
शुद्धस्फटिकमालां च वामहस्तेन घण्टिकाम् ॥ २४ ॥

पेशलां ह्लादवदनां शुककेकी सुभाषिणीम् ।
चारुकुण्डलकेयूरमुक्ताभरणभूषिताम् ॥ २५ ॥

चन्द्रामृतरसस्नातां सन्ततं भक्तवत्सलाम् ।
सर्वगन्ध सुसंलिप्तवृत्तपीनोन्नतस्तनीम् ॥ २६ ॥

प्. ३९०)

श्वेतमाला समायुक्तां श्वेतवस्त्रोपशोभिताम् ।
कठिनस्तनयुग्मां च विशालजघनां शिवाम् ॥ २७ ॥

एवं ध्यात्वा जगद्धात्रीं दीक्षितानां तु मातरम् ।
आवाहाद्भविष्यन्तं पूजयेच्छिववत्क्रमात् ॥ २८ ॥

तर्पयेच्च जगत्सर्वं तत्तद्योगेन मन्त्रिताम् ।
विद्येश्वर्याश्च पुरतो दलमध्येषु चाष्टसु ॥ २९ ॥

योगां सत्यां च विमलां पूर्णां चैव तथैव च ।
स्मृतिं च मेधां प्रज्ञां च पूर्ववन्नन्दिकेश्वर ॥ ३० ॥

तद्बहिश्च षडंगं च हृदयं पावके दले ।
वायव्ये तु शिखां यजेत् * * * * * * * * ॥ ३१ ॥

प्. ३९१)

ईशाने कवचं चैव पूर्वे नेत्रं क्षिपेत्पुनः ।
सव्ये तु दलमध्ये तु पूजयेन्मन्त्र राजकम् ॥ ३२ ॥

सौम्याश्च श्वेतवर्णाश्च देव्यः पद्मदृशस्तथा ।
नमोरुद्रान्विताश्चैता इति शक्वरि संख्यकाः ॥ ३३ ॥

दलाग्रे मातरश्चैव तद्बाह्ये लोकपालकाः ।
स्वस्वनाम्ना च संपूज्य स्वस्वरूपं विभावयेत् ॥ ३४ ॥

दशलक्षं जपित्वा तु दशांशं तर्पणं भवेत् ।
अभिषेकं हुतं चैव भक्तियुक्तः समाचरेत् ॥ ३५ ॥

श्वेतपद्मैः पयोऽभ्यक्तैर्जुहुयादयुतावधि ।
मधुरत्रय संसिक्तैः श्वेतैश्शुभैश्शीतलैरपि ॥ ३६ ॥

प्. ३९२)

पलाशैश्च गडूच्यावा समिद्भिर्घृतमिश्रितैः ।
प्रातः स्नात्वा समाचम्य न्यासादिसहितः क्रमात् ॥ ३७ ॥

शुद्धपात्रे शुद्धजलं दिव्यदृष्ट्या विलोक्य च ।
मूलमन्त्र सहस्रं च जपित्वा तज्जलं पिबेत् ॥ ३८ ॥

संवत्सरेण कविता गद्यपद्यक्रमान्विता ।
हृदयावधिके तोये स्थित्वा भास्करबिम्बके ॥ ३९ ॥

वागीश्वरीं च तन्मध्ये ध्यात्वा भास्करमण्डले ।
सहस्र त्रितयं जप्त्वा मण्डलावधि नित्यशः ॥ ४० ॥

जात्यलंकार संयुक्ता प्रभूतकविता भवेत् ।
त्रिस्वादु मधुबिल्वोत्थैः सुपत्रैश्चा युतं हुनेत् ॥ ४१ ॥

प्. ३९३)

लक्ष्मीकवित्वसौभाग्यं लोकवश्यं च जायते ।
कृताञ्जलि समिद्धोमां मधुरत्रयसंयुताम् ॥ ४२ ॥

महती कविताशक्तिरूचिता तस्य जायते ।
ब्रह्मीरसेन पयसा घृतयुक्तं सुपाचयेत् ॥ ४३ ॥

सहस्रत्रितयं जप्त्वा नित्यं प्रातस्तुलेपयेत् ।
कर्षकत्रयमात्रेण कविता मण्डलाद्भवेत् ॥ ४४ ॥

विश्वौषधं च सुश्वेषां जननीद्वयसंयुतम् ।
सैन्धवं चाजमोदं च वाचश्चैता च पिप्पलीः ॥ ४६ ॥

यष्टिं च जीरकं चैव चूर्णयित्वा समांशकम् ।
ब्राह्मीरसेन बहुशो भावयित्वा विचक्षणः ॥ ४७ ॥

प्. ३९४)

घृतेन शीधुनामिश्र्य त्रिसहस्रं जपेत्क्रमात् ।
अर्धमास प्रयोगेन भक्षयेदर्धमात्रकम् ॥ ४७ ॥

एषां जपेन मूकस्य कवित्वं भवति ध्रुवम् ।
तस्मात्कवित्व संसिद्धिरविवारं तु साधके ॥ ४८ ॥

पञ्चाशदौषधीक्वाथं कलशे संमिलिता भवेत् ।
सहस्रं तु दिनादौ तु जप्त्वा नित्यं तु मासकम् ॥ ४९ ॥

तज्जलेनाभिषेकं च मेधालक्ष्मीयशः क्रमात् ।
कवित्वं च यशोवश्यं द्रविणत्वं च सिध्यति ॥ ५० ॥

तज्जलेनाभिषिक्तास्त्री वन्ध्या सत्पुत्रकं लभेत् ।
अकारादिक्षकारान्तं पञ्चाशदपि चौषधीः ॥ ५१ ॥

प्. ३९५)

श्रीगन्धं च तथारक्तमागरुं चन्द्रमेव च ।
उशीरं कुष्ठकं चैव परिकुंकुममेव च ॥ ५२ ॥

तक्कोलजाती मांसी च मुरं चोरं तथैव च ।
गन्धं च रोचनां चैव पत्रं तदनु पिप्पलीम् ॥ ५३ ॥

बिल्वं गुहं रक्ततृणं लवंगं कुंभिवर्धनीम् ।
उदुम्बरं कामरीकां वारामज्जं तथैव च ॥ ५४ ॥

श्वेतशंखप्रसूनं च मयूरशिखयान्वितम् ।
लाक्षाग्निमन्धसिंहीं च कुशदर्भं तथैव च ॥ ५५ ॥

कृष्णशंखप्रसूनं च वटं बन्धूकमेव च ।
बृहतीं पाटलीं चित्रां तुलसीं किणिकं तथा ॥ ५६ ॥

प्. ३९६)

चत्वारिंशदिमाः प्रोक्ता दशपुष्पमनन्तरम् ।
इन्द्रवल्लीं च भृंगीं च विष्णुक्रान्तिं च सूकरीम् ॥ ५७ ॥

कृताञ्जलिं च दूर्वां च श्रीदेवीं च सभां पुनः ।
लक्ष्मीं चैव सदाभद्रां शुभवारे शुभे दिने ॥ ५८ ॥

समादायाथ पञ्चाशदौषधीः पापनाशिनीः ।
एताभिर्गुलिकां कुर्याद् भस्मस्थां च विशेषतः ॥ ५९ ॥

भूतप्रेतपिशाचाश्च चोरव्याघ्रादयस्तथा ।
सुजप्ता मूलमन्त्रेण धारिता सर्वसिद्धिदा ॥ ६० ॥

ज्योतिष्मत्याश्च तैलं च मूलमन्त्रेण साधितम् ।
क्रमशः प्राशयेन्नित्यं षण्मासाद्वाक्पतिर्भवेत् ॥ ६१ ॥

प्. ३९७)

अशुद्धः शैवजातोसौ तपसा विजितेन्द्रियः ।
नित्यस्नानरतो भक्तः परदूषणवर्जितः ॥ ६२ ॥

पूर्वप्रोक्तगुणोपेतो दयालुः साधकोत्तमः ।
अनधीतानि शास्त्राणि वक्तुं शक्तिश्च तस्य वै ॥ ६३ ॥

चतुर्गुणं तु भजतां वागीशीं वरदोज्वलाम् ।
पश्चात्सन्निधिमागत्य वांच्छितार्थं ददेद्ध्रुवम् ॥ ६४ ॥

नित्यमष्टोत्तरं जप्त्वा कैवल्यं पदमाप्नुयात् ॥ ६४ १/२ ॥

इत्यचिन्त्य विश्वसादाख्ये वागीश्वरीवागीश्वरीपूजाविधिः अष्टादशः
पटलः ॥

 

प्. ३९८)

नन्दिकेश्वरः ॥

देवदेव महादेव अनाथ परमेश्वर ।
त्वदीयां मूर्तिमेनां च पूजां कर्तुं प्रसीदमे ॥ १ ॥

नराणामपि भक्तानां पूजामार्गं वदप्रभो ।

ईश्वर उवाच ।

भक्तिज्ञानैक निरतं रत्नगर्भं शृणुष्व तत् ॥ २ ॥

अत्रिः क्षणा कालकण्ठा कायुग्रयेक्षरोः ।
तुध्यामध्यगता सभ्यं वटमूलनिवासिने ॥ ३ ॥

ध्यानैकमात्रनिरत नमो रुद्राय शम्भवे ।
तारशक्तिनिरूच्चोऽयं मन्त्रः षट्त्रिंशदक्षरः ॥ ४ ॥

षडंगं तारशक्त्यादि हृदाद्यंगैर्मतः क्रमात् ।
षड्भिर्द्वाभ्यां तथाष्टाष्ट पञ्चत्रीणि तथा क्रमात् ॥ ५ ॥

प्. ३९९)

मूलमन्त्रस्य वर्णैश्च षडंगमभिधीयते ।
एवं षडंगं विन्यस्य ज्येष्ठाद्यंगुलिषु न्यसेत् ॥ ६ ॥

कर्णे चैव स्तनद्वन्द्वे द्वयं हृन्नाभिके द्वयम् ।
कट्योद्वयं च गुह्यैकं पादयोश्च चतुश्चतुः ॥ ७ ॥

शेषद्वयेन सर्वांगव्यापकं विन्यसेत्क्रमात् ।
अकारादिक्षकारान्तमातृकान्यासमाचरेत् ॥ ८ ॥

शब्दोपदेशमूलं यत् भूतं प्यार्णकं न्यसेत् ।
वर्णं च चत्वारिंशं तु नववर्गविराजितम् ॥ ९ ॥

स्वरवर्गद्वयं प्रोक्तं आद्यं पञ्च चतुःपरम् ।
सप्तव्यञ्जन वर्गं स्यात् सप्तषट्पञ्च वर्णकम् ॥ १० ॥

प्. ४००)

त्रिवर्गदीप्तमन्यं स्यात् तेषामुत्पत्तिरुच्यते ।
कर्णतालोष्ठकरजेष्वेकमात्र प्रवृत्तितः ॥ ११ ॥

अ इ उ सवर्णा स्युराद्यवर्गः स्वयं भवेत् ।
अस्तिकारेण संयोगादेकारः स्यात्परेण तु ॥ १२ ॥

ए ऐ कारेण वर्गो यदि मान्तेन तत्पुनः ।
कण्ठेर्धमात्रकां मौषविवृतात्प्राणघोषवान् ॥ १३ ॥

अपरो जायते वर्णो हकारो व्यञ्जनोत्तमः ।
ताली च षट्कतो यस्स्यात्केवोमन्तोषयोश्चयः ॥ १४ ॥

दन्ते ल इति वर्गो यत् द्वितीयं परमेव तत् ।
स्पर्श बाह्यत्वसामान्यस्वरगम्भीरलाघवैः ॥ १५ ॥

प्. ४०१)

कण्ठतालुक दन्तोष्ठष्वासन्वर्गास्तु पञ्च वै ।
प्रसिद्धायां लिपौकस्यां वर्गा ये पञ्च संमताः ॥ १६ ॥

अन्त्या द्विद्विचतुस्त्रिर्वास्तेष्वमी कीर्तिताः क्रमात् ।
तालु मूर्ध्नि च दे युष्ठक् संयुक्तं विवृतो हवैः ॥ १७ ॥

शषसैर्नववर्गाच्च इति वृतलिपिक्रमः ।
मूलाधारात्परा वाणी सूत्रमात्रा समन्विता ॥ १८ ॥

तदूर्ध्वे नाभिदेशेऽपि पश्यन्ती चार्धमात्रिका ।
हृदयादुद्गता सैव त्रिपान्मध्यमसंज्ञिता ॥ १९ ॥

एकमात्रान्विता सैव वैखरी संशदाक्षरा ।
वक्त्रेपि वाष्टस्थानेषु संपर्काश्च दहृष्टयः ॥ २० ॥

प्. ४०२)

उत्पत्तौ वैखरी पश्चान् मध्यमा श्रुतिसंगमे ।
पश्यन्ती चार्धसंपर्के परात्वनुभवानुगा ॥ २१ ॥

उत्पत्तिर्लयमित्युक्तं तत्रैवोत्पत्तिरुच्यते ।
खेगक्षाभूमयावर्णा वर्णाः संभवतः क्रमात् ॥ २२ ॥

इति भूतयमायस्मात् तेनभूतलिपिर्भवेत् ।
आकाशादि पृथिव्यन्तं ये वर्णाः समुदायजाः ॥ २३ ॥

सर्वे लिपिं च संगृह्यमाद्यन्तं शिवशक्तिमान् ।

  • * * * इलामेन गुलिकक्ष्मादिखात्मवत् ॥ २४ ॥


संहारक्रमणंचेदं प्रोक्तं शक्तिशिवात्मकम् ।
लिपिरप्येव वेह क्रमात्क्रमगता भवेत् ॥ २५ ॥

प्. ४०३)

क्रमे तु खादिवृद्ध्यान्ता व्युत्क्रमेष्वादिखान्तजा ।
विसर्गान्ता इमे प्रोक्ता व्युत्क्रमे बिन्दुमस्तकाः ॥ २६ ॥

विसर्गः शक्तिबीजं स्याद्बिन्दुः शिवमयः स्मृतः ।
भवस्वरा नवाधारे हादिपर्नमुखे तथा ॥ २७ ॥

हकारं मूर्ध्नि विन्यस्य यकारं तु ललाटके ।
रेफं दक्षशिरोभागे वकारं वामके तथा ॥ २८ ॥

लकारं पश्चिमे भागे गंकराग्रे पकारकम् ।
ककारं बाहुमूले च खकारं कोर्परान्तकः ॥ २९ ॥

सकारमंगुलीनां च मूले गं मणिबन्धने ।
वामहस्ते च वर्गं स्याट्टवर्गं दक्षपादके ॥ ३० ॥

प्. ४०४)

तवर्गं वामपादे च वामपार्श्वे पकारकम् ।
फकारं नाभिदेशे च वकारं पृष्ठपार्श्वके ॥ ३१ ॥

सकारं गुह्यदेशे च षकारं वह्निमध्यमे ।
सकारं हृदि विन्यस्य एवं भूतलिपिक्रमः ॥ ३२ ॥

सर्वपापहरं दिव्यं सर्वज्ञानविवर्धनम् ।
एवं क्रमेण विन्यस्य पूजयेन्नन्दिकेश्वर ॥ ३३ ॥

शुद्धाचारः शुचिःस्नातः शुद्धशैवो जितेन्द्रियः ।
भस्मस्नानयुतो दक्षो रुद्राक्षेणोपवीतकः ॥ ३४ ॥

स्नानशुद्धियुतः पश्चाद् आसनोपरि संस्थितः ।
प्राणायामत्रयं कृत्वा भूतशुद्धिं ततः क्रमात् ॥ ३५ ॥

प्. ४०५)

अन्तर्यागं ततः कृत्वा करन्यासमतः परम् ।
श्रीकण्ठादि च विन्यस्य मातृकान्यासकं पुनः ॥ ३६ ॥

श्रीनन्दिकेश्वर उवाच ।

असादृश्य जगन्नाथ मोक्षकारणनायक ।
पाशनिर्वाणदीक्षां च वदभक्तानुकम्पया ॥ ३७ ॥

ईश्वर उवाच ।

प्रथमं मण्डपं कुर्यादलं कारैरलंकृतम् ।
सप्ताहे पंचरात्रे वा त्रिदिने सद्य एव वा ॥ ३८ ॥

दीक्षापूर्वं तु कर्तव्यं युगपत्यं कुरार्पणम् ।
गोमयालेपनं कृत्वा कुण्डवेद्यादि सर्वशः ॥ ३९ ॥

लिंगार्चनं स्थण्डिलं च पूर्ववन्नन्दिकेश्वर ।
पूर्वोक्तलक्षणैरेवं मण्डलस्यापि वेदिका ॥ ४० ॥

प्. ४०६)

द्रव्यं च देवतान्यासं पूर्ववत्सम्यगाचरेत् ।
त्रयस्त्रिंशच्च सूत्रेण पूर्वोत्तरसमं न्यसेत् ॥ ४१ ॥

मध्ये पद्मं चतुष्षष्टि पदयुक्तं सुशोभनम् ।
अष्टपत्रसमायुक्तं रेखाग्रं तेन लेखयेत् ॥ ४२ ॥

कृष्णेनाभ्यरं ज्ञेयं वृत्तं श्वेतमिति स्मृतम् ।
तद्बहिस्समवृत्तं तु तद्बहिः श्वेतमुच्यते ॥ ४३ ॥

सर्ववर्णान्समास्तीर्य शेषं युक्त्या प्रकल्पयेत् ।
तद्बाह्ये चतुरश्रं तु कल्पयेत्कल्पवित्तमः ॥ ४४ ॥

ईशानं कर्णिकामध्ये पुरुषं पूर्ववत्क्रमात् ।
अघोरं दक्षिणे वक्त्रे वामदेवं तु चोत्तरे ॥ ४५ ॥

प्. ४०७)

सद्यं पश्चिमवक्त्रे तु पूजयेद्ब्रह्मपञ्चकम् ।
आग्नेययां हृदयं पूज्य ऐशान्यां तु शिरो यजेत् ॥ ४६ ॥

नैर्-ऋत्यां तु शिखां पूज्य वायव्यां कवचं यजेत् ।
नेत्रं तु पुरतो न्यस्य केसरे तु विशेषतः ॥ ४७ ॥

अस्त्रमीशानके न्यस्य शेषं पूर्ववदाचरेत् ।
संस्कारदीक्षाशिष्याणां वर्जितं चाष्टकं तथा ॥ ४८ ॥

एकोनविंशत्कर्तव्यमित्युक्तं सद्गुणाधिकम् ।
कर्ता ब्राह्मसंयुक्तो द्विजात्याद्यभिमानकैः ॥ ४९ ॥

विहीनो रुद्रपुत्रत्व भावयुक्तोभियोग्यकः ।
एतैर्गुणैर्विहीनश्चेन् निर्वाणस्याप्य योग्यकः ॥ ५० ॥

प्. ४०८)

पुनः संस्कारदीक्षां च कृत्वा निर्वाणमाचरेत् ।
शिवाग्निं पूर्ववत्पूज्य दीक्षाकार्यं समारभेत् ॥ ५१ ॥

दीक्षा तु पाशच्छेदं हि तत्कार्यं क्रूरकं भवेत् ।
क्रूरकार्येषु सर्वेषु मन्त्राणां दीपनं मुखे ॥ ५२ ॥

पौष्टिके वश्यके शान्तौ वषट्कारान्तमन्त्रकैः ।
वौषड्वषड्समोपेतैः सुधाबीजोपरिस्थितैः ॥ ५३ ॥

मन्त्रैश्च होमं कर्तव्यं कुर्यात्सर्वत्र नादिके ।
हुंकारमूलमन्त्रस्य शिखामन्त्रमुदीरितम् ॥ ५४ ॥

वह्निरेव शिखा प्रोक्ता अत्र ग्रन्थभृल्लालितम् ।
मातृकायामपि च नास्ति तदुपरि लिख्यते ॥ ५५ ॥

प्. ४०९)

  • * * * * * * * तामनादिक्रतेरपि ।

एकैकधा तदाहृत्य प्रत्येकं तत्क्रमेण वा ॥ ५६ ॥

प्रथमं तारमुच्चार्य शिखां च तदनन्तरम् ।
मूलमन्त्रं च तत्पश्चात् पुनश्च शिखयान्वितम् ॥ ५७ ॥

हुंफडन्तं समुच्चार्य मूलमन्त्रस्य दीपनम् ।
ओं हं फट् पूर्वमुच्चार्य हुंकारं तदनन्तरम् ॥ ५८ ॥

हृदयं च मनश्चैव शिखाहृदयदीपनम् ।
ओं हूं हां हुं फट् शिखायामपि हुंकारं शिखाबीजमनन्तरम् ॥ ५९


अनन्तरं तदेव स्यात् पूर्ववच्चान्तकं भवेत् ।

ओं इं हुं फट् ।

नेत्रदीपनमेवं हि हौं संपुटितं तथा ॥ ६० ॥

ओं हुं हौं हुं हुं फट् ।

अस्त्रदीपनमन्त्रं तु संस्कारं मध्यसंपुटम् ।
पूर्ववच्छिखया चैव मन्त्राणां दीपनं भवेत् ॥ ६१ ॥

ओं हुं हः हुं फट् ।

एवं दीपनसंयुक्तं मूलांगैर्दीपितं शिशुम् ।
ससव्यभागदेशस्थं शिष्यं संपूज्य देशिकः ॥ ६२ ॥

कन्याविनिर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम् ।
अस्त्रेण प्रोक्षितं वर्म कुण्डान्तं मूलमन्त्रकम् ॥ ६३ ॥

सुषुम्नाभावितं सूत्रं शुद्धमूलेन योजयेत् ।
शिष्यं तं शिखयाबध्न्यात्पादांगुष्ठावलम्बकम् ॥ ६४ ॥

पादांगुष्ठाच्छिवाग्रे तु बन्धयेन्मुक्तिकांक्षिणाम् ।
नरस्य सव्यभागे तु नार्याच्चाप्यपसव्यके ॥ ६५ ॥

प्. ४११)

शक्तिमन्त्रेण शक्तिं च पूजितां तस्य मूलतः ।
संहारिणां भरणाय सूत्रं ते नैव विन्यसेत् ॥ ६६ ॥

सुषुम्ना मूलमन्त्रेण गृहीत्वा बाह्यसूत्रके ।
न्यस्त्वा ध्यात्वा हृदाभ्यर्च्य कवचेनावकुण्ठयेत् ॥ ६७ ॥

सन्निधानं भवेदेतद् हृदयस्य विशेषतः ।
नार्याश्चाप्येवमेवं हि कुर्यात्सर्वत्र युक्तितः ॥ ६८ ॥

तत्त्वध्वा च पदाध्वा च वर्णाध्वा मन्त्र एव च ।
भुवनाध्वा कलाध्वा च षडध्वानः क्रमान्न्यसेत् ॥ ६९ ॥

तारं हृदयमाद्येषु चतुर्थ्यन्तं नमोऽन्तकम् ।
ओं हां तन्त्राध्वने नमः ओं हां पदाध्वने नमः ॥ ७० ॥

प्. ४१२)

ओं हां वर्णाध्वने नमः । ओं हां मन्त्राध्वने नमः ।
ओं हां भुवनात्मने नमः । ओं हां कलाध्वने नमः ॥ ७१ ॥

सूत्रे षड्विधमध्वानं विन्यस्य शिवभावयुक् ।
अपः प्राप्तं तलेनैव प्रोक्षयेच्छिष्कं प्रति ॥ ७२ ॥

तेन मन्त्रेण पुष्पेण शिष्यस्य हृदि ताडयेत् ।
हुंकारं रेचकेनैव शिष्यस्य हृदि विन्यसेत् ॥ ७३ ॥

अजपामध्य जीवस्य वियोगं हेतिना कुरु ।

हुं फट् ।

ओं हां स्वाहेति मन्त्रेण परिच्छिद्यात्तथा पुनः ॥ ७४ ॥

एवं शक्त्या तु चैतन्यमविस्पष्टं तु भावयेत् ।
नाडीभूते च सूत्रे वै संहारिण्या च योजयेत् ॥ ७५ ॥

प्. ४१३)

ओं जं आत्मने नमः ।

इत्युच्चार्य च सूत्रे तु व्यापकं वात्मनो भवेत् ।
कवचेनाव कुण्ठ्यैव हृदयेन इति त्रयम् ॥ ७६ ॥

आत्मसन्निधिकार्याय कुर्यात्तन्नन्दिकेश्वर ।
विद्यादेहं तु विन्यस्य शान्त्यतीतस्य दर्शनम् ॥ ७७ ॥

  • * * * * लायां च तत्वास्यमितरं तथा ।

मन्त्रभूतमिव ध्यात्वा नाडीसूत्रे तु भावयेत् ॥ ७८ ॥

ओं हां शान्त्यतीतकलापाशाय नमः ।
अनेनैव तु मन्त्रेण दर्शनाय जपेत्क्रमात् ॥ ७९ ॥

तथैवमस्त्रमप्येवं पदं वर्णाच्च षोडश ।
एतस्यां भुवनान्यष्टौ बीजं नाडी च तद्वयम् ॥ ८० ॥

प्. ४१४)

विषयं च गुणं चैवं कारणं च सदाशिवम् ।
हृतायां शान्त्यतीतायां अन्तर्भाव्यं प्रताडयेत् ॥ ८१ ॥

ओं हौं शान्त्यतीतकलापाशाय हुं फट् ।
गृहीत्वा संहारिण्या च निदात्यात्मत्र मस्तके ॥ ८२ ॥

आहुति त्रितयं दद्यात् पुरस्सन्निधि हेतवे ।
द्वे तत्वेवाक्षरे द्वे च बीजनाडीखगद्वयम् ॥ ८३ ॥

गुणौ मन्त्रौ तथाब्जस्थ मेवं कारणमीश्वरम् ।
पदानि द्वादशं प्रोक्तं भुवनं दशसप्त च ॥ ८४ ॥

विषयं च तथाप्येकं शान्तेरत्यन्तमुत्तमम् ।
कृष्णायां मध्यतः स्मृत्वा ताडयित्वा च पूर्ववत् ॥ ८५ ॥

प्. ४१५)

संहारिण्या समायोज्य मुखीसूत्रे नियोजयेत् ।
ओं हैं हैं इति बीजेन सान्निध्यायाहुतित्रयम् ॥ ८६ ॥

तत्वानि सप्तविद्यायाः पदमप्येकविंशतिः ।
षड्वर्णमन्त्रमेकं च पञ्चविंशतिमेककम् ॥ ८७ ॥

त्रयोगुणाश्च विषयमेकं तत्र तु कारणम् ।
जिह्वायामतिरक्तायामन्तर्भाव्योत्क्रमात्पुनः ॥ ८८ ॥

बीजे नाडिखगद्वन्द्वे पूर्ववन्नन्दिकेश्वरः ।
आदाय ताड्य संशोध्य हृत्सूत्रे स्थाणुना यजेत् ॥ ८९ ॥

ह्रूं ह्रूं मन्त्रं समुच्चार्य सन्निधानाहुतित्रयम् ।
चतुर्विंशति तत्वानि पञ्चविंशति वर्णयुक् ॥ ९० ॥

प्. ४१६)

बीजनाडीखगद्वन्द्वं पादद्व्यधिकत्रिंशकम् ।
लोकानां च चतुर्णां च षष्टिर्गुण चतुष्टयम् ॥ ९१ ॥

त्रीणि मन्त्राणि विषयमेकं कारणमच्युतम् ।
प्रतिष्ठामध्यमं ध्यात्वा शुक्लाशान्तानमादिकम् ॥ ९२ ॥

कुर्यादानाभिसूत्रस्थं सन्निधानाहुतिं यजेत् ।
ह्रीं लोकमष्टोत्तरशतं एकविंशत्पदानि वै ॥ ९३ ॥

बीजनाडीसमीराणां द्वयमिन्द्रिययोरपि ।
वर्णमेवं च तत्वं च विषयं चैव मेव हि ॥ ९४ ॥

मन्त्रं चतुष्टयं प्रोक्तं निवृत्तौ च तथैव च ।
जिह्वाया पीतवर्णाया मध्ये संभाव्य ताडयेत् ॥ ९५ ॥

प्. ४१७)

गृहीत्वा पादभागान्तं सूत्रे संयोज्य पूजयेत् ।
तन्त्रसन्निधिकार्याय जुहुयादाहुति त्रयम् ॥ ९६ ॥

इत्यादाय कलासूत्रे योजयेच्छिष्य विग्रहान् ।
दीक्षायां तु सबीजायां समयाचारपाशतः ॥ ९७ ॥

देहारम्भकधर्माच्च मन्त्रसिद्धिफलादपि ।
वांछितार्थाय धर्माच्च व्यतिरिक्तं तु बन्धनम् ॥ ९८ ॥

कलानां मध्यगं सूत्रं क्ष्मंचैतन्यमरोधकम् ।
अनैनैव क्रमेणैव कुर्यात्तर्पणदीपनम् ॥ ९९ ॥

स्वस्वमन्त्रेण तुष्ट्यर्थं आहुति त्रितयं भवेत् ।
दीपने तु हुनेत्तद्वत् हुंफडन्तं शराणुना ॥ १०० ॥

प्. ४१८)

ओं शान्त्यतीतकलापाय स्वाहा । इति तत्तत्-
तर्पणे पाशाय हुंफट् । इति त्रयाहुतिः ॥ १०१ ॥

व्याप्ति बोधाय सूत्रं तत् कला स्थानेषु पञ्चसु ।
संमृज्य कुंकुमाज्येन तत्र सांगं शिवं यजेत् ॥ १०२ ॥

कलामन्त्रैर्हुंफडन्तैर्भित्वा पाशाननुक्रमात् ।
प्रविश्यान्ते नमस्कारं ग्रहाणां बन्धनं भव ॥ १०३ ॥

ओं हुं हां हौं हां हुं शान्त्यतीत कलाग्राहामि ।
बध्नामि इत्यादि मन्त्रैश्च कलाग्रहण बन्धनम् ॥ १०४ ॥

पाशादिनापकोशो ग्रहणं बन्धनं तथा ।
सर्वव्यापाररोधं च पुष्पं प्रति विभावयेत् ॥ १०५ ॥

प्. ४१९)

तत्सूत्रमुपदिश्याय शिष्यांसे च निवेशयेत् ।
द्विसृक्त्वाद्य च नाशाय मूलेन च शतं हुनेत् ॥ १०६ ॥

पुरुषस्य शरावान्तं सूर्यास्त्र परितो भवेत् ।
हृदास्त्रं संपुटेनैव निधाय तदनन्तरम् ॥ १०७ ॥

प्रणवार्घ्यं गृहीत्वा तु देशिको यागमन्दिरात् ।
बहिर्गत्वा ततः कुर्यान् मण्डल त्रितयं क्रमात् ॥ १०८ ॥

नैष्ठिकान्भौतिकांश्चैव सौम्यास्यानैन्द्रवक्त्रकान् ।
क्रमेण वश्यान्शिष्यांश्च प्राशयेच्चुलुकत्रयम् ॥ १०९ ॥

पञ्चगव्येन पूर्वं स्यात् पाणिना कुशया सह ।
मध्ये मध्ये चाचमनं विदध्यान्नन्दिकेश्वर ॥ ११० ॥

प्. ४२०)

द्वितीये चरुकं प्रोक्तं ग्रासत्रयसमन्वितम् ।
अष्टग्रासमितिर्वापि दर्शनस्पर्शवर्जितम् ॥ १११ ॥

पलाशपत्रैर्मुक्त्यर्थं ऐहिक्यार्थप्लवे तले ।
हृदा तु सकलग्रासं भाजयेद्देशिकोत्तमः ॥ ११२ ॥

पश्चादाचमनं कार्यं शुद्धैरेव जलैः पुनः ।
दन्तकाष्ठं हृदा दत्वा चक्षुषा शोधितं तदा ॥ ११३ ॥

जलेन शोधयेत्पश्चाद् धौतमूर्ध्वमुखं क्षिपेत् ।
विदन्धामं विना सर्वं शोधनं पातमुत्तमम् ॥ ११४ ॥

अशोभननिवृत्त्यर्थं हेतिना जुहुयाच्छतम् ।
नान्याथादोषमोक्षाय शतमष्टोत्तरं हुनेत् ॥ ११५ ॥

प्. ४२१)

मूलमन्त्रेण कर्तव्यं प्रीत्यर्थं नन्दिकेश्वर ।
समर्प्य स्थण्डिलेशाय सर्वकर्माणि भक्तियुक् ॥ ११६ ॥

तस्य पूजासमाप्तिश्च चण्डेशस्यापि पूजनम् ।
निर्माल्यशोधनं कृत्वा गोमयेनोपलेपयेत् ॥ ११७ ॥

मूलेन भूमिं संशोध्य चरुशेषं तु होमयेत् ।
लोकपालांश्च कलशान् पूजयित्वा निरुध्य च ॥ ११८ ॥

बाह्यरक्षाभवेद्यन्तु विसृजेद्गणपालकान् ।
संक्षेपेण क्रमेणैव लोकपालबलिं क्षिपेत् ॥ ११९ ॥

आग्नेये वारुणे वापि स्नात्वाया गालयं विशेत् ।
नैष्ठिकान्भस्मशययायां हृदादक्षिणशीर्षकान् ॥ १२० ॥

प्. ४२२)

भौतिकान्दर्भशययायां पूर्वमौल्यस्त्ररक्षितान् ।
शिखाबद्धशिखान्सर्वान् हेतिना रक्षितान्पुनः ॥ १२१ ॥

स्वप्नाधिपन्निमन्त्रं च गुरुस्तत्रोपदेशयेत् ।
ओं हिलि हिलि शूलपाणये स्वाहा तं चापि पश्चिमाम् ॥ १२२ ॥

ओं हिलि हिलि पाणये स्वाहा । ओं नमः शिवः ।
शम्भो त्रिणेत्राय पिंगलाय महात्मने ॥ १२३ ॥

वामाय शम्भवे विश्व स्वप्नाधिपतये नमः ।
ओं हिलि हिलि निगिने शूलपाणये नमः ॥ १२४ ॥

एवं मन्त्रं च शिष्याणामुपदिश्याथ शाययेत् ।
बहिर्निर्गत्य संप्राश्य पञ्चगव्यं चरुं गुरुः ॥ १२५ ॥

प्. ४२३)

यथा दृष्टं तु स्वप्नं हि पृच्छेच्छिष्यांस्तथा गुरुः ।
रमं ध्वजं छत्रं च गजं वृषभमुत्तमम् ॥ १२६ ॥

क्षीरं मांसं मधुं चैव मधुमद्यजलं तथा ।
गणाद्यारोहणं चापि शुक्लमाल्यानुलेपनम् ॥ १२७ ॥

दीपमुज्वलमग्निं च ब्रह्माणं वेदपारगम् ।
सुमालां च वधूं वापि वेश्यां सर्वांगलक्षणम् ॥ १२८ ॥

पित्रोश्च दर्शनं वापि गुरोर्दर्शनमुत्तमम् ।
रत्नहेमांगुलीयादिभूषणं स्वप्नमुत्तमम् ॥ १२९ ॥

अर्कादिबिम्बतपनं पतनं चान्धकूपके ।
तैलाभ्यंगं मषीलेपं अंगच्छेदं तथैव च ॥ १३० ॥

प्. ४२४)

विधवादर्शनं चापि नववस्त्रावकुण्ठनम् ।
मृद्भाण्डनवकं चापि पोत्रिकामहिषादिभिः ॥ १३१ ॥

मर्दनं चापि कृष्णं च निशीये पूषदर्शनम् ।
भुजंगदर्शनं चापि बाधकाश्चैवमादि च ॥ १३२ ॥

काककंकखरादीनां दर्शनं चा शुभावहम् ।
प्रायश्चित्तं तु कर्तव्यं तत्तद्दृष्ट्यानुरूपतः ॥ १३३ ॥

नित्यं नैमित्तिकं कृत्वा प्रविशेद्यागमण्टपम् ।
आचम्य विधिवच्छुद्धः सोष्णीषो भूषणान्वितः ॥ १३४ ॥

देशिकः शोध्यमध्वानं पूर्वोक्तं चात्मनि न्यसेत् ।
भास्वरं शिवहस्तं च भावयेन्नन्दिकेश्वर ॥ १३५ ॥

प्. ४२५)

कुंभे शिवं च संभाव्य सर्वाभरण संयुतम् ।
इन्द्रादीनपि दिक्पालान्पूजयित्वा समाहितः ॥ १३६ ॥

स्थण्डिले मण्डले वापि पूजयेच्छिवमव्ययम् ।
पावकं पूजयेत्पश्चाद् दर्पणं पूर्वकावधि ॥ १३७ ॥

दुःस्वप्नशान्तये पश्चान् मूलमन्त्रांशकं हुनेत् ।
हुंकारं संपुटेनैव हुत्वा मन्त्रस्य दीपनम् ॥ १३८ ॥

कुम्भमण्डलयोर्मध्ये चान्तर्बलिर्विधीयते ।
शिष्याणां च प्रवेशाय कब्ध्वाज्ञां च बहिर्भवेत् ॥ १३९ ॥

पूर्ववन्मण्डलारे * * * * समयन्तदा ।
संपातहोमं तन्नाडीरूपमर्हकरांगकम् ॥ १४० ॥

प्. ४२६)

मूलेन सन्निधार्थाय जुहुयादाहुतित्रयम् ।
स्थण्डिले तु समभ्यर्च्य पाशविश्लेषकं गुरुम् ॥ १४१ ॥

अष्टोत्तरशतं ज्ञेयं भुवनान्यव सप्तवै ।
कपालो जलदेहश्च वज्रदेहः प्रमर्दनः ॥ १४२ ॥

विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ।
अग्नीरुद्रो हुताशश्च पिंगलः खादको हरिः ॥ १४३ ॥

ज्वलनो दहनो बभ्रुर्भस्मान्तश्च क्षयान्तकः ।
कालमृत्युहरो धाता विधाता कर्तृसंज्ञकः ॥ १४४ ॥

कालो धर्मोप्यधर्मश्च संयोक्ता च वियोजकः ।
नैर्-ऋतो मारणो हन्ता क्रूरदृष्टिर्भयानकः ॥ १४५ ॥

प्. ४२७)

ऊर्ध्वशेफो विरूपाक्षो त्रलोहितदंष्ट्रवान् ।
महाबलो महाबाहुर्दशैते वन्द्यराक्षसाः ॥ १४६ ॥

वलश्चातिबलश्चैव पाशहस्तो महाबलः ।
श्वेतश्च जयभद्रश्च दीर्घबाहुर्जलान्तकः ॥ १४७ ॥

बद्धवास्यश्च भीमश्च दशैते श नेरिताः ।
शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षयान्तकः ॥ १४८ ॥

पञ्चान्त्रिकः पञ्चशिखः कपर्दी मेघवाहनः ।
निशीशो रूपवान्धन्यः सौम्यदेहो जटाधरः ॥ १४९ ॥

लक्ष्मीधरो हरः कामी प्रसन्नश्च प्रकाशितः ।
विद्याधरो ज्ञानधरः सर्वज्ञो वेदपारगः ॥ १५० ॥

प्. ४२८)

मातृवृत्तश्च पिंगाक्षो भूतबालो बलिप्रियः ।
सर्वविद्याविधाता च सुखदुःखकरौ दश ॥ १५१ ॥

अन्नबालकधीमान्यः पाताला तथा ।
वृक्षो वृषधरो धीरो ग्रस्नश्च सर्वतोमुखः ॥ १५२ ॥

लोहितश्च फणीन्द्रश्च दश रुद्रसमाश्रिताः ।
गुरुविभुर्गणाध्यक्षः स्त्रिदशवन्दितः ॥ १५३ ॥

संवाहश्च विवाहश्च नागो लिप्सुर्विचक्षणः ।
वीरभद्रोऽथ कालाग्निरुद्रो हाटक एव च ॥ १५४ ॥

कूष्माण्डकश्च साम्यश्च ब्रह्मा विष्णुश्च सीतमः ।
रुद्रश्चाहुरिमे रुद्राः कटाहाभ्यन्तरे स्थिताः ॥ १५५ ॥

प्. ४२९)

एतान्येवादिनामानि भुवनानामिदं परम् ।
अष्टाविंशत्पदानां तु विप्रतो तिष्ठति क्रमात् ॥ १५६ ॥

भवो भवोद्भवो हंसः सर्वभूत सुखप्रदः ।
सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रार्चित अशुभा ॥ १५७ ॥

पूर्वस्थित साक्षि साक्षि कुरु कुरु पतंग पतंग ।
ज्ञानज्ञान शब्दशब्द सूक्ष्म सूक्ष्म शिवश्शर्व ॥ १५८ ॥

ओं नमः शिव ओं नमः शिवाय नमो नमः ।
एवमेकोन विंशतिः पदमन्त्रमतः परम् ॥ १५९ ॥

सद्यो हृदयस्थ नेत्राणि चत्वारि क्रमतो भवेत् ।
हकारश्च सकारश्च वर्णद्वयमुदीरितम् ॥ १६० ॥

प्. ४३०)

इडा च पिंगला चैव नाडीद्वयमुदीरितम् ।
वायुद्वयं च संप्रोक्तं प्राणापानक्रमादुभौ ॥ १६१ ॥

इन्द्रियद्वयमेवापि घ्राणं पश्चादुपस्थकम् ।
विष्टयं भय तु इत्युक्तो गुणपञ्चकमुच्यते ॥ १६२ ॥

शब्दः स्पर्शश्च रूपं च रसो गन्ध इति क्रमात् ।
मण्डलं पार्थिवं पीतं चतुरश्र मतः परम् ॥ १६३ ॥

इन्द्रेण चिह्नितं चैव विस्तृतं शतकोटियुक् ।
कलायां च निवृत्तिः स्याद्योनयोपि चतुर्दश ॥ १६४ ॥

तिर्ये च पंचमानुष्यमेकं देवत्वमष्टधा ।
पशवश्च मृगाश्चापि सर्वभंगाः सरीसृपाः ॥ १६५ ॥

प्. ४३१)

स्थावरं चेति पञ्चैताः सूर्यभूताश्च योनयः ।
मानुष्यमेकमन्यत्तु देवयोनिगतं शृणु ॥ १६६ ॥

पैशाचा राक्षसा यक्षा गन्धर्वाश्चैन्द्र संज्ञिकम् ।
प्रादेशं ब्राह्म्यमित्येव देवताष्टकयोनयः ॥ १६७ ॥

पार्थिवं तत्वमष्टानां अयेकारास्पदं भवेत् ।
प्रकृताश्चालयं तेषां भोगे बुद्धौ च कारणम् ॥ १६८ ॥

ब्रह्माप्यवस्थाजाग्रं तु निवृत्तिर्व्यापकं स्मरेत् ।
ओं हां हां हां समुच्चार्य निवर्त्तेश्च कलाः पुनः ॥ १६९ ॥

पाशाय हुंफडन्तं च नमोन्तं मन्त्रमुच्चरेत् ।
ओं हां स्वाहां निवृत्तिकलापाशाय हुं फट् ॥ १७० ॥

प्. ४३२)

एवं कृत्वा ततः पाशं कुण्डमध्ये विनिक्षिपेत् ।
ओं हां ह्लां निवृत्तिकलापाशाय नमः ॥ १७१ ॥

अनेनैव तु मन्त्रेण रेचयोद्भवमुद्रया ।
कुण्डमध्ये तु संस्थाप्य चार्घ्यं दत्वा नमोऽन्तयुक् ॥ १७२ ॥

ओं हां ह्लां निवृत्तिकलापाशाय नमः ।
अनेनैव तु मन्त्रेण स्वाहान्तेनाहुतित्रयम् ॥ १७३ ॥

ओं हां निवृत्तिकलापाशाय स्वाहा ।
सान्निध्यं तर्पणं चैव पुनरेव त्रिभिस्तथा ॥ १७४ ॥

ब्रह्माणं च निवर्तौ तु समावाह्याथ पूजयेत् ।
ओं हां ह्लां निवृत्तिकलापाशाय नमः ॥ १७५ ॥

प्. ४३३)

ब्राह्मणे नैव मन्त्रेण चासनं तर्पणं भवेत् ।
स्वाहान्तेन पुनस्तेन मन्त्रेणोच्चारणं भवेत् ॥ १७६ ॥

ओं हां ब्रह्मणे स्वाहा ब्रह्मन् तवाधिका ।
ओं ब्रह्मन् तवाधिकारेण स मुमुक्षुं दीक्षयाम्यहम् ॥ १७७ ॥

भाव्यं त्वयानुकूल्येन विधिं विज्ञापयेदिति ।
आवाहयेत्ततो देवीं रक्तां वागीश्वरीं तदा ॥ १७८ ॥

इच्छाज्ञानक्रियारूपां षड्विधाध्वैककारिणी ।
पूजयेत्तर्पयेद्देवीं भक्तिभावसमन्वितः ॥ १७९ ॥

तथा वागीश्वरं देवं योनिं संक्षोभदक्षकम् ।
ओं हां हं हां हुंफडन्तेन चात्मने नम इत्यपि ॥ १८० ॥

प्. ४३४)

शिष्यस्य हृदयं ताड्य पुष्पेण च विशेषतः ।
स्फुरत्स्फुलिंगसंकाशं तस्य चैतन्यविग्रहम् ॥ १८१ ॥

हृदि कृत्वा निवृत्तिस्थं पाशं छिन्दतत्तु ज्येष्ठया ।
ओं हां हां हः हुंफडन्तं च ओं स्वाहित्यनेन च ॥ १८२ ॥

पूरणेनांकुशेनैव मुद्रयाकर्ष्य भावयुक् ।
आत्ममन्त्रेण संगृह्य योजयेदात्मनि स्फुटम् ॥ १८३ ॥

ओं हां हं हां आत्मने नमः ।
वागीश्वरस्य संयोगं वागीश्वर्याश्च भावयेत् ॥ १८४ ॥

चैतन्यं केवलेनैव कुर्याद्भावसमन्वितम् ।
ब्रह्मादिकारणत्यागं क्रमान्नीत्वा शिवास्पदम् ॥ १८५ ॥

प्. ४३५)

गर्भाधानार्थमादाय युगपत्सर्वयोनिषु ।
सर्वयोनिस्वरूपाया वागीश्वर्या वरांगके ॥ १८६ ॥

वागीशी गर्भनाले तु पूर्वं तद्धातुमेलितम् ।
पश्चाद्वागीश्वरीगर्भे वामयाद्भवसंज्ञया ॥ १८७ ॥

मुद्रयानयाक्षिप्तं भावयेन्नन्दिकेश्वर ।
ओं हां हं हां आत्मने नमः इति पूजयेद्भावसंयुतः ॥ १८८ ॥

अनेनैव तु मन्त्रेण तर्पणं पञ्चधा भवेत् ।
सर्वयोनिषु शुध्यर्थं हृदयेन तु होमयेत् ॥ १८९ ॥

गर्भरक्षादिभिर्यान्तं तत्र पुंसवनं तथा ।
देहिमेञ्जन कुर्वीत शिरसा युगपत्तदा ॥ १९० ॥

प्. ४३६)

शिखामन्त्रेण कर्तव्यमधिकारं विशेषतः ।
वर्मणा सर्वभागं च मन्त्रेण विषयात्मनोः ॥ १९१ ॥

अभेदं मोहरूपं च लयं तत्र विभावयेत् ।

मूलेन

गर्भाधानादिकार्येण पञ्च पञ्चाहुतीर्हुनेत् ॥ १९२ ॥

अर्धपञ्चकनासाय हृदयेन शतं हुनेत् ।
पाशविश्लेषणे चैव मलशक्तितिरस्कृतौ ॥ १९३ ॥

स्वाहान्तेनास्त्रमन्त्रेण पञ्चपञ्चाहुतीर्हुनेत् ।
मलाद्यन्तःस्थपाशस्य सप्तधास्त्रेण जप्तधा ॥ १९४ ॥

कर्तव्याच्छेदनं कुर्यात् कलाशास्त्रेण तद्यथा ।
ओं हुं निवृत्तिकलापाशाय हुं फट् ना पुनः ॥ १९५ ॥

प्. ४३७)

छित्वा विमलवत्सूत्रं वर्तुलीकृत्य सद्गुरुः ।
आज्यपूर्णसृवस्याग्ने निधायाग्नौ तु होमयेत् ॥ १९६ ॥

भस्मीकृत्य कलास्त्रेण दद्यात्पञ्चाहुतिं क्रमात् ।
पाशांकुशनिवृत्त्यर्थं ओं अं अस्त्राय फडिति ॥ १९७ ॥

ओं अं अस्त्राय फट् ।

अस्त्रेण चा हुतिं दद्यात् प्रायश्चित्ताय वै भवेत् ।
तत्र ब्रह्माणमावाह्य पूजयेत्तर्पयेत्तथा ॥ १९८ ॥

ओं हां पूर्वं समुच्चार्य शब्दब्रह्म तथैव च ।
शुकं ब्रह्मन्गृहाणेति जुहुयादाहुति त्रयम् ॥ १९९ ॥

ओं हां शब्दस्पर्शौ शुक्लब्रह्मन्गृहाण स्वाहा ।
मन्त्रेणानेन सन्तर्प्य प्रार्थयेत्तु विशेषतः ॥ २०० ॥

प्. ४३८)

दण्डिनः शेषपाशस्य ब्राह्मणस्य पशोर्मया ।
सन्धानं पुनरास्थेयं शिवाज्ञा साधयेदिति ॥ २०१ ॥

विसृज्य तत्र ब्रह्माणं नाड्यादक्षिणया शनैः ।
कुम्भकेनात्ममन्त्रेण संहारिण्या च मुद्रया ॥ २०२ ॥

आत्मानं च विशेषेण राहुमुक्तैकदेशवत् ।
पञ्चांगबिन्दुबिम्बैश्च भावयेन्नन्दिकेश्वर ॥ २०३ ॥

गृहीत्वा योजयेत्सूत्रे रेचकेनोद्भवाय भम् ।
अर्घ्यपात्रजलं ध्यात्वा सुधामयमनौपमम् ॥ २०४ ॥

बिन्दुभिस्सम्यगभ्यर्च्य शिष्यस्य शिरसि क्षिपेत् ।
पितरौ तौ विसृज्याथ वौषडन्त शराणुना ॥ २०५ ॥

प्. ४३९)

विधेस्संपूरणाख्याय पूर्णाहुतिमथाचरेत् ।
निवृत्तिशोधनं ह्येतत् प्रतिष्ठामारभेत्क्रमात् ॥ २०६ ॥

तत्वद्वयस्य सन्धानं शुद्धाशुद्धिर्यवैर्भवेत् ।
ह्रस्वदीर्घ प्रयोगेण चान्नान्नादान्त संहिताम् ॥ २०७ ॥

ओं हां ह्लां ह्रीं ।

अप्तेजो वायुराकाशमात्रेन्द्रियबुद्धयः ।
गुणत्रयमहंकारं चतुर्विंशति निति ॥ २०८ ॥

प्रतिष्ठायां निवेशं हि तत्वान्येतानि भावयेत् ।
खादिरान्ताक्षराण्येव पञ्चविंशतिरेव च ॥ २०९ ॥

षट्पञ्चाशच्च लोकानां तत्संख्याभिश्च रुद्रकान् ।
अमरेशं प्रभावं च नैमिशं पुष्करं तथा ॥ २१० ॥

प्. ४४०)

आषाढश्च तथा दण्डी भारभूतिरथाष्टमः ।
लकुलीशो हरिश्चन्द्रः श्रीशैलो दशमो भवेत् ॥ २११ ॥

अल्पीयोऽमृतकेशश्च महाकालाय मध्यमः ।
केदारो भैरवश्चेति द्वितीया * * * रितम् ॥ २१२ ॥

ततो गया कुरुक्षेत्रं नाखलं नखलं तथा ।
विमलं चाट्टहासं च महेन्द्रो भीमसंज्ञकः ॥ २१३ ॥

वैस्त्रापदं रुद्रकोटिरविमुक्तो महालयः ।
गोकर्णी भद्रकर्णश्च स्वर्णाक्षः स्थाणुरेव च ॥ २१४ ॥

अर्थ * * * सर्वज्ञो भासुरस्तदनन्तरम् ।
सुबाहुर्मन्त्ररूपी च विशालो जटिलस्तथा ॥ २१५ ॥

प्. ४४१)

रौद्रश्च पिंगलाक्षश्च कालदंष्ट्री भवेत्ततः ।
बिन्दुरश्चैव घोरश्च प्राजापत्यो हुताशनः ॥ २१६ ॥

कामरूपी तथा कालकण्ठोऽप्यथ भयानकः ।
पतंगः पिंगलश्चैव हरो विधात्र संज्ञकः ॥ २१७ ॥

शंकुकर्णो भवानीशः श्रीकण्ठश्चन्द्रमौलिना ।
सहेतो भवनिर्वृत्तौ समाबाह्याथ पूजयेत् ॥ २१८ ॥

ओं हां ब्रह्मणे नम इति पर्यन्ताः क्रमात्प्रोक्ताः पदांच्छृणु ।
व्यापि व्यापिन् रूपारूपप्रथमप्रथमतेजस्तेजः ॥ २१९ ॥

ज्योतिर्ज्योतिरूप अनग्नि अधूम अभस्म अनादे ।
ना ना ना ना धू धू धू धू ओं भूः ओं भुवः ओं सुवः ॥ २२० ॥

प्. ४४२)

अनिधन निधनोद्भव शिव परमात्मल्परेमेश्वर ।
महादेव सद्भावेश्वर । महातेजो योगाधिपते ॥ २२१ ॥

मुञ्च मुञ्च प्रथम प्रथम शर्वशर्वेति द्वात्रिंशत्पदानि ।
बीजं च रेच यो मन्त्रो वामदेव शिव शिखानाडी ॥ २२२ ॥

सुषुम्नानालिरी * * * * दानासमाधिकौ ।
रसनावायुसंयुक्तमिन्द्रियं च तदा भवेत् ॥ २२३ ॥

रसस्तु विषयो रूपः स्पर्शश्शब्दरसा गुणाः ।
अब्जोपेतार्धचन्द्रं च मण्डलं वारुणं तथा ॥ २२४ ॥

स्वप्नावस्था प्रतिष्ठायां कारणं विष्णुरुच्यते ।
भुवनामा जगत्सर्वं भुवानान्तर्गतं स्मरेत् ॥ २२५ ॥

प्. ४४३)

प्रविश्येन स्वमन्त्रेण सूत्रे देहे वियोजयेत् ।
ओं ह्रां ह्रीं ह्रां समुच्चार्य प्रतिष्ठां च कथां तथा ॥ २२६ ॥

पाशाय हुंफडन्तं च मन्त्रमेतदुदीरितम् ।
ओं ह्रां ह्रीं ह्रां प्रतिष्ठाकलापाशाय हुंफट् ॥ २२७ ॥

स्वाहान्तेनाप्यनेनैव पूरणेनांकुशाख्यया ।
मुद्रया चैवमाकर्षेद् हुंफडन्तं स बीजयुक् ॥ २२८ ॥

ओं ह्रूं ह्रां प्रतिष्ठाकलापाशाय हुंफट् ।

  • * * मुद्रया गृह्य कुम्भकेन हृदान्यधः ॥ २२९ ॥


ताभ्यां तत्सूत्रमादाय पूर्ववन्नन्दिकेश्वर ।
ओं ह्रां ह्रीं प्रतिष्ठा कलापाशाय नमः ॥ २३० ॥

प्. ४४४)

अनेनैव तु मन्त्रेण गृहीत्वा भावमुद्रया ।
रेचकेण विशेषेण कुंभे चैव विधापयेत् ॥ २३१ ॥

ओं ह्रां ह्रीं प्रतिष्ठा कलापाशाय नमः ।
अनेनैव तु मन्त्रेण चापयित्वा विभावयेत् ॥ २३२ ॥

आहुतित्रितयेनैव स्वाहान्तेनैव भावयेत् ।
सन्निधानाहुतिं चैव पूर्ववत्कुर्याद्गुरुः ॥ २३३ ॥

हृदयानि नमोन्तेन विष्णवे मध्यमे भवेत् ।

ओं ह्रां विष्णवे नमः ।

अनेनैव तु मन्त्रेण विष्णुमावाह्य पूज्य च ॥ २३४ ॥

ओं विष्णो तवाधिकारेस्मिन्मुमुक्षुं दीक्षयाम्यहम् ।
भाव्यं त्वयानुकूलेन विष्णुं विज्ञापयेदिति ॥ २३५ ॥

प्. ४४५)

वागीश्वरीं च वागीशमावाह्याभ्यर्च्य पूजयेत् ।
पुष्पेण दक्षहस्तेन शिष्यवक्षसि ताडयेत् ॥ २३६ ॥

ओं हां हं समुच्चार्य व्योमषोडशसंयुतम् ।
हुंफडन्तं समुच्चार्य प्रविशेन्मन्त्रपूर्वकम् ॥ २३७ ॥

ओं हां हं हां हः हुं फट् ।

एते नैव तु मन्त्रेण वात्मानं विभजेद्गुरुः ।
पाशयुक्तं तु शस्त्रेण ज्येष्ठयांकुशमुद्रया ॥ २३८ ॥

तारादि हुंफडन्तेन मन्त्रेणैव विशेषतः ।

ओं हां हं हां हः हुं फट् ।

पूर्वोक्तेन तु मन्त्रेण स्वाहान्त स्फुटितेन च ॥ २३९ ॥

आकृष्यात्मनि संयोज्य नमो नानात्मनेति च ।

ओं हां हं हां आत्मने नमः ।

पित्रोः संयोगमुद्धार्य मुद्रयोद्भवयानया ॥ २४० ॥

प्. ४४६)

इडया तदने नैव देवीगर्भे नियोजयेत् ।
गात्रोत्पत्तौ तथा पंचशिरसा जन्मने तथा ॥ २४१ ॥

अधिकाराय योगाय शिखाया कवचाणुना ।
संसारपाशशस्त्रेण स्रोतश्शिष्यैः शिवाणुना ॥ २४२ ॥

हुद्वा तत्र शुचौ गर्भाधानादि पूर्ववत् ।
पाशविश्लेषणं चापि शिरसा तदनन्तरम् ॥ २४३ ॥

निष्कृत्यै शतकृत्वस्तु होमयेन्नन्दिकेश्वर ।
शस्त्रेण पञ्चधा कृत्वा मलशक्तितिरोहके ॥ २४४ ॥

पाशविश्लेषणो पञ्च जुहुयाच्च विशेषतः ।
सप्तास्त्रजप्तं कर्तव्यं छिन्द्यादस्त्रेण तत्तदा ॥ २४५ ॥

प्. ४४७)

कलाबीजसमायुक्तमुच्चार्य प्रणवादिकम् ।
प्रतिष्ठां च कलापाशाय हः पुनः ॥ २४६ ॥

हुंफडन्तेन मन्त्रेण विदध्याद्भावसंयुतः ।
ओं हां प्रतिष्ठाकलाय पाशाय हः हुंफट् ॥ २४७ ॥

विमृज्य वर्तुलीकृत्य पाशानस्त्रेण पूर्ववत् ।
आज्यं तु पूर्ववद्दत्वा कलास्त्रेण हुतं भवेत् ॥ २४८ ॥

पाशांकुशनिवृत्त्यर्थं पञ्चास्त्रेण हुनेत्तदा ।
अष्टाहुतिं च जुहुयात् प्रायश्चित्तनिवृत्तये ॥ २४९ ॥

ओं हः अस्त्राय हुं फट् ।

विष्णुमावाह्य संपूज्य तर्पणं च हृदा भवेत् ।
अधिकारादिकं सर्वं सर्ववन्नन्दिकेश्वर ॥ २५० ॥

प्. ४४८)

ओं हां विष्णो रसं चैव शुक्लं च तदनन्तरम् ।
गृहाणस्वाहान्तमुच्चार्य मन्त्रमेवं भवेत्तदा ॥ २५१ ॥

ओं हां विष्णोरसंख्या गृहाण स्वाहा ।
निश्शेषपाशदग्धस्य पशोस्तस्य हरे त्वया ॥ २५२ ॥

न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ।
ततो विसृज्य विष्णुं च रौद्रात्मानं विशोधयेत् ॥ २५३ ॥

राहुणामुक्तचन्द्रस्य बिम्बार्धसदृशं तदा ।
संहारमुद्रयात्मस्थं विधायोद्भवमुद्रया ॥ २५४ ॥

संयोज्य सूत्रे विन्यस्य तोयबिन्दुं यदा पुरा ।
वह्ने विसृज्य पितरौ पूजयेत्कुसुमादिभिः ॥ २५५ ॥

प्. ४४९)

पूर्णाहुतिं च जुहुयात् प्रतिष्ठा शोधनाय च ।
विद्यासन्धानकार्यार्थं पूर्वोक्तकलया सह ॥ २५६ ॥

तत्वपर्णादिकं सर्वं पूर्ववन्नन्दिकेश्वर ।
ओं ह्रां ह्रीं ह्रूं हां च सन्धाने रागं चा शुद्धविद्यया ॥ २५७ ॥

नियतिश्च कला चैव कीलो माया तथैव च ।
शुद्धविद्या च तत्वानां सप्तकं च क्रमाद्भवेत् ॥ २५८ ॥

रलपाश्शषसा वर्णाः षड्विद्यायां समीरिताः ।
एकविंशत्पदं प्रोक्तं ताराद्यं नन्दिकेश्वर ॥ २५९ ॥

ओं नमश्शिवाय शर्वप्रभवे शिवाय ईशान-
मूर्धाय तत्पुरुषाय वक्त्राय अघोर हृदयाय ॥ २६० ॥

प्. ४५०)

वामदेव गुह्याय सद्योजातमूर्तये नमोनमः ।
गुह्यातिगुह्य गोप्त्रे अनिधनाय सर्वयोगाद्य ॥ २६१ ॥

सर्वज्ञ सर्वविद्याधिपाय ज्योतीरूपाय परमेश्वर ।
परमेश्वर अचेतनाचेतन व्योमाव्योम । रुद्राणां ॥ २६२ ॥

भुवनानां च * * * स्वरूपमथ कथ्यते ।
पूर्वन्तु वामदेवः स्यात् तत्तत्सर्वभवोद्भवः ॥ २६३ ॥

वज्रदेहः प्रभुर्धाता क्रमविक्रमसुप्रभः ।
अर्धः प्रशान्तनामा च परमाक्षरसंज्ञिकः ॥ २६४ ॥

दिवं च सुदिवे बभ्रुरक्षयश्शंभुरेव च ।
अदृष्टरूपधारानौ तथा रूपविवर्धनः ॥ २६५ ॥

प्. ४५१)

नमो नमो महावीर्यः चित्रांगस्तदनन्तरम् ।
कल्याण इति विज्ञेयाः पञ्चविंशति संख्यया ॥ २६६ ॥

मन्त्रो घोराहरौ नाड्यन्न च द्वे तत्र ते तथा ।
पूजा च हस्तिर्जिह्वा च व्याननागौ मरुद्द्वयम् ॥ २६७ ॥

रूपं विषयमेवं च पादनेत्रमथेन्द्रियम् ।
शब्दः स्पर्शश्च रूपञ्च त्रय एव गुणाः स्मृताः ॥ २६८ ॥

अवस्था वा सुषुप्तिः स्याद्रुद्रो देवश्च कारणम् ।
भावयेद्भुवनादिं च विद्यामूर्धगते तदा ॥ २६९ ॥

ताडनं चेदनं तत्र प्रवेशं च नियोजनम् ।
विद्यया हृत्प्रदेशे तु ग्रहाणां कर्षणं भवेत् ॥ २७० ॥

प्. ४५२)

आरोह्यात्मनि संगृह्य कलाकुण्डे नियोजयेत् ।
कारणं रुद्रमावाह्य शिष्यं विज्ञाप्य भक्तियुक् ॥ २७१ ॥

कुर्यादावपनं पित्रोः शिष्यवक्षसि ताडयेत् ।
चैतन्यं पूर्ववत्तत्र मन्त्रेण च वियोजयेत् ॥ २७२ ॥

पूर्वोक्तविधिनाकृष्य चादा यात्मनि योजयेत् ।
इडया योजयेद्भर्गे संग्राह्य द्वादशांशतः ॥ २७३ ॥

देहोत्पत्तिं ततः कुर्याज्जनाधि कृतिरेव च ।
भोगं विरामं स्त्रोतश्च तत्वानां च विशोधनम् ॥ २७४ ॥

मलकर्मादि मोक्षाय निष्कृत्यै च विधानवित् ।
पूजयेत्तर्पयेच्चैव शताहुत्या च तत्र वै ॥ २७५ ॥

प्. ४५३)

पाशविश्लेषणं चापि हेतिना नन्दिकेश्वर ।
मूलशक्ति तिरोधाने च्छेदने मर्दने तथा ॥ २७६ ॥

वर्तुलीकरणं चैव दाहे चांगुलिनाशने ।
प्रायश्चित्तनिषेधार्थं रुद्रस्यावाहनं तथा ॥ २७७ ॥

पूजनं चापि तत्सर्वं विदध्यात्पूर्ववत्तदा ।
रूपं ग्रन्थिं च गुल्फं च रुद्राय विनिवेशयेत् ॥ २७८ ॥

ओं हां रूपं गन्धौ शुक्लौ रुद्र गृहाण स्वाहा ।
शैवीमाज्ञां च संश्राव्य रुद्रं विसृज्य कारणम् ॥ २७९ ॥

रुद्रं तथाधिकारेऽस्मिन्मुमुक्षुं दीक्षयाम्यहम् ।
भाव्यं त्वयानुकूल्येन भक्त्या विज्ञापनं भवेत् ॥ २८० ॥

प्. ४५४)

बन्धाय न पुनःस्थेयं शिवाज्ञां भावयेदिति ।
आत्मन्यात्मानमाधाय पाशस्तत्र नियोजयेत् ॥ २८१ ॥

अर्धेन्दुं शिरसि न्यस्य पितरौ विसृजेत्तदा ।
पूर्णाहुतिं च कृत्वा तु विधानेन विशेषतः ॥ २८२ ॥

ताडनादिं च विधिना सर्वं कुर्याच्च सद्बुधः ।
विद्यास्वबीजमेत्वं हि रेफेण तु विशेषतः ॥ २८३ ॥

ओं हां हूं हां विद्याकलापाशाय हुंफट् ।
अनेनैव तु मन्त्रेण विद्यावाच विशोधनम् ॥ २८४ ॥

शान्त्यां विद्यां च संयोज्य विधिस्संवर्धया भवेत् ।
एतद्वयं च शान्तौ च विलीनं भावयेत्क्रमात् ॥ २८५ ॥

प्. ४५५)

ईश्वरं चैव साधाख्यं उभयं तत्र भावयेत् ।
पक्षवर्णौ च संप्रोक्तौ भुवनाधिपरुद्रगाः ॥ २८६ ॥

स्वनाम्नैव च विख्याताः पूर्व संख्या समन्विताः ।
प्रभवक्षमयक्षुद्रा विमलश्शिव इत्यपि ॥ २८७ ॥

घनो निरञ्जनश्चैव ओंकारस्सुशिवस्तथा ।
दीप्ता च कारणं चैव त्रिदशेश्वर इत्यपि ॥ २८८ ॥

त्रिदशः कालनामा च सूक्ष्मश्चाम्बुज इश्वरः ।
रुद्राश्चाष्टादशत्वेते शान्त्याश्च भुवनाधिपः ॥ २८९ ॥

भुवनानां च पतयः क्रमादेते समीरिताः ।
पदानां च विशेषेण प्रणवाद्यं भवेत्तदा ॥ २९० ॥

प्. ४५६)

ओं व्योमव्यापिने व्योमरूपाय सर्वव्यापिने ।
शिवाय अनन्ताय अनाथाय अनाश्रिताय ॥ २९१ ॥

ध्रुवाय शाश्वताय योगपीठ संस्थिताय ।
नित्ययोगिने ध्यानाहाराय * * * * * * ॥ २९२ ॥

एवमुक्तं तथा व्याप्तिः प्रणवाद्यं भवेत्तदा ।
पुरुषे कवचौ मन्त्रौ बीजे बिन्दुयकारकौ ॥ २९३ ॥

नाडीद्वयमलं पूष्या यशस्विन्यप्यनन्तरम् ।
मारुतौ कूर्मकृकरौ त्वरागः स्यात्तथेन्द्रियः ॥ २९४ ॥

विषयस्पर्श एवं स्याद्गुणस्पर्शनिवारणौ ।
ईश्वरस्तु करं प्रोक्तमधस्तात्तु तुरीयकम् ॥ २९५ ॥

प्. ४५७)

शान्तिमध्यगतं ध्यात्वा सर्वं च भुवनादिकम् ।
पूर्ववत्ताडनं भेदं प्रवेशमपि योजनम् ॥ २९६ ॥

आकर्षणं ग्रहणं च शान्तेर्वदनसूत्रतः ।
स्वस्मिन्संरोप्य संगृह्य कलां कुण्डे नियोजयेत् ॥ २९७ ॥

ईशं तवाधिकारेऽस्मिन् मुमुक्षुं दीक्षयाम्यहम् ।
अनुकूलेन भवता भाव्यं विज्ञापनादिकम् ॥ २९८ ॥

पित्रेणावाहनं चैव शिष्यस्य ताडनादिकम् ।
आत्मानं विधिना सम्यक् स्वस्मिन्नेव नियोजयेत् ॥ २९९ ॥

हृदयेनाहुतिं पञ्च शरीरेणोत्पत्तये भवेत् ।
शिरसा पञ्चजनार्थं अधिकारो शिखा भवेत् ॥ ३०० ॥

प्. ४५८)

भोगं च कवचेनैव संहारं हेतिना भवेत् ।
मूलेन स्रोतसां सिध्यै सिध्यै तत्वहृदा भवेत् ॥ ३०१ ॥

गर्भाधानादिकं सर्वं पूर्ववन्नन्दिकेश्वर ।
पाशविश्लेषणं चापि तनुत्रेण तदा भवेत् ॥ ३०२ ॥

निष्कृत्यैव शतं हुत्वा मलशक्तिनिरोहणे ।
हेतिना पञ्चजुहुयादेवं पाशवियोजने ॥ ३०३ ॥

अस्त्रं तु सर्वथा जप्त्वा कर्तर्यस्त्रेणच्छेदयेत् ।
बीजेन संपुटं कुर्यात् तथा शान्तिकलान्तरे ॥ ३०४ ॥

पाशाय हुं हुं हुं फडन्तं क्रमान्मन्त्रमुदीरितम् ।
हौं हौं शान्तिकलापाशाय हुं फट् ॥ ३०५ ॥

प्. ४५९)

समस्तं वर्तुलीकृत्य पाशानस्त्रेण पूर्ववत् ।
आज्यपूर्णसृवे स्थाप्य कलास्त्रेण हुतं भवेत् ॥ ३०६ ॥

पाशांकुशनिवृत्त्यर्थं हेतिना पञ्चधा हुनेत् ।
अष्टाहुतीश्च जुहुयात् प्रायश्चित्तनिवृत्तये ॥ ३०७ ॥

ओं हः अस्त्राय फट् ।

ईश्वरं हृदये वाह्य पूजनं तर्पणं भवेत् ।
तस्मै शुक्लं च विधिना कुर्वीत तदनन्तरम् ॥ ३०८ ॥

ओं हां ईश्वरं बुध्य हुंकारौ शुक्लं गृहाण स्वाहा ।
दग्ध निश्शेषपाशस्य शिशोरस्येश्वर त्वया ॥ ३०९ ॥

नयनार्थं तु कर्तव्यं शिवाज्ञां श्रावयेदिति ।
ईश्वरं तत्र विसृजेद् रुद्रात्मानं नियोजयेत् ॥ ३१० ॥

प्. ४६०)

राहुणाग्रस्तपञ्चाशच्चन्द्रबिम्बसमं तदा ।
शिष्यामात्मनि संभाव्यं विधिना योजयेत्तदा ॥ ३११ ॥

शिष्यं संयोजयेद्भावो योजयेद्भवमुद्रया ।
मूलेन कुर्याच्छिष्यस्य शिरस्यमृतबिन्दुकम् ॥ ३१२ ॥

वह्नेर्विसृज्य पितरौ कुसुमादिसुपूजितौ ।
पूर्णाहुतिं च विधिना जुहुयान्नन्दिकेश्वर ॥ ३१३ ॥

शान्त्यामपि विध * * * * नादि च पूर्ववत् ।
बीजमेव विशेषः स्यात् कलानां शुचिहेतवे ॥ ३१४ ॥

शान्त्यायाश्शान्त्यतीतायां सन्धानां तु विशुद्धये ।
पूर्ववत्तत्र कुर्वीत तत्र वर्णादिकं क्रमात् ॥ ३१५ ॥

प्. ४६१)

ओं हां हौं समुच्चार्य सन्धाने तु भवेदिदम् ।
उक्तौ शक्तिशिवे तत्वे भुवनाष्टकमीरितम् ॥ ३१६ ॥

दीपिको रौचिकश्चैव मोचकश्चौर्ध्वगामिकम् ।
व्योमरूपमनाद्यं च तथानाश्रितमष्टमम् ॥ ३१७ ॥

निवृत्तिश्च प्रतिष्ठा च विद्या * * * * हृधि ।
इलिका रोधिका सप्त सहपञ्चदश स्मृताः ॥ ३१८ ॥

तारं पदं तथैशानौ मन्त्रो वर्णास्तु षोडश ।
अकारादि विसर्गान्ता बीजनादहकारकौ ॥ ३१९ ॥

नाड्यन्तं कूहुः शंखिनी चया तदनन्तरम् ।
देवदत्तं तथा चैव नाञ्जयमष्टधः परम् ॥ ३२० ॥

प्. ४६२)

इन्द्रिये स्पर्शने श्रोत्रे विषयैरेव इत्यपि ।
गुणश्च शब्दोतीतः स्यात् तुरीयादितकं भवेत् ॥ ३२१ ॥

सदाशिवः कारणं स्याद् इति तत्वादिपञ्चकम् ।
शान्त्यतीतकलासंस्थं ध्यात्वा तत्ताडनादिकम् ॥ ३२२ ॥

हुंफडन्तेन संताड्य कलापाशं विभिद्य च ।
नमोन्तं हुंफडन्तेन प्रविश्यात्र नियोजयेत् ॥ ३२३ ॥

शिखाहृत्संपुटं कृत्वा स्वाहान्तांकुशमुद्रया ।
आकृष्य पूरकेणैव चैतन्यं विभजेत्ततः ॥ ३२४ ॥

अस्त्रेण पाशयुक्तं तद् भक्त्या विज्ञापयेदिति ।
पूजामावाहनं पित्रोस्तर्पणं सन्निधिं तदा ॥ ३२५ ॥

हृत्संपुटात्मबीजेन शिशुवक्षसि ताडयेत् ।

ओं हां हं हां हुंफट् ।

अनेनैव तु मन्त्रेण चैतन्यं विभजेत्ततः ॥ ३२६ ॥

अस्त्रेण पाशयुक्तं तज्ज्येष्ठया सृणिमुद्रया ।

ओं हां हं हां हुं फट् ।

हृत्संपुटात्मबीजेन स्वाहामाकृष्य भावयुक् ॥ ३२७ ॥

आदाय तन्नमोन्तेन स्वात्मन्येव नियोजयेत् ।

ओं हां हं हां हः आत्मने नमः ।

पित्रोस्संयोगमुद्भाव्यं भवेदुद्भवमुद्रया ॥ ३२८ ॥

इडया रेचकेनैव देविगर्भे नियोजयेत् ।
पूर्वोक्तविधिना सर्वं गर्भाधानादिकं भवेत् ॥ ३२९ ॥

पाशविश्लेषणार्थाय मुलेन तदनन्तरम् ।
निष्कृत्यै च शतं होमं विदध्यान्नन्दिकेश्वर ॥ ३३० ॥

प्. ४६४)

मलशक्ति तिरोधाने पाशविश्लेषणे तथा ।
पञ्चपञ्चाहुतीर्दद्यान् मन्त्रेण च यथा पुरा ॥ ३३१ ॥

सप्तधा जप्त शास्त्रेण पाशं छिन्द्यादनन्तरम् ।
ओं हां शान्त्यतीतकलापाशाय हुंफट् ॥ ३३२ ॥

विमृश्य वर्तुलीकृत्य पाशामस्त्रेण पूर्ववत् ।
पूज्य पूर्णे सृ ध्यात्वा कलास्त्रेण च होमयेत् ॥ ३३३ ॥

पाशांकुशनिषेधार्थं जुहुयात्पञ्चवाहुतीः ।
अष्टाहुतीश्च जुहुयात् प्रायश्चित्त निवृत्तये ॥ ३३४ ॥

हृदयास्य सदादेवं पूर्ववत्तर्पणं भवेत् ।
अधिकारं च कुर्याच्च पूर्वोक्तविधिना पुनः ॥ ३३५ ॥

प्. ४६५)

ओं हां सदाशिव नमो बिन्दुशुक्लगृहाण स्वाहा ।
निश्शेषदग्धपाशस्य शिवोनस्य सदाशिवम् ॥ ३३६ ॥

बन्धाय नत्वया स्थेयं शिवाज्ञां श्रावयेदिति ।
पूर्णाहुतिं च विसृजेन् मूलेन च सदाशिवम् ॥ ३३७ ॥

ततोऽथ हुत्वा चात्मानं शरच्चन्द्रमिवोत्थितम् ।
संयोज्य रौद्र्यसंहारमुद्रया गुरुमात्मनि ॥ ३३८ ॥

विदध्याच्छिवदेहस्थं उद्धत्योद्भवमुद्रया ।
प्रथारित शिरोग्रीवो नादोच्चार समन्वितः ॥ ३३९ ॥

आप्यायनादि दद्यात्तु शिरसाध्याम्बु बिन्दुकम् ।
भक्त्या संपूज्य पितरौ विसृजेत्तदनन्तरम् ॥ ३४० ॥

प्. ४६६)

खण्डितौ शिष्यदीक्षायां यन्मया पितरौ युवाम् ।
कारुण्यात्तत्क्षमित्वा मे व्रजमं स्थानमात्मनः ॥ ३४१ ॥

शिखामन्त्रितकर्तर्यरोधमन्त्रस्वरूपिणीम् ।
शिवास्त्रेण शिखां छिद्याच्छिष्यस्य चतुरंगुलम् ॥ ३४२ ॥

ओं हुं शिखायै हुं फट्. ।

सृक्सृवक्षालनं शिष्य स्नानमाचमनं गुरुः ॥ ३४३ ॥

कुर्यात्तत्र विशेषेण भावभक्ति समन्वितः ।
अस्त्रेण ताडनं कृत्वा चैतन्यं च नियोजयेत् ॥ ३४४ ॥

विशिष्याकृष्य संगृह्य पूर्ववद्द्वादशान्ततः ।
स्वकीयहृदयाम्भोजे योजयेन्नन्दिकेश्वर ॥ ३४५ ॥

प्. ४६७)

विशिष्य हृदयाम्भोजे योजयेन्नन्दिकेश्वर ।
सृवं घृतेन संपूर्य दशोस्याच्च सृवं क्रमात् ॥ ३४६ ॥

कृत्वा नित्योक्तमार्गेण कम्बुसन्निभमुद्रया ।
प्रसारितशिरोग्रीवो नादोच्चारसमन्वितम् ॥ ३४७ ॥

ध्यानदृष्टिः शिरश्शान्तः पुराभावयुतः पुनः ।
मण्डलात्कलशादग्नेः शिरस्स्वस्मादनाकुलम् ॥ ३४८ ॥

षड्विधयानमानीय स्रुगत्र प्राणनाडिका ।
चन्दार्कनाशनं ज्ञात्वा विषुवे च भवेत्तदा ॥ ३४९ ॥

सप्तभेदयुतं ध्यात्वा क्रमान्नादमुदीरयेत् ।
प्राणस्य रोधः प्रथमं तत्स्वरूपावलोकनम् ॥ ३५० ॥

प्. ४६८)

अनाहतक्रमोच्चारि विशिष्टं मन्त्रसंज्ञकम् ।
ब्रह्मनाड्यन्तरालस्थनादं तत्तु तुरीयकम् ॥ ३५१ ॥

कारणानां च सन्त्यागात्सप्तमं विषुवं भवेत् ।
तस्मिंच्छान्तिं च गच्छेत्तु लयमिच्छति तत्क्षणात् ॥ ३५२ ॥

सुषुम्नाकुलमासाद्य नादेप्यूर्ध्वगतिं व्रजेत् ।
तद्गतिश्शक्तिविषयमुपदेशेन लभ्यते ॥ ३५३ ॥

सर्वप्राणस्य शक्त्यन्तमासनं मानवर्जितम् ।
तत्कालविषुवं षष्ठं तथा तीतं च सप्तमम् ॥ ३५४ ॥

विषुवं तत्वसंज्ञायां तस्मिन्तस्यां वियोजयेत् ।
पूरकं कुम्भकं ध्यात्वा ह्यादाय मुखमादरात् ॥ ३५५ ॥

प्. ४६९)

उद्धरेत् क्रमशो मूलं शिक्ष्यादाशु मनोलयम् ।
मनोलयात्तथा मुक्तिरिति शास्त्रस्य निश्चयः ॥ ३५६ ॥

षडध्वजीवबोधेऽस्मिन्हकारे विद्युदुज्वले ।
नाभेर्वितस्तिं संयाप्य हकारं परितः स्थितम् ॥ ३५७ ॥

ततोपरि मकारं तु हृदयं चतुरंगुलम् ।
ततोऽष्टांगुलकर्णान्तमुकारं विष्णुमुच्यते ॥ ३५८ ॥

चतुरंगुलजिह्वान्तमुकारं रुद्रदैवतम् ।
सादाख्यं ब्रह्मरन्ध्रान्तं नादरूपं विभावयेत् ॥ ३५९ ॥

तद्ब्रह्मरन्ध्रमध्यस्थां शक्तिं च विसृजेत्क्रमात् ।
दिव्यं पिपीलिका स्पर्शं तस्मिन्संभवति क्षणात् ॥ ३६० ॥

प्. ४७०)

अनुभूय च तत्सर्वं द्वादशान्तं ततः क्षणात् ।
निर्गुणं निर्मले शुद्धे वाच्यवाचक वर्जिते ॥ ३६१ ॥

नित्यानन्दमये सूक्ष्मे भावाभाव विवर्जिते ।
कैवल्ये चिद्घने शान्ते शिवे तु परिभावयेत् ॥ ३६२ ॥

शिष्यात्मानं च तत्रैव लीयमानं विभावयेत् ।
आज्यधारां च जुहुयाज्ज्वालान्तेऽपि परे शिवे ॥ ३६३ ॥

सायुज्यस्य स्थिरत्वाय मूलेन जुहुयात्तदा ।
वौषडन्तं समुच्चार्य पूर्णां च विधिना हुनेत् ॥ ३६४ ॥

हौं वौषट् ।

गुणपादनमेतस्य तारयुक्तं हृदाणुना ।
आत्मवत्सर्वज्ञो भव इति स्वाहान्तं मन्त्रकं भवेत् ॥ ३६५ ॥

प्. ४७१)

ओं हां आत्मस्सर्वज्ञो भव स्वाहा ।
ओं हौं आत्मन् अलुप्तशक्तिभव स्वाहा ॥ ३६६ ॥

ओं हः आत्मन् अनन्तशक्तिभव स्वाहा ।
इत्थं षड्गुणमात्मानं गृहीत्वा परमाक्षरात् ॥ ३६७ ॥

विधानभावेनोपेतः शिष्यदेहे च योजयेत् ।
तीव्रशक्तिनिपातस्य जनितश्रमशान्तये ॥ ३६८ ॥

अर्घ्यामृतोदबिन्दुभिः शिष्यमूर्धनि सेचयेत् ।
शिवकुम्भादिकान्सर्वान्वदयेच्च क्रमाद्गुरुः ॥ ३६९ ॥

इश्वर प्रदक्षिणे भागे मण्डले तन्निवेश्य च ।
उत्तरास्यं च तन्मूर्ध्नि दक्षिणे तु विभावयेत् ॥ ३७० ॥

प्. ४७२)

त्वया चानुगृहीतोयं मूर्तिमास्थाय चात्मकम् ।
देवे वह्नौ गुरुस्स स्याद् भक्तिनाथस्य वर्धया ॥ ३७१ ॥

देवमेवं च विज्ञाप्य प्रणम्य च गुरुः स्वयम् ।
श्रेयसाबाह्विनि ब्रूयादाशिष्य शिवमादरात् ॥ ३७२ ॥

कृष्ण पुष्पं च देवाय दद्याद्भक्तिसमन्वितः ।
ईशीकुम्भादिकलशजलैस्तमभिषेचयेत् ॥ ३७३ ॥

मण्डलादिषु पूजां च तस्मिन्नेवोपसंहरेत् ।
सर्वदीक्षा च ज्ञानं च शर्वानुग्रहतो भवेत् ॥ ३७४ ॥

तस्मात्सर्वप्रयत्नेन गुरुशुश्रूषणं परम् ।
नैरन्तर्येण भक्त्या च शुश्रूषा च भवेत्पुनः ॥ ३७५ ॥

प्. ४७३)

गुर्वनुग्रहणं पश्चात् शुश्रूषा च भवेत्परम् ।
निर्वाण दीपितः शिष्यो गुरु संसृष्टि योग्यकः ॥ ३७६ ॥

परार्थलिंगपूजायामधिकारोऽस्य विद्यते ।
शावसूतिकजं चैवमाशौचं च न विद्यते ॥ ३७७ ॥

भौतिकस्य विशेषेण स्नानमात्रेण शुद्धिदम् ।
इत्यचिन्त्य विश्वसादाख्ये कर्मनिर्वाणदीक्षाविधिर्द्वात्रिंशत्पटलः ॥



प्रायश्चित्तविधाने तु पुनर्दीक्षा विधीयते ।
तेन कारणतश्चापि पूर्वोक्तगुणवर्जितः ॥ १ ॥

पुनस्तद्गुण सिध्यर्थं त्रितत्वस्यादरार्चनम् ।
एवमादिषु सिध्यर्थं त्रितत्वक्रमदीक्षयेत् ॥ २ ॥

प्. ४७४)

त्रितत्व कर्मदीक्षां च शृणुत्वं नन्दिकेश्वर ।
लिंगार्चनादिकं सर्वं पूर्ववत्कुरुयान्मुखम् ॥ ३ ॥

मण्डले कुम्भके चैव स्वस्मिन्नग्नौ च शिष्यके ।
सर्वत्रापि शिवं यष्ट्वा पूर्वोक्तविधिना तदा ॥ ४ ॥

आद्यविद्याक्रियान्तं तु विन्यासादिक्रमान्न्यसेत् ।
अग्नेर्मुखस्य होमं च मन्त्राणां दीपनं पुनः ॥ ५ ॥

पूर्ववत्कर्म कुर्वीत पश्चात्सूत्रावलम्बनम् ।
शिष्यस्य मूर्ध्नि शक्तिं च संपूज्यादाय मुद्रया ॥ ६ ॥

हौं शक्तये नम इति तत्सूत्रे योजयेत्क्रमात् ।
कवचेन्मवकुण्ठ्यैव तर्पणादि च पूर्ववत् ॥ ७ ॥

प्. ४७५)

षडंगन्यासकं कुर्यात् पूर्ववन्नन्दिकेश्वर ।
सामान्यार्घ्य जलेनैव प्रोक्षयेच्छिष्यमस्तके ॥ ८ ॥

शिष्यस्य हृदये ताड्य पुष्पेण विधिना तदा ।
संप्रविश्याथ मन्त्रेण पाशविश्लेषणं भवेत् ॥ ९ ॥

विधिनाकर्षणं कुर्यात् शक्तिं सूत्रेण योजयेत् ।
ओं हां पूर्वं समुच्चार्य हं हां आत्मने नमः ॥ १० ॥

पश्चात्तु मूर्तिविन्यासमावाह्यादिक्रमाद्यजेत् ।
मन्त्राणां तर्पणं कृत्वा शिवतत्वं विलोकयेत् ॥ ११ ॥

ओं हां शिवतत्वाय नमः ।
 
हंफडन्तेन सन्ताड्य शिखा संपुटितेन च ।
नमोन्तेन च मन्त्रेण शिरस्सूत्रे तु विन्यसेत् ॥ १२ ॥

प्. ४७६)

ओं हां आत्मने हुं फण्णमः ।

संपूज्य शिवतत्वं तु वर्मणा चावकुण्ठयेत् ।
मन्त्राणां तर्पणं कृत्वा शिवतत्वं विलोकयेत् ॥ १३ ॥

ओं हां शिवतत्वाय नमः

हुंफडन्तेन संताड्य शिखा संपुटितेन च ।
नमोन्तेन च मन्त्रेण शिरः सूत्रे तु विन्यसेत् ॥ १४ ॥

ओं हुं आत्मने हुंफण्णमः ।

संपूज्य शिवतत्वं तु वर्मणा चावकुण्ठयेत् ।
तर्पणं पूजनं चापि पूर्ववद्विधिना भवेत् ॥ १५ ॥

विद्या तत्वं च मध्ये तु सूत्रयेत्पूजयेद्गुरुः ।

प्. ४७७)

ओं ह्रीं विद्यातत्वाय नमः ।

पुष्पताडनपूजादि पूर्ववत्कुर्यात्ततः ॥ १६ ॥

विलोकयेदात्मतत्वं ओं हां आत्मतत्वयुक् ।
नमोन्तं मन्त्रमुच्चार्य पूर्ववत्पूजयेद्गुरुः ॥ १७ ॥

ओं हां आत्मतत्वाय नमः ।

ताडनादि क्रमात्सर्वं पूर्वोक्तविधिना चरेत् ।
मन्त्राणां तृप्तये चैव जुहुयादाहुतित्रयम् ॥ १८ ॥

शिवतत्वादिकान्पाशान् हुंफडन्तांश्च दीपयेत् ।
अनाहताज्ञयोर्मध्ये सूत्रं काश्मीरवारिणा ॥ १९ ॥

रञ्जयेद्दीपनं पश्चान् मन्त्राणां च क्रमं भवेत् ।

प्. ४७८)

शिवतत्वाय हुंफड् दीपनं भवेत् ॥ २० ॥

ओं हुं हुं शिवतत्वाय हुं फट् ॥

तत्सूत्रे तु शिवं पूज्य पाशच्छेदमनन्तरम् ।
हृत्संपुटितबीजेन तेषां ग्रहणबन्धनम् ॥ २१ ॥

सव्यस्कन्धे तु शिष्यस्य सूत्रं तद्विनिवेशयेत् ।
षडंगेन हुनेत्पश्चात् पूर्णां मूलेन कारयेत् ॥ २२ ॥

संपातं सत्कृतं सूत्रं मन्त्रैस्सत्पात्र संपुटम् ।
शिवकुम्भसमीपे च रक्षार्थं विनिवेष्टयेत् ॥ २३ ॥

पूर्ववत्पञ्चमे सादि चरुभागं तथैव च ।
बलिं च दन्तकाष्ठं च पूर्ववत्स्थापयेन्निशि ॥ २४ ॥

प्. ४७९)

आचार्यश्चरुकं प्राश्य पूर्ववच्च समर्पणम् ।
अधिवासनमित्याहुर्दीक्षाकर्माप्यनुस्मरेत् ॥ २५ ॥

स्वापंच कृत्वा ब्राह्मे तु सस्याति द्वयकं चरेत् ।
शिष्यं प्रवेश्य कुण्डस्य पार्श्वे चैव क्रमात्तदा ॥ २६ ॥

नाडीसन्धानकं कृत्वा पुनस्सन्तानसूत्रकम् ।
शिखायां मस्तकालम्बि बध्नीयाच्छिष्यके तदा ॥ २७ ॥

आसनोपरि संवेश्य चात्मतत्वं विलोकयेत् ।
षडध्व परिवृत्तं च व्यापकेनावलोकयेत् ॥ २८ ॥

ताडनं पूर्ववत्कुर्याद् व्याप्य शिष्य हृदान्तकम् ।
गृहीत्वा शिष्यचैतन्यं वह्निमध्ये विनिक्षिपेत् ॥ २९ ॥

प्. ४८०)

पूजान्तं तर्पणं सर्वं शिवमन्त्रेण पूर्ववत् ।
पश्चाद् ब्रह्माणमावाह्य पूजयेच्छ्रावयेदिति ॥ ३० ॥

शिष्य वक्षसि पुष्पेण ताडयित्वा तु पूर्ववत् ।
तदात्मनि प्रवेशं च कुर्यात्सन्मार्गवायुकः ॥ ३१ ॥

पुनः स्वात्मनि शिष्यस्य चैतन्यं योजयेत्क्रमात् ।
गुरुमण्डलपर्यन्तमादायोद्भवमुद्रया ॥ ३२ ॥

वागीशीगर्भनाडौ तु योजयेन्नन्दिकेश्वर ।
पूजनं तर्पणं कृत्वा संस्कारविधिपूर्वकम् ॥ ३३ ॥

उत्पत्तिभोगनाशाय स्रोतसां शुद्धये तथा ।
मंत्रमायादि निष्कृत्यै शिवं सांगं च पूजयेत् ॥ ३४ ॥

प्. ४८१)

मलकर्म तिरोधानपाशविच्छेदनाय च ।
अस्त्रेण होमयेत्पश्चात् ततः सप्तास्त्र जप्तया ॥ ३५ ॥

कर्तव्यायशतत्वं च हेतिनाच्छेदयेत्ततः ।
विमृश्य वर्तुलीकृत्य सृगग्रे धारयेत्क्रमात् ॥ ३६ ॥

ओं हां आत्मतत्वाय हुंफट्. ।

अनेन होमयेत्पश्चात्पाशांकुश निवृत्तये ।
शतमष्टोत्तरं हुत्वा प्रायश्चित्तमनन्तरम् ॥ ३७ ॥

पश्चाच्छुष्कं क्रमाद्दद्याद् ब्रह्मणे च विशेषतः ।
ओं हां ब्रह्मन् गन्धरस रूपस्पर्श शब्दत्वात् ॥ ३८ ॥

शुक्लं ब्रह्माणं स्वाहेति विज्ञाप्य विसृजेत्क्रमात् ।

प्. ४८२)

पूर्ववच्छिष्य चैतन्यं स्वस्मिन्नादाय देशिकः ॥ ३९ ॥

मुखसूत्रे च तत्पश्चाद् योजयेन्नन्दिकेश्वर ।
सुयोभूमार्घ्यवारीणि शिष्य मूर्ध्नि च निक्षिपेत् ॥ ४० ॥

आत्मतत्वस्य शुद्ध्यर्थं पूर्णाहुतिमथाचरेत् ।
शुद्धेन वात्मतत्वेन विद्यातत्वं च बन्धयेत् ॥ ४१ ॥

ओं हां आत्मतत्वं च विद्यातत्वमतः परम् ।
चतुर्थ्यान्त चि तत्वं च नमोन्तं मन्त्रमुच्चरेत् ॥ ४२ ॥

ओं हां आत्मतत्व विद्यातत्वाभ्यां नमः ।

शुद्धानामप्यशुद्धानां ह्रस्वदीर्घप्रयोगतः ॥
एवं मन्त्रं समुच्चार्यं विद्यातत्वं विमर्शयेत् ॥ ४३ ॥

प्. ४८३)

शिशोर्लध्वाटवर्गान्तं विद्यातत्वं विभावयेत् ।
षडंगं व्यापकं चैव कृत्वा पुष्पादि ताडनम् ॥ ४४ ॥

पूर्ववद्विष्णुमावाह्य संपूज्य विधिना ततः ।
वक्त्रसूत्रं च संताड्य शिष्यचैतन्य संग्रहम् ॥ ४५ ॥

पूर्ववत्कारयित्वा तु प्रवेशादिति देशिकः ।
योजयेत् स्वात्मनियुतं द्वादशान्तगतं नयेत् ॥ ४६ ॥

तस्मात्प्रदेशादानीय वागीश गर्भके न्यसेत् ।
उत्पत्तिभोग संहारनाथाय जुहुयात्तदा ॥ ४७ ॥

शिवेनाष्टोत्तरशतं वह्नौ हुत्वा तु पूर्ववत् ।
मूलशक्तितिरोधानं हेतिना पूर्ववद्भवेत् ॥ ४८ ॥

प्. ४८४)

अस्त्रेण सप्तधा जप्त्वा कर्तव्याच्छेदयेत्तदा ।
विमृज्य वर्तुलीकृत्य जुहुयात्पूर्ववद्गुरुः ॥ ४९ ॥

प्रायश्चित्तं तु कर्तव्यमस्त्रेण विधिना भवेत् ।
ओं हां विष्णोर्हि संभाव्य बुद्ध्यहंकाररूपकम् ॥ ५० ॥

शुक्लं गृहाण स्वाहेति विष्णोस्तर्पणकं भवेत् ।
ओं हां विष्णो बुद्ध्यहंकाररूपं शुक्लं गृहाण स्वाहा ॥ ५१ ॥

प्रतिबन्धाय विज्ञाप्य विष्णोर्विसर्जनं भवेत् ।
आदायादाय चैतन्यं स्वात्मन्येव विशेषतः ॥ ५२ ॥

शिरः सूत्रे तु मध्ये लेपे योजयेन्नन्दिकेश्वर ।
अर्घ्यामृताम्बुबिन्दूनि शिष्य मूर्ध्नि विनिक्षिपेत् ॥ ५३ ॥

प्. ४८५)

पुष्पेण ताडनं कुर्यात् तत्रावाह्य च सादरम् ।
वह्नौ निक्षिप्य संपूज्य तर्पयेच्च यथाक्रमम् ॥ ५४ ॥

शिवं ध्यात्वाहनं पश्चात् पूजनं तर्पणं चरेत् ।
तत्पादे दीक्षयाम्येनं रुद्रं तं परिभाष्य च ॥ ५५ ॥

यदात्वनुगृहीतव्यं रुद्रं विज्ञापयेदिति ।
शिष्यचैतन्यमादाय प्रविश्यान्तस्ततो गुरुः ॥ ५६ ॥

स्वात्मन्येव स्थितं कृत्वा गुरुमण्डलगं यजेत् ।
उद्भवेन तमादाय वागीशीगर्भनालके ॥ ५७ ॥

नियोजयेत्क्रमाद्भूयो जनित स्याहुतित्रयम् ।
मूलं न कुर्यादंगैच्च हेतिना होममारभेत् ॥ ५८ ॥

प्. ४८६)

तिरोधानाय पाशानां शोधनाय विशेषतः ।
पाशानां छेदनाद्दाह प्रायश्चित्तं च पूर्ववत् ॥ ५९ ॥

रुद्रस्य पूजनं कृत्वा तस्य शुक्लसमर्पणम् ।
ओं हां रुद्र मनो बिन्दुस्वरूपं शुक्लकं तथा ॥ ६० ॥

गृहाण स्वाहायान्तं तु मन्त्रमेतदुदीरितम् ।
तिरोधानाय पाशानां शोधनाय विशेषतः ॥ ६१ ॥

पाशानां छेदनं दाहं प्रायश्चित्तं च पूर्ववत् ।
रुद्रस्य पूजनं कृत्वा तस्य शुक्लसमर्पणम् ॥ ६२ ॥

ओं हां रुद्र मनोबिन्दुस्वरूपं शुक्लकं तथा ।
गृहाण स्वाहायान्तं तु मन्त्रमेतदुदीरितम् ॥ ६३ ॥

ओं हां रुद्र मनोबिन्दुशुक्लगृहाण स्वाहा ।

प्. ४८७)

संपूज्य विधिना चेशं विसृजेत्तदनन्तरम् ।
ब्रह्मन्शिष्यस्य चैतन्यं निवेश्य क्षणमादरात् ॥ ६४ ॥

रेचकेनाति संशुद्धं शिरस्सूत्रे कृतन्नयेत् ।
अमृतोपमस्य बिन्दूनि शिष्यमूर्धनि निक्षिपेत् ॥ ६५ ॥

शिवतत्वस्य शुद्ध्यर्थं पूर्णाहुतिमथाचरेत् ।
ओं हुं शिखायै हुंफडितिमन्त्रेण नेत्रजप्तधा ॥ ६६ ॥

कर्तर्या हेतिना चैवच्छेदयेत्पूर्ववच्छिखाम् ।
गोमयान्तं निवेश्यैनां आज्यपूर्णं सृचि स्थितम् ॥ ६७ ॥

तच्छिखां च विधानेन होमयेत्क्षालयेत्सृचम् ।
देशिकोपि ततः स्नायाद् भस्मना भावसंयुतः ॥ ६८ ॥

प्. ४८८)

वारिभिः स्नापयेच्छिष्यं क्रमादुक्तविधानतः ।
तस्मिन्योजन विस्तीर्णं चैतन्यं च शिशोः पुनः ॥ ६९ ॥

योजयित्वा विधानेन सृक्सृवौ मूर्ध्नि विग्रहम् ।
ब्रह्मादिकारणानां च त्यागमन्त्रैस्समुच्चरन् ॥ ७० ॥

शिवोहमित्यहंकारी बोधरूपं परे शिवे ।
आज्यधारां च विसृजेच्छिष्यात्मानं नियोजयेत् ॥ ७१ ॥

भक्तिः शान्तिश्च विश्वासो गुर्वाज्ञा पालनं तथा ।
चलस्मथ समायुक्तः सर्वक्लेशविवर्जितः ॥ ७२ ॥

गुरुद्रोह शिवद्रोह समयद्रोह एव च ।
अदीक्षितस्य बन्धुत्वं कृतघ्नत्वाविवेकता ॥ ७३ ॥

प्. ४८९)

परदोषावलोकश्च सदादोषावलोकनम् ।
एतैरष्टगुणैर्हीनो गुर्वाज्ञापालनादिकः ॥ ७४ ॥

पूर्वोक्तैश्च गुणैस्सर्वैः प्रपञ्चाचारवर्जितः ।
आगमोक्तगुणैर्युक्तो गुरुध्यानपरायणः ॥ ७५ ॥

एवमादीनि तस्योक्त्वा बहिस्तमभिषेचयेत् ।
एवं त्रितत्वपक्षान्ते प्रोक्तं तत्सर्वमाचरेत् ॥ ७६ ॥

इत्यचिन्त्य विश्वसादाख्ये त्रितत्वकर्मविधिस्त्रयोविंशतिः पटलः ॥



मन्त्रस्य साधनं वक्ष्ये सर्वसिद्धिकरं परम् ।
चक्रं मन्त्रं ततो ध्यानं वक्ष्येऽहं नन्दिकेश्वर ॥ १ ॥

प्. ४९०)

प्रक्षाल्य पाणिपादौ च विध्युक्ताचमनं चरेत् ।
रुचिरासनमादाय शोधयेदस्त्र मन्त्रतः ॥ २ ॥

करन्यासं प्रकुर्वीत पूजयेन्न्यासदेवताम् ।
शिरोर्ध्वं पूजयेत्पद्मं पूजयेद्गुरुमण्डलम् ॥ ३ ॥

ततो गुरुप्रधानेन त्रितत्वं ध्याययेत्तदा ।
एतन्मन्त्रं प्रवक्ष्यामि सर्वमन्त्रैकनायकम् ॥ ४ ॥

नादं कालसमोपेतं प्रणवेनैव संयुतम् ।
गुणार्णवे शिवश्रीश्रीशिवाय च नमोन्तकम् ॥ ५ ॥

जपेन्मन्त्रमिति ख्यातं कल्पयेच्चक्रकं पुनः ।
साधकस्याग्रके पृष्ठे कल्पयेत्प्रणवद्वयम् ॥ ६ ॥

प्. ४९१)

तस्य बाह्ये तु परितो गणनागे प्रकल्पयेत् ।
तद्बाह्ये वृत्तमालिख्य प्रतिदिक्छूलकं न्यसेत् ॥ ७ ॥

तद्बहिश्चतुरग्रेषु चतुष्कोणेषु लेखयेत् ।
स्तम्भिनी मोहिनी चैव जम्भिनी हंसिनी तथा ॥ ८ ॥

शक्तीनां चैव चत्वारि मातृकाक्रमतो भवेत् ।
स्तम्भिने स्तम्भिनी स्वाहा मोहिने मोहिनी स्वाहा ॥ ९ ॥

हस्तिने हस्तिनी स्वाहा ।
मन्त्राण्येतानि चोच्चार्य चतुर्दिक्षु प्रपूजयेत् ॥ १० ॥

खड्गखेटधरास्सर्वे भीमरूपा महाबलाः ।
प्रदक्षिण क्रमेणैव ध्यानं कृत्वा विशेषतः ॥ ११ ॥

प्. ४९२)

एतच्चक्रस्य मध्ये तु ध्यायेत्तत्र त्रिमूर्तिकाः ।
मूलाधारे तथा रुद्रं ब्रह्माणं हृदयेपि च ॥ १२ ॥

भ्रूमध्ये विष्णुमेवात्र त्रिषु स्थानेषु कल्पयेत् ।
पावकेन निभं रुद्रमेकास्यं त्र्यक्षरं विभुम् ॥ १३ ॥

चतुर्भुजसमायुक्तं वरदाभयसंयुतम् ।
परश्वधं मृगं चैव दधानं सर्वभूषितम् ॥ १४ ॥

जटामकुटसंयुक्तमाधिनं शक्तिसंयुतम् ।
ब्रह्माणं हृदये ध्यायेत् कनकाभं चतुर्भुजम् ॥ १५ ॥

चतुरानन संयुक्तं प्रतिवक्त्रं त्रिलोचनम् ।
अक्षमालां कुण्डिकां च दधानं च द्विहस्तकम् ॥ १६ ॥

प्. ४९३)

सावित्र्या च सरस्वत्या उत्तरे दक्षिणेपि च ।
आसीनं शक्तिसंयुक्तं पूजयेद्विधिना सह ॥ १७ ॥

भ्रूमध्ये स्थापयेद्विष्णुं श्यामवर्णं त्रिणेत्रकम् ।
चतुर्बाहु समायुक्तं शंखचक्र समन्वितम् ॥ १८ ॥

वरदाभयसंयुक्तं सर्वाभरणभूषितम् ।
किरीटमकुटोपेतं पीताम्बरधरं हरिम् ॥ १९ ॥

एवं ध्यात्वा विशेषेण भक्त्य सह सुसंस्थितम् ।
कर्णिकोर्ध्वे त्रिकोणे तु कल्पयेत्कल्पवित्तमः ॥ २० ॥

एवं ध्यात्वा सदायोगी पूजयेद्विधिना सह ।
पूजान्ते तु यथा न्यायं भावयेज्ज्योतिरुत्तमम् ॥ २१ ॥

प्. ४९४)

मूलाधारात्समारभ्य शिवान्तं तु विचिन्तयेत् ।
शिवस्थाने स्थितं कृत्वा चिन्तयेदमृतं बुधः ॥ २२ ॥

विष्णुस्थाने व्रजेत्पश्चात् ब्रह्मस्थाने व्रजेत्ततः ।
रुद्रस्थाने विशेद्योगी भावयेत्तु विशेषतः ॥ २३ ॥

पूजयेद्गन्धपुष्पाद्यैः त्रितत्वं तु समाहितः ।
भक्ष्यभोज्यादि तत्सर्वं रुद्रस्थाने विशेषतः ॥ २४ ॥

सदिध्यानं सदामन्त्रं गुरुभक्तिं च कारयेत् ।
आज्ञासिद्धिमवाप्नोति पाशांकुश निवारणात् ॥ २५ ॥

कारणानां त्रयाणां च ध्यानाज्जन्मनिवारणात् ।
तस्मात्सर्व प्रयत्नेन त्रितत्वं भावयेत्सदा ॥ २६ ॥

योगज्ञानं समासाद्य क्रमान्मोक्षाय वैभवेत् ॥ २६ १/२ ॥

इत्यचिन्त्यविश्वसादाख्ये (त्रितत्व भावना) चतुर्विंशतिः पटलः ॥



प्. ४९५)

समयादिति तत्वानां प्रोक्ता दीक्षा विशेषतः ।
साधारण गुणानां च शिष्याणां च विधीयते ॥ १ ॥

अतीवगुणसंपन्नौ पतिशिष्यौ विशेषतः ।
एकतत्वं क्रियादीक्षा तस्य वै पाशमोचनम् ॥ २ ॥

यदि वा सर्वदीक्षाश्च कारयेन्नन्दिकेश्वर ।
प्रायश्चित्तार्थकत्वेऽपि देशिकस्यार्चया परा ॥ ३ ॥

मण्डपं मण्डलं कुम्भं लिंगार्चन मतस्तदा ।
अग्निकार्यं च चार्घ्यं च मन्त्राणां दीपनादिकम् ॥ ४ ॥

पूर्ववत्कर्म कुर्वीत देशिको भावसंयुतः ।
पूर्ववत्सूत्रबन्धं च कुर्याच्छिष्यस्य मूर्धनि ॥ ५ ॥

प्. ४९६)

कालाग्न्यादिशिवान्तं तु कल्पयेत्तत्वकं क्रमात् ।
रक्तौ संसूतसूतां वा शिवतत्वाग्रकं न्यसेत् ॥ ६ ॥

आवाहनादिकं सर्वं पूर्ववन्नन्दिकेश्वर ।
गर्भाधानादिकं कृत्वा शिवमग्नौ तु पूजयेत् ॥ ७ ॥

शिवमन्त्रेण कर्तव्यं सर्वशुक्ल निवेदनम् ।
मूलेन पूर्णां जुहुयात् तत्र प्रातोपगर्भितम् ॥ ८ ॥

पाशनिर्वाणमेवं हि शिवसायुज्य सिद्धये ।
शतमूलेन जुहुयात् स्थिरत्वात्पाशनाशने ॥ ९ ॥

मण्डलस्यावलोकं च नामाचारादि पूर्ववत् ।
शरीरमर्थं प्राणश्च सद्गुरुभ्यो निवेदयेत् ॥ १० ॥

प्. ४९७)

येन केन प्रकारेण गुरु संतोषणं परम् ।
एवमादि क्रियादीक्षासंपन्नो गुणसत्तमः ॥ ११ ॥

स एव योगदीक्षायामधिकारी च नान्यथा ॥ ११ १/२ ॥

इत्यचिन्त्य विश्वसादाख्ये (योगदीक्षाधिकारः) पञ्चविंशतिः पटलः ॥



योगदीक्षां प्रवक्ष्यामि शृणुत्वन्नन्दिकेश्वर ।
युजियोग इति धात्वर्थे यज्जीवश्शिवयोरपि ॥ १ ॥

संश्लेषो योग इत्युक्तः सहमार्ग इति स्फुटम् ।
असद्भाव क्षयत्वं च ज्ञानसद्भावभावकम् ॥ २ ॥

शिवतत्वेति संयोगो योगदीक्षेति कथ्यते ।
मण्डलं मण्डपं कुण्डं कुंभं देवार्चनादिकम् ॥ ३ ॥

प्. ४९८)

पूर्वोक्तगुणसंयुक्तं यमैर्नियमिभिर्गतम् ।
अत्यन्त इव संप्राप्तवाञ्चायुक्त मलोलुपम् ॥ ४ ॥

एवं विधगुणैर्युक्तं दीक्षयेच्छिष्यमुत्तमम् ।
मन्त्रदीपात्ततृप्तादि पूर्ववन्नन्दिकेश्वर ॥ ५ ॥

अग्निकार्यं तु तत्सर्वं पूर्वोक्तविधिना चरेत् ।
वागीश्वरीं च वागीशं पूर्ववत्पूजयेद्गुरुः ॥ ६ ॥

शिष्य वक्षसि पुष्पेण भेदनादि च पूर्ववत् ।
गर्भाधानादि संस्कारं पूर्ववद्विधिना चरेत् ॥ ७ ॥

ततः शिष्यस्य देहेऽपि दशनाडीश्च चिन्तयेत् ।
इडा च पिंगला चैव सुषुम्ना च तथा भवेत् ॥ ८ ॥

प्. ४९९)

गन्धारी सप्तजिह्वा च पूषा चैव यशस्विनी ।
अलम्बुषा कुहूश्चैव शंखिनी दशमी स्मृता ॥ ९ ॥

प्राणादिवायवश्चैव चतुर्दश समन्विताः ।
प्राणश्च प्रथमो वायुरपानो व्यान एव च ॥ १० ॥

उदानश्च समानश्च नागः कुर्मञ्च सप्तमः ।
कृकरो देवदत्तश्च धनञ्जय इतीरितः ॥ ११ ॥

वैवन्तो मुख्यकश्चैव अन्तर्यामि प्रपञ्चकम् ।
एवं चतुर्दश प्रोक्ताः प्राणाद्या वायवस्त्वमी ॥ १२ ॥

तासु नाडिषु सर्वासु वायवो.पि चरन्ति च ।
स्वस्वस्थाने तु नाडीनां वायूनां स्थापनं भवेत् ॥ १३ ॥

प्. ५००)

प्रणवेन च शक्त्या च शतबीजजपादिभिः ।
स्थापयेत्पूजयेद् ध्यात्वा शिवरूपं च भावयेत् ॥ १४ ॥

नाडीनां च त्रयो मुख्याः सुषुम्नेडा च पिंगला ।
तासामपि सुषुम्नायां मुख्यत्वं च प्रकीर्तितम् ॥ १५ ॥

तन्मध्ये ब्रह्मनाडीति शिवशक्त्यालयं परम् ।
मूलाधारं समारभ्य ब्रह्मरन्ध्रावसानकम् ॥ १६ ॥

अस्य स्थितश्च विज्ञेयो नवधारोपलक्षिताः ।
गुदं मेढ्रान्तरं चैव लीनमूलमनन्तरम् ॥ १७ ॥

ततश्च हृदयं पश्चात् कर्णमूलमनन्तरम् ।
तालुमूलं च कोदण्डद्वयोर्मध्यमनन्तरम् ॥ १८ ॥

प्. ५०१)

ललाटं ब्रह्मरन्ध्रं च नवाधारा इतीरिताः ।
मूलाधारं चतुष्पत्रं तदूर्ध्वं षड्दलं भवेत् ॥ १९ ॥

अष्टपत्रं ततस्तस्मादनाहतमितीरितम् ।
कण्ठं च द्वादशं प्रोक्तं षोडशं तालुमूलकम् ॥ २० ॥

तद्वल्ललाट भ्रूमध्यं शिवस्थानमनन्तरम् ।
षष्ट्युत्तरत्रिशतकं वर्णभेदात्क्रमात्स्मरेत् ॥ २१ ॥

हेमाभं स्फटिकाभं च वह्निरूपमनन्तरम् ।
तरुणादित्यसंकाशं भास्वरद्युतिसन्निभम् ॥ २२ ॥

सर्वतेजोमयं पश्चान् मनोवाचामगोचरम् ।
एषु स्थानेषु ब्रह्माद्यान् कारणांश्च प्रकल्पयेत् ॥ २३ ॥

प्. ५०२)

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
क्रियाशक्ति ज्ञानशक्तिरिच्छाशक्तिः शिव परम् ॥ २४ ॥

वह्निसूर्येन्दुबिम्बानां स्थानं तत्रैव भावयेत् ।
वह्निमण्डलकं नाभौ हृदये सूर्यमण्डलम् ॥ २५ ॥

कोदण्डद्वयमध्ये च चन्द्रमण्डलमीरितम् ।
क्रियाशक्तौ च बिन्दुश्च ज्ञानशक्तौ तु नादकम् ॥ २६ ॥

इच्छाशक्तौ कलाप्रोक्ता तत्रैव परमामृतम् ।
तदूर्ध्वं तु शिवस्थाने चानन्दामृतमुत्तमम् ॥ २७ ॥

एवं ध्यात्वा तु तन्मध्ये मन्त्राणां नवकं स्मरेत् ।
अर्ध्यतोयेन संप्रोक्ष्य शिष्यदेहे तु देशिकः ॥ २८ ॥

प्. ५०३)

कुण्डस्थ वह्नि ज्वलनं वायुना च यथा भवेत् ।
तद्वदाधारदेशस्थं तत्तन्मन्त्रमुदीरयेत् ॥ २९ ॥

मूलाधारे च तारं च मरालं शक्तिशंभुयुक् ।
नवदर्भाग्रकोणैव नववारं जपेत्क्रमात् ॥ ३० ॥

बिन्दुनादकलायुक्तं ब्रह्मरन्ध्रावसानकम् ।
बिसतन्तुनिभज्योतिरुच्चरेद्देशिकोत्तमः ॥ ३१ ॥

ज्वलद्दीपशिखाकारं मन्त्ररूपं विभावयेत् ।
अन्योन्यं विद्युदुद्योतं सूत्रसूत्रोपरि स्थितम् ॥ ३२ ॥

मूलाधारमिदं चोद्यत् स्वाधिष्ठानमनन्तरम् ।
शिवतन्त्रं समुच्चार्य देवदेवं तु पूजयेत् ॥ ३३ ॥

प्. ५०४)

कर्णमूले क्रियाशक्तिं भृगुं च मनुयुक्स्वरः ।
चन्द्रखण्डद्वयं चैव मन्त्रोच्चारणदीपनम् ॥ ३४ ॥

भौतिकं बिन्दुसंयुक्तं क्रोशं पार्थिवेन तु ।
महामायां च संयोज्य बीजद्वयमुदीरितम् ॥ ३५ ॥

इन्द्राग्निसूर्यसंकाशं भावयेद्देशिकोत्तमः ।
तस्मादारभ्यकोदण्डयुग्ममध्यं तु भावयेत् ॥ ३६ ॥

सूर्यं चाग्निसमप्रख्यं ज्ञानबिम्बे तु भावयेत् ।
ज्ञानबिम्बाच्च तस्मात्तु चन्द्रपिण्डामतः परम् ॥ ३७ ॥

पूर्वं वह्निं च सूर्येन्दू भावयेज्ज्योतिरुत्तमम् ।
शिवबीजं शिवस्थाने भावयेन्नन्दिकेश्वर ॥ ३८ ॥

प्. ५०५)

एवं ध्यात्वा च संपूज्य स्वस्मिन्पूज्य च शिष्यके ।
पूजयित्वा विधानेन सूत्रविन्यासमाचरेत् ॥ ३९ ॥

शिखादीपं च सूत्राणां परिमाणं च भावयेत् ।
चुबुकान्तं हृदान्तं च नाभ्यन्तं विष्णुदेशकम् ॥ ४० ॥

मूलाधारगतं चैव पञ्चसूत्राणि विन्यसेत् ।
एवं पञ्चविधं सूत्रं शिष्यस्य शिखयान्वितम् ॥ ४१ ॥

श्रोत्रत्वक्चक्षुर्जिह्वा च घ्राणं चैव तु पञ्चकम् ।
वाक्पाणिपादौ पायुश्च वरांगमिति पञ्चकम् ॥ ४२ ॥

शब्दःस्पर्शश्च रूपं च रसो गन्धश्च पञ्चकम् ।
वचनादानगमनं विसर्गानन्दपञ्चकम् ॥ ४३ ॥

प्. ५०६)

तत्वानां विंशतिं चैव मुखसूत्रे तु विन्यसेत् ।
हृत्सूत्रे तु मनोबुद्धिरहंकारत्रयं न्यसेत् ॥ ४४ ॥

चित्तं च रागो मायां च कलान्तन्नाभिसूत्रके ।
विद्यां च नियतिं कालं सदधिष्टान सूत्रके ॥ ४५ ॥

शुद्धमाया शुद्धकला द्वादशं भावयेत्क्रमात् ।
प्रोक्षणं ताडनं चैव हेतिना च विशेषतः ॥ ४६ ॥

संप्रविश्य च हुंकार युक्तरेचकयोगतः ।
अजपां तस्य चैतन्यविश्लेषं पूर्ववद्भवेत् ॥ ४७ ॥

संहारमुद्रया सूत्रे मुखे चैव नियोजयेत् ।
ओं हां हं हां स्वात्मने नमः ॥ ४८ ॥

प्. ५०७)

व्यापकं रक्षणं चैव सन्निधानाहुतिं तथा ।
निवृत्यालोकनं चैव पूजनं पूर्ववच्चरेत् ॥ ४९ ॥

एवमन्येषु सूत्रेषु नाडीभूमेषु योजयेत् ।
शिष्यचैतन्यमाकृष्य स्वात्मन्येव नियोजयेत् ॥ ५० ॥

पूर्ववत्पिड संयोगं भावयेन्नन्दिकेश्वर ।
गर्भाधानादि संस्कारं पूर्ववद्विधिना चरेत् ॥ ५१ ॥

ततो विसृज्य वागीशीं वागीशं च तथैव च ।
विमलासनमावाह्य पूजयित्वा विधानतः ॥ ५२ ॥

तस्मै शुक्लाय वैदद्यात् श्रोत्राद्यानन्दनावधि ।
तारं च शक्तिमुपगं ब्रह्मानन्दैकमुच्चरेत् ॥ ५३ ॥

प्. ५०८)

ततस्तत्वं च सोहं च शिरसा च भजेत्क्रमात् ।
ओं ह्रीं हंसः ब्रह्मणे श्रोत्रं सोहं स्वाहा ॥ ५४ ॥

ओं ह्रीं हंसः ब्रह्मणे जिह्वा सोहं स्वाहा ।
ओं ह्रीं हंसः ब्रह्मणे घ्राणं सोहं स्वाहा ॥ ५५ ॥

ओं ह्रीं हंसः ब्रह्मणे वाचि सोहं स्वाहा ।
ओं ह्रीं हंसः ब्रह्मणे पाणिं सोहं स्वाहा ॥ ५६ ॥

ओं ह्रीं हंसः ब्रह्मणे पादं सोहं स्वाहा ।
ओं ह्रीं हंसः ब्रह्मणे पायुं सोहं स्वाहा ॥ ५७ ॥

ओं ह्रीं हंसः ब्रह्मणे उपस्थं सोहं स्वाहा ।
ओं ह्रीं हंसः ब्रह्मणे शब्दं सोहं स्वाहा ॥ ५८ ॥

प्. ५०९)

ओं ह्रीं हंसः ब्रह्मणे स्पर्शं सोऽहं स्वाहा ।
ओं ह्रीं हंसः ब्रह्मणे रूपं सोहं स्वाहा ॥ ५९ ॥

ओं ह्रीं हंसः ब्रह्मणे रसं सोहं स्वाहा ।
ओं ह्रीं हंसः ब्रह्मणे गन्धं सोहं स्वाहा ॥ ६० ॥

ओं ह्रीं हंसः ब्रह्मणे वचनं सोहं स्वाहा ।
ओं ह्रीं हंसः ब्रह्मणे आदानं सोहं स्वाहा ॥ ६१ ॥

ओं ह्रीं हंसः ब्रह्मणे गमनं सोहं स्वाहा ।
ओं ह्रीं हंसः ब्रह्मणे विसर्गं सोहं स्वाहा ॥ ६२ ॥

ओं ह्रीं हंसः ब्रह्मणे आनन्दं सोहं स्वाहा ।
एतैर्विंशतिभिर्मन्त्रैर्ब्रह्मशुक्लं निवेदनम् ॥ ६३ ॥

प्. ५१०)

निश्शेषदग्धपाशस्य ब्राह्मणस्य शिशोःस्वाहा ।
बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति ॥ ६४ ॥

मुखसूत्रं समादाय वर्तुलीकृत्य पूर्ववत् ।
आज्यपूर्णस्रवे दत्वा चास्त्रमन्त्रेण होमयेत् ॥ ६५ ॥

कुम्भस्थ सव्यनाड्या च ब्रह्माणं विसृजेत्तदा ।
मूलाधारे च संस्थाप्य पूजयेन्नन्दिकेश्वर ॥ ६६ ॥

विष्णो तवाधिकारेण मुमुक्षुं दीक्षयाम्यहम् ।
भाव्यं त्वयानुकूल्येन विष्णुं विज्ञापयेदिति ॥ ६७ ॥

विष्णुशुक्लं ततः कुर्यान् मनोबुद्धिरहंकृतम् ।
पूज्य मन्त्रं च तारं च द्विरुच्चार्याथ होमयेत् ॥ ६८ ॥

प्. ५११)

ओं ह्रीं हंसः विष्णवे मनः सोहं स्वाहा ।
ओं ह्रीं हंसः विष्णवे बुद्धिस्सोहं स्वाहा ॥ ६९ ॥

ओं ह्रीं हंसः विष्णवे अहंकारं सोहं स्वाहा ।
एवं शिष्यं च दद्यात्तु गोविन्दं विसृजेत्तदा ॥ ७० ॥

अधिष्ठाने तमावाह्य स्थापयेद्विसृजेत्क्रमात् ।
हृदन्तसूत्रमानीय वर्तुलीकृत्य पूर्ववत् ॥ ७१ ॥

घृतपूर्णसृवे दत्वा हेतिमन्त्रेण होमयेत् ।
कलंकपञ्चकद्व्यंशमुक्तचन्द्रनिभं शुभम् ॥ ७२ ॥

भावयेत्स्वप्यतोप्येनं सुषुप्तौ तु नियोजयेत् ।
नाभिसूत्रेण चैतन्यमर्घ्यतोयेन पूजयेत् ॥ ७३ ॥

प्. ५१२)

ताडनादिक्रमं सर्वं संस्कारान्तं तु पूर्ववत् ।
रुद्रमावाह्य संपूज्य स्थिरत्वादिसमन्वितम् ॥ ७४ ॥

निश्शेषदग्धपाशस्य रुद्रस्य च शोस्त्वया ।
बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति ॥ ७५ ॥

रुद्राय पूर्ववच्छल्कं भक्तियुक्तौ प्रतापयेत् ।
चित्तं च रागं मायां च कलां तत्रैव दापयेत् ॥ ७६ ॥

ओं ह्रीं हंसः रुद्राय चित्तं सोहं स्वाहा ।
ओं ह्रीं हंसः रुद्राय रागं सोहं स्वाहा ॥ ७७ ॥

ओं ह्रीं हंसः रुद्राय मायां सोहं स्वाहा ।
ओं ह्रीं हंसः रुद्राय कालं सोऽहं स्वाहा ॥ ७८ ॥

प्. ५१३)

एभिर्मन्त्रैश्च शुक्लं च दापयेद्भक्तिसंयुतः ।
मणिपूरकदेशे तु रुद्रं तं स्थापयेत्क्रमात् ॥ ७९ ॥

कलंकं त्र्यंशहीनं च चन्द्रबिम्बसमप्रभम् ।
सुषुप्तावणुमावाह्य पूजयेद्धृदयाणुना ॥ ८० ॥

निश्शेषदग्धपाशस्य पशोरस्य शिशोस्त्वया ।
बन्धाय न पुनःस्थेयं शिवाज्ञां श्रावयेदिति ॥ ८१ ॥

ईश्वराय पुनः शुक्लं दापयेन्नन्दिकेश्वर ।
विद्यां च नियतिं कालं पूर्ववन्मन्त्रसंपुटम् ॥ ८२ ॥

ओं ह्रीं हंसः ईश्वराय विद्यां सोहं स्वाहा ।
ओं ह्रीं हंसः ईश्वराय नियतिं सोहं स्वाहा ॥ ८३ ॥

प्. ५१४)

ओं ह्रीं हंसः ईश्वराय कालं सोहं स्वाहा ।
एतैश्शुक्लप्रदानं च कुर्याद्भक्तिसमन्वितः ॥ ८४ ॥

तस्मादीश्वरमावाह्य स्थापयेद्धृदयाम्बुजे ।
पूजयित्वा विधानेन भक्तियुक्तो जितेन्द्रियः ॥ ८५ ॥

अधिष्ठानगतं सूत्रमादायोद्धृत्य पूर्ववत् ।
आज्यपूर्णसृगग्ने तु निधायास्त्रेण होमयेत् ॥ ८६ ॥

पाशांकुशनिवृत्त्यादिपूर्णाहुति विधिं चरेत् ।
कलंकं चतुरश्रं व हीनं चन्द्रमसाकृतिम् ॥ ८७ ॥

तुरीयं नदिते येता पर ** त्मरूपकम् ।
ताडनादि विधानं च संस्कारान्तं च पूर्ववत् ॥ ८८ ॥

प्. ५१५)

सदाशिवं तमावाह्य पूजयेद्भक्तिपूर्वकम् ।
शुद्धमायां शुद्धकलां शुक्लं दद्यात्समाहितः ॥ ८९ ॥

मूलमन्त्रेण संयोज्य पूर्व मन्त्रैश्च होमयेत् ।
ओं ह्रीं हंसः हौं सदाशिवाय शुद्धमायां सोहं स्वाहा ॥ ९० ॥

ओं ह्रीं हंसः हौं सदाशिवाय शुद्धकलां सोहं स्वाहा ।
एवं शुक्लप्रदानं च कर्तव्यं नन्दिकेश्वर ॥ ९१ ॥

निश्शेषदग्धपाशस्य देवस्य च शिशोस्त्वया ।
बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति ॥ ९२ ॥

विशुद्धदेहे चाबाह्य सादाख्यं तत्वमुत्तमम् ।
स्थापनं पूजनं चैव कारयेद्भक्तिसंयुतः ॥ ९३ ॥

प्. ५१६)

आधाय सूत्रमादाय वर्तुलीकृत्य पूर्ववत् ।
सृगग्रे घृतपूर्णे तु जुहुयाद्धृदयाणुना ॥ ९४ ॥

कलंकैरखिलैर्मुक्तं शरद्राजसमप्रभम् ।
शुद्धतेजोघनमयं चैतन्यं भावयेत्पुनः ॥ ९५ ॥

हंसमन्त्रात्समादाय प्रणवेन तु योजयेत् ।
प्रणवाच्छक्तिबीजे तु तस्मान्मूले तु योजयेत् ॥ ९६ ॥

ओं हंसः ओं ह्रीं हैन्याय हौम् ।
एतन्मन्त्रं समुच्चार्य मूलाधारे नियोजयेत् ॥ ९७ ॥

चिद्घने निर्मले शान्ते नित्ये सर्वविवर्जिते ।
शुद्धमात्मानमप्यस्मिन् योजयेच्छिव भावयेत् ॥ ९८ ॥

प्. ५१७)

मूलाधारं समारभ्य द्वादशान्तान्तकं स्मरेत् ।
नवात्मरूपकं मन्त्रमुच्चरेन्नादसंयुतम् ॥ ९९ ॥

नादं भृगुसमोपेतं संवर्तकमनन्तरम् ।
कालयुक्त महेन्द्रं च वारुणं वह्निसंयुतम् ॥ १०० ॥

मरुत् षष्ठस्वरोपेतं बिन्दुनादविभूषितम् ।
एतं नवाक्षरं पिण्डं हलमात्राभियोजयेत् ॥ १०१ ॥

अनेनैव तु मन्त्रेण दर्भाग्रेण सुसंस्पृशेत् ।
मूलाधारं समारभ्य द्वादशान्तविधिं स्मरेत् ॥ १०२ ॥

वत्सरूपं तं शिष्यं शिष्यंदेहं विभावयेत् ।
गन्धपुष्पादिभिः पूज्य प्राणादींश्च हि कारयेत् ॥ १०३ ॥

प्. ५१८)

अभिषेकं बहिः कृत्वा शिवोऽहं भावयेद्गुरुः ।
पुनर्गन्धादिभिः पूज्य शेषं पूर्ववदाचरेत् ॥ १०४ ॥

योगपट्टं पुनर्दद्यात् कवचेन विधानवित् ।
ज्ञानेन योगदीक्षायामधिवासो न विद्यते ॥ १०५ ॥

तस्माद्योगं च विसृजेद् गुरुपादं समर्चयेत् ।
हेमपुष्पोपहारैश्च हेमयज्ञोपवीतकैः ॥ १०६ ॥

मकुटैर्मुद्रिकाभिश्च सर्वाभरणकैरपि ।
विचित्ररत्ननिचयैर्भूमिगोरत्नभक्तिभिः ॥ १०७ ॥

षष्ठादिभिर्न वासैश्च गुरवे भक्तितो ददेत् ।
योगदीक्षासमायुक्तः शिवः साक्षान्महीतले ॥ १०८ ॥

इत्यचिन्त्यविश्वसादाख्ये (योगदीक्षा) षड्विंशतिः पटलः ॥



प्. ५१९)

योगिनामुपकारार्थं नाडीचक्रमिहोच्यत् ।
नाभेरधस्तात्कन्दस्य तिर्यगूर्ध्वागताननाः ॥ १ ॥

षण्णवत्यंगुलायाम स्वदेहं सर्वदेहिनाम् ।

देव * * * * * * * * * * * * चरेत् ।

स एव शिवयोगी स्यात् त्रिदशैरभिवन्दितः ॥ २ ॥

देहस्थवह्निना चैव योगाभ्यासगतेन च ।
योगी तु योगाभ्यासेन निर्णयेल्लोक संचयम् ॥ ३ ॥

गुदमेढ्रान्तरं चैव कालाग्नेर्मण्डलं भवेत् ।
त्रिकोणमुज्वलाकारंमनुजानां विशेषतः ॥ ४ ॥

पशूनां चतुरश्रं स्यात् पक्षिणां वृत्तमेव हि ।
तिरश्चां दीर्घरूपं स्याद् हृदये च चतुष्पदम् ॥ ५ ॥

प्. ५२०)

तिरश्चामण्डजानां च कन्दमध्ये प्रतिष्ठितम् ।
कन्दान्नवांगुलस्थाने मनुष्याणां च नामतः ॥ ६ ॥

तत्रैव नाड्यो वै सर्वाः प्रधानं च चतुर्दश ।
नाभिदेशे पतन्तीव द्वादशार समन्विते ॥ ७ ॥

चक्रेस्मिन्भ्रमते जीवो मलमायादिभिर्वृतः ।
ऊर्ध्वाधो भजते जीवो जाग्रादिकरणैस्सह ॥ ८ ॥

लूतिकावलये लूता यथा भ्रमति नित्यशः ।
जीवादयश्च प्राणश्च चरत्यन्वहमूर्जितः ॥ ९ ॥

प्राणारूढो भवेदात्माप्यधः कुण्डलिनी भवेत् ।
कन्दमध्ये स्थिता चैव सुषुम्ना नाडिरुत्तमा ॥ १० ॥

प्. ५२१)

वीणादण्डधनुर्दण्डमौर्वी च ब्रह्मरन्ध्रगा ।
ब्रह्मनाडी च तन्मध्ये सुषुम्ना चित्ररूपिणी ॥ ११ ॥

अव्यक्ता सव्या विज्ञेया तस्य वामे सव्यके ।
सितरक्तासितास्त्रेधा सुषुम्ना वर्णिता भवेत् ॥ १२ ॥

इडा च शंखकुन्दाभा पिंगलातपरूपिणी ।
परितो नाभिचक्रस्य प्राणवायुसमन्विता ॥ १३ ॥

इन्दोश्चारमिडायां तु पिंगलायां तु भास्करः ।
तामसश्चन्द्र एवोक्तः सूर्यो राजस उच्यते ॥ १४ ॥

मध्ये च सात्विकानाडी गुणत्रयसमन्विता ।
सरस्वती शुक्लवर्णा च सिताम्बुरुहसन्निभा ॥ १५ ॥

प्. ५२२)

  • * * * * * * * हस्तिजिह्वा च मौक्तिका ।

यशस्विनी हिमेन्द्वाभा चित्रा विश्वोदरा शुभा ॥ १६ ॥

कुहू * * * ञ्जनाभा च * * * * शंखिनी ।
पयस्विनी पयोवर्णालंबुषा पीतवर्णिका ॥ १७ ॥

मयूरकण्ठ सदृशागान्धारी वर्णतो भवेत् ।
इडामृतं विषः पिंगा बाह्या रात्रिनिभा भवेत् ॥ १८ ॥

सरस्वती कुहूश्चैव सुषुम्नापार्श्वतः स्थिते ।
इडायाः पूर्वपृष्ठे च गान्धारी हस्तिपिंगले ॥ १९ ॥

पिंगला पूर्वपृष्ठे च स्थिता पूषा यशस्विनी ।
पयस्विन्याश्च पार्श्वाभ्यां पूषा तद्वत्सरस्वती ॥ २० ॥

प्. ५२३)

चिन्याः? पार्श्वयोश्चैव गान्धारी च पयस्विनी ।
अलम्बुषा तु नन्दीश कण्ठमध्यादधः स्थिता ॥ २१ ॥

सुषुम्ना पूर्वभागे तु पिंगलां च कुहूस्तथा ।
अधश्चोर्ध्वे च विज्ञेया वारणा * * मिलिनी ॥ २२ ॥

यात्यस्य पादांगुष्ठान्तं स्थिरा चैव यशस्विनी ।
सव्यनासान्तगा तत्र पिंगलाचोर्ध्वगामिनी ॥ २३ ॥

पिंगला पृष्ठसंलीना पूषा दक्षिण नेत्रगा ।
पयस्विनी तथा नन्दिन् सव्यकर्णान्तगा भवेत् ॥ २४ ॥

जिह्वाग्रान्तं सरस्वत्याः स्थितिरत्र प्रकीर्तिताः ।
शंखिनी चोर्ध्वगा भूत्वा कण्ठान्तत्वाथ गोचरा ॥ २५ ॥

प्. ५२४)

इडायाः पृष्ठतः स्थित्वा गान्धारी वामनेत्रगा ।
इडा च सव्यनासान्तं सव्यभागे च संस्थिता ॥ २६ ॥

पादांगुष्ठान्तगा चैव हस्तिजिह्वा च वामके ।
कुक्षौ विघ्नोदय नाम मूर्तिपूर्तिविधायिनी ॥ २७ ॥

अलम्बुषा वायुमूलादधोभागे व्यवस्थिता ।
एतासामेव नाडीनां द्विसप्तति सहस्रकम् ॥ २८ ॥

नाडीजालमभूत्तत्र जीर्णावश्वत्थ पत्रवत् ।
चतुर्दश सु नाडीषु वायवोऽपि चतुर्दश ॥ २९ ॥

प्राणापानसमानाश्च उदानो व्यान एव च ।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ ३० ॥

प्. ५२५)

मुख्या वैरागकश्चैवमन्तर्यामी प्रपञ्चकम् ।
एवं चतुर्दश प्रोक्ताः प्राणाद्या वायवस्त्वमी ॥ ३१ ॥

तस्मान्नाडीषु सर्वत्र विचरन्त्येव वायवः ।
एतेषु पञ्च मुख्यासो स प्राणापानयोस्तयोः ॥ ३२ ॥

प्राणश्च मुख्यस्सर्वेषां वायूनां प्राणिनामयम् ।
आस्य नाडिकयोर्मूले निश्वासोच्छ्वासवृत्तिकः ॥ ३३ ॥

प्रयाणं कुरुते प्राणो हृन्मध्ये नाभिमध्यमे ।
तस्मात्प्राणस्य मुख्यत्वं अपानस्यापि वर्तनम् ॥ ३४ ॥

अन्नपानादिकं सर्वमधो नयति देहिनाम् ।
शकृन्मूत्रेन्द्रियाणां च निस्सारस्तेन वै भवेत् ॥ ३५ ॥

प्. ५२६)

अंगानां च विनामं च व्यानश्च कुरुते भृशम् ।
उदानो मुखनेत्रे तु कम्पयत्यधरोष्ठकम् ॥ ३६ ॥

गात्रमर्माणि सर्वत्र तोदं च कुरुते भृशम् ।
समानः सर्वगात्रेषु संख्यायैव व्यवस्थितः ॥ ३७ ॥

पीतं भुक्तं सर्वरसं व्यापयन्नग्निना सह ।
द्विसप्तति सहस्राणां नाडीनां मध्यमे चरेत् ॥ ३८ ॥

स्वयं नयति गात्रेषु समानस्य गतिस्तथा ।
नागस्योद्गारकं कृत्यं कूर्मोन्मीलनिमीलनम् ॥ ३९ ॥

कृकरं क्षुतकं चैव देवदत्तो विजृम्भणे ।
धनंजयो घोषयुतः प्राणहीनं न मुञ्चति ॥ ४० ॥

प्. ५२७)

मुख्योऽपि मनसा युक्तो वैरम्भो बुद्धिसंयुतः ।
अन्तर्याम्यप्यहंकारी प्रपञ्चश्चित्त संयुतः ॥ ४१ ॥

राजावर्तनिभः प्राणो वह्निवज्ज्वलते सदा ।
जठरस्थं जलं चान्नं विभजेदग्निना सह ॥ ४२ ॥

वह्नौ जलं पुरः स्थाप्य चान्नादिन जलोपरि ।
इन्द्रगोपकसंकाशं तदधोऽपान एव च ॥ ४३ ॥

ज्वलनं दीप्य तत्रैव वायुनापानगः शनैः ।
अत्युष्णजलसंयुक्तमन्नं व्यंजन संयुतम् ॥ ४४ ॥

मलाशयस्य तिर्योऽथ द्रव पक्वं करोत्तदा ।
स्वेदमूत्रं बहिर्गच्छेत् रसं वीर्य क्रमाद्भवेत् ॥ ४५ ॥

प्. ५२८)

रसाच्छ्रोणितमुत्पन्नं रुधिरान्मांस संभवः ।
मांसान्मेदोपसंक्रान्तं मेदसो स्नायुरस्थिके ॥ ४६ ॥

अस्थिनापि च मज्जास्यान्मज्जा सामोजसा सह ।
शकृज्जातं क्रमादेवं सप्तधा धातुरुच्यते ॥ ४७ ॥

विद्युदग्निसमप्रख्ये व्यानेऽप्युदानदारकम् ।
उदानं पद्मकिञ्जल्कसन्निभाग्नि समप्रभम् ॥ ४८ ॥

गोक्षीरधवलाकारः समानः प्रोक्षणे रतः ।
कुसुम्भपुष्पसदृशो हिक्काभीति प्रवर्तकः ॥ ४९ ॥

पीतवर्णः स कूर्मः स्याज्जाड्य रोमाञ्च कम्पकृत् ।
कृकरः कृष्णवर्णः स्याद् भ्रूविक्षेपं च कारयेत् ॥ ५० ॥

प्. ५२९)

अग्निवर्णो देवदत्तः तन्द्रीकुम्भादि कर्मकृत् ।
श्वेतो धनंजयः प्रोक्तो देहधारणके रतः ॥ ५१ ॥

एवं भोजश्च संकल्प संविभागो भवेत्तदा ।
सूतादिदोष निर्मुक्तोऽप्यन्नदोष विवर्जितः ॥ ५२ ॥

सर्वानुग्रह सिद्ध्यर्थं शिवप्राप्तिः क्रमाद्भवेत् ।
यमस्तु दशधा प्रोक्तो नियमः प्रोच्यते तथा ॥ ५३ ॥

शौचं तपश्च संतुष्टिः स्वाध्यायेश्वरपूजनम् ।
सिद्धान्तश्रवणं भव्यं ह्री ता च जपं हुतम् ॥ ५४ ॥

वारुणाग्नेयतीर्थानां कायशुद्धिर्भवेद्ध्रुवा ।
अकृत्वावर्जनादेव कर्मशुद्धिरथोच्यते ॥ ५५ ॥

प्. ५३०)

सत्येन वाचा शुद्धिः स्याद्दीक्षायास्सर्वशुद्धये ।
शौचं तु षड्विधं प्रोक्तं तपश्चान्द्रायणादिकम् ॥ ५६ ॥

तपस्संतापनं त्वर्थे चेन्द्रियाणां च शोधनम् ।
कृच्छ्रादिभिः कायदोषः कारणानां च शोषणम् ॥ ५७ ॥

अकृत्य भोगसंशोषो मदमात्सर्यवर्जनम् ।
तपोरूपमिदं प्रोक्तं योगसाधनमुत्तमम् ॥ ५८ ॥

अल्पलाभेन तृप्तः स्यात्संतोषः पूर्ववद्भवेत् ।
सर्वदा दुःखमाप्नोति सर्वेणः परिपूरणः ॥ ५९ ॥

शैवागमस्याध्ययनं तदभिन्न पुराणकम् ।
आत्मानुष्ठान योग्येषु प्रदेशेष्ववलोकनम् ॥ ६० ॥

प्. ५३१)

नित्यमभ्यसनं चैव स्वाध्यायमिति कीर्तितम् ।
अनेनैव तु मूर्तिः स्यात् प्रसिद्धं नन्दिकेश्वर ॥ ६१ ॥

लिंगार्चनादि तत्सर्वं पूजनं पूर्वमीरितम् ।
स्वगुरोर्भक्ति संयुक्तो देशकालानुरोधनात् ॥ ६२ ॥

अविरोधजनैस्सर्धमयोग्यैरास्तिक्य संयुतः ।
सिद्धान्तश्रवणं चैव सिद्धान्तश्रवणं भवेत् ॥ ६३ ॥

गुरुस्वातन्त्र्य संयुक्तः स्वस्वातन्त्र्यविवर्जितः ।
कुलालहस्तमृत्स्नेव गुर्वाज्ञा पालनामतः ॥ ६४ ॥

भव्यमेतत्स्वरूपं हि शापानुग्रहहेतुकम् ।
आगमोक्तं विधानं तु कुत्सितं कर्म यद्भवेत् ॥ ६५ ॥

प्. ५३२)

तस्मिन्भवति या लक्ष्मी ह्रीस्तु शैवेयमीरिता ।
दीक्षोत्तरे च गुरुणा चोपदिष्टैश्च मन्त्रकैः ॥ ६६ ॥

भक्तिविश्वाससंमोहं गुर्वाज्ञापालनादिकम् ।
कुर्वन्तं कृपया युक्तं शिष्यमात्रादिसंयुतैः ॥ ६७ ॥

मात्रान्यूनाधिकं कृत्वा क्लीलसूत्रादिवर्जितैः ।
चन्द्रार्कनाशनं कृत्वा भाष्योपांशकमानसैः ॥ ६८ ॥

भाष्यात्परमुपांशु स्याद् उपांशोर्मानसं परम् ।
एवं गुरुमुखाल्लब्ध्वा जपं कुर्वीत तज्जपः ॥ ६९ ॥

अग्निकार्यं हुतं प्रोक्तं पूर्वमेवं हुतक्रिया ।
नियमो दशधा प्रोक्तो यमाद्याभिश्च विंशतिः ॥ ७० ॥

प्. ५३३)

एतैर्विंशतिभिर्हीने योगो पापं प्रदापयेत् ।
मोहाद्दानं प्रकुर्याच्चेच्छिष्येण वृजिनं व्रजेत् ॥ ७१ ॥

तस्मात्सर्व प्रयत्नेन योग्याय च ददेद्गुरुः ।
पद्मं च स्वस्तिकं चैव गोमुखं विशदं तथा ॥ ७२ ॥

सूक्ष्मश्च ह्येकपादं च कुक्कुटं वीरमेव च ।
पद्मासनं च खं पुष्टं कूर्मं विमलमेव च ॥ ७३ ॥

दण्डं चण्डं च गोकर्णं सिद्धासनमतः परम् ।
वृत्तिं च कटिकं चैव गजास्यं च मयूरकम् ॥ ७४ ॥

आसनं विंशतिः प्रोक्तं प्रत्येकं च शृणु क्रमात् ।
उर्ध्वोपरि तु नन्दीश कृत्वा पादतले शुभे ॥ ७५ ॥

प्. ५३४)

पद्मासनं भवेदेतत् सर्वेषां पूजितं परम् ।
जानूर्वोरन्तराले तु कृत्वा पादतले शुभे ॥ ७६ ॥

पूर्ववदृजुकायः स्यात् स्वस्तिकं सर्वशोभनम् ।
सव्ये दक्षिणगुल्फात्तु पृष्ठपार्श्वे च योजयेत् ॥ ७७ ॥

दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखं तथा ।
शिरोपरि च पादाभ्यां कर्णपार्श्वे च योजयेत् ॥ ७८ ॥

हस्ताभ्यां भूमिसंस्थानं अतज्जुघादोर्भुजान्तरे ।
विंशदन्तमिति प्रोक्तं सूची च तदनन्तरम् ॥ ७९ ॥

हस्ताभ्यां भूतलेन स्याद् दक्षिणं चोपरिस्थितम् ।
शरीरांघ्रीद्वयं चापि वक्त्रायोर्ध्वशरी भवेत् ॥ ८० ॥

प्. ५३५)

सूचीवत्स्थितिरत्युग्रं सूचीति खलु विश्रुतम् ।
आकाशगमनार्थाय शनैः कुक्कुटवद्भवेत् ॥ ८१ ॥

एकपादं तु भूमौ तु चान्यपादं कटौ न्यसेत् ।
तस्य पादतले न्यस्त्वा वामपाणिं च दक्षिणम् ॥ ८२ ॥

ऊर्ध्वं कृत्वांगुलीभिस्तु छादनं चैकपादकम् ।
अत्युग्रतपसां साध्यमेतदासनमुत्तमम् ॥ ८३ ॥

पद्मवच्चासनं कृत्वा हस्ताभ्यामूरुमध्यमे ।
कोर्परावधि चाकृष्यादंगं तत्कुक्कुटं भवेत् ॥ ८४ ॥

एकांघ्रिमूरौ विन्यस्यादन्यांघ्रिं च भुवः स्थले ।
जानुकोर्परसंयोगाद् वीरासनमितीरितम् ॥ ८५ ॥

प्. ५३६)

व्याख्यानाय भवेदेतत् सर्वशास्त्रार्थ बोधकृत् ।
सवनीपार्श्वयोरेव वृषणस्याथ गुल्फगौ ॥ ८६ ॥

निक्षिप्य पादपार्श्वौ च पाणिभ्यां दृढबन्धनम् ।
भद्रासनं भवेदेतत् सर्वव्याधिविषापहम् ॥ ८७ ॥

संयोज्यांघ्रितलद्वेद्वे पुनरन्तर्विसर्पणम् ।
पृष्ठपार्श्वे करद्वन्द्वं अंघ्रिव्यग्रोप संस्थितम् ॥ ८८ ॥

पृष्ठे मुखं नखं पृष्टं वायुरोधप्रधानकम् ।
पद्मवच्चरणं कृत्वा पाणिभ्यामूरुमध्यमे ॥ ८८ ॥

निक्षिप्य ताभ्यामाबध्यात् कन्धरे पूर्ववद्भवेत् ।
प्राणारोधनकं चैव कायाग्नेरति दीपनम् ॥ ९० ॥

प्. ५३७)

नमस्काराञ्जलिं कृत्वा गर्भस्थ शिशुवत्क्रमात् ।
अपामाकर्षणे शस्तं मूलाग्नेर्दीपनं भवेत् ॥ ९१ ॥

पिण्डासनमिदं प्रोक्तं गोकर्णं तदनन्तरम् ।
पार्श्वयोः पादयुगलं निक्षिप्य जानुनी उभे ॥ ९२ ॥

भूतले स्थाप्य हस्ताभ्यां संयोगे दक्षिणं परम् ।
ऊर्ध्वकायः स्थितः सम्यक् गोकर्णं वायुबन्धनम् ॥ ९३ ॥

जान्वोर्निक्षिप्य हस्तौ तु वांगुलीश्च प्रसार्य च ।
व्यात्तास्यः क्रूरमीक्षेत नासाग्रव्यग्रलोचनः ॥ ९४ ॥

तापवातादिशमनं दावानलनिरोधनम् ।
पादद्वयं च संयोज्य तस्मिन्पृष्ठे निधाय च ॥ ९५ ॥

प्. ५३८)

ऋजुकायस्समासीनः पाणिभ्यां पादके न्यसेत् ।
अपानाकर्षणं कुर्यात् कायाग्नेर्वर्धनं परम् ॥ ९६ ॥

एकांगमेव हस्तं च विनस्य पृथिवीतले ।
वक्षोरुहं च हस्तेन प्रसार्य तदनन्तरम् ॥ ९७ ॥

गृहीत्वाचार्यहस्तं च जान्वंघ्रिं च प्रसारयेत् ।
पादांगुष्ठावलोकं च गजावनमितीरितम् ॥ ९८ ॥

पृष्ठपार्श्वे च शमनं वायूनां च भवेत्तदा ।
आयुष्यवर्धनं ख्यातमतिसारनिरोधनम् ॥ ९९ ॥

अवष्टभ्य भुवं सम्यक् तलाभ्यां तु करद्वयोः ।
हस्तयोः कोर्परद्वन्द्वं अन्यदेशे निधाय च ॥ १०० ॥

प्. ५३९)

समुन्नतशिरः पादौ दण्डवद्व्योम्नि संस्थितः ।
मयूरासनमेतत्तु सर्वपाप प्रणाशनम् ॥ १०१ ॥

सर्वरोगाश्च नश्यन्ति विषाणविषयाण्यपि ।
अंगानां च क्रमान्याहुः सदाशुगमनं भवेत् ॥ १०२ ॥

आसनं विंशतिः प्रोक्तं श्रेष्ठं स्थितसुखासनम् ।
प्राणायाममथो वक्ष्ये नाडिशुद्ध्यादि पूर्वकम् ॥ १०३ ॥

सर्वपापहरं श्रेष्ठं सर्वव्याधिनि वारणम् ।
शिवप्रकाशं सततं क्रमात्कैवल्यकारणम् ॥ १०४ ॥

अनेन कालव्यायामं यत्नसाध्यं च वारुणम् ।
गंगादितीर्थगं सर्वं प्राणायामेन सिध्यति ॥ १०५ ॥

प्. ५४०)

तद्विना चान्यगमनं भाग्यहीनाय संभवेत् ।
तस्मात्सर्वप्रयत्नेन प्राणायामं चरेद्गुरुः ॥ १०६ ॥

निश्शब्दे निर्जने चैव जलधेरन्यदेशके ।
शीतातप विनिर्मुक्ते महापातकवर्जिते ॥ १०७ ॥

मत्कुणस्त्रीपिपील्यादिमशकादि विवर्जिते ।
कृतघ्नाः क्रोधिनश्चैव गुर्वाज्ञा लंघिनस्तदा ॥ १०८ ॥

अन्त्यजानां च निलये योगाभ्यासं न कारयेत् ।
शौचमाचमनं कृत्वा प्रातरुत्थाय संयतः ॥ १०९ ॥

वारुणाग्नेय वायव्यं माहेन्द्रं मानसं तथा ।
प्रत्येकं विविधं स्नानं योगिनां च विशेषतः ॥ ११० ॥

प्. ५४१)

मन्त्रस्नानमथैकं तु सर्वपापनिकृन्तनम् ।
पूर्वमेवं प्रकारं तु प्रोक्तमन्यत्तदुच्यते ॥ १११ ॥

गुरुपादजलेनैव तत्स्नानं वारुणं भवेत् ।
आग्नेयं भस्मनारक्षः वायव्यं प्राणायामकम् ॥ ११२ ॥

माहेन्द्रममृतं स्नानं मानसं योगदर्शनम् ।
चेलाजिनकुशैश्चैव मृदासन कृतं भवेत् ॥ ११३ ॥

शिरोर्ध्वे गुरुपद्मं च पूजयेन्नन्दिकेश्वर ।
तत्कर्णिकायामाग्नेय दले विघ्नेश्वरं यजेत् ॥ ११४ ॥

पूर्वाननोदगास्यो वा चक्षुर्देहासनस्थितः ।
समग्रीवशिरःकायो दन्तैर्दन्तान्न संस्पृशेत् ॥ ११५ ॥

प्. ५४२)

नासाग्रगतदृष्टिश्च तत्रस्थं शशिमण्डलम् ।
बिन्दुमध्यगतं चैव निष्यन्दत्सुधयान्वितम् ॥ ११६ ॥

विलोकयेत्तदत्रैव नेत्राभ्यां सुसमाहितः ।
अग्निबीजं तु संस्मृत्य सव्यनासापुटान्तरे ॥ ११७ ॥

पुरयेद्वायुना सम्यक् पादांगुष्ठ शिरोदिकम् ।
वामनासापुटेनैव पूरयेत्पूर्ववद्बुधः ॥ ११८ ॥

रेचयेत्सव्यकेनैवमभ्यसेदेवमेव तु ।
पञ्चषट्सप्तसंख्याकैः कनिष्ठं मध्यमोत्तमम् ॥ ११९ ॥

अर्धं चापि तदर्धं वा नित्यमेवं समभ्यसेत् ।
प्राणायामः समभत् नाडीशोधन मुच्यते ॥ १२० ॥

प्. ५४३)

त्रिसन्ध्यमेव जठराद् ऊर्ध्वमग्नेश्च वर्धनम् ।
शरीर संयुतं चैव नादाभिव्यक्ति जिह्वकम् ॥ १२१ ॥

सासमर्तस्य संसिद्धिर्वत्सार तु चतुष्टयात् ।
यावदेतानि चिह्नानि संपश्येत्तावदाचरेत् ॥ १२२ ॥

नाडीशुद्धिरियं प्रोक्ता प्राणायाममनन्तरम् ।
प्रासादेन तु मन्त्रेण प्रणवेन तथैव च ॥ १२३ ॥

प्राणायामावरूढं च हृदये जप्यनेक्षरम् ।
न तत्र लक्षणं विद्यात् सदा सर्वेषु वर्तते ॥ १२४ ॥

पूर्वं षोडशमात्रं तु पूरयेदुदयं बुधः ।
चतुष्षष्टिमात्रकं कुम्भं पूर्णकुम्भं तथा भवेत् ॥ १२५ ॥

प्. ५४४)

रेचयेदूर्ध्ववायुः च द्वात्रिंशन्मात्रया ततः ।
षोडशप्राणायामं तु नित्यमेव तु चाभ्यसेत् ॥ १२६ ॥

उत्तमं मध्यमं चैव मधमं च तथैव च ।
अधमं द्वादशोद्घातं चतुर्विंशतिमध्यमम् ॥ १२७ ॥

षट्त्रिंशदुत्तमं प्राहुः शीक्षायामस्य लक्षणम् ।
धारणा द्वादशायामं ध्यानं द्वादशधारणम् ॥ १२८ ॥

ध्यानं द्वादशकं यावत् समाधिरभिधीयते ।
रेचकं सर्वथा त्यज्य पूरकं कुम्भके न्यसेत् ॥ १२९ ॥

रेच्यारेच्यामशक्तश्चेत् प्राणायामं चरेत्क्रमात् ।
कम्पनं चैव भ्रमणं भ्रमणं चाप्लुतिं तथा ॥ १३० ॥

प्. ५४५)

कायस्थितिमवाप्नोति प्राणस्थितिमवाप्नुयात् ।
चित्तस्थितिमवाप्नोति चित्तशुद्धिमवाप्नुयात् ॥ १३१ ॥

ततः संपीडितं वायुं नासाग्रेण विरेचयेत् ।
उत्कृष्योत्कृष्य योगेन श्रान्तः श्रान्तः पुनः पुनः ॥ १३२ ॥

त्रिरुद्घातप्रयोगेन नश्यन्तिगुदकीलकाः ।
स्थूलस्थं वा त्रिदेशं वा कृत्वा योगी समाहितः ॥ १३३ ॥

निम्नप्रदेशशिरसा निर्हरेद्गुदकीलकान् ।
लिंगोत्थान्कलशान्घोरान्सर्वदेह गतांस्तथा ॥ १३४ ॥

सर्वांगधारणायोगाद् अपकर्षापयोगवित् ।
योगनिद्रां समाश्रित्य दृष्टादृष्टं लिपौ स्वपेत् ॥ १३५ ॥

प्. ५४६)

यद्यत्पश्यति युक्तात्मा तत्सर्वं तस्य जायते ।
स्वप्नेऽपि योगयुक्तस्य योगनिद्राप्रभावतः ॥ १३६ ॥

अभ्यर्थितोस्यकेनापि स्वयं वा सन्ध्ययान्वितः ।
विधानमेतत्कुर्वीत सत्यमेतन्मयोदितम् ॥ १३७ ॥

मनोविषय संबद्धं तत्तत्सम्यक्समाचरेत् ।
नित्यं षोडश सन्ध्यायां मासमात्रं समभ्यसेत् ॥ १३८ ॥

क * भ्रूणहनात् पापात्प्रमुच्येत न संशयः ।
जन्मान्तरकृतं पापं षण्मासाच्च पुनाति सः ॥ १३९ ॥

संवत्सरसमभ्यासात् शिवज्ञानं करे स्थितम् ।
योगाभ्यासाच्च सततं प्राणानां संयमो भवेत् ॥ १४० ॥

प्. ५४७)

तेन मानसनाशः स्यान् मुक्तिस्तस्य करे स्थिता ।
अन्तराकर्षणं वायोः बाह्ये तत्पूर्वकं भवेत् ॥ १४१ ॥

रेचकं तद्भवेन्नन्दिन् क्रमादेवं भवेद्धि वै ।
स्वेदः कम्पश्च पुलक आनन्दानामनन्तरम् ॥ १४२ ॥

उत्तानमुत्तमं तस्मादुत्तमं भवति ध्रुवम् ।
लयात्प्राणस्य मेधापि सुखी च भवति क्षणात् ॥ १४३ ॥

प्राणान्नाशात्समुत्तिष्ठेदासनेन सहैव तु ।
निश्वोच्छ्वासरूपस्य हंसरूपस्य मध्यतः ॥ १४४ ॥

मध्यबीजस्यनयनाच्छिवानन्दमयं भवेत् ।
प्राणस्य लयनादेव कुम्भके न भवेत्पुनः ॥ १४५ ॥

प्. ५४८)

वायोरापूरणं चैव रेचकं च तथैव च ।
उभौ विसृज्य योगे तु वायोर्धारणमुत्तमम् ॥ १४६ ॥

प्राणायामश्च * * * * * * * * * * *
सर्वं विरेच्य चापूर्य पश्चात्कुंभकसंयुतः ॥ १४७ ॥

सहितं वा केवलं वापि कुम्भकं नित्यमभ्यसेत् ।
यावत्केवलसिद्धिः स्यात्तावत्सहितमभ्यसेत् ॥ १४८ ॥

अभ्यासात्कुम्भके सिद्धे रेचपूरकवर्जिते ।
न तस्य दुर्लभं किंचित् त्रिषु लोकेषु विद्यते ॥ १४९ ॥

मनोजवत्वसंसिद्धिर्नालं लीलशिरोरुहः ।
न जरा पित्रिषा तस्य वैजयन्ती न दृश्यते ॥ १५० ॥

प्. ५४९)

नादस्योत्पत्तिजनकं कुंभकेन समन्वितः ।

प्राणसं * * * *

एष प्राणजयोपायः सर्वमृत्युनिवारकः ॥ १५१ ॥

उदरं वायुनापूर्य नासाग्रे नाभिमध्यमे ।
पाद्यंगुष्ठद्वयोर्वापि प्राणवायोश्च धारणा ॥ १५२ ॥

अशेषव्याधिनिर्मुक्तो जीवेन्निर्मलमानसः ।
पवनस्य जयोपायो नासाग्रालोकनं भवेत् ॥ १५३ ॥

नाभिमध्यस्थितो वायुर्नासाग्रे नाभिमध्यमे ।
नाभिमध्यस्थितो वायुर्व्याधिनाशाय वै भवेत् ॥ १५४ ॥

अंगुष्ठयोश्च धारणाद्देहलाघवमुत्तमम् ।
द्विजचञ्चपुटेनैव वायुनालम्बितः शनैः ॥ १५५ ॥

प्. ५५०)

श्रमदाहादयो न स्युः तस्य कायः स्थिरो भवेत् ।
अगस्त्योदय काले तु राजदन्तद्वयान्तरात् ॥ १५६ ॥

वायोः पानं च कुरुते ऋतुद्वन्द्वाच्च वाक्पतिः ।
ऋतुद्वयेन रोगाश्च नाशं यान्ति न संशयः ॥ १५७ ॥

आनीय जिह्वया मूले वायुं तन्मूलरोधनात् ।
अमृतं यः पिबेद्योगी सर्वसिद्धिं च गच्छति ॥ १५३ ॥

चैतन्यमिद्धयानीय कोदण्डद्वयमध्यमे ।
तस्मिन्नमृतपानेन सर्वव्याधिहरं परम् ॥ १५९ ॥

नाडीद्वयेन वा कृष्य ! वायुं नाभौ च जाठरे ।
पार्श्वे च घटिकामात्रधारणान्मासमात्रकम् ॥ १६० ॥

प्. ५५१)

दृढगात्रो विशुद्धात्मा व्याधिभिः सोऽपि मुच्यते ।
एकमासं त्रिसन्ध्यायां मारुतं जिह्वया पिबेत् ॥ १६१ ॥

सुधामयं यस्तु देवं नाभौ तत्पार्श्वयोरपि ।
गुल्माष्ठीलप्लहाद्यादि गात्रवि * र्शनानि च ॥ १६२ ॥

जठरान्तस्थरोगा ये ते सर्वे यान्ति नाशनम् ।
विषज्वरोपमृत्युश्च ते सर्वे यान्ति नाशनम् ॥ १६३ ॥

करालश्चालिसंकाशो नेत्रं च गरुडोपमम् ।
अभ्यासादेव तत्सर्वं वायोर्विजयमेव हि ॥ १६४ ॥

स्वस्तिकासनमारूढः समाहितमनास्तथा ।
इन्द्रियाणि वशीकृत्य विषयेभ्यो निवर्त्य च ॥ १६५ ॥

प्. ५५२)

उद्ग्रीव प्राणायामं च गुदमुत्कृष्य सन्ततम् ।
सर्वं सकृत्समुत्सृज्य शनैः कम्पुलि मार्गकम् ॥ १६६ ॥

संकोचयति तद्वक्तुः पूर्ववत्प्रणवेन तु ।
कारणाग्निकराभ्यां च बन्धयेदंगुलीयकैः ॥ १६७ ॥

प्रच्छाद्य धारयेद्यावद् दानस्य चोदयावधि ।
मूर्ध्नि चैव विशेषेण प्राणसंयमनं परम् ॥ १६८ ॥

सुषुम्नायां ब्रह्मरन्ध्रे प्राणवायोर्गतिर्भवेत् ।
तेन नादोद्भवश्चैव शुद्धस्फटिकनिर्मलः ॥ १६९ ॥

वीणादण्डवदामूर्ध्नो नादस्य द्युति विद्यते ।
आदौ शंखध्वनिर्मध्ये मेघध्वनिनिरन्तरम् ॥ १७० ॥

प्. ५५३)

व्योमरन्ध्रगतः पश्चाद् निर्जराणां वरो भवेत् ।
सोमरन्ध्रगते वायौ नित्यचैतन्यके स्थिते ॥ १७१ ॥

सततानन्दसंयुक्तः तेन वायुर्जितो भवेत् ।
प्राणायामरतः शुद्धो रेचपूरकवर्जितः ॥ १७२ ॥

वामगुल्फेन संपीड्य सवनी च सिरामयः ।
वृषणस्य द्वयोरेव सर्वोपरि च दक्षिणम् ॥ १७३ ॥

जंघोर्वोरन्तरे नन्दिन् दूतनिच्छिद्रकं भवेत् ।

  • * * * रनुग्रीवः शिरः कर्णस्समोदरः ॥ १७४ ॥


नेत्राभ्यां सव्यगुल्फं च निरक्षोपरि संस्थितम् ।
मन्त्राभि प्रणवेनैव नादं पूर्णं समुच्चरेत् ॥ १७५ ॥

प्. ५५४)

हस्तदीपिलया तुल्योप्यासनेऽयं विशेषतः ।
वपुषो लाघवं चैव जठराग्नि विवर्धनम् ॥ १७६ ॥

दृष्टचिह्नस्ततो भूत्वा सुषुम्ना नाडिमध्यमे ।
रोधयेन्मारुतं पश्चान् मनोलयमुपैति वै ॥ १७७ ॥

नाडीप्रसृतिमध्ये च मिताशनमतस्तदा ।
अनेनैव तु मध्यस्था वायुधारणतः क्रमात् ॥ १७८ ॥

कुण्डलिन्याः प्रतप्तिःस्यात्पवनाद्युक्तवह्निना ।
स्वस्थानात्पतितो भूत्वा प्रसार्य फणभृत्तनुम् ॥ १७९ ॥

प्रबोधं याति सहसा नाभिमूले तु चक्रिणी ।
ब्रह्मरन्ध्रे सुषुम्नायाः प्राणायामश्च गच्छति ॥ १८० ॥

प्. ५५५)

तदन्तरासं मनसा तारमुच्चार्य धारयेत् ।
हृत्प्रदेशे पुनः कर्णे भ्रमे वायौ च धारयेत् ॥ १८१ ॥

क्रमात्तस्मात्समानीय प्राणाग्निंमनसा सह ।
सहसैव समुच्चार्य धारयेन्नन्दिकेश्वर ॥ १८२ ॥

तत्रव्योति मरुत्पूर्णे सर्वांगे च समन्वितः ।
आत्मभाविततात्तत्र गगने सूर्यबिम्बवत् ॥ १८३ ॥

उत्क्रान्त्युत्कृतबुद्धिश्च सम्यग्योगं समभ्यसेत् ।
प्रासादेन च दीर्घेण नासाग्रे तं समुच्चरेत् ॥ १८४ ॥

विभित्य मनसा मूर्ध्नि ब्रह्मरन्ध्रेण योगवित् ।
समुच्चरेत्प्रणवांश्च महाप्राणश्च मध्यमे ॥ १८५ ॥

प्. ५५६)

गात्रातीते जगत्प्राणे नित्यानन्दमये शिवे ।
स्वात्मानं योजयेत्तत्र पुनर्जन्म न विद्यते ॥ १८६ ॥

प्राणायामं च योगच्छेत् काले काले विशेषतः ।
सर्वपापात्प्रशमने प्राणायाम समो नहि ॥ १८७ ॥

आहुतिर्याततस्सेयं प्रत्याहारमुदीरयेत् ।
शब्दादिविषयादिभ्यो बलादाहरणं भवेत् ॥ १८८ ॥

स एव प्रत्याहृतस्तेभ्यस्तदानीं स विमुच्यते ।
योग्यं पश्यति यत्सर्वं तत्सर्वं चात्मनि क्रमात् ॥ १८९ ॥

प्रत्याहारः पुनश्चैव नित्यकर्मक्रियाश्च वै ।
स्वस्मिन्नेव च यः पश्येत्तदनुष्ठानकं भवेत् ॥ १९० ॥

प्. ५५७)

बहिर्विना च मनसा प्रत्याहारं च सो भवेत् ।
योगेषु च चतुष्केषु शिवयोगं प्रधानकम् ॥ १९१ ॥

कर्माष्टादशकेष्वेव स्थानात्स्थानाच्च संहृतिः ।
प्रत्याहारस्ततस्तेषां एवं प्रोक्तं चतुर्विधम् ॥ १९२ ॥

अष्टादशानां मर्माणां स्थानं च क्रमतः शृणु ।
प्रसार्य चरणांगुष्ठौ द्वितीया गुल्फकौ भवेत् ॥ १९३ ॥

जंघामध्ये तृतीयं स्याच्चतुर्थं चिन्त्यमूलकम्
पञ्चमञ्जानुयुगलं ऊर्वोर्द्वन्द्वमतः परम् ॥ १९४ ॥

सप्तमं च मयोर्मूलं अष्टमं पादमूलकम् ।
मूलाधारं तु नवमं अधिष्ठानं ततः परम् ॥ १९५ ॥

प्. ५५८)

एकादशं तु * * * * * * यं द्वादशं भवेत् ।
त्रयोदश विशुद्धिः स्यात् तालुमूलं चतुर्दश ॥ १९६ ॥

नयने षोडशं चाल्लि * * * * * मध्यमे ।
ललाटं सप्तदशकं मूर्धाचाष्टादश स्मृतः ॥ १९७ ॥

मर्मस्वष्टादशस्वेषु स्थानानि च क्रमाच्छृणु ।
सार्धांगुलं चतुष्कं च अंगुष्ठद्वयमानकम् ॥ १९८ ॥

तथैव गुल्फमानं स्याज्जंघामध्यं दशांगुलम् ।
जंघामस्यस्थितेर्मूलं रुद्रांगुलमिति स्मृतम् ॥ १९९ ॥

अंगुलीद्वयसंयुक्तः तस्माज्जान्वोश्च मानकम् ।

  • * नवांगुलं चोरू तदूर्ध्वं सप्तमंगुलम् ॥ २०० ॥


प्. ५५९)

ऊरुमध्यात्ततो नन्दिन् गुरुमूलं नवांगुलम् ।
सार्धद्व्यंगुलकं प्रोक्तं मूलाधारं हि मध्यमम् ॥ २०१ ॥

तदूर्ध्वं मेढ्रदेशं तु सार्धद्व्यंगुल संयुतम् ।
मेढ्रान्नाभिं विजानीयात् पुनस्सार्धदशांगुलम् ॥ २०२ ॥

चतुर्दशांगुलं नाभेर्हृन्मध्यौ नन्दिकेश्वर ।
षष्ठांगुलं तु तन्मध्यात् कण्ठकूपान्तमानकम् ॥ २०३ ॥

कण्ठादुपरि जिह्वायां मूलं तु चतुरंगुलम् ।
नासामूलं तु जिह्वायां मूलात्तु चतुरंगुलम् ॥ २०४ ॥

नेत्रस्थानं तु तन्मूलादर्धांगुलमितं भवेत् ।
कोदण्डद्वयमध्यं तु अर्कांगुलमिति क्रमात् ॥ २०५ ॥

प्. ५६०)

गुणांगुलं तदूर्ध्वं स्याल्ललाटं नन्दिकेश्वर ।
ललाटाद्ब्रह्मरन्ध्रं तु गुणांगुलमितीरितम् ॥ २०६ ॥

एषु स्थानेषु मनसा वायुसंसृतिमभ्यसेत् ।
स्थानात्स्थानात्समाहृत्य प्रत्याहं समभ्यसेत् ॥ २०७ ॥

नाशं गच्छन्ति रोगाश्च योगं गच्छन्ति योगिनः ।
प्रत्याहारं पुनर्वक्ष्ये शृणु त्वन्नन्दिकेश्वर ॥ २०८ ॥

अंगुष्ठान्मूर्धपर्यन्तं वायुना पूर्णकुम्भवत् ।
मारुतं धारयन्नासा प्राणायामप्रवेदनात् ॥ २०९ ॥

व्योमरन्ध्रात्समाकृष्य ललाटान्तमधो नयेत् ।
ललाटाच्च भ्रुवोर्मध्ये रोधयेन्नन्दिकेश्वर ॥ २१० ॥

प्. ५६१)

एवमादि दशस्थाने स्थाने स्थानेऽपि रोधयेत् ।
अंगुष्ठावधिकश्चैव पादयोस्तन्निरोधयेत् ॥ २११ ॥

स्थानात्स्थानात्समाकृष्य धारयेत्सु समाहितः ।
एवं तु प्रत्याहारं च कुर्वतोऽस्य मनीषिणः ॥ २१२ ॥

आचन्द्रतारकं दाहेत् जीवेत्पाशांकुशं हृतम् ।
नाडीभ्यां वायुमापूर्य कुण्डलिन्यास्तु पार्श्वयोः ॥ २१३ ॥

युगपद्धारयेद्यागी संसारात्तु प्रमुच्यते ।
हृदये चैव मापूर्य धारयेन्नन्दिकेश्वर ॥ २१४ ॥

परमानन्दसद्भावं तस्य वै हि प्रकाशयेत् ।
किं पुनस्तस्य रोगस्य नाशं गच्छति तत्क्षणात् ॥ २१५ ॥

प्. ५६२)

नासाभ्यां वायुमारोप्य पूरयित्वोदर स्थितम् ।
भ्रुवोः कोदण्डमध्यात्तु स्तनद्वन्द्वादनन्तरम् ॥ २१६ ॥

आरोप्य धारयेद्योगी क्रमाद्याति परांगतिम् ।
भ्रूमध्यान्तं समारोप्य चात्मनः प्राणमारुतम् ॥ २१७ ॥

सुषुम्नारन्ध्रगं यावन् मनोलयमुपैति वै ।
तावदेवं प्रकुर्वीत विधिनान्नन्दिकेश्वर ॥ २१८ ॥

ज्ञानदेशेन संयोगं तस्य धारणमुच्यते ।
पञ्चप्रकारमेवं तु तदिदानीं शृणुष्वथ ॥ २१९ ॥

यमादिगुण युक्तस्य स्वस्मिंश्च मनसः स्थितिः ।
धारणेति तथा प्रोक्ता नाभिदेशे समाश्रिता ॥ २२० ॥

प्. ५६३)

हृदयाकाशमध्ये तु बहिराकाशधारिणम् ।
अथवा पृथिवी तत्वं पादादाजानु संस्थितम् ॥ २२१ ॥

जान्वादि पायुपर्यन्तं जलतत्वं व्यवस्थितम् ।
पायुस्थानं समारभ्य हृदन्तं वह्निसंयुतम् ॥ २२२ ॥

अनाहतात्समारभ्य कोदण्डद्वयमध्यगम् ।
वायुतत्वमिति प्रोक्तं तस्मादूर्ध्वान्तमम्बरम् ॥ २२३ ॥

कारणानां च पापानां कलानां पञ्चकं तथा ।
अध्वनां च विशेषेण भूतशुद्धिः क्रमाद्भवेत् ॥ २२४ ॥

पादादिमूर्धपर्यन्तं ब्रह्मनाडीं सुसंस्मरेत् ।
पीतंश्वेतं तथा रक्तं वज्रसंनिभमेव च ॥ २२५ ॥

प्. ५६४)

शुद्धस्फटिकसंकाशं पञ्चस्थाने पृथक् पृथक् ।
तेजोघनं बोधरूपं कारणानां च पञ्चकम् ॥ २२६ ॥

एवं ध्यात्वा क्रमाद्योगी स्थाने स्थाने तु संहरेत् ।
ब्रह्मस्थाने तु घटिकापञ्चकं धारयेत्क्रमात् ॥ २२७ ॥

तत्तेजस्संचयं गृह्य विष्णुस्थाने च संहरेत् ।
विष्णुस्थाने च घटिका पंचकं पंचकं पृथक् ॥ २२८ ॥

सदाशिवान्तमाहृत्य ज्ञानस्थाने च योजयेत् ।
अन्यदेशे च कर्तव्यं तदास्यादन्यथा यदा ॥ २२९ ॥

पुत्र स्नेहि स्रवेत्क्षीरं दुःखान्ते श्रुनिपातनम् ।
कामार्थचेन्द्रिय ग्रामद्रावं ज्ञान सुखं भवेत् ॥ २३० ॥

प्. ५६५)

तस्मात्सर्व प्रयत्नेन नार्ध्वं न तु भावयेत् ।
ध्यैचिन्तायाश्च धात्वर्थेनिश्चल ज्ञानमुच्यते ॥ २३१ ॥

लक्ष्ये तु मान्सं क्षिप्तं सहमार्गे विशेषतः ।
शब्दः स्पर्शश्च रूपं च रसोगन्धःषडिन्द्रियम् ॥ २३२ ॥

स्वस्थाने निलयं पश्येत्समानं धनमोचनम् ।
मृतं चामरदेहत्वं गुरुतेजस्सतारकम् ॥ २३३ ॥

मासैस्सर्वप्रयत्नेन षड्भिर्द्वन्द्वविवर्जितः ।
पश्चादानन्दसंप्राप्तिर्वेदशास्त्राणि विन्दति ॥ २३४ ॥

इत्यचिन्त्यविश्वसादाख्ये अष्टांगयोग विधिरष्टाविंशतिः पटलः ॥


प्. ५६६)

वक्ष्ये रसायनं दिव्यं इह तन्त्रे सुभाषितम् ।
योगिनामुपकारार्थं ज्ञानिनां तु विशेषतः ॥ १ ॥

रसो वै स इति ह्युक्तः तस्माच्छिव इतीरितः ।
अष्टमूर्तेर्महेशस्य वीर्यं रसमुदीरितम् ॥ २ ॥

एतद्वीर्यमयो नित्यं सेवते भक्तिसंयुतः ।
शिववद्वीर्यवान् पूज्यः शिवलोकादि संस्थितैः ॥ ३ ॥

दर्शनं रसराजस्य सप्तजन्मसु तत्फलम् ।
सप्तजन्मकृतं पापं दर्शनान्नश्यति ध्रुवम् ॥ ४ ॥

स्पर्शनान्नाशयेन्नन्दिन् गोहत्यां नात्र संशयः ।
ब्रह्महत्यादिभिः पापाः स्त्रीवधा बालघातकाः ॥ ५ ॥

प्. ५६७)

रसभस्मनिषेवात्तु मुच्यते नात्र संशयः ।
रोगी तु रोगी न ज्ञानी कालपादेन भाखिलम् ॥ ६ ॥

स्वदेशकालयोरेव संज्ञा इष्टफलप्रदाः ।
अन्यदेशेन्य काले तु त एवानिष्टहेतवः ॥ ७ ॥

वैनाशिके वधर्क्षे तु सार्धचन्द्राष्ट-ऋक्षके ।
वधर्क्षे तस्य जन्मर्क्षे विपदादौ विशेषतः ॥ ८ ॥

तस्यैवाष्टमराशौ तु मरणादि क्रियामिताः ।
यमाश्लेषाग्निरूपाणि श्रविष्ठा वारुणो मघाः ॥ ९ ॥

ज्येष्ठा च त्रीणि पूर्वाणि वर्जयेत्पुष्टिकर्मणि ।
सौरिवारोऽथ वर्ज्यः स्यात् तथाह्यंगारवारकम् ॥ १० ॥

प्. ५६८)

दुष्टकर्मप्रशस्तं स्याद् वैरिणो मोहनादिके ।
शिवादित्रयनिन्दायाः दुष्टानां साधनं परम् ॥ ११ ॥

अनेनैव विधानेन च स्याच्छर्द्धिर्भवेत्तदा ।
शुभकर्माणि सर्वाणि कर्तुरिष्टदिने नयेत् ॥ १२ ॥

स्वर्णस्तेयेन चैतस्य शिवाय द्विगुणं ददेत् ।
अघोर नवलक्षे तु जपेच्छुद्धिमवाप्नुयात् ॥ १३ ॥

अर्चितः शिवशृंगं तु नाभिनन्दन्ति ये नराः ।
दृष्ट्वापि न नमेच्चैव नस्तुवन्त्यप्रमादतः ॥ १९ ॥

उपचारं न कुर्वन्ति शिवाग्नि गुरु संनिधौ ।
शिवभक्ति प्रिये सक्ताः तेपि चान्त्यन्त पापिनः ॥ २० ॥

प्. ५६९)

शिवनिन्दासमाप्येते प्रायश्चित्तं तु तद्भवेत् ।
शिवज्ञानं संपूज्य येऽधीयन्ते लिखन्ति च ॥ २१ ॥

गुरुशिष्यक्रमादीन्यः शृण्वन्नपि पठन्नपि ।
लोहेन विक्रयं वापि चान्यज्ञानरतोऽपि वा ॥ २२ ॥

अयोग्य देशके स्थाप्य सामर्थ्योऽप्यनधीयते ।
शिवज्ञानकथापेक्षं कृत्वाचान्यत्प्रजल्पनम् ॥ २३ ॥

अर्चित्वापि च कुत्सीत स्थानजल्पन एव हि ।
ज्ञाननिद्रासमं सर्वं तद्वच्छुद्धिर्विधीयते ॥ २४ ॥

अकृत्वा गुरुपूजां च शिवज्ञानमधीयते ।
शुश्रूषां चापि भक्तिं च विश्वासं डम्भवर्जनम् ॥ २५ ॥

प्. ५७०)

बन्धुं प्रियजनं चैव देशान्तरगतं तथा ।
शत्रुभिः परिभूतं च त्यजेल्लोभादुपेक्षकः ॥ २६ ॥

तद्धर्मपत्नीं पुत्रं च मित्रं चैवावमानतः ।
ज्येष्ठाव मानकं चापि स्वसान्तानिकदूषणम् ॥ २७ ॥

स्वसान्तानिक भिन्नत्वं शब्दार्थान्योन्य निन्दनम् ।
गुरुनिन्दासमं सर्वं प्रोक्तं वै नन्दिकेश्वर ॥ २८ ॥

नैष्ठिकं पितृमात्रादीन् सकृच्चाप्यर्थदानकम् ।
एतं सुदिक्षु कुर्याद् अचिन्त्यग्रन्थसंख्यया ॥ २९ ॥

  • * * * * * * * * * णवान्भवेत्तदा ।

अल्पबुद्धिश्च मेधावी चाल्पवीर्यो महाबलः ॥ ३० ॥

प्. ५७१)

रसो रसायने चैव यस्य बुद्धिर्महीयते ।
तस्य वै सकलप्राप्तिर्भवेदिति न संशयः ॥ ३१ ॥

नष्टबुद्धिरसानां च रसज्ञानं तु दुर्लभम् ।
तेन जानन्ति ये मूढाः सत्यं प्रत्यक्षशंकनम् ॥ ३२ ॥

तेन पूजितमात्र्ण लिंगार्चनसमं भवेत् ।
सर्वव्याधिक्षयं गच्छेदुच्छ्रिते भक्तितो रसे ॥ ३३ ॥

अथवा भस्मसंयुक्तं सदा भक्षेत्तु चेन्नरः ।
त्रैलोक्यं भुञ्जते सोऽपि भवत्तस्याजरामरम् ॥ ३४ ॥

फलमेतेन विधिना भक्षिते सृतभस्मके ।
इदृशं प्रस्तुतं तस्य जायते साधकस्य तु ॥ ३५ ॥

प्. ५७२)

वातपित्तकफादीनां नाशनं नात्र संशयः ।
गुल्मव्याधिरुजं हन्ति ग्रहभूतविमर्दनम् ॥ ३६ ॥

बाधिर्यं च तथास्रावं दन्तशूलरुजापहम् ।
तिमिरं पटलं काचं महाघोरं भगन्दरम् ॥ ३७ ॥

चतुरशीति शूलानि शिरस्यष्टादशानि तु ।
ज्वरमष्टोत्तरशतं लूताश्चाष्टादशस्तथा ॥ ३८ ॥

रक्तपित्तामहाघोरा नाशं यान्ति न संशयः ।
अपस्मार ग्रहा ये च ये ग्रहापक्षराक्षसाः ॥ ३९ ॥

अष्टाशीतिसहस्रौ तु ग्राहितुर्यस्य जन्तवः ।
भस्मस्त्रतस्य भक्षात्तु निवर्तन्त इति ग्रहाः ॥ ४० ॥

प्. ५७३)

फलेनैकेन स्त्रस्य भस्मना योगिनां भवेत् ।
अजीर्णं साप्यसंस्कारसाधकं भक्षयेन्नरः ॥ ४१ ॥

ब्रह्महा स दुराचारी महाद्रोह्यात्मघातकः ।
कल्पकोटिसहस्राणि कल्पकोटिशतैरपि ॥ ४२ ॥

पीतं तद्रौरवे घोरे घोरेऽपि च सुदुस्वरे ।
स्वमांसं भक्षितं तेन क्षुधया च प्रपीडितः ॥ ४३ ॥

तस्मात्सर्वप्रयत्नेन बालसूतं न भक्षयेत् ।
सबीजं बीजहीनं तु द्विविधं पारदं भवेत् ॥ ४४ ॥

संस्कारहीनं निर्बीजं स * * * न संयुतम् ।
सबीजस्मृतभक्षं तु हेमरत्नसुतीक्ष्णयुक् ॥ ४५ ॥

प्. ५७४)

भर्ताकर्ता स्वयं साक्षात् शापानुग्रहदायकः ।
त्रिफलं भक्षितं येन कामरूपी भवेन्नरः ॥ ४६ ॥

तस्यांगप्रभवः स्वेदोऽह्यष्टलोहांश्च वेधयेत् ।
तत्सर्वं काञ्चनं दिव्यं भक्षयेद्विमलं ततः ॥ ४७ ॥

कामरूपत्वमाप्नोति गजादीनां च जातिभाक् ।
यं यं कामयते भावः हेमभस्मनि भक्षिते ॥ ४८ ॥

एको दोषोऽहि सूक्ष्मोस्ति भक्षिते बालसूतके ।
त्रिसप्ताहे तु संप्राप्ते ताम्राक्षो जायते भृशम् ॥ ४९ ॥

कामिनीयाः सहस्रं तु क्षोभयेद्दिवसान्तरे ।
नारीसंगे तु नन्दीश शरीरो क्रमणे रसः ॥ ५० ॥

प्. ५७५)

तस्मात्सर्वप्रयत्नेन स्त्रीसेवां तु न कारयेत् ।
रसभस्म सदा सम्यग् उपर्युपरि भक्षयेत् ॥ ५१ ॥

महासिद्धिं च लभते नात्र कार्या विचारणा ।
भौतिकः पापनाशार्थं स्वल्पं स्वल्पं च भक्षयेत् ॥ ५२ ॥

नैष्ठिकस्य वि * * ण चोक्तमार्गस्य सेवनम् ।
अणिमाद्यष्ट संसिद्धिं क्रमादेति न संशयः ॥ ५३ ॥

नैष्ठिकोपि विशेषेण धारणायोगसिद्धिभाक् ।
मुत्कालं तु विशेषेण पारदं भक्षयेद्गुरुम् ॥ ५४ ॥

तस्मात्सर्वं लघुः कार्यं भक्षणं तु रसायनम् ।

आलोको रात्रिभाग स्फुट रविकिरणस्यादिवाकालभावाः संध्यालोकोपलब्ध
प्रकृतिभिरसस्तुत्यज्यते स्माभिरेतत् ॥ ५५ ॥

इत्यचिन्त्य विश्वसादाख्ये रसायनविधि रेकोन त्रिंशत्पटलः ॥



प्. ५७६)

अथ वक्ष्ये विशेषेण षडाधारस्य लक्षणम् ।
आधेयी षड्विधं प्रोक्तं आधाराधेय लक्षणम् ॥ १ ॥

आधारं गुदमित्याहुः स्वाधिष्ठानं तु गुह्यकम् ।
मणिपूरं तु नाभौ तु हृदयं तदनाहतम् ॥ २ ॥

विशुद्धिः कण्ठदेशे तु आज्ञा भ्रूमध्य एव च ।
पद्माधारमिति प्रोक्तं आधेयं तु षडक्षरम् ॥ ३ ॥

मूलाधारमजग्रन्थि संज्ञदेशं स्मरेन्मलम् ।

  • * णं काञ्चनप्रख्यं चतुष्पत्राभमुज्वलम् ॥ ४ ॥


गुदमेढ्रान्तरालस्थं चिन्तयेद्योगवित्तमः ।
चतुर्दशैव सान्तानि अक्षराणि विचिन्तयेत् ॥ ५ ॥

प्. ५७७)

हंसं तारं च शक्तिं च शंखध्वनिनिभं परम् ।
भृंगनादं ततः पश्चात् पराशक्तिस्वरूपकम् ॥ ६ ॥

आधारपद्ममित्युक्तं इति गुह्यं शिवालयम् ।
व्योमाक्षरं तु तद्बीजं तेजसा भास्करप्रभम् ॥ ७ ॥

स्वाधिष्ठानं तदूर्ध्वे तु षट्पत्र कमलोज्वलम् ।
बलतेजोधरैर्युक्तं स्वच्छवारि समप्रभम् ॥ ८ ॥

उद्वभ्र इव वर्णेन बिन्दुनादविभूषितम् ।
ढफान्तं दशवर्णौघैः तरुणादित्य सप्रभैः ॥ ९ ॥

मणिपूराख्यकमलं दशपत्रं प्रभोज्वलम् ।
क्रोधीशबीजसंयुक्तं भावयेन्नन्दिकेश्वर ॥ १० ॥

प्. ५७८)

तदूर्ध्वे तु द्विषट्पत्रं मध्यमध्ये विभावयेत् ।
कठान्तद्वादशार्णौघैः सहस्रकिरणप्रभैः ॥ ११ ॥

अनाहताख्यमाधारं नादस्तेनाभिरिष्यते ।
इन्द्रबीज स संयुक्तं तद्बीजं रोचनप्रभम् ॥ १२ ॥

षोडशस्वर संयुक्तं विशुद्धाख्यावसंगमम् ।
शुद्धस्फटिकसंकाशं ठकाराक्षरबीजयुक् ॥ १३ ॥

आज्ञाख्ये च भ्रुवोर्मध्ये दलयुग्मं सरोरुहम् ।
अक्षपाणियुतं चैव रेफेण तु समुज्वलम् ॥ १४ ॥

बिन्दुनादकलायुक्तं शक्तियुक्तं च भावयेत् ।
षडध्वसन्धिसंयुक्तं सर्वबोधप्रवर्तकम् ॥ १५ ॥

प्. ५७९)

ज्ञानामृतरसोपेतं मोक्षसाधनमुत्तमम् ।
षडाधारमिति प्रोक्तं गुरुवक्त्रेण लभ्यते ॥ १६ ॥

इत्यचिन्त्यविश्वसादाख्ये षडाधारविधिः त्रिंशत्पटलः ॥



नवाधार विधिं वक्ष्ये शृणुत्वन्नन्दिकेश्वर ।
आधारं प्रथमं प्रोक्तं स्वाधिष्ठानं द्वितीयकम् ॥ १ ॥

तृतीयं मणिपूरं तु चतुर्थं हृदयं भवेत् ।
पञ्चमं तु विशुध्याख्यं कण्ठमूले तु भावयेत् ॥ २ ॥

क्रिया पद्मं तालुमूले दिव्याग्रतयुतः परम् ।
आत्मको दण्डयन्मध्यं सप्तमं ज्ञान बिम्बकम् ॥ ३ ॥

प्. ५८०)

ललाटं चाष्टमं प्रोक्तं चन्द्रबिम्बैश्च यान्वितम् ।
तदूर्ध्वं ब्रह्मरन्ध्रं स्यान्नवमं नन्दिकेश्वर ॥ ४ ॥

मूलाधारं समारभ्य विशुध्यन्तं तु पूर्ववत् ।
क्रियाज्ञानाख्यकाचैवमिच्छाशक्तिस्त्रिमण्डलम् ॥ ५ ॥

प्रत्येकं षोडशदलं प्रत्येकं षोडशस्वरम् ।
बिन्दुनादकलायुक्तं परानन्दामृतं चयम् ॥ ६ ॥

तदूर्ध्वे तु शिरःस्थानं सर्वतेजोमयं परम् ।
षष्ट्युत्तरत्रिशतकं पत्रस्यापि दलं भवेत् ॥ ७ ॥

अधोमुकुलिताकारं लम्बमानचतुष्कलम् ।
पराशक्ति महापद्मं त्रिदशैरपि दुर्लभम् ॥ ८ ॥

प्. ५८१)

एवं ध्यात्वा पदं योगी क्रमान्मोक्षं च गच्छति ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ९ ॥

एवं ज्ञात्वा सदा योगी स एव शिवविग्रहः ।
आधारस्य प्रधानान्तं कुण्डलीं च शृणुश्वथ ॥ १० ॥

सर्वशक्तिमयश्चैवमादिमध्यान्त सुस्थिता ।
नीवारशूकवर्तिन्यस्युप्ता चेद्भुजगाकृतिः ॥ ११ ॥

चैतन्य योजनीतत्वे परात्परतरे शिवे ।
आधाराणामशेषाणां भेदिनी बोधिनी परा ॥ १२ ॥

निष्यन्दामृतधारे व स्वाभिशक्तिस्वरूपिणी ।
मण्डलत्रयसंभेदी तारवत्तु त्रिवर्तुला ॥ १३ ॥

प्. ५८२)

एवं ध्यात्वा सदा योगी नवाधाराणि तत्परः ।
पश्चात्सा कुण्डली देवी पीयूष वर्षकी शिवम् ॥ १४ ॥

आप्याययन्ती सर्वत्र सिद्धिमुक्तिप्रदायिनी ।
मूलकुण्डलिनी देवी दृष्ट्वा मन्त्राणि बीजकाः ॥ १५ ॥

सुरमुच्चारसंयुक्ता तत्तद्रूपस्मृतिं पिबेत् ।
एवं च कुण्डली प्रोक्तं प्यतिगह्वा महोदया ॥ १६ ॥

इत्यचिन्त्यविश्वसादाख्ये नवाधारकुण्डलिनी विधिरेकत्रिंशत्पटलः ॥

 

नन्दिकेश्वर उवाच ।

अक्षराणां च सर्वेषां उत्पत्तिं प्रथमं विभो ।
अक्षरादखिलं जातं क्षराणाभाववर्जनात् ॥ १ ॥

प्. ५८३)

अत एवाक्षराणां तु प्रत्याहारक्रमेण तु ।
अकारादि क्षकारान्तं मातृकाक्षरतो भवेत् ॥ २ ॥

सादाख्यस्य हृदम्भोजपरमाकाशमध्यतः ।
परनादात्समुद्भूतः तुटिकालो निनादते ॥ ३ ॥

तुटिभिर्दशभिर्युक्तो नादाद्बिन्दु परो भवेत् ।
तत्कालेन तु संयुक्तो बिन्दुश्च परबिन्दुतः ॥ ४ ॥

बिन्दोर्बीजसमुत्पत्तिः तत्रापि च विशेषतः ।
बीजस्य बालभावे तु परावाणी विभृम्भिता ॥ ५ ॥

सा वै द्विगुणिताकारा चेषद्यौवनमागता ।
पश्यन्त्यभिख्या त्रिगुणिता यौवनं मध्यमा भवेत् ॥ ६ ॥

प्. ५८४)

वैखरीरूपमापन्ना चैकमात्रा समन्विता ।
तदक्षरमिदं नाम कलादीर्घाददीर्घताः ॥ ७ ॥

त्रिमूर्तिप्लुतमित्युक्तं द्विमूर्ताद्दीर्घमुच्यते ।
इच्छाज्ञानक्रियाभेदैः स बिन्दुस्त्रिविधो भवेत् ॥ ८ ॥

क्रियाबिन्दोस्समुद्भूता अकारोश्चोत्तरोत्तमः ।
ज्ञानबिन्दोस्समुद्भूतमाकारं स्थितिरूपकम् ॥ ९ ॥

इच्छाबिन्दुसमुद्भूतमाकारं मोक्षसाधनम् ।
अकारोकार संयोगाद् ओंकारस्वर्णमुत्तमम् ॥ १० ॥

मकारेण च संयुक्तं तारमेवं समुत्थितम् ।
अक्षरत्रय संयुक्तं शब्द ब्रह्मरवो भवेत् ॥ ११ ॥

प्रथमं वर्णमध्ये तु मथनादुद्भवं तथा ।
एकत्र मथनादेव यथा पीयूष संभवम् ॥ १२ ॥

रवश्चैव ध्वनिश्चैव अनुस्वार विसर्गकौ ।
पञ्चवर्णाः प्रशस्यन्ते अकारान्तभवात्क्रमात् ॥ १३ ॥

ओंकारादि त्रिवर्णं तु उकाराक्षरसंभवम् ।
कादिभान्ताक्षराण्येवं मकाराज्जनितानि वै ॥ १४ ॥

यकारादि चतुर्वणा रवतश्च समुद्भवाः ।
ध्वनितश्च समुत्पन्ना तथैवं शादिभान्तकम् ॥ १५ ॥

ललयोर्निर्विशेषत्वादक्षयोस्संगमादपि ।
ललद्वयस्य चोत्पत्तिः पूर्वमेव समीरिता ॥ १६ ॥

प्. ५८६)

देवदेवस्य संव्याप्त्या वर्णानां व्याप्तिरीरिता ।
प्रणवाकारतस्सर्व वर्णोत्पत्तिरपीष्यते ॥ १७ ॥

त्रितत्वं च त्रिलोकं च त्रिपुण्ट्रं प्रणवात्मकम् ।
अकारादिक्षकारान्तं वर्णानां पृथगेव तु ॥ १८ ॥

वाहनासनरूपादिका च वैशेषिकीमता ।
स्वच्छवर्णारुणश्वेतपीतवर्णास्तु भूतशः ॥ १९ ॥

ह्रस्वदीर्घाः कवचपयष्टाश्चाद्यापि विग्रहाः ।
केत्वन्ता वर्णकस्तुल्यं * * * * प्रवालकाः ॥ २० ॥

वैडूर्य पुष्य वज्रेन्द्र नीलगोमेदगारुडैः ।
लक्षयोजनविस्तीर्णचतुर्मास्योष्टदृग्भुजः ॥ २१ ॥

प्. ५८७)

जटामकुटसंयुक्ता वासाश्चन्दनसौरभाः ।
ऊर्जिताभाणकृष्टो गम्भीरो वलयायुधः ॥ २२ ॥

वृत्तासनोपल वर्णो ह्यकारः कूर्मवाहनः ।
चक्रासनश्चक्रनिभो मुक्ताभूषश्च टंकधृक् ॥ २३ ॥

द्विमुखो लक्षविस्तीर्णो आकारो जजवाहनः ।
चतुरश्च त्रिणयनः क्षत्रियश्च नपुंसकः ॥ २४ ॥

एतद्विस्तरमायामो वज्रीवैडूर्यभूषणः ।

  • * कवो मदकन इकारः कूर्मवाहनः ॥ २५ ॥


पद्मासन्ने मन्दगतिर्मधुरः पद्मयुग्यधृक् ।
दिवाकल्पस्सगन्धःस्यादिकारो हंसवाहनः ॥ २६ ॥

प्. ५८८)

क्लस्त्रासनं च द्विभुजं शूलहस्तं खरस्वरम् ।
काषायगन्धमाकृष्य भूषित तविग्रहम् ॥ २७ ॥

त्र्यश्र्यासनं मानभंगाकल्पं बद्धमृगत्वचम् ।
चतुरश्रासनं स्वादु कपिलापाशवज्रधृक् ॥ २८ ॥

सुवर्णाभरणं जाठिमल्पकामोररुद्वयम् ।
चतुर्भुजस्त्रिणेत्रश्च मुक्ताहारोपवीतकम् ॥ २९ ॥

प्रसन्नदृष्टिस्सुभगो जटामकुटहृत्प्रियः ।
खड्गचक्रधरः स्वादु मयू * * र्णकः ॥ ३० ॥

दशयोजन ऊकारश्चक्रवाकाख्यवाहनः ।
त्र्यरासनो निवर्णश्च द्विभुजः शूलवज्रभृत् ॥ ३१ ॥

प्. ५८९)

रज्वरस्वर एकारः स्वादुर्गरु * * * * ।
तप्तकाञ्चनसंकाशः गन्धस्त्रिवृका ॥ ३२ ॥

सर्वव्यापी सर्वशक्तिः सर्वेज्यं पद्मसंभवः ।
सर्वानुकुम्भकस्सर्व देवतानां च शास्त्रकृत् ॥ ३३ ॥

निर्विकर्ता समूर्तीनां सुधी दुर्लक्षणः ।
सर्वतोमुखवद्वाहुरोंकारो वृषवाहनः ॥ ३४ ॥

वृत्तासनं पीतवाणीश्चतुर्बाहुश्शतोर्जिताः ।
वज्रपाशधरः स्वादुकाषायं पुष्पसौरभम् ॥ ३५ ॥

भवनं स्वेदं मलश्शूलगदाधृग्घोरदुस्तरः ।
पाशहा शोभनाका * * * * करवाहनः ॥ ३६ ॥

प्. ५९०)

पीतस्रग्गन्धमाल्यानुलेपः स्थिरगतिस्सुदृक् ।
जटामकुटधृच्छूली मुसली कुलिशायुधः ॥ ३७ ॥

दिव्याकल्पश्चक्रवर्ती पुमान्क्षत्रियपुंगवः ।
सहस्रविस्तरो लक्षारामषट्कोण * * कः ॥ ३८ ॥

भजवाहनस्तम्भन * * * * ण पुष्पयुक् ।
इन्द्राधिदैवतं प्रोक्तं ककारो सक्षरोत्तमः ॥ ३९ ॥

त्रिंशत्कोटीन्मतो व्यालब्राह्मणोन्यधिदैवतः ।
शक्तितोमरसंपन्नः शुभमाल्यानुलेपनः ॥ ४० ॥

सुवर्णश्च खकारः खगमस्तभस्मृतः ।
पुमार्णः शलुधूवागः श्वेतवस्त्रः प्रसन्नधीः ॥ ४१ ॥

प्. ५९१)

मुक्ताभरणभूषश्च द्विभुजः फलपद्मयुक् ।
पद्मासनगतः साधुहंसवाहः प्रसन्नधीः ॥ ४२ ॥

माल्यादशायामो नकारो यक्षदैवतः ।
व्यास वतदास्तमशक्तिमान् झर्झरस्वरः ॥ ४३ ॥

कठोरगन्धः क्षारश्च रौद्रदृस्टिर्नपुंसकः ।
उष्ट्रोष्टाष्टकह्मथपीठो विद्वान्धूम्रो महाबलः ॥ ४४ ॥

  • * * श्चहलादाख्यं मोहकृद्वोधमैश्वरः ।

शूर्पासाः काकवाहो दुर्गन्धस्वरसंश्रयः ॥ ४५ ॥

यामो नपुंसकश्शक्ति भिण्डिपालपरश्वथान् ।
विभृन्नयस्सहस्रांशु हुतभृत् भुर्क च ॥ ४६ ॥

प्. ५९२)

  • * * नो हंसवाहः श्वेताभरणसंयुतः ।

जटामकुटस्रक्च्छंखपद्मधारी चतुर्भुजः ॥ ४७ ॥

याम्यस्सुरगतीस्त्रीलिंगोस्त्री लिंगोऽपि प्रियाकृतिः ।
सहस्रकोटी विस्तीर्णः चकारो रत्नभूषणः ॥ ४८ ॥

नृप्लाहे सनोर्काहो महागन्धस्वरो द्विजः ।
शक्तिवज्रधरो मुक्ताकल्पो वरुणदैवतः ॥ ४९ ॥

पुष्पादौमृतगन्धाश्च साहस्रो वारुणो जटी ।
मकुटी च जकारः स्याधुकारश्च तथापि च ॥ ५० ॥

काकवाहः कृष्णवर्णो दुष्टकर्मा नपुंसकः ।
टंकधृङ्निष्ठुरो घोरस्वयोजनसमीरितः ॥ ५१ ॥

प्. ५९३)

सर्वरौद्राच्छिवहरः अर्यम्णः शीघ्रहस्तु नः ।
सनोमृतरसः कालो * * * * द्विभुजः पुमान् ॥ ५२ ॥

मदनो वर्णश्च वज्रधृग्वज्रवर्णधृक् ।
व्यालोपवीतीचन्द्रा दैवकाष्ठुः प्रकीर्तितः ॥ ५३ ॥

गजवाहो धनुष्पीठः शंखचक्र निभोमृतम् ।
वज्रपद्मायुधो जम्बूद्वीपमानस्सुरक्षितः ॥ ५४ ॥

संक * * * * स्वादुगन्धः कोवेरष्ठे षितः ।
कौस्तुभागं पुमान्मेषवाहः सुस्वादुमन्धवान् ॥ ५५ ॥

विद्याधरप्रियो रौद्रः कालाग्नि समशक्तिकः ।
वश्याक्षकृत्स्वादुगन्ध * * * * क संज्ञकः ॥ ५६ ॥

प्. ५९४)

भिण्डिपालतनुर्वज्री भी * डिपरमायुधः ।
सहस्रयोजनायामः सत्यवासोऽधिदैवतः ॥ ५७ ॥

जटामकुटधारी च खेटकारोपितद्विधः ।
सहस्रयोजनायामः तदर्धार्धायुतः पुमान् ॥ ५८ ॥

टंकाक्षयुक् चतुर्बाहुः कोट्यागो वृकवाहनः ।

  • * * पद्मपीठश्च मधुरः किन्नरार्चितः ॥ ५४ ॥


दिव्याकल्पस्सुगन्धार्थर्णकारश्चैव दैवतः ।
क्रूरः कटुकमृत्स्वादुरसषण्मुख एव वा ॥ ६० ॥

टंकांकुशधनुर्दण्ड पाशशूलमुसुण्डिभृत् ।
तोमरी * * * * * याम्यस्सानुग्रहश्चतः ॥ ६१ ॥

प्. ५९५)

धूर्धूरप्रीति * ग्नेयतादृशो यस्समस्तदः ।
नपुंसकः कृष्णवर्णः ऊर्ध्वहृत्क्रूरवाहनः ॥ ६२ ॥

क्रूरध्वनिश्च * र्गन्धस्सर्व यज्ञोपवीतवान् ।

  • * * * गदाग्निमुसली शूलधन्वेयमौ वरः ॥ ६३ ॥


पुमान्कपोतवाहश्च नासनोमुखतश्च सः ।
चतुर्विंशति विस्तीर्णो रौद्री घटिमुसुण्डिभृत् ॥ ६४ ॥

  • * * गंगा ताटंक * * चक्रायुधो हि धृक् ।

सितपवरेण रौद्रा धूर्धूरार्थी च नैर्-ऋतः ॥ ६५ ॥

शतायवोर्ध्वविष्कम्भो द्विभुजश्च नपुंसकः ।
काकवाहस्वरः कृष्णवस्त्रश्चित्रास्य उत्कचः ॥ ६६ ॥

प्. ५९६)

व्याघ्रचर्मोत्तरीयश्च हलधृग्रौद्रकर्मकृत् ।
मधुगुग्गुलुतैलाख्य नरो गी कठोरकः ॥ ६७ ॥

दुष्टवेष्ट्यो मकारस्तु संप्रोक्तो यम दैवतम् ।
दशपु * * माज्योता मधुज्ञानासरोजधृक् ॥ ६८ ॥

सर्वायुधश्चतुर्बाहुः चा घ्रोगरुडवाहनः ।
षट्कोट्यायामकोशेन विस्मृतेन च भूषणः ॥ ६९ ॥

सर्पोप वीती दैवादिपूजितो व्यापकश्च यः ।
पुमान्विद्युत्प्रभस्सिद्धो गारुडः कमलासनः ॥ ७० ॥

दशोदशोष्ट दोषांकी स्वादुरैश्चानकच्छपः ।
दशकोटीपरीणाहः पुमानुग्रप्रभोष्टदोः ॥ ७१ ॥

प्. ५९७)

मुक्तोपवीती कौबेरी शंखचक्रगदाधरः ।
गणेशान् जासनः पुष्पगन्धः प्रोक्तो वकारकः ॥ ७२ ॥

कटकन्निप्रयोलक्ष विस्तीर्णा विष्ठुरत्वरः ।
उमा भेदयो धूम ऊर्ध्ववक्त्रो नपुंसकः ॥ ७३ ॥

भकारो रौद्रदैवत्यो नैर्-ऋत्याद्यधिदैवतः ।
दयात्मकः प्रभोनन्द पुमानम्बुजासनः ॥ ७४ ॥

अनन्तस्यं करुन्नस्तु सर्वकल्पोति दैवतः ।
व्यालभूम्यासुरश्रीघ्रमद्यकश्शोककद्विजः ॥ ७५ ॥

वृत्तादि चाघ्नेण वाहोप्यय नपुंसकः ।
दूर्वावर्णो धकारस्तु संप्रोक्ते यमदैवतम् ॥ ७६ ॥

प्. ५९८)

द्वादशादित्यभाव्यश्च कोटिमानो नपुंसकः ।
त्रिकोणगश्च आग्नेये रेफो महिषवाहनः ॥ ७७ ॥

स्त्रीपीतस्तम्भने शक्ते गदाहस्तश्च पार्थिवः ।

  • * * * * * ऐन्द्रो रुकारः परिकीर्तितः ॥ ७८ ॥


साश्वेत बिन्दुकारक्तस्त्रीलिंगो मत्स्यवाहनः ।
वाकारो वरुणो वश्य तुष्टि स्थिवर्णकारकः ॥ ७९ ॥

दशबाहुस्सुदीर्घश्च पञ्चसाहसापि स्मृतः ।
स्त्रीलिंगो मधुरोरर्कश्च वाहश्चतुर्भुजः ॥ ८० ॥

  • * * * * * चरक्त चन्दणपरः प्रियः ।

रक्ताम्बरधर * * * * * * वनः प्रियः ॥ ८१ ॥

प्. ५९९)

रक्ताम्बरपद्मपीठ शंखचक्रश्च धृक्कटाः ।
मुख्य कल्पो वश्यकृष्ट शान्त्या दृष्टिं प्रसा * * ॥ ८२ ॥

  • * * * * * * च प्रोक्तश्चन्द्राधिदैवतः ।

पुमान्मयूरग्रीवाभ शत्रुहापाशवज्रधृक् ॥ ८३ ॥

लक्षायतः कष्कभः कूर्मवाहासनस्वभूः ।
इषकस्तम्भकूर्चाभा गन्धकाः ॥ ८४ ॥

पुमान्शोणोष्ट बाहुश्च ततः शंखगदायुधः ।
लक्षायतोस्तु विस्तीर्णो वैडूर्यभूषणः ॥ ८६ ॥

कौबेरी मधुरश्चैव जटामकुटधृक् च सः ।
श्वेतश्वेतांकुशस्वापि सर्वव्यापी नपुंसकः ॥ ८६ ॥

प्. ६००)

सर्वायुधः सर्वकर्ता सौम्यगन्धश्च मन्दकाः ।
स श्रीदैवत्य स्त्रीकालज्ञोभिज्ञश्शकारस्सर्वतः ॥ ८७ ॥

पुल्लिंगः पीतवर्णश्च मानप्रविस्तरः ।
चतुरश्रासनः सर्वाकल्पस्रग् गजवाहनः ॥ ८८ ॥

द्विषर्दो वज्रशंखारि गदापाश मुसुण्डिभृत् ।
लस्त्याद्गरुडगन्धर्वा परिपट्या धरार्चितः ॥ ८९ ॥

कूदाक्षरः क्षकारश्च मन्त्रबीजं नपुंसकः ।
पर्णीगन्धरसाकार * * वाहसहेतिभिः ॥ ९० ॥

पतंगजाति स्वभावश्च यं पृथक् पदशादितः ।
सयोगभेदादेतेऽपि संप्राप्तवाहांगिनः ॥ ९१ ॥

प्. ६०१)

देवतारूपवैषम्य मायास्ता मन्द्रतायेयाः ।
सष उल्लंघ्य संयोगा मधनो द्विपस्तां यथा ॥ ९२ ॥

रजनरक्ष सक्ष्वारसंयोगाद्रक्ततापि च ।
वैषमानिहतान्ये च यथा शक्ति विशेषतः ॥ ९३ ॥

एक एव तु मन्त्राणां कलादिगुणभेदतः ।
संपदो विपदश्चैव कुर्यात्स्वल्य परस्य वा ॥ ९४ ॥

सृष्टौ स्थितौ स चण्डं हारे ज्ञाने मोक्षे च हेतवः ।
स्वराः षोडश सौम्याः स्युर्विशेषेण षडक्षरम् ॥ ९५ ॥

हास्वश्च सूर्यरूपं हि तादिहान्नाक्षराणि वै ।
क्षकारश्च वकारश्च ठकारं च चतुर्थ्यकम् ॥ ९६ ॥

अणोरणुतरान्धूलाद्वन्धूलाद्वाप्त चराचर ।
अणोरणुतरान्धूव सूर्याशोश्च न विद्यते ॥ ९७ ॥

दीर्घाक्षराणि तस्यैव सूर्या

प्. ६०२)

उंगुदं चरदीन् वन्याक्षरमथोच्यते ।
ऋ ॠ ऌ ॡ च * र्णाश्च मादिलाक्षान्तराणि वै ॥ ९८ ॥

मनक्षराणि वह्नेश्च वतारश्चन्द्रबीजकम् ।
हकारं व्यवर्णं स्यात् सोमसूर्याग्निरूपकम् ॥ ९९ ॥

पृथिव्यादिकलानां तु मूलाधारादि वक्ष्यते ।
सृष्टिरूढि स्मृतिर्मेधा कान्तिलक्ष्मीस्तथा स्वधा ॥ १०० ॥

धृति ऋद्धिरितिप्रोक्तः कलाभूमि समुद्भवाः ।
स्थिरा व्यपालिनीशान्तिरैश्वरी ममका रतिः ॥ १०१ ॥

प्रीतिश्च मानसी कृष्ण दीर्घारश्च कलादशः ।
तामसी मोहनी मध्या चन्द्राक्षरक्रोधिनी भयात् ॥ १०२ ॥

प्. ६०३)

  • * * * * * * * * लास्तक्षसमुद्गताः ।

पीताश्वेतारुणा कृष्णाश्चतस्रो वायुसंभवाः ॥ १०३ ॥

इन्द्रिकादि विक्रमाया मोहिनी रेचिका परे ।
मृतज्ञाना व व्यापिनीस्त्यपिनि व्योमरूपा सद्यानन्दा षोडशा नराः ॥ १०४ ॥

तपनी तापनी धूम्रा मरीची जडिनी रुचि ।
सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ १०५ ॥

कभाद्यावस्त्रधासोरा षटान्ता द्वादशेरिता ।
मृतामरनदा पूषा पुष्टिदा चरति स्मृतिः ॥ १०६ ॥

शशिनी चन्द्रिका कान्तिर्ज्योत्स्नाग्निः प्रीतिशारदा ।
पूर्णा पूर्णामृताकामदाश्विन्यसस्वरां कलाः ॥ १०७ ॥

प्. ६०४)

सजीवनि स्वधापापहर्षिणी क्लेदिनी सुधाः ।
अजरी ह्यमरी घोरा गम्भीरा वर्षणी तथा ॥ १०८॥

आह्लादिनी तथानन्दा क्लिन्ना सौभाग्यवर्धनी ।
सुभगा व सुरूपी च कला शक्तिश्च षोडशा ॥ १०९ ॥

आनन्दिनी महानन्दि प्रीतिर्दिव्या च कामिनी ।
कीर्तिर्लक्ष्मीस्सृतिश्चैव तथैव जनरञ्जिनी ॥ ११० ॥

मेधा कामास्थिरा सृष्टिः सुभगा पालिनी परा ।
कलाः षोडश विख्याताः परमानन्ददायिना ॥ १११ ॥

इत्यचिन्त्यविश्वसादाख्ये अक्षरोदयविधिर्द्वात्रिंशत्पटलः ॥



प्. ६०५)

समाधिर्वक्ष्यते सूक्ष्मे सर्वद्वन्द्व विवर्जितः ।
ज्ञानमेव समाधिः स्यात् तद्विशुद्धस्तथोच्यते ॥ १ ॥

जाग्रत्स्वप्नसुषुप्तान्ते तत्सम्बन्धमनित्यताम् ।
एतत्तुरीयानीतं तु आत्मनो नित्यमेव तु ॥ २ ॥

जाग्रादि द्विविधं ज्ञेयं भवमोक्षगतं तु यः ।
समार्गमध्यमं ज्ञेयं भवमार्गमथोच्यते ॥ ३ ॥

तत्तत्कर्मानुसारेण जरा साधोमुखं भवेत् ।
मुखे जाग्रमिति ज्ञेयं तस्मात्स्वप्नकृतान्तुकम् ॥ ४ ॥

हृदयादि समारभ्य नाभ्यन्तं तु सुषुप्तमम् ।
तस्मादधस्तुरीयं तु तस्यातीयं तु लिंगकम् ॥ ५ ॥

प्. ६०६)

जाग्रादिस्थानमेवं हि प्रवर्तक मिहोच्यते ।
जाग्रत्काले त्वचो व्यप्ति स्वप्ने वक्त्रं तथैव च ॥ ६ ॥

सुषुप्ते मांसदाव्याप्तिस्तुर्ये मेदसि स्थितः ।
तदन्तस्तु तदातीत जीवव्याप्त प्रकीर्तिताः ॥ ७ ॥

श्रोत्रत्वक्चक्षुर्जिह्वा च प्राणानाञ्चैव पञ्चकम् ।
शब्दस्पर्शं च रूपं च रसो गन्धश्च पञ्चमम् ॥ ८ ॥

वाक्पादपाणिपायूपस्थं चैव तु पञ्चमम् ।
वचनादानगमन विसर्गानन्द पञ्चकम् ॥ ९ ॥

प्राणस्वपानो व्यानश्च उदानश्च समानकः ।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ १० ॥

प्. ६०७)

मनोबुद्धिरहंकारः श्चित्तं क्षेत्रज्ञ एव च ।
रागमायाकलाविद्या नियतिः काल एव च ॥ ११ ॥

शब्दादित्वच दीर्घश्च घ्राणादींश्च मनादिकम् ।
रा * * कामत्पर्यन्तं एकत्रिंशच्च स्वप्नके ॥ १२ ॥

संज्ञतैस्तैरेव * * * प्रतिसञ्च स्वप्नकम् ।
जाग्रे विषयभुक्तिश्च स्वप्नो न स्त्यागतिस्तकम् ॥ १३ ॥

अयसाग्नि समायोगाद्वायोग्निश्चवदायसम् ।
तद्वश्चैतन्यये यागः करणादिनाम् ॥ १४ ॥

प्राणादि चैव चित्तं च वागादीश्च तथैव च ।
अष्टादश सुषुप्तौ तु वर्तते नन्दिकेश्वर ॥ १५ ॥

प्. ६०८)

आत्मा प्राणा च विद्या च तुरीयमिति कीर्तितम् ।
चैतन्यमात्रमेकन्तु * * * तं महोदयम् ॥ १६ ॥

किं तु गुह्यतमं वक्ष्ये शृणुत्वं नन्दिकेश्वर ।
आत्मनोऽपि यवान्भोक्तुं प्रकृतिर्ह्यतिवर्धनम् ॥ १७ ॥

प्रकृतानि यद्रानि स्यात् सावस्था साग्र उच्यते ।
विनाकरण देहानां व्यापरैरात्मनः कृतिः ॥ १८ ॥

वृत्तिर्मानसस्वप्नो वस्थाभावेषु केवलम् ।
स्वस्थं विषयसंगोश्च खेदलीन्नेयमात्मनि ॥ १९ ॥

मनः कृतिश्च निश्चेष्टा सुषुप्तन्नन्दिकेश्वर ।
नमो व्यापारहीने तु चित्ताविद्यागमागति ॥ २० ॥

प्. ६०९)

  • र्यन्तश्च परावस्था तुर्यातीतो हि निर्जन ।

अष्टादशमदृश्यानामष्टयोदृष्टि दृश्ययोः ॥ २१ ॥

स्वयं वेद्योपरं ज्योति ज्ञानरूपो महत्प्रभुः ।
स्थूलं सूक्ष्मं च सुसूक्ष्मं च अतिवृत्तिं तथान्तिकम् ॥ २२ ॥

स्थूलं जागृ संज्ञेयं सूक्ष्मं स्वप्न मिहोच्यते ।
सुषुप्तिस्तु सुसूक्ष्मं स्यादिति सूक्ष्मं तुरीयकम् ॥ २३ ॥

ततोधिकं तुर्यातीतं एवं पञ्चविधं स्मृतम् ।
स्वप्नश्चैव सुषुप्तिश्च * * * तदधिं च वै ॥ २४ ॥

जाग्रस्थानं प्रदृश्येत योगमह्यस्तमक्रमात् ।
जाग्रेदश्य प्रवृत्तिं च प्रत्याहारेण शाम्यति ॥ २५ ॥

प्. ६१०)

धारणाय जयेत्स्वप्न रन्ध्रनेनै सुषुप्तिकम् ।
समाधिना तुर्यतीतं तुरीयं तु शिवेन तु ॥ २६ ॥

जाग्रादिपञ्चावस्थायां अतीते ज्ञानरूपकम् ।
सद्गुरोरुपदेशेन प्रकाशो न न संशयः ॥ २७ ॥

एवं ज्ञात्वा विशेषेण समाधिं कारयेद्बुधः ।
रूपशून्यमितिज्ञेयं समाधिरभिधीयते ॥ २८ ॥

चित्तशुद्धिस्थितं कृत्वा शिवलक्षणमेव हि ।
आनन्दं शिवयोगं तु शिवयोगं सदाभ्यसेत् ॥ २९ ॥

नानन्दं शिवयोगं तु तच्च देहे व्यवस्थितम् ।
आनन्दं जिह्वते जन्तोस्तस्मादानन्दमिच्छते ॥ ३० ॥

प्. ६११)

स्वरूपं हरितं शून्यं भासविभासितम् ।
ज्ञानादिरहितं बुद्धिश्चित्ताहंकारनाशनम् ॥ ३१ ॥

तमसा मनसा ध्यात्वा ताशयन्नाशभावनम् ।
पापनाशः परामुक्तिर्यत्तत्संसारनाशनम् ॥ ३२ ॥

चिन्तया रहितं यच्च आत्मनो मुक्तिरेव हि ।
आनन्दान्तर्गता मुक्तिः तस्यैव तु न संशयः ॥ ३३ ॥

नन्दनन्दक इत्युक्ते त्रैलोक्यज्ञानरूपकम् ।
योगं वक्ष्येह्यरूपं च योगरूपमरूपकम् ॥ ३४ ॥

  • * कुरूपनाशान्तरूपं योगविनाशनम् ।

सा दर्शनं स्वशेल्लिंगं स्पर्शलक्षणमारभेत् ॥ ३५ ॥

इत्यचिन्त्यविश्वसादाख्ये (समाधि विधिः) त्रयस्त्रिंशत्पटलः ॥



प्. ६१२)

अथ वक्ष्ये विशेषेण समाधि राजमुत्तमम् ।
सन्ध्याकालेऽथवा काले सन्ध्यावन्दन पूर्वकम् ॥ १ ॥

लिंगार्चने तु काले चेल्लिंगार्चनमथाचरेत् ।
पश्चाद्योगं समभ्यस्य ते काले योगमेव तु ॥ २॥

त्यागिनस्सर्वकालः स्याच्चन्द्रस्यार्कस्य नाशनम् ।
गुरोस्समीपदेशे तु च सद्योगि समीपतः ॥ ३ ॥

सद्गुणोपेत शिष्येण सहितो वा चरेत्सदा ।
सान्तानिकेन सहितो लिंगार्चनयुतेन च ॥ ४ ॥

समाधिस्थो यदा योगी विधिनाद्यधिकं यदि ।
सहायो लिंगपूजां च कुर्यादस्यापि योगिनः ॥ ५ ॥

प्. ६१३)

शौचमाचमनं चैव प्रथमं तु द्वितीयकम् ।
आसनं तु तृतीयं तु चोत्तराभिमुखस्थितिः ॥ ६ ॥

चतुर्थं भस्मना स्नानं पञ्चमं रसभस्मकम् ।
षष्ठं रुद्राक्षमालाभिरुपवीतादि भूषणम् ॥ ७ ॥

सप्तमं तु गुरुध्यानं अष्टमं नाडिशोधनम् ।
नवमं दाहनं चैव दशमं प्लावनं तथा ॥ ८ ॥

एकादशं प्राणायामं सन्यासं द्वादशं पुनः ।
मन्त्रन्यासन्तु नन्दीश षडंगन्यास पूर्वकम् ॥ ९ ॥

त्रयोदशं नाडिसंस्था सुषुम्ना च चतुर्दश ।
मूलाधारः पञ्चदश षोडशं ब्रह्मनाडि वै ॥ १० ॥

प्. ६१४)

  • * वे अधिष्ठानं अष्टादशं मणिपूर्वकम् ।

एकोनविंशद्धृदयं विशुद्धिर्विंशतिर्भवेत् ॥ ११ ॥

एकत्रिंशच्च वा भूमि ज्ञानदेशमतः परम् ।
त्रयो बिम्बं चतुर्विंशं * * * * शिवं भवेत् ॥ १२ ॥

स्थाणुलिंगं पञ्चदशं समाधिस्तदनन्तरम् ।
आनन्दं सप्तविंशत्या तद्भेदं च पुनः शृणु ॥ १३ ॥

पूर्वोक्तं च विना तु स्युः रत्नगर्भं शृणुष्वथ ।
शिवाख्यं गुरुरूपं तु भावयेत्तु प्रयत्नतः ॥ १४ ॥

रूपं च रूपवर्णं च अनन्तं कुरुते व हि ।
प्रभया वहते यस्तु सर्वदोष निबर्हणम् ॥ १५ ॥

प्. ६१५)

मन्त्र ध्यानं प्रकुर्वीत सदाशिव वपुः स्वयम् ।
यद्यच्छिवमयं रूपं शिष्यो ध्यायन्समाहितः ॥ १६ ॥

तत्तद्वरतरं ज्ञेयं शिवाख्यां गुरुरूपकम् ।
एवं ध्यात्वा समायोगी निश्चलेन समाहितः ॥ १७ ॥

निवृत्तिं च प्रतिष्ठां च विद्यां शान्तिं तथैव च ।
शान्त्यतीतां क्रियाशक्तिं ज्ञानशक्तिं तथैव च ॥ १८ ॥

इच्छाशक्तिं पराशक्तिं नवाया क्षेम भावयेत् ।
आद्यं तत्वं च पूर्वोक्तं पश्चादेताश्च भावयेत् ॥ १९ ॥

सृष्ट्यादि दशकला भूमौ स्थिरादिर्दश वारुणाः ।
तामसी मोहनीत्यादिदशवह्निकलाः स्मृताः ॥ २० ॥

प्. ६१६)

हृदि पादादिकाश्चैव भवोधाधोश्चतुष्टयम् ।
रौरवाश्च द्वादशानु तापन्यादि कथाः स्मरेत् ॥ २१ ॥

शुद्धिकाद्या व्योमकला शुद्धदेशे विभावयेत् ।
तत्र नामादिनवकं ध्यायेद्वै नन्दिकेश्वर ॥ २२ ॥

बिन्दुस्थानेन जीवन्याद्याश्च षोडश भावयेत् ।
अजास्थानेन वायुक्ते कलाषोडशकं स्मरेत् ॥ २३ ॥

आनन्दमोहानन्दिन्यात्यादिस्संभावयेत्क्रमात् ।
चन्द्रस्थाने मृतानादपूषाद्याश्चाथ षोडश ॥ २४ ॥

प्रीत्यादिनवकं तस्य तस्य मध्ये तु भावयेत् ।
मूलाधारे च सन्ताद्यास्तदूर्ध्वे बालषट्ककम् ॥ २५ ॥

प्. ६१७)

सफपं दक्षरं चैव कालान्तं द्वादशं भवेत् ।
अकारादि क्षकारान्तं कान्तादेशे च पूर्ववत् ॥ २६ ॥

भक्षवर्णद्वयं चापि तालुमूले विभावयेत् ।
स्वरास्तत्रैव भ्रूमध्ये चन्द्रबिम्बे तु षोडशम् ॥ २७ ॥

वाङ्मनोतीतमत्रैव ब्रह्मरन्ध्रं च भावयेत् ।
मूलाधारे गुहं प्रोक्तमाधेयं परमं विदुः ॥ २८ ॥

हंसमन्त्रसमायुक्तं शक्तिबीजसमन्वितम् ।
प्रासादं च तदूर्ध्वे तु संचिन्त्य तदनन्तरम् ॥ २९ ॥

अधिष्ठाने च प्रणवं नाभौ चिन्तामणिर्भवेत् ।
मृत्युंजयं च हृदये शिवयन्त्रं विशुद्धिके ॥ ३० ॥

प्. ६१८)

त्रिब्रह्मरूपं कालादिषु स्थानेषु च भावयेत् ।
शिवबीजं तदूर्ध्वे तु शक्तिबीजं तु भावयेत् ॥ ३१ ॥

शिवेन शक्ति * * * न शक्तिरहितश्शिवः ।
स्थानं प्रति च यत्प्रोक्तं तेजोरूपं च भावयेत् ॥ ३२ ॥

सकली कृत्य वा ध्यायेत् शिवयोगी सनिर्मलः ।
साधेयमेवं प्रोक्तं स्यात् ज्ञानदेशं तथोच्यते ॥ ३३ ॥

ज्ञानदेशं न जानन्ति त्रिदशैरपि दुर्लभम् ।
नेत्र मध्ये ततश्चित्तं स्वकीये सन्निवेशयेत् ॥ ३४ ॥

सन्निवेश्य ततस्तिष्ठेत् एकचित्तः प्रसन्नधीः ।
ज्योतिराकाशमेवं तु यावदास्ते प्रयत्नतः ॥ ३५ ॥

प्. ६१९)

तावन्निर्गत्य भूतात्मा देहादूर्ध्वं व्यवस्थितः ।
पश्यते च जगत्कृत्स्नं स्वकायस्योपरिस्थितम् ॥ ३६ ॥

सप्त लोकांश्च तत्रैव पश्यते योगचक्षुषा ।
ज्ञानदेशस्य चार्द्रं तु स्थाणुलिंगं प्रकीर्तितम् ॥ ३७ ॥

मूलाधारं समारभ्य ब्रह्मरन्ध्राव सानकम् ।
समस्ततेजसां तेजः प्रदाने च प्रवीणकम् ॥ ३८ ॥

षट्त्रिंशत्तत्वविज्ञानं तत्वानामादिक स्वयम् ।

  • * प्रमेय सादृश्यं परन्धाम महोदयम् ॥ ३९ ॥


शान्तं त्वनामयं चैव यदि वा जीवरूपकम् ।
चिद्घनं सर्वगं सूक्ष्मं आनन्दमचलं ध्रुवम् ॥ ४० ॥

प्. ६२०)

विश्वाक्षं सर्वतो वक्त्रं सर्वाक्षं सर्वबाहुकम् ।

सर्व * * * * * दयम् ।

सर्वजनं सर्वकार्यं परं परतरं शिवम् ॥ ४१ ॥

बिसतन्तुनिभं ज्योतिर्भावयेद्योगमुत्तमम् ।
कुण्डली जगदाधार पृथुनामस्वरूपिणी ॥ ४२ ॥

ज्योतीरूपा नोदनादशक्तियुताः प * * * ।

  • * त्रट्यक्षरेणैव ब्रह्मरन्ध्रान्तमुच्यते ॥ ४३ ॥


नीवारशूकवत्तन्वी पिंगरूपा तथैव च ।
तत्तदाधारपद्मानि निर्भिद्य ब्रह्मरन्ध्रगाः ॥ ४४ ॥

लम्बावजा मुकुलां चैवमुद्बोध्या मृतधारया ।
कर्षन्तीं च शिवं तत्र पूजय * * * * लीः ॥ ४५ ॥

प्. ६२१)

क्रमादूर्ध्वादधश्चैव प्लावयन्ती च भावयेत् ।
तुर्यात पद्मं चैतन्यं तत्रैवं भोजयेत्क्रमात् ॥ ४६ ॥

एवं त्यक्त्वा समाध्यन्तं नदा तुत्रैव चिन्तयेत् ।
समाधिर्वक्ष्यते सूक्ष्ममाधाराधेय व ॥ ४७ ॥

कालान्तरगते रश्मौ धोणियो दृश्यते रजः ।
तत्परं परमाणूनां परिमाणं प्रचक्षते ॥ ४८ ॥

रूपाणां चैव सर्वेषां परिमाणसमूहकम् ।
एकैकं तु श्छय पोहे तु श्चस्मञ्चिन्तयेत्तदा ॥ ४९ ॥

शिव * * * * * * ज्ञानस्थानं लयं नयेत् ।
निरालम्बो मतस्तस्मिन् शैवं तेजश्च दृश्यते ॥ ५० ॥

प्. ६२२)

शिवबिम्बस्य तन्मध्ये मूलोन्मीलित लोचनः ।
क्रमेणैकाग्र एवातः शैव ज्योतिश्च दृश्यते ॥ ५१ ॥

अनाहते ततधृ * संस्थितं युगपद्मनः ।
आद्यन्तशून्यातीतं तत् शिवतेजः प्रकाशते ॥ ५२ ॥

प्रसाद पञ्चनादेन प्लुतमुच्चारयेत्क्रमात् ।
ध्यातव्यं तु पराशक्त्या शान्त्यतीता प्रकाशते ॥ ५३ ॥

चक्रद्विषट्कैः सावर्तौ भेदिष्वेवं सुमत्सनैः ।
स्थूल * * * शामुक्तेष्वन्नतस्या महोदयः ॥ ५४ ॥

चापलादिध्वनैर्हृद्यैः क्रमाद्दीर्घैर्निवेशितम् ।
अन्यने विषयं चैतत् तल्लये लीयते शिवे ॥ ५५ ॥

प्. ६२३)

द्वादशान्ते च हृदये संघट्टात्प्राणवायुना ।
ब * द्योर्भाविते योगे सर्वानन्दत्वमश्नुते ॥ ५६ ॥

आधारे वापि शक्तौ वा प्रमिषत्वान्मनोलये ।
शक्त्या विषस्य कम्पादिक्षेप शान्तौ परस्थितिः ॥ ५७ ॥

आशिरः प्राणमापूर्य ब्रह्माध्याह्यवसानिके ।
सवि * * * दा योगाद्वारशान्नि शिवो भवेत् ॥ ५८ ॥

सूक्ष्मं क्रमोक्रमं शक्तिं आमूल ज्योतिरूपिणम् ।
ब्रह्मरन्ध्रा प्रशान्त्यन्तं ध्यायीत स्याच्छिवोदयः ॥ ५९ ॥

विकुण्डलानष्टयक्रान् आरुच्योद्बोधनाम्बुजम् ।
शक्तिं कोश्यत्रयं भित्वा खे परः स्यात्तदूर्ध्वतः ॥ ६० ॥

प्. ६२४)

महाच्छ्रुतिमते व्योम्नि चन्द्रार्कादेन्नरेम्बुदे ।
संवर्त्य चक्षुरेकाग्रो योगी पश्येत्स्वयं नभः ॥ ६१ ॥

शिवैक्याव्यावनौषद्ध्या गाढो बद्धो मनोरसः ।
प्राणः कुम्भादिभिः क्षिप्तः कुर्यात्तच्छिव काञ्चनम् ॥ ६२ ॥

अन्तर्धानं समादाय विचरेद्भुविशिष्यते ।
आनन्दे च भवेद्योगी सर्वदा नन्दिकेश्वर ॥ ६३ ॥

अणिमाद्यष्टसिद्धिश्च सिध्यत्येव न संशयः ।
आकाशगमनादीनि सर्वज्ञानसमृद्धयः ॥ ६४ ॥

भवन्ति सर्वभुवनं करामलकवच्चरेत् ।
योगदृष्ट्या तु सकलं पश्यते तु चराचरम् ॥ ६५ ॥

प्. ६२५)

योगिनां दृष्टिजानन्दः विसमो भवति ध्रुवम् ।
आनन्दलक्षणं वक्ष्ये शृणुत्वं नन्दिकेश्वर ॥ ६६ ॥

आनन्दं द्विविधं प्रोक्तं अपरं परमित्यपि ।
अपरं त्रिविधं प्रोक्तं मोहजीवितसंज्ञकम् ॥ ६७ ॥

लोकं च विभवे देवमोहानन्दमथोच्यते ।
ताराणां पुत्रपौत्रादि लब्धिकानन्दमोहिजा ॥ ६८ ॥

भक्ष्यभोज्यादिजनितं जीवितानन्दसंज्ञकम् ।
स तु कीर्त्त्यादिसंज्ञान्तं लौकिकानन्दमुच्यते ॥ ६९ ॥

सकलामपि सर्वेषां मोहानन्दस्थितं परम् ।
एतत्कारणरूपं तु प्रियांगं लक्षणान्वितम् ॥ ७० ॥

प्. ६२६)

उत्तमं षोडशांगं स्यात् चतुर्विंशति मध्यमम् ।
त्रिंशत् मधमं ज्ञेयं शक्तिलक्षणमुच्यते ॥ ७१ ॥

सर्वावयवसंपूर्णं सर्वलक्षण संयुतम् ।
सर्वशोभनसंयुक्ता क्षणवेधकरापका ॥ ७२ ॥

मोहानन्दस्य मूलं च जीविताद्याश्च लब्धवान् ।
अपरानन्द संप्राप्तिः सिद्धिरस्यैव चोच्यते ॥ ७३ ॥

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
एकैकः पञ्चधा ज्ञेयं शब्दपञ्चकमुच्यते ॥ ७४ ॥

प्रियाणां गुप्तवचनं संयोगशरणं भवेत् ।
गन्धर्वोद्वाहतन्त्रस्य श्रवणं च तदुद्भवम् ॥ ७५ ॥

प्. ६२७)

मितं च रागजनकं स्वात्मस्तुतिरसो भवेत् ।
शब्दपञ्चकमेवं हि स्पर्शपञ्चकमुच्यते ॥ ७६ ॥

प्रियासंस्पर्शनं चैव पुत्रस्पर्शं तथैव च ।
सुहृदालिंगनं चैव गन्धवाहसुमर्शनम् ॥ ७७ ॥

यथेष्टकालं शीतोष्ण स्पर्शं चैव तु पञ्चमम् ।
प्रियादर्शनमेवं तु प्रियां वीक्ष्य दिगम्बराम् ॥ ७८ ॥

नृत्तादिदर्शनं चैव सु हिरण्यादि दर्शनम् ।
विचित्र दर्शनं चैव स्पर्शपञ्चकमीरितम् ॥ ७९ ॥

भक्षणं भोज्य लेह्यं च पेयं शोष्यं च पञ्चधा ।
रसपञ्चकमेवं स्यात् तत्तत्काले समुद्भवम् ॥ ८० ॥

प्. ६२८)

मदगन्धं चोत्तमं च चन्दनादि सुगन्धकम् ।
पुष्पगन्धसुधाघ्राणं घ्राणपञ्चकमुच्यते ॥ ८१ ॥

रागं वर्धति मूर्खाणां रागं मुञ्चति पण्डिताः ।
सदुपाय समोपेतः क्रीडन्सर्पेण दृश्यते ॥ ८२ ॥

ज्ञानयोग समोपेतः क्रीडन्सर्पेण दृश्यते ।
ज्ञानयोग समायुक्तं तत्वमिन्द्रिय पञ्चमाः ॥ ८३ ॥

पञ्चविंशतिमानन्दं अपरानन्दजं भवेत् ।
एवं बुद्ध्या स्वनन्दीशपरानन्दमथोच्यते ॥ ८४ ॥

त्रिविधं तत्परानन्दं गौरवं ज्ञानयोगजम् ।
एतत्त्रयं परानन्दं मोक्षकारणकं भवेत् ॥ ८५ ॥

प्. ६२९)

आगमश्रवणांगानां गुरोःस्तुतिपरं तथा ।
गुरोः प्रियवचःश्रावमुपदेशशतं तथा ॥ ८६ ॥

एवं पञ्चक संयुक्तं श्रवणानन्दजं भवेत् ।
लिंगस्पर्शनकं चैव भूत्यादि स्पर्शनं तथा ॥ ८७ ॥

गुरुपादाम्बुजं स्पृष्ट्वा गुरोः संस्पर्शनं तथा ।
ज्ञानदेशस्य संस्पृष्टं स्पर्शपञ्चकमीरितम् ॥ ८८ ॥

दर्शनं शिवलिंगस्य शिवयज्ञादि दर्शनम् ।
योगदृष्ट्यादिलोकं च रूपपञ्चक संभवम् ॥ ८९ ॥

गुरुप्रसाद भक्ष्यादि गुरुपादाम्बुजं जलम् ।
योगामृतरसास्वादं त्रिविधं रसमुच्यते ॥ ९० ॥

प्. ६३०)

योगात्समुत्थितं गन्धं दिव्यगन्धमनूपमम् ।
ब्रह्मेन्द्रादि सुराणां च सर्वेषां जन्मकोटिभिः ॥ ९१ ॥

अलब्धं मोक्षदं दिव्यं बोधानन्दमवाच्यकम् ।
कदा किंचिन्न कस्यापि दत्तवानादिश स्थितम् ॥ ९२ ॥

तत्स्मृत्या जननिव्यालि परमानन्दजं परम् ।
एवं परात्परं ज्ञेयं वर्जनादि च भोजनम् ॥ ९३ ॥

एतानि स्थूलसूक्ष्माणि सूक्ष्माणि च भवन्ति वै ।
परात्परतरं गुह्यं ग्राह्यग्राहकवर्जितम् ॥ ९४ ॥

रागारागविनिर्मुक्तं द्वैताद्वैत विवर्जितम् ।
चिन्त्याचिन्त्य विनिर्मुक्तं वाच्यवाचक वर्जितम् ॥ ९५ ।

प्. ६३१)

एवमानन्द संप्राप्तौ मुक्तिरेव न संशयः ।
गुरुवक्त्रेण तत्सिद्धिरानन्दस्तु न संशयः ॥ ९६ ॥

आनन्दं भावयेद्योगी सर्वक्लेशनिबर्हणम् ।

इत्यचिन्त्यविश्वसादाख्ये समाधिराजश्चतुस्त्रिंशत्पटलः ॥



योगानां परमं ह्येतत् निराधारं शृणुष्व तत् ।
दशका च सभायादि पूजनं पूर्ववद्भवेत् ॥ १ ॥

सन्ध्यायास्तु विशेषोस्ति परा सन्ध्या सदोदिता ।
प्रातस्सन्ध्या पिंगमायं सुषुम्ना मध्यमो भवेत् ॥ २ ॥

शुद्धापां पश्चिमां सन्ध्यां मध्यरात्रे सुषुम्नया ।
द्वादशात्म समप्रख्या बिसतन्तुमया शिवा ॥ ३ ॥

प्. ६३२)

आकारेणात्म तत्वेन भावयेत्पिंगलार्मताम् ।
सुषुम्नायां तु तत्कोटि सदृशीं भावयेच्छिवाम् ॥ ४ ॥

उकारेण च विद्यां तां रसमे ध्यानगोचराम् ।
सायाह्ने चक्षुषायां च तिलानलसमप्रभाम् ॥ ५ ॥

विसतन्तु निभां ज्योतिश्चन्द्रकोटिसु शीतलाम् ।
मकारेण शिवाख्येन परा शक्त्या विभावयेत् ॥ ६ ॥

मध्यरात्रे सुषुम्नायां स्वरासन्ध्यां प्रभावयेत् ।
सर्वतेजोमयीं देवीं चन्द्रार्कद्वय नाशिनीम् ॥ ७ ॥

बिन्दुमध्यगतां देवीं परां सन्ध्यामुपासयेत् ।
अकारं मूलधारं स्यादुकारान्तोपरि न्यसेत् ॥ ८ ॥

प्. ६३३)

तस्योपरि * * * * मकारोपरि बिन्दवम् ।
बिन्दोरुपरिनादः स्यान्नादस्योपरि शक्रिडै ॥ ९ ॥

एवं तु परिगं शक्त्या सन्ध्योपास्या तु योगिनः ।
विंशतिं च विसृज्याथ आनन्दांश्च विमर्शयेत् ॥ १० ॥

मनोबुद्धिरहंकारः विसृजेत्तत्र देशिके ।
रागमायाकलाश्चापि विसृजेच्च तुरीयके ॥ ११ ॥

विद्यादि शुद्धकालान्तं विसृजेत्तुर्यान्तगम् ।

  • * * * परं तत्वमानसानां लयं भवेत् ॥ १२ ॥


मनसो लयतश्चैव परां मुक्तिं समश्नुते ।
केवलात्म स्वरूपं स ज्ञानरूपे तु भावयेत् ॥ १३ ॥

प्. ६३४)

ज्ञानातीतं परं तत्वं सर्वगं सर्वतोमुखम् ।
भावं शिवं च संभाष्य स्वस्ति चैवं विभावयेत् ॥ १४ ॥

न शिवेन विना शक्तिः न शक्तिरहितः शिवः ।
एवं ध्यात्वा महायोगी त्वखण्डित महोदयः ॥ १५ ॥

ध्याता ध्येयं च सलिलं शिवः स्यात्परमं पदम् ।
सर्वोपरागनिर्मुक्तं तत्तु तिष्ठति केवलम् ॥ १६ ॥

निर्मलाकाररूपं यत् तद्वद्भाति परा शिवः ।
सर्वमायाति विज्ञानं तत्तुरीयाय कल्पते ॥ १७ ॥

अहमेवेति यज्ज्ञानं शुद्धतत्वादिनीतिकम् ।
निर्मले स्वच्छमादर्शे मनोराज्यं पुराकृतिम् ॥ १८ ॥

प्. ६३५)

खोन्मुखोनोमिषद्यश्च ध्यायन्वश्यो भवेत्तदा ।
घटानां द्वीपरहितं विज्ञानान्तं तु सर्वगम् ॥ १९ ॥

नैतत्वगरन्तःस्थायी नानु पश्यन्सुखी भवेत् ।
तासामिदं च तद्रूपं पश्यन्विश्वमयो भवेत् ॥ २० ॥

ग्राहकोहनिदं राभ्यमिति वित्तिश्शिशोरपि ।
ऐक्यं मयादमं पश्यन् योगी पूर्णत्वमश्नुते ॥ २१ ॥

अहंतयेदं विमृशन् प्रस्फुरद्वा च मण्डलम् ।
स्वशरीरमिवैकाग्रं सर्वात्माध्यायते शिवः ॥ २२ ॥

आकाशं च पदाद्देहं बहिरन्तश्च चिन्मयम् ।
जगद्वा युगपद्योगी विमृशंस्तत्क्षणाच्छिवम् ॥ २३ ॥

प्. ६३६)

भेदयन्त्रमिदं मध्ये विधायान्तर्बहिर्महः ।
चिद्रूपं सर्वतोधिक्यं भावयेद्भेदमद्युति ॥ २४ ॥

हरितेन्तर्बहिर्वेदश्चिदब्दात्पुश्चलन्नपि ।
मनोन्मीलात्वहं चेति विमृशन्त्याप्य तिष्ठति ॥ २५ ॥

यस्या आस्येन्द्रियद्वार जाता व्यक्तिस्तु चिन्मयी ।
सुहित्तिलीनां तु विश्वं विमृशं स्याच्छिवो भवेत् ॥ २६ ॥

सामान्याद्वा विशेषाणां नापैति हरिताविधि ।
तनौ च तस्य भिद्येत इति ध्यात्वा तु योलयः ॥ २७ ॥

व्यापिन्या नाग्रके नित्ये शून्ये चावधिवर्जिते ।
अधश्चक्रे बहिश्चेति परस्समधिरोहति ॥ २८ ॥

प्. ६३७)

रूपस्य संस्थितो योगी योगोपरि विलोकयेत् ।
निरालम्बमनाः शीघ्रं चिच्छक्त्या च शिवो भवेत् ॥ २९ ॥

निरुपाधिनि चिद्रूपे विश्रान्ते सर्वदृक्क्रिये ।
योगहीना हत द्रष्टुं किं वा कर्तुं निराकृतिः ॥ ३० ॥

निराधारममुं योगमभ्यस्य शिवमाप्नुयात् ।
अनेन सदृशो योगो नास्त्येवं नन्दिकेश्वर ॥ ३१ ॥

इति अचिन्त्य विश्वसादाख्ये निराधारयोगविधिः पंचत्रिंशत्पटलः ॥



ज्ञानदीक्षां प्रवक्ष्यामि सत्वमुक्तिं सहेतुकीम् ।
यत्तत्वं तुच्छिवं व्याप्तिबोधकं मोहवर्जितम् ॥ १ ॥

प्. ६३८)

पूर्वदिक्षा समोपेतं शिष्याणामुत्तमं तथा ।
शरीरभेदमात्रं यत् प्राणभेदो न किंचन ॥ २ ॥

एवं गुरुः स्वभक्त्या च ज्ञानदीक्षां च कारयेत् ।
आणवं शक्तिसंभूतं शाम्भवं त्रिविधं भवेत् ॥ ३ ॥

शक्तिं शाम्भवदीक्षा च क्रियते तत्त्वया मया ।
अन्यैराणव दीक्षा तु मन्दतीव्रादिभेदतः ॥ ४ ॥

मण्डपं मण्डलादिं च पूर्ववन्नन्दिकेश्वर ।
विचित्रं मण्डपं कृत्वा चोक्तद्रव्यैर्विशेषतः ॥ ५ ॥

अधिवासनवर्ज्यं वै मध्यरात्रे विशेषतः ।
सुगन्धमक्षतं पुष्पं धूपदीपं चरुं तथा ॥ ६ ॥

प्. ६३९)

सर्वद्रव्यसमायुक्तं असंखं च समन्वितः ।
द्रव्यशुद्धिं ततः कृत्वा पूर्वोक्तेन विधानतः ॥ ७ ॥

मण्डलं पूरयेच्छित्वा मध्यरात्रेर्विशेषतः ।
सुगन्धपुष्पैर्धूपैश्च शिष्यमाभरणादिभिः ॥ ८ ॥

शिवचित्तं यदालब्धं कालाध्वान्तं तथैव च ।
भूतविद्या प्रवेष्टव्या ताररत्नेन देशिकः ॥ ९ ॥

शिवशक्ति सदा योगात् स्थाप्यं पञ्चामृतं तदा ।
शिवमन्त्रेण शक्त्या च जपेत्सन्मार्गनायकः ॥ १० ॥

यावज्ज्ञानमिदं बुध्वा स्थिरत्वं तावदन्तकम् ।
जपित्वा परमानन्दं गुरुज्ञानरसं परम् ॥ ११ ॥

प्. ६४०)

भावनात्तत्र यद्भूतं शिष्यवक्त्रे निधापयेत् ।
कारितं चैव तत्रैव सरसं शिष्यगोचरम् ॥ १२ ॥

प्रासादं शिवमन्त्रं स्यात् वागीशक्तिं च मन्त्रकम् ।
पूर्वमेव तु संसाध्यमाभ्यां मन्त्रेण कारयेत् ॥ १३ ॥

सुसंवेद्याद्भवेज्ज्ञानं सदेरदमुखद्वितिः ।
योगामृतरसान्मुक्तो मण्डलं मुद्रयान्वितम् ॥ १४ ॥

नृत्तगीतं च वाद्यं च स्वेच्छा क्रीडा प्रवर्तते ।
सदानन्दो भवेद्देहे क्षुधानिद्रा तथा नहि ॥ १५ ॥

नृत्तं हसितं ज्ञानं च धावनं स्वेच्छया चरेत् ।
सप्तसोपानसंपन्नं सोपानगुणसंपदम् ॥ १६ ॥

प्. ६४१)

प्रथमं त्रिगुणं प्रोक्तं द्वितीयं मर्थपञ्चकम् ।
पञ्चाभिज्ञास्तृतीयं तु चतुर्थं सिद्धिरष्टकम् ॥ १७ ॥

द्वीपञ्च प्रत्ययं पञ्च षष्ठं दशफलं भवेत् ।
आनन्दं सप्तमं ज्ञेयं सिध्यमन्त्यवचिन्तया ॥ १८ ॥

आणवं कम्पनादि स्याच्छक्तिस्तु कथिता द्वयम् ।
क्लेशादि वर्जितं चित्तं शाम्भवं त्रिगुणं मतम् ॥ १९ ॥

मरीचिधूमकेदोरु प्रतीपगमं च तथा ।
स्वयमेवेदमादध्यात् सर्वं प्रदेशो दीपपञ्चकम् ॥ २० ॥

वार्धी च पर्ययो ज्ञानस्मृतिः पूर्वोषितस्य च ।
दिव्य चक्षुश्च श्रोत्रं च पञ्चाभिज्ञानवन्ति च ॥ २१ ॥

प्. ६४२)

स्वस्योपष्टं च सिद्धिश्च ज्ञानरूपेण सिध्यति ।
निर्बीजकरणान्येव विषात्प्रहरणं तथा ॥ २२ ॥

वह्नेरुज्वलनं चैव नाड्या वायोर्जयं तथा ।
यद्बिन्दुनादममलदेहसंगमनं तथा ॥ २३ ॥

धूमज्योतिर्दर्शनं च स्वच्छन्दं मृत्युकार्यकम् ।
दशप्रत्ययमेवं हि अष्टादशबलं शृणु ॥ २४ ॥

आधयश्च परिष्कारो मुक्तिप्रणतिरुच्चयः ।
उत्पत्तिश्च बलं तापधर्मचित्तं तपः फलम् ॥ २५ ॥

तत्पदं च महत्तादि साध्यं सम्यक् क्रमेण वै ।
लभते ज्ञानबन्धादि ते निर्देशगुणं विदुः ॥ २६ ॥

प्. ६४३)

सहजं वाङ्मनोतीतं अखण्डित महोदयम् ।
सर्वसिद्धिमयं सर्वत्रैलोक्यैक्य सुनायकम् ॥ २७ ॥

योगसिद्धिश्च शिष्यस्य तीव्रात्तीव्रतरं भवेत् ।
नियतिश्चापदन्धे च कलागुणवती तथा ॥ २८ ॥

विद्याधारस्य वेधेन नाशमार * * * णः ।
शान्तोपायमिदं प्रोक्तं शाम्भवं तत्र विद्यते ॥ २९ ॥

सादाख्यद्वापदन्धे च वैशमौञ्जी विराजते ।
शुद्धविद्याधराद्वेधः शाम्भवो वायमीरितम् ॥ ३० ॥

शिष्यस्य यादृशी भक्तिस्तादृशी प्रतिपादिता ।
एतैरेतद्विजानीयात् प्रत्ययैरावणादिकाम् ॥ ३१ ॥

प्. ६४४)

ज्ञात्वा विलोक्य कृपया शिव हस्तं च दापयेत् ।
प्रणामं कारयेत्पश्चात् तस्य नाम च दापयेत् ॥ ३२ ॥

पात्र दण्डासनादींश्च पूर्ववद् व्यापयेद्गुरुः ।
अग्निकार्य कृतं वापि नाग्निकार्यकृतं भवेत् ॥ ३३ ॥

शरीरमर्थं प्राणं च गुरवे सन्निवेदयेत् ।
शरीरप्राणकं चैव गुर्वनुज्ञापुरस्सरम् ॥ ३४ ॥

तदाज्ञेया चानुभवं सततं भक्ति संयुतः ।
वित्तं तु सकलं तस्मै गुरवे तु समर्पयेत् ॥ ३५ ॥

स्वस्वातन्त्र्यं च सर्वं च विसृज्य मनसा तदा ।
वाचा च कर्मणा चैव गुर्वर्थं तु चरेद्बुधः ॥ ३६ ॥

प्. ६४५)

अभिषेकं ततः कृत्वा पूर्ववन्नन्दिकेश्वर ।
पृथिव्या गुणगन्धादि शुद्धवस्त्रादिनापि च ॥ ३७ ॥

अलं कुर्यात्पुनश्शिष्यं प्रतिमां कालयेद्गुरुः ।
यागात्तदैवतं चैव विसृजेन्नन्दिकेश्वर ॥ ३८ ॥

इत्यचिन्त्य विश्वसादाख्ये ज्ञानदीक्षाविधिः षट्त्रिंशत्पटलः ॥



तत्वानां निर्णयं वक्ष्ये शृणुत्वं नन्दिकेश्वर ।
रससंज्ञस्य तत्वस्य संज्ञायुक्तं वदाम्यहम् ॥ १ ॥

शुद्धत्वाच्छिव संज्ञा च परत्वात्परमुच्यते ।
चिद्घनो ज्ञानपूर्णत्वात् एको सादृश्य पूर्णतः ॥ २ ॥

प्. ६४६)

  • * च्च सर्वगत्वाच्च प्रभुरित्यस्य संज्ञकम् ।

सुखानन्द स्वरूपत्वात् चित्संज्ञा तस्य वैरिणः ॥ ३ ॥

चराचरस्य जगतः सोत्पत्तौ कारणं परम् ।
तस्माज्जगदेकबीजं तु संज्ञितं नन्दिकेश्वर ॥ ४ ॥

चेतना चेतनानां तु स्वस्वकर्मानुसारतः ।
सुखदुःखाद्यहंभावं कर्मपाकं विधाय च ॥ ५ ॥

सर्वस्यानुग्रहत्वाच्च सर्वानुग्रहसंज्ञकम् ।
निरज्ञानत्वात्कैवल्यात् निर्वाणस्य प्रदायकम् ॥ ६ ॥

ज्ञानक्रिया स्वभावं तु ज्ञानेच्छाशक्ति संश्रयात् ।
संसाराम्भोधिमग्नानामुत्तारात्पालनात्पतिः ॥ ७ ॥

प्. ६४७)

निवृत्त्यादि कलाभिस्तु शिवं मन्त्रतनुर्भवेत् ।
सृष्टिपालन संज्ञा च तिरोधानमनुग्रहम् ॥ ८ ॥

प्रपञ्चस्य स्वभावत्वात् पञ्चकृत्संज्ञकं भवेत् ।
एवमाद्यां प्रसंख्यायां कलास्ताः संप्रकीर्तिताः ॥ ९ ॥

चिदचिदनुग्रहार्थाय चावोम्नोक्षस्तु शक्ति वै ।
अस्यैव चाविभागा च ज्वालेन च हविर्भुजा ॥ १० ॥

इतरेतराश्रयं चैव शिवशक्त्योरभिन्नता ।
स्वेच्छाविग्रहिणां वेत्तौ चिदचिद्रक्षणाव हि ॥ ११ ॥

परबिन्दुः पराशक्तिः मयामाया च कुण्डली ।
यूपव्योम तथैवेच्छा तस्य पर्याय वाचकाः ॥ १२ ॥

प्. ६४८)

इच्छाज्ञान क्रिया चैव शिवे स्थित्वा सदैव वै ।
शिवस्वेच्छानुरूपार्थं ज्ञानेच्छा शक्तिमादिमान् ॥ १३ ॥

स्वस्वं कार्यात्प्रकुर्वन्ति सदानुग्रह कारणात् ।
ज्ञानशक्तिः क्रियाशक्तिः समस्तं यद्विजृम्भितम् ॥ १४ ॥

सदाशिवाख्यं तत्वं तु सकलं निष्कलं भवेत् ।
क्रियाशक्त्युल्बणत्वं च ज्ञानशक्त्यापकर्षणः ॥ १५ ॥

तत्र तत्प्रसरन्नत्तुं ईश्वराख्यमिदं भवेत् ।
क्रियाशक्त्यापकर्षं च ज्ञानशक्त्युल्बणं तथा ॥ १६ ॥

विद्यातत्वस्य चोत्पत्तिः ज्ञानगर्भाभवत्तदा ।
बिन्दोः कलाश्च संजातं सर्वतत्वस्य धारकम् ॥ १७ ॥

प्. ६४९)

नद्योद्बिन्दुश्च संजातौ एतौ सादाख्यमाश्रितौ ।
शुद्धानां पञ्चतत्वानां कलासम्बन्धवर्जनात् ॥ १८ ॥

उत्कर्षापकर्षणन्नास्ति शिवतत्वाच्च निश्चयम् ।
वस्तुतश्शिवतत्वस्य तत्वमन्त्रोदितं परम् ॥ १९ ॥

अनन्तचित्तशक्तित्वं शिवस्यैव स्वाभावजम् ।
ज्वाल एव हुताशस्य ज्योत्स्ना चैव हिमत्विषः ॥ २० ॥

भवेयं भवेश्शक्त्या शिवस्याह्यस्यते वपुः ।
जन्तोर्जन्मस्य मोक्षाय शिवश्शक्ति समन्वितः ॥ २१ ॥

अनादिमल सिद्धानां वस्तूनां मोक्षकारणम् ।
जडवर्गस्याप्येवमेव सर्वानुग्राहकं भवेत् ॥ २२ ॥

प्. ६५०)

शिवस्समानरूपं शिवविग्रहमेव हि ।
सकले निष्कले चैव सर्वत्रैव समानता ॥ २३ ॥

सायुज्यमिति तत्प्रोक्तं सारूप्यं मुक्तितुल्यता ।
सारूप्यं मूर्तिसारूप्यं स्वेच्छाविग्रहधारणात् ॥ २४ ॥

शिवलोकादि संप्राप्तिः सालोक्यं मुक्तिनामतः ।
एतच्चतुष्टयं शक्तिसायुज्यं चोत्तमं भवेत् ॥ २५ ॥

नोचेच्छिष्य परप्राप्ति हेतुकस्य विशेषतः ।
मलवासनया तस्य विद्येश्वरपदस्थितिः ॥ २६ ॥

वासना परिपाकेन दीक्षया परमाप्नुयात् ।
कर्मणोनादिभूतत्वात् भोक्तव्यं मोक्षकारणात् ॥ २७ ॥

प्. ६५१)

भुक्त्यर्थं करणं देवं भुवनं चापि सर्वशः ।
तच्छम्भुः कृतवान्भुक्त्यै करणं चापि शक्तितः ॥ २८ ॥

अनादिशक्तिसहिता माया सूक्ष्मा च व्यापिनी ।
अनादिनिधनाप्येका चैवो पादान कारणम् ॥ २९ ॥

सर्वेषां जन्मजननीं मोहसंजननीदृशम् ।
स्वकीयशक्तिभिश्शम्भुर्मायां विक्षोभ्य कर्मतः ॥ ३० ॥

पुरुषं प्रतिभोग्यार्थं शरीरादीन्द्रियाणि च ।
दद्याच्छिवोऽपि शक्त्या च करणेन विशेषतः ॥ ३१ ॥

अनन्तशक्तिरूपायां माया तत्काल संभवा ।
भूतं भवद्भविष्यच्च त्रिधारूपो भवेत्पुनः ॥ ३२ ॥

प्. ६५२)

मलानां परिपक्वानां कालश्चितस्य संभवः ।
पुनश्च मायानियतिं जनयामास दैवताः ॥ ३३ ॥

नियमं रूपमास्थाय खिलन्निखिलन्न देवयेत् ।
सैव माया पुनश्चैव कलामजनयत्क्रमात् ॥ ३४ ॥

अन्नास्त्रमाणवं चैव स्थूलमेकत्र भिद्य च ।
ज्ञानशक्तौ प्रतिष्ठाप्य व्यञ्जयेत्कर्तृशक्तिकाम् ॥ ३५ ॥

कमाबन्धन धात्वर्थस्तनुबन्धाय चात्मनाम् ।
कालनत्वमिदं प्रोक्तं मण्डूनां भोगकारणात् ॥ ३६ ॥

प्रच्छाद्य च ज्ञानशक्तिं कर्तृशक्ति प्रकाशनम् ।
अशुद्धाख्याल्पका चैव परेतान्नन्दिकेश्वर ॥ ३७ ॥

प्. ६५३)

सैषा कला च कालेन नियत्या सहिता पुनः ।
मायान्नियति पर्यन्तं स्वस्व व्यापारकर्मणा ॥ ३८ ॥

संभूय कार्यं कुर्वन्ति त्रयस्सृष्ट्यादिकोविदौ ।
कलया पुरुषाणां तु संभूता कर्तृशक्तिका ॥ ३९ ॥

शब्दादिविषयांश्चैव करणं च तथा भवेत् ।
सुखदुःख मोहरूपेण गुणत्रय समन्विता ॥ ४० ॥

सा विद्या चात्मनो भोग्या बुद्धिसंज्ञा भवेत्तदा ।
शब्दादि विषयं चापि यदा ग्रहणबुद्धि वै ॥ ४१ ॥

सैषाभिकारणाख्या स्याद्विद्यातत्वं द्विधा भवेत् ।
क्षीरस्य खल संयोगादधीनां च तथा भवेत् ॥ ४२ ॥

प्. ६५४)

क्षीरं मथित्वात्तु नामद्वित्वं यदा भवेत् ।
तत्वविद्यैव बुद्धिः स्यात्करणं च तथैव च ॥ ४३ ॥

विष्यन्नेव पुनस्सृष्टौ वियन्ने तत्र वै शिवः ।
प्रलयान्ते तु यद्वस्तु सर्वज्ञादि गुणैर्युतम् ॥ ४४ ॥

सर्वं मयाधि निर्मुक्तं तत्तत्वमिति कीर्तितम् ।
तत्रात्मनामलं चैव बन्धजन्मत्वकारणम् ॥ ४५ ॥

मलानां वासनं चैव नाशान्मोक्षो न संशयः ।
मलानां नाशनं चैव दीक्षायाश्च भवेद्ध्रुवम् ॥ ४६ ॥

चत्वारिंशत्तु संस्कारो विप्राद्यैरप्यनुष्ठितः ।
ततस्त्वंगगर्भाधानमनन्तरम् ॥ ४७ ॥

प्. ६५५)

पुंसवनं च सीमन्तं विष्णो बलिमनन्तरम् ।
जातकर्म तथा नामकरणं निष्क्रमं तथा ॥ ४८ ॥

अन्नप्राशनकं चैव प्रियासंगमनं तथा ।
वैश्वदेवं तथोत्सर्गं पञ्चत्वेकत्व संस्कृतिः ॥ ४९ ॥

पारायणं च गोदानं स्नानमाचारकं तथा ।
अष्टादश शरीरस्य संस्कारोयमुदीरितः ॥ ५० ॥

देवयज्ञं च पित्र्यं च भूतयज्ञं तथैव च ।
मानुष्यं ब्रह्मयज्ञं च पञ्च यज्ञाः प्रकीर्तिताः ॥ ५१ ॥

स्थालीपाकं चाग्रयणं श्रौतं स्मार्तं च पैतृकम् ।
पैत्रमासयुजश्चैताः सप्तैते पाकयज्ञकाः ॥ ५२ ॥

प्. ६५६)

अग्नियाधेय * * * * पौर्णमासी तथैव च ।
आग्रयणेष्टिकं चैव चातुर्मास्यादनन्तरम् ॥ ५३ ॥

निरूढपशुबन्धं च सौत्रामणिरथा मम् ।
हविर्यज्ञाश्च सप्तैते सोमसंस्थस्तथोच्यते ॥ ५४ ॥

अग्निष्टोमे अग्निष्टोम उक्थ्यः षोडशकस्तथा ।
वाजपेयोतिरात्राणि अप्तोर्यामश्च सप्तमम् ॥ ५५ ॥

चत्वारिंशत्तु संस्था वै वैदिकक्रम सुप्रियाः ।
कृतवतोप्युक्तमार्गेण दीक्षया मोक्ष एव हि ॥ ५६ ॥

नास्ति दीक्षा समं तीर्थं नास्ति दीक्षासमं तपः ।
नास्ति दीक्षा समं नीलं नास्ति दीक्षासमं धनम् ॥ ५७ ॥

प्. ६५७)

नास्ति दीक्षा समोधर्मो नास्ति दीक्षा समोगुणः ।
नास्ति दीक्षासमं ज्ञानं नास्ति दीक्षा समा स्मृतिः ॥ ५८ ॥

नास्ति दीक्षासमं श्रेयो नास्ति दीक्षासमं कुलम् ।
वासनानाशनं चापि दीक्षाज्ञानक्रियास्तथा ॥ ५९ ॥

चर्याचर्यापि चत्वारि दीक्षा संवर्धनाद्ध्रुवम् ।
वासनापरिपक्वं च वन्ध्यं कुर्याच्च वारुणम् ॥ ६० ॥

धर्माधर्मात्मिका बुद्धिः कर्मजां वासनामपि ।
शिवलिंगार्चनादेव नाशनाय न संशयः ॥ ६१ ॥

वासना चरणोद्भूतं पञ्चवायोर्मतस्तथा ।
हर्षश्चैव विनाशश्च शेषं चैव मनोलयान् ॥ ६२ ॥

प्. ६५८)

  • * * * * * * * नित्यस्य च समाधिनः ।

ज्ञाने च तालं संयुक्तं मायिकेपि चतुस्तथा ॥ ६३ ॥

नाशमेति क्रमाद्वक्ष्ये शृणुत्वं नन्दिकेश्वर ।
शिवा भूतश्रवणाच्छिवज्ञानं प्रतिष्ठितम् ॥ ६४ ॥

नित्यानुभवतश्चैव दर्शनाच्छ्रवणादपि ।
जनिता विस्मृतिश्चापि क्षयमेति न संशयः ॥ ६५ ॥

सृष्टिकालस्य देव्याश्च कन्दर्पस्य स्वभावतः ।
स्थिरत्वात्पुरुणवर्याणां कुलयोषित्समाश्रयात् ॥ ६६ ॥

जातिमत्रावती विप्रः चण्डालकुलस्थितिः ।
दीक्षाजातिश्शिवाजातिः तुल्यजातिर्न विद्यते ॥ ६७ ॥

प्. ६५९)

सृष्टिक्रमादेव दीक्षा दीक्षया रहितः पिता ।
जगन्माता शिवा प्रोक्ता सर्वेषामात्मनां तथा ॥ ६८ ॥

  • * चिन्ताकुलज्ञानां नाशमेति शृणु क्रमात् ।

कालदैर्घ्यादस्ययस्य पितृमातृ पितामहाः ॥ ६९ ॥

पुत्रमित्र कलत्राणि भातृमातुलसोदराः ।
पश्चात्तृतीयस्तुरीयः तेषां चापि सहस्रशः ॥ ७० ॥

स्वयं पित्रादिका भूतास्तस्मात्तत्तत्क्रमो न हि ।
सर्वाण्यपि च जन्तूनि एक एवादितं तथा ॥ ७१ ॥

कर्मणां साहचर्येण ऋणात्पित्रादि सर्वशः ।
तस्माद्रुचिरचिन्तादि नास्ति विज्ञानसाधने ॥ ७२ ॥

प्. ६६०)

निवृत्त्यावनि पर्यन्तं प्रातस्तत्राधिवासना ।
शरीरं तेजसा ह्यन्ते तथैवं नन्दिकेश्वर ॥ ७३ ॥

सप्तषड्वासनाकार्यं मनोवाक्काय कर्मसु ।
व्याप्य वृत्तिं करोत्येव तत्ववृत्तिं तदन्यथा ॥ ७४ ॥

नयधा च विशन्नेव शिवज्ञानं विशेषतः ।
नैवास्ति किंचित्कर्तव्यं वासनायुक्त कर्मसु ॥ ७५ ॥

वासनाराग संप्राप्ति रस्ति चेन्न स तत्ववित् ।
देशिकस्तत्व विज्ञानं ज्ञात्वा तत्वप्रकाशकम् ॥ ७६ ॥

स एव तत्वज्ञानस्य मूर्तितो मुक्तसुस्रवः ।

इत्यचिन्त्यविश्वसादाख्ये तत्वनिर्णयः सप्तत्रिंशत्पटलः ॥


प्. ६६१)

वक्ष्यामि शृणुनन्दीश षडध्वविधिमुत्तमम् ।
तत्वाध्वा भुवनाध्वा च मन्त्राध्वा च तृतीयकम् ॥ १ ॥

क्रियाध्वा समयाध्वा च कलाध्वा षष्ठकं भवेत् ।
षडध्वभिश्च सर्वत्र व्याप्तमेव चराचरम् ॥ २ ॥

उक्त्वाध्वनः प्रसिध्यर्थं भुवनं तु कृतं मया ।
कालाग्नेःशतरुद्रान्तं ब्रह्माण्डमिति विश्रुतम् ॥ ३ ॥

रजो विलोम्यते सर्वज्वालास्पष्टार्करोचिषाम् ।
स्थाने विभागरहितः परमाणुरिहोदितः ॥ ४ ॥

तदष्टाष्टगुणस्थाने तृतीये स्यात्कचग्रहम् ।
लीक्षायुगो यवोऽप्येवं यवाष्टकमथांगुलम् ॥ ५ ॥

प्. ६६२)

द्वादशांगुल संयुक्तं तालं तालान्तरं ततम् ।
तालद्वयी करं प्रोक्तं तद्द्वयं च धनुर्भवेत् ॥ ६ ॥

द्विधनुर्दण्ड इत्युक्तः क्रोशस्तद्द्विसहस्रकः ।
क्रोशत्रयं च गव्यूतिर्योजनं तद्द्वयं भवेत् ॥ ७ ॥

एकं दश शतं चैव सहस्रमयुतं तथा ।
नियुतं प्रयुतं कापे बृन्दं चैव तथार्बुदम् ॥ ८ ॥

तस्मादनन्तरं स्थानं न्यर्बुदं त्वभिधीयते ।
पद्मं चैव महापद्मं शंखं च तदनन्तरम् ॥ ९ ॥

महाशंखं च वृत्तं च महावृत्तमनन्तरम् ।
समुद्रं च महत्पूर्वं समुद्राख्यमनन्तरम् ॥ १० ॥

प्. ६६३)

निखर्वं च गुरुश्चैव महावायुरनन्तरम् ।
आकाशश्च महाकाशमेवं परिमितं भवेत् ॥ ११ ॥

स्थानात्स्थानं दशगुणं परिमाणं विशेषतः ।
ब्रह्माण्डस्य कपालं तु योजनैर्न्यर्बुदैर्मतम् ॥ १२ ॥

तदूर्ध्वे हेमकालाग्नेस्तावदेव ह * * * ।
संसार चण्डते कालकोटितेजास्तथा विधैः ॥ १३ ॥

रुद्रैः परिवृतोनेकैः प्रोक्तः कालाग्निरुद्रकः ।
सर्वाध्वान तानः यस्मिन्तेजसि वर्तते ॥ १४ ॥

भयमुत्पद्यते शक्त्या संहृत्या चोदितं प्रभोः ।
तस्य स्वभावतो ज्वालाः प्रवृत्ता दशकोटयः ॥ १५ ॥

प्. ६६४)

योजनानां सहस्रेण धूमसंख्यैस्सुदारुणम् ।
कालाग्निभुवनं ह्येतत् कोटिषोडशयोजनम् ॥ १६ ॥

ततः पुटास्त्रय स्त्रिंशत् दशलक्षो न कोटयः ।
कालाग्निभुवनं ह्येतत् तस्योर्ध्वं नरकाणि वै ॥ १७ ॥

तस्यान्तराणि द्वात्रिंशल्लक्षकाणि दुरात्मनाम् ।
यातना * * * * यस्थानानि कल्पितानि हि पापिनाम् ॥ १८ ॥

तेषां नामानि वक्ष्येहं शृणुत्वं नन्दिकेश्वर ।
रौरवं च तमश्चैव शीतमुष्णं च भावकम् ॥ १९ ॥

सन्तापजाम्बुजाकालं सूत्रमष्टममुच्यते ।
प्रसिद्ध नरकाण्येते तेषामधिपतीन् शृणु ॥ २० ॥

प्. ६६५)

सूत्राख्यं कालखण्डाख्यं क्ष्माधारामम्बरीषकम् ।
तप्तांगार महीनाह संतापाश्चेति कीर्तिताः ॥ २१ ॥

भवन्त्यष्टौ भवत्साममहाशब्दपदानुगाः ।
लाक्षा प्रलेपंमासादन्नरुद्धासनयोच्चसाः ॥ २२ ॥

पर्वतद्वयशल्मलीतोत्प्रति दीपक्षुत्पिपासकाम् ।
क्रियमाणानि यं चैव राजानः परिकीर्तितः ॥ २३ ॥

लाभस्तम्भोथ विण्मूत्रस्तथा वैतरणी नदी ।
तामिस्राश्चायतामिस्राः कुम्भीपाकश्च रौरवः ॥ २४ ॥

महापाशानु वा वीचि * * राजराजेश्वरि ।
एषा पुटानां नरकैः सार्धयोजनसंख्यया ॥ २५ ॥

प्. ६६६)

भवन्ति कोटयः * * द्वे तत्कोटिमथैव च ।
ततः कूर्माण्ड भूमिः स्यात् दिदिनावन खण्डिका ॥ २६ ॥

अयोगविततद्येन पूर्वेणार्थेन काञ्चना ।
योप्य बध्यात्पटस्तस्माद्धृदयं चार्धमायसम् ॥ २७ ॥

सहस्र योजनाक्रान्तो निरयाणां पतिस्तथा ।
कूष्माण्ड इति विख्यातो युगान्ताग्नि समप्रभः ॥ २८ ॥

वृत्ताक्षः क्रुद्धवदनो भूरिदंष्ट्रस्सुदारुणः ।
परश्वथधरश्चैव तथा भूतैश्च सेवितः ॥ २९ ॥

ततो नन्दिन् प्रवक्ष्यामि पातालानां तु सप्तकम् ।
कुलानां चैव सप्तानां पातालान्तमुदीरितम् ॥ ३० ॥

प्. ६६७)

नागाश्च राक्षसाश्चैव देवताप्सरसस्तथा ।
महातल निषण्णाश्च क्रीडन्ते निर्भरं मुदा ॥ ३१ ॥

नवलक्षाणि चोत्सेधं अन्तरं लक्षमुच्यते ।
लक्षाणि सप्ततिश्चैव पातालानां प्रमाणतः ॥ ३२ ॥

दैत्यश्शं कुशिशुः पूर्वे प्रह्लादः शिशुपालकः ।
कर्कान्तुको हिरण्याक्षो बृहद्गर्भो बलिस्तथा ॥ ३३ ॥

काद्रवेयाः कुटिलको वासुकिर्ब * * स्तथा ।
कार्कोटकोऽथ वालांगो * * * दुर्दशस्तथा ॥ ३४ ॥

विकृतो लोहिताक्षश्च यमाख्यो विकटाननः ।
करालो भीमनिर्हापि पिंगलश्चेति राक्षसाः ॥ ३५ ॥

प्. ६६८)

तेषामुपरि निश्शेषः पातालाधिपतिस्तथा ।
ततस्सौवर्णपातालं दशलक्षप्रमाणतः ॥ ३६ ॥

तस्मिन्नुपरिदेवेशो हाटकाख्यो महेश्वरः ।
नानाविकार संयुक्तं पुरं कोटि समावृतम् ॥ ३७ ॥

तत्सर्वं हाटकं यस्मात् तस्माद्वै हाटकेश्वरः ।
तस्योर्ध्वे नवलक्षाणि चान्तश्चेति कीर्तितम् ॥ ३८ ॥

भुवनं दशलक्षाणां उच्छ्रायं तु विधीयते ।
ततः कोटिशतं पृथ्वी नानाजन समाश्रयाः ॥ ३९ ॥

शैलद्वीपसरिद्वारिनिधिमण्डल मण्डिता ।
जम्बूशाककुशक्रौञ्च शार्ङ्गगोमेदश्च पुष्कराः ॥ ४० ॥

प्. ६६९)

लक्षाणि द्विगुणा द्वीपाः क्षीराद्याब्धि हरावृताः ।
क्षारक्षीरोदधिस्सर्पिरिक्षुकं च मधूदकाः ॥ ४१ ॥

स्वादूदकस्त्विति ख्याताः समुद्रास्सप्त कीर्तिताः ।
क्षीरोदस्तु द्विलक्षः स्याद् अन्यो द्विगुणतोऽधिकम् ॥ ४२ ॥

कर्मस्वर्णमयी भूमिः लोकालोकश्च पर्वतः ।
ततः परस्ताद्गर्भोदः कटाहश्चेति भूतलम् ॥ ४३ ॥

चित्रशैलसरिद्वीपकाननोदध्यलंकृतम् ।
पृथ्वी भागवता ज्ञेया सर्वदा नन्दिकेश्वर ॥ ४४ ॥

भूमेर्नाभिर्जम्बु संज्ञं तद्वृत्तं लक्षयोजनम् ।
क्षीराब्धिना परिवृत्तं परिवृत्तेन तावता ॥ ४५ ॥

प्. ६७०)

तस्य मध्ये स्थितश्शैलो राजराजो हिरण्मयः ।
तिरस्कृतां शुमज्ज्योतिः मेरुस्सुरसमाश्रितः ॥ ४६ ॥

सषोडश सहस्राणि क्षितोविष्टो महीतलात् ।
नाद्रुनामानतो लक्षं मूले च षोडश स्मृतः ॥ ४७ ॥

त्रिषु पादोन्तरेष्वस्य चतुर्बद्धेषु पर्वतम् ।
नेमयः कटकाकारा निर्गता दीप्तिमत्तराः ॥ ४८ ॥

एकादश सहस्राद्या अनुसाहस्रकाः पराः ।
नैमितस्तत्र कोपान्ते लोकपाल समाश्रयाः ॥ ४९ ॥

इन्द्रस्य चक्रपाटाख्यं रत्नसर्वप्रभोज्वलम् ।
सिद्धगन्धर्वमरुतां तदधस्सर्वसंस्थितः ॥ ५० ॥

प्. ६७१)

तस्यामष्टसु शृंगेषु पर्यष्टौ संव्यवस्थिताः ।
प्राच्यादिष्विन्द्रमुख्यानां नाम तद्भरगर्भकम् ॥ ५१ ॥

अनेकरत्नप्रभवं विराजितनभोऽन्तराः ।
सिद्धसाध्यगरुद्युक्ता रुग्मभूरमरावती ॥ ५२ ॥

रक्तपीतमणिप्राय हेमप्रकारगोपुरा ।
तेजोवती यदाग्नेय नगरी ज्योतिषावृता ॥ ५३ ॥

लोहप्राकारसंयुक्ता मृत्योस्संयमिनी पुरी ।
कालपाशपितृव्याधि प्रेतभूतगणैर्वृता ॥ ५४ ॥

नैर्-ऋत्यां नगरी कृष्णा दैत्यैः क्रूरैश्च संवृता ।
इन्द्रनीलमहानील नीलरत्नप्रभान्विता ॥ ५५ ॥

प्. ६७२)

प्रतीच्यां वरुणस्यापि नगरी शुद्धवत्यपि ।
शुद्धस्फटिकसंकॢप्त तोरणध्वजसंवृतैः ॥ ५६ ॥

शुद्धमेघोपमैर्मत्स्यैः मकरैकज्वलोग्रकैः ।
गद्धबाहस्य नगरी साक्षाद्गन्धवती पुरा ॥ ५७ ॥

धौतश्वेतध्वजैर्युक्त बलेवाहुत संस्थितः ।
नगरी सा प्रभाजालैः दीप्यन्ती परितः क्रमात् ॥ ५८ ॥

सोमस्य नगरी साक्षान्मुक्तास्फटिक निर्मिता ।
महोदयाख्यायक्षैश्च गन्धर्वैश्च विशेषतः ॥ ५९ ॥

खड्गवृक्षोश्च * * * * * * * * * * * ।
देवसंघैःस्तुता भाति पुरैश्चैव गिरिप्रभैः ॥ ६० ॥

प्. ६७३)

ऐशान्यां नगरीसाक्षा यशोवत्यम्यभिवृता ।
अनेकरुद्र संयुक्ता नानारत्नैर्विराजिता ॥ ६१ ॥

सर्वर्तुकुसुमैर्युक्ता दिव्यदेवैनिषेविता ।
नानापक्षि समाकीर्णा नानाद्रुम विभूषिता ॥ ६२ ॥

ब्रह्मणा निर्मिता लोकपालचक्रानुवर्तिनाम् ।
भूतये स्वर्ग इत्येता गदिता स्वर्गशीलकैः ॥ ६३ ॥

ब्रह्मणो नगरी साक्षान्मनोवत्यभिधान्विता ।
चतुर्दश सहस्रैश्च योजनानां प्रविस्तृता ॥ ६४ ॥

मध्ये च लोकपालानां मेरुमध्ये सुरैर्वृता ।
याचकारारुणो नुन्नैर्गगनं हासयन्ति या ॥ ६५ ॥

प्. ६७४)

सावित्र्य स्पर्धमानेन स्वर्गकामादिवर्तिनी ।
तस्यामुपासते देवा मुनयश्च महोदयाः ॥ ६६ ॥

महायोगीश्वरी स्कन्धैः योगाद्वेतैश्च वासवैः ।
मेरोः पञ्चमदिग्भागे वैकुण्ठशिखरं भवेत् ॥ ६७ ॥

सर्वालंकारसंयुक्तं ऋद्धिसिद्धि निषेवितम् ।
चतुर्दशसहस्राणि विस्तारोत्सेधमेव तु ॥ ६८ ॥

सर्वरत्नमयाभासं प्रत्यर्क प्राकारतोरणा ।
तत्रैव वसतो विष्णुः सर्वदेवगणैर्युतः ॥ ६९ ॥

भूलोकरक्षणार्थाय वसन्निति दिनात्मनः ।
ये सृष्टि स्थिति संहारान् कुर्वन्ति क्रमशस्तथा ॥ ७० ॥

प्. ६७५)

तदीशभागे तस्याद्रेः शृंगमादित्य सन्निभम् ।
यक्त ज्योतिष्कमित्याहुः तथा पशुपतेः प्रियः ॥ ७१ ॥

तस्य सा तुष्करं हेमरत्नचित्रेषु संस्थिताः ।
स्कन्दनन्दिमहाकाल गणेशादि महेश्वराः ॥ ७२ ॥

मूर्ध्नि देवादिदेवस्य स्थानं त्रिपुरविद्विषः ।
एवं लक्षण संयुक्तो राजते पर्वतेश्वरः ॥ ७३ ॥

कैलास इति विख्यातो नात्मा वै नन्दिकेश्वर ।
आर्द्रायुतगणैर्युक्तं ब्रह्माद्यैश्च सुरोत्तमैः ॥ ७४ ॥

इति मेरोरधोस्यान्ये दिक्षु ये पर्वताः स्थिताः ।
तत्संशिष्टनवद्वीपं वर्षाण्यस्मिन् शृणुष्वथ ॥ ७५ ॥

प्. ६७६)

निषधो हेमकूटश्च हिमवानचलोत्तमः ।
मेरोर्दक्षिणतो नीलः श्वेत भृंगी तु याम्यतः ॥ ७६ ॥

सहस्रद्वय विष्कम्भा दशोंत्सेधमवान्तराः ।
प्रागायतास्सपर्वाणः सागराः शतकोटयः ॥ ७७ ॥

तदर्धेनाथ विष्कम्भो माल्यवान्गन्धमादनः ।
याम्योत्तरौ प्राक् प्रतिच्यैर्मेरुतस्तावदञ्चरौ ॥ ७८ ॥

पश्चान्माल्यादतः प्राच्यां वर्षं भद्रजनाकुलम् ।
सुक्तो न पकेजामालं प्रतीच्यां गन्धमादनात् ॥ ७९ ॥

निषधाज्वानि वर्णं तु याम्यतो हेमकूटतः ।
नाम्ना किं पुरुषाख्यातं हारक्तं हिमवद्गिरे ॥ ८० ॥

प्. ६७७)

संज्ञमुद * * * ताद् हिरण्यश्वेत पर्वतात् ।
यदुत्तरं शृंगयदः कुरुवर्षं तदुच्यते ॥ ८१ ॥

ब्रह्माणं दुर्निमित्ताश्च मेरोः स्थित्यर्थकांक्षिणा ।
विष्कम्भाकारवत्तत्र पर्वतास्सुदृढास्त्वमी ॥ ८२ ॥

लक्षार्धोन्नत यस्सप्तास्तेषां पूर्वेण मन्दरः ।
वेदो हरिद्रा चूर्णाभो याम्यतो गन्धमादनः ॥ ८३ ॥

नीलोगिरि प्रतीच्यां वै सुपार्श्वं सौम्यतोरुणः ।
सहस्रयोजनोच्छ्रायास्तेषु कल्पद्रुमाः स्थिताः ॥ ८४ ॥

कम्बजमब्जोश्वत्थाश्च व्यग्रोधश्चोत्तरान्तिकाः ।
जम्बूफलरसोद्भूता मेरुपर्यन्त निम्नगाः ॥ ८५ ॥

प्. ६७८)

विशेषमूलमेवास्य कनकीकृत्यतां महीम् ।
तां पीत्वा पक्षिणः सर्वा मृगाश्शाखामृगादयः ॥ ८६ ॥

बभूवुः काञ्चना ये च सत्वास्तस्यां कृतघ्नवाक् ।
द्वीपके तु भूज्जाम्बू * * * * * * * * * ॥ ८७ ॥

प्रभावती यथा ख्यातं जम्बूद्वीपमिदं ततः ।
प्राच्यां विष्कम्भशैलस्य मूले चैत्ररथं वनम् ॥ ८८ ॥

सरोऽरुणोदकं नाम तत्र गोमाब्जमण्डितम् ।
याम्यां निम्नगे गन्धर्व * * * * * * * * ॥ ८९ ॥

नन्दनं तद्वनं तत्र सरो मानस संज्ञकम् ।
वैभ्राजं च पुले मूले सितोदश्च समावृतः ॥ ९० ॥

प्. ६७९)

देवस्यैव निषेव्येत कमलैरंशुमत्प्रभैः ।
सौपार्श्वे धृतिमान् * * * * * * * हृदयाः ॥ ९१ ॥

सौगन्धिकाम्बुज चिन्नस्सेव्यते पितृभिस्सदा ।
त्रयोदश सहस्राणां जम्बूफलरसाशिनः ॥ ९२ ॥

मेरोर्लोको पलब्धोर्द्धा जनास्सत्वशिखावृताः ।

  • * * * * * * * * * तिः पिबसारभुक् ॥ ९३ ॥


तेजस्सत्वजनो दिव्यदेहबन्धसुखी बली ।
चन्द्रबिम्बद्युतिर्नीलाजासनो भद्रवाजिनी ॥ ९४ ॥

दशवर्ष सहस्राणि जन्मन्यायूंषि यज्वनः ।
त्रिंशाब्दश्च सहस्रायुः कामवृक्ष फलाशिनः ॥ ९५ ॥

प्. ६८०)

युग्म प्र * * पुरु * * ज्ञां पुष्पद्युतिर्जनाः ।
भूतवे सहस्रोर्ध्वावेकदिक् सन्धिलक्षणौ ॥ ९६ ॥

  • * * वेशयो सिद्धा चामरैर्मुनिसेवितम् ।

चन्द्रभद्राकराधिपौ चन्द्ररक्तांबुरुगजनौ ऐलावृतः ॥ ९७ ॥

त * * * * * रायुः फलमूलं च भोजनम् ।
अन्तर्भावं कुरुष्वेव सान्निध्यात्कतमस्तदा ॥ ९८ ॥

मध्यानि च सहस्राणि द्वादशानि हिरण्मयी ।
जनस्यैन्द्रद्विषो नित्यं अश्वतो लांकुलं फलम् ॥ ९९ ॥

तिनीलरजसस्यामा * के * * स्तशः स्थितः ।
जनस्याब्दसहस्राणि न्यग्रोधफलमश्नुतः ॥ १०० ॥

प्. ६८१)

रजतद्युति निष्पादश्ववदायुर्गिरौ जनः ।
रौक्मं किं पुरुषे प्लक्ष भोजनाब्दायुत स्थितिः ॥ १०१ ॥

इति किं पुरुषादीनि वर्षाण्येतानि तानि वै ।
नवेष्ववस्था भेदोऽस्ति विवर्षेषु कृतादिषु ॥ १०२ ॥

नवसाहस्रविस्तारं समुद्रान्तायतं तथा ।
नानाजन पदाकीर्णं जरारोगभयान्वितम् ॥ १०३ ॥

ईषत्सुखं महादुःखं जनाः कृष्यन्नभोजनाः ।
तेषां शतायुः कॢप्तिश्च चतुर्युगवशात्पुनः ॥ १०४ ॥

गुणमेवं विना * * शुभाशुभ फलार्जनम् ।
भूरादीनां समस्तानां फलभूः कर्मभूर्यतः ॥ १०५ ॥

प्. ६८२)

कर्मभूरिति विख्याता स्वर्गभूमिस्तथोपरि ।
भूमिभुक्तिफलं प्राप्य शिवं संप्राप्य यत्नतः ॥ १०६ ॥

तत्र भारतवर्षं च नवभागं प्रकल्पितम् ।
इन्द्रद्वीपादयस्तत्र शृणुत्वं नन्दिकेश्वर ॥ १०७ ॥

इन्द्रद्वीपकशेरुश्च ताम्रपर्णो गभस्तिमान् ।
नागद्वीपाश्च साभ्यश्च गान्धर्वो वारुणस्तथा ॥ १०८ ॥

कुमारिकाख्यो नवमो नानाद्रुमलतानुगाः ।
नानाजाति समाकीर्णा भक्ताख्ये प्रतिकीर्तिताः ॥ १०९ ॥

चातुर्वर्ण्य समायुक्तं चतुराश्रम संकुलम् ।
नदानां च नदीनां च ज्ञेयाः पञ्चशतानि तु ॥ ११० ॥

प्. ६८३)

कोटितीर्थ समायुक्ताः महापुण्योदयाः शुभाः ।
हिमवदुत्तरे भागे कैलासशिखरं महत् ॥ १११ ॥

रौप्याद्रौ तु शिवो देव्या ऋषि सिद्धैस्सुसेवितः ।
सर्वालंकार संयुक्तः दिव्यवृक्षैरलंकृतः ॥ ११२ ॥

देवसाध्यमहर्नित्यं सान्निध्यमपि पर्वते ।
अष्टषष्टि महाक्षेत्रं वारणास्यादि पावनम् ॥ ११३ ॥

अंगद्वीपादि षड्द्वीपाः सागरे लक्ष्यवस्थिताः ।
महेन्द्रो मलयस्सह्यः शक्तिमानृक्षपर्वतः ॥ ११४ ॥

विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।
द्वीपालं कारसंयुक्ताः चामीकरनिभाः शुभाः ॥ ११५ ॥

प्. ६८४)

नानाविचित्रसंयुक्ता रमन्ते राक्षसेश्वरैः ।
जम्बूद्वीपं समाख्यातं लवणोदध्युतं शृणु ॥ ११६ ॥

लक्षाद्यं च सुविमलं विमलोदधिरास्पदम् ।
भूधरा द्वादशाश्चैवं प्रसिद्धं लवणोदधौ ॥ ११७ ॥

वृषभश्चैव * * * दुन्दुभिश्चैव पर्वतः ।
चक्रश्चैव तु मैनाको बलाकं दक्षिणस्तथा ॥ ११८ ॥

निम्नतापि तयोर्मध्ये चाब्धितो बडवामुखम् ।
वराहस्सोमकेतुश्च नन्दनं पश्चिमे दिशि ॥ ११९ ॥

कंसचन्द्रस्ततो द्रोणश्चोत्तरे संव्यवस्थिताः ।
लवणोदधिरित्युक्तः शाकद्वीपं ततः शृणु ॥ १२० ॥

प्. ६८५)

शाकद्वीपे ह्यधश्शेषो वपुष्मान्कुशद्वीपकौ ।
ज्योतिष्मान्क्रौञ्चद्वीपेतुशा मल्युचिमांस्तथा ॥ १२१ ॥

गोमेदेन समाप्रोक्ता पञ्चद्वीपाधिपाः स्मृताः ।
सप्त सप्त प्रजाजाता सप्तसप्तविभागशः ॥ १२२ ॥

पर्वतादि समुद्रान्तं सप्तभागः प्रकीर्तितः ।
द्वीपे तु पुष्कराख्ये तु वसानस्तु महाबलः ॥ १२३ ॥

द्वौ पुत्रौ तौ समाख्यातौ द्वीपौ तौ तत्र कीर्तितौ ।
पर्वतं वलयाकारं मानसोत्तरनामतः ॥ १२४ ॥

कृतादि युगवत्कालं शाकद्वीपादिवासिनाम् ।
सिन्दूरकान्तिमेर्वादि विस्तारं पञ्चकोदधि ॥ १२५ ॥

प्. ६८६)

सप्तलक्षादयस्संख्याः समासात्कीर्तितानि वै ।
ततो हेम महाभूमिः विस्तारं दशकोटयः ॥ १२६ ॥

देवानां क्रीडनार्थाय प्रोच्यते तत्समन्ततः ।
लोकालोकस्समाख्यातः पर्वतो वृत्तरूपवान् ॥ १२७ ॥

सहस्रयोजनारम्भः चोच्छ्रायं लक्षयोजनम् ।
लोकपालाः स्थितास्तत्र सिद्धदेव समावृताः ॥ १२८ ॥

दुर्लभश्च सतैस्सूर्यस्त्वन्धकारस्ततः परम् ।
लोकालोकं समावृत्य गर्भोदधि समुद्रराट् ॥ १२९ ॥

गर्भोदधिं समावृत्य पार्थिवावरणं स्मृतम् ।
पार्थिवं तु समावृत्य तदाहं कोटिविस्तृतम् ॥ १३० ॥

प्. ६८७)

कटराहान्महामेरुः पञ्चाशत्कोटिकः स्मृतः ।
दशदिक्षु समं ज्ञेयं प्रमाणं दशकोटयः ॥ १३१ ॥

भूलोकस्तु समाख्यातो भुवर्लोकमथ शृणु ।
लक्षयोजनमानेन सूर्यलोकं विधीयते ॥ १३२ ॥

विश्वे द्वौ वसवश्चाष्टौ रुद्रैकादशकं तथा ।
द्वादशादित्यंशुमाहुस्त्रयस्त्रिंशच्च देवताः ॥ १३३ ॥

तेपि तत्र वसन्त्येव नित्यमीश्वर सेवनात् ।
मेरुं प्रदक्षिणेनैव भुवर्लोकमिति स्मृतम् ॥ १३४ ॥

ततश्चोपरि लक्ष्ये तु चन्द्रलोकं विधीयते ।
चन्द्रार्धलक्षमात्रेण स्थितं नक्षत्रमण्डलम् ॥ १३५ ॥

प्. ६८८)

लक्षद्वये बुधं विद्याद् द्विलक्षे भार्गवः स्मृतः ।
लक्षद्वये तु चांगारो द्विलक्षे तु बृहस्पतिः ॥ १३६ ॥

सौरिर्लक्षद्वये प्रोक्त उदयो लक्षयोजने ।
अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥ १३७ ॥

भृग्वंगिरो मरीचिश्च ऋषयस्सप्त कीर्तिताः ।
उपरिष्टाद्ध्रुवः प्रोक्तश्चैक लक्षस्य योजनात् ॥ १३८ ॥

ग्रहाणामुपरिष्टात्तु ध्रुवान्तं सर्वमेव हि ।
दश पञ्चैव लक्षाणि भूपृष्ठात्तु ध्रुवान्तकम् ॥ १३९ ॥

ततोपरि महर्लोको द्विकोटिर्योजनं मतम् ।
पञ्चाशीत्यर्धलक्षाणि जनलोकः प्रकीर्तितः ॥ १४० ॥

प्. ६८९)

अष्टकोटिस्तपोलोकः उपर्युपरि संस्थितः ।
द्वादशैव तथा कोटिः पञ्चाशत्कोटयः स्मृताः ॥ १४१ ॥

शतयोजन कोट्या वै प्रोक्तं ब्रह्माण्डधारिका ।
कपालीशाह्वयो बुद्धो वज्रदेहः प्रमर्दनः ॥ १४२ ॥

विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपाः ।
इन्द्रस्य बलमाक्रम्य प्रभुशक्ति समन्विताः ॥ १४३ ॥

विचरन्ति महारुद्रा वह्निराज्ञासुपूजिताः ।
निर्-ऋत्यां माणवां क्रोधहत्रस्तमविलोहिता ॥ १४४ ॥

ऊर्ध्वलिंगो विरूपाक्षो दंष्ट्री नामफलोदयः ।
महाबलो महाबाहुर्धूमकेतुस्सुदंष्ट्रवान् ॥ १४५ ॥

प्. ६९०)

निर्-ऋतेर्बलमाक्रम्य प्रभुशक्तिसमन्विताः ।
विचरन्ति महारुद्रा राक्षसेशेन पूजिताः ॥ १४६ ॥

बलोप्यतिबलश्चैव पाशहस्तो महाबलः ।
श्वेतोथ जयभद्रश्च दीर्घबाहुर्जलान्तकः ॥ १४७ ॥

मेघनादस्सुनादश्च दशैते पश्चिमाश्रिताः ।
वारुणं बलमाक्रम्य प्रभुशक्ति समन्विताः ॥ १४८ ॥

विचरन्ति महादेवा वारुणेन तु पूजिताः ।
शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णो भयानकः ॥ १४९ ॥

पञ्चान्तकः पञ्चशिखःकपर्दी मेघवाहनः ।
पावनं बलमाक्रम्य प्रभुशक्तिसमन्विताः ॥ १५० ॥

प्. ६९१)

विचरन्ति महादेवा वायुराजेन पूजिताः ।
विद्याधरश्च सर्वज्ञो ज्ञानधृग्वेदपारगः ॥ १५१ ॥

सुरेश्वरश्च सर्वेशो भूतपालो बलिप्रियः ।
सुखदो दुष्कृतश्चैव दशैते तु समासतः ॥ १५२ ॥

ईशानबलमाक्रम्य प्रभुशक्ति समन्विताः ।
विचरन्ति महादेवा ईशानेन सुपूजिताः ॥ १५३ ॥

विषो वृषधरोरन्तकोसेशस्वखिमाशनः ।
भूतरो कुम्भरश्चैव फणीन्द्रो वज्रदंष्ट्रकः ॥ १५४ ॥

अधोभागेऽपि विष्णोश्च बलमाक्रम्य सुस्थिताः ।
विचरन्ति महादेवा ईशानेन सुपूजिताः ॥ १५५ ॥

प्. ६९२)

शम्भुर्विभुर्गुणाध्यक्षः त्र्यक्षस्त्रिदशकादितः ।
संवाहश्च विवाहश्च नभोलिप्सुर्विचक्षणः ॥ १५६ ॥

वीरभद्रादयो देवा दशनन्दिन्प्रकीर्तिताः ।
ऊर्ध्वेपि ब्रह्मणोप्याथ आक्रम्य प्रभुशक्तिभिः ॥ १५७ ॥

विचरन्ति महादेवा ब्रह्मणा च सुपूजिताः ।
उक्तं च पृथ्वीतत्वज्ञमाप्यते त्वमथ शृणु ॥ १५८ ॥

ब्रह्माण्डोपरि तोयाख्यं तत्वं दशगुणावृतम् ।
विपदं रुद्रकोटीरविमुक्तं च महाबलम् ॥ १५९ ॥

गोकर्णं भद्रकर्णं च स्वर्णाक्षं स्थाणुरुद्रकम् ।
पवित्राष्टकमेवं हि व्योमावरणमाश्रितम् ॥ १६० ॥

प्. ६९३)

तन्मध्ये चाष्टहंकार प्रकृतिं दशगुणेन तु ।
छगलण्डद्विरण्डं च मोकोटं मुण्डकेश्वरम् ॥ १६१ ॥

कालाञ्चनं शंकुकण्ठं स्थूलशं च स्थलेशतम् ।
स्थानाष्टकमिदं विद्यात् पूर्वाद्यैशानमन्तकम् ॥ १६२ ॥

श्वेतं गुह्याष्टकं प्रोक्तं रक्तं गुह्यतमं भवेत् ।
गुह्याद्गुह्याष्टकं कृष्णं पवित्रं चापि धूम्रकम् ॥ १६३ ॥

शुद्धस्फटिकसंकाशं स्थानमष्टकमीरितम् ।
एवं पञ्चाष्टकं प्रोक्तं कल्पनाभिमस्तु पार्थिवै ॥ १६४ ॥

स्वयमेव यदन्येषु वादिष्वेव च पञ्चसु ।
प्लक्षाकारं तु भुवनं भुवनेशैर्नियामितम् ॥ १६५ ॥

प्. ६९४)

एवं श्रीकण्ठनाथस्य भोगस्थानं प्रकीर्तितम् ।
अत ऊर्ध्वं भवेद्बुद्धिर्भवेद्दशगुणावृता ॥ १६६ ॥

पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च ।
सौम्यं प्राजेश्वरं ब्राह्म्यं देवयोन्यष्टकं स्मृतम् ॥ १६ ॥

एतत्पुर्यष्टकं विद्धि बुद्ध्यावरणमाश्रितम् ।
स्थानान्युक्तानि सर्वाणि सर्वैश्वर्ययुतानि च ॥ १६८ ॥

गुणावरणमूर्ध्वे तु बुद्धेर्दश गुणाः स्मृताः ।
अकृतं च कृतं चैव भैरवं ब्राह्ममेव च ॥ १६९ ॥

वैष्णवं त्वथ कौमारं औमं श्रीकण्ठमेव च ।
प्रोक्तं याम्यष्टकं ह्येवं गुणावरणमाश्रितम् ॥ १७० ॥

प्. ६९५)

योगेश्वरेषु यो भक्तो योगं युज्यति तत्परः ।
तेषां स्थानानि दिव्यानि क्रमाद्गच्छन्ति योगिनः ॥ १७१ ॥

अस्यारिपतमूर्ध्वे तु स्थितं दशगुणावृतम् ।
गोकर्णं भद्रकर्णं च स्वर्णाक्षं स्थाणु रुद्रकम् ॥ १७२ ॥

पवित्राष्टकमेवं हि व्योमावरणमाश्रितम् ।
क्रोधेशश्चण्ड संवर्तो ज्योतिः पिंगलसूरगः ॥ १७३ ॥

पञ्चान्तकैकवीरश्च शिवेन सहितेश्वराः ।
महादेवाष्टकं ह्येवं अव्यक्तावरणास्थिताः ॥ १७४ ॥

अव्यक्तं प्रकृतिश्चैव प्रधानं च इहोच्यते ।
रुद्रः पिंगो गणेशानो भुवनेशपुरस्सराः ॥ १७५ ॥

प्. ६९६)

अंगुष्ठमात्रास्ते देवास्संगुष्ठाच्छिवसंज्ञकाः ।
कामक्रोधविनिर्मुक्ताः परमेश्वरभावकाः ॥ १७६ ॥

तत्रैव पुरुषा ज्ञेया रागाख्यावरणाश्रिताः ।
षट्कौशिकानि भूतानां विषयाणीन्द्रियाणि वै ॥ १७७ ॥

मनोबुद्धिरहंकारः त्रिगुणाश्च विशेषतः ।
एतैर्युक्तैस्तु पुरुषो रागतत्वे व्यवस्थितः ॥ १७८ ॥

विद्यातत्वं तदूर्ध्वं च रागाच्छतगुणं भवेत् ।
वामदेवोऽथ भीमश्च उग्रश्चैव भवस्तथा ॥ १७९ ॥

शर्वेशानौ च वीरश्च ईश्वरश्च प्रचण्डधृक् ।
ईश्वरो वाप्युमाभर्ता गिरिशोऽनन्त एव च ॥ १८० ॥

प्. ६९७)

  • * न्येकशिवश्चैव विद्यावरणमाश्रिताः ।

कलातत्वं भवेदूर्ध्वं विद्यायां तत्ततोधिकम् ॥ १८१ ॥

वामो ज्येष्ठश्च रौद्रश्च कालश्चैव कलस्तथा ।
कलविकरणो बलविकरणो बलप्रमथन एव च ॥ १८२ ॥

सर्वभूतदमनश्च मनोन्मनस एव च ।
दशरुद्राः स्थिता ह्येते विग्रहेशान च स्मृताः ॥ १८३ ॥

अत ऊर्ध्वं नियत्याख्यं कलाशतगुणाधिकम् ।
उच्छुष्णांश्चम्बरश्चण्डो मातंगो घोररूपकाः ॥ १८४ ॥

यामोद्यषण्डभाचर्याः येत्याव * * * * ताः ।
निवृत्त्या शतगुणं कालं कालतत्वे व्यवस्थिताः ॥ १८५ ॥

प्. ६९८)

हालाहलश्च क्रोडश्च वाडवाख्यास्तृतीयकाः ।
स्थूलरुद्रो पटरुद्रो रुद्रो गुर्वलयस्तथा ॥ १८६ ॥

एते षट् कालतत्वे तु संस्थिता बाहुला मताः ।
कालोर्ध्वशतगुणं चैव मायातत्वमिहोच्यते ॥ १८७ ॥

संपुट द्वितयामासरुद्राश्चैकादश स्थिताः ।
अधश्च संपुटा विद्या द्रवोर्ध्वं संपुटा पुरा ॥ १८८ ॥

अहरीशस्तथाध्यक्षः तथा हरिप्रभुः स्मृतः ।
दशोशानस्तथा चैव प्रबलो गोपतिस्तथा ॥ १८९ ॥

अथो मायापुटस्थां तु षडृवास्ते प्रकीर्तिताः ।
क्षेमीशो ब्रह्मधामीश विद्येशास्तु तथैव च ॥ १९० ॥

प्. ६९९)

विश्वेश्वरश्शिवश्चैव अनन्तस्तु षडेव हि ।
ऊर्ध्वमायापुटस्थास्तु रुद्रास्ते विप्रकीर्तिताः ॥ १९१ ॥

तेषां मध्ये च भगवान् अनन्तेशो जगत्पतिः ।
भावयित्वाद्यचोत्पत्तिं कुरुते स्वेच्छया प्रभुः ॥ १९२ ॥

मायाद्यवनिपर्यन्तं ये रुद्रास्संस्थिताः क्रमात् ।
भुज्यन्ते तत्र तत्रैव भोगाः प्रमुदितात्मना ॥ १९३ ॥

तस्याननं समाश्रित्य शिवतत्वं समाश्रयेत् ।
मायान्तं लक्षणं प्रोक्तं तदूर्ध्वं लक्षणं शृणु ॥ १९४ ॥

मायोर्ध्वं तु भवेदात्मा स्थितः शतगुणेन तु ।
तदात्माविधयश्शुद्धा संज्ञाः क्रत्वादिभिर्गणैः ॥ १९५ ॥

प्. ७००)

जगद्बीजमिदं ज्ञेयं शिवव्यक्तिकराय च ।
अर्थपञ्चकनिर्मुक्तः पुरुषो स्यात्मकस्तथा ॥ १९६ ॥

शिवप्रकाशनिर्मुक्तमात्मतत्व मुदीरितम् ।
मायाद्यवनिपर्यन्तं जीवभूतश्शिवेच्छया ॥ १९७ ॥

आदितत्वमिदं प्रोक्तं विद्यातत्वमथ शृणु ।
आत्मतत्वात्तु साहस्रं विद्यातत्वं प्रकीर्तितम् ॥ १९८ ॥

ऐश्वरं तत्वमूर्ध्वं तु सर्वतत्वोपरि स्थितम् ।
न शिवेन विना शक्तिः न शक्तिरहितश्शिवः ॥ १९९ ॥

पृथ्वी जलं च वह्निश्च वायुराकाशमेव च ।
अहंकारस्तथा बुद्धिर्गणमव्यक्तमेव च ॥ २०० ॥

प्. ७०१)

रागतत्वं ततस्तस्मिन् दशपञ्चेन्द्रियाणि च ।
विद्याकला च नियतिः कालतत्वमनन्तरम् ॥ २०१ ॥

मायातत्वमतश्चोर्ध्वं कालतत्वमनन्तरम् ।
शुद्धविद्या तदूर्ध्वे तु ऐशं तत्तत्वमिश्रितम् ॥ २०२ ॥

सादाख्यं बिन्दुनादश्च शक्तितत्वमतः परम् ।
शिवतत्वं परं प्रोक्तं षट्त्रिंशत्तत्वमुत्तमम् ॥ २०३ ॥

षट्त्रिंशानि च तत्वानि शिवतत्वोद्भवानि तु ।
एतान्युक्तानि तत्वानि पञ्चतत्वे स्थितानि तु ॥ २०४ ॥

ब्रह्माण्डं पृथिवि ज्ञेयं प्रकृत्यान्तं जलं स्थितम् ।
तेजो विद्यान्तमेवं हि वायुरीश्वरतत्वयुक् ॥ २०५ ॥

प्. ७०२)

व्योमशक्त्यन्तमेषां वै व्योमतत्वञ्च संस्थितिः ।
निवृत्तिः पृथिवीज्ञेया प्रतिष्ठा च जलं भवेत् ॥ २०६ ॥

विद्यातेजश्च निर्दिष्टः समायुक्तस्तथैव च ।
अतीता शान्तिर्व्योमेति कलाः पञ्च प्रतिष्ठिताः ॥ २०७ ॥

इच्छाशक्ति समुद्भूताः सर्वभूतस्य धारकाः ।
पृथिव्याद्यात्मतत्वान्तं आत्मतत्वमुदीरितम् ॥ २०८ ॥

विद्यातत्वादि शक्त्यन्तं विद्यातत्वमुदीरितम् ।
तस्योर्ध्वं शिवतत्वं तु तत्वत्रयमुदीरितम् ॥ २०९ ॥

पृथिव्यादीनि मायान्तं मायातत्वमुदीरितम् ।
आत्मैव चात्मतत्वं स्यात् सर्वतत्व प्रभुस्ततः ॥ २१० ॥

प्. ७०३)

विद्यादि शिवतत्वान्तं शिवतत्वं परात्परम् ।
प्रकृतिः पुरुषश्चैव ईश्वरश्च त्रिधा भवेत् ॥ २११ ॥

माया प्रकृतिरित्युक्ता आत्मानं पुरुषं त्विति ।
विद्यातत्वादितत्सर्वमैश्वरं तत्वमुत्तमम् ॥ २१२ ॥

तेषु रुद्रैश्च मध्यादेस्तत्वार्धेति प्रकीर्तितम् ।
कलापञ्चक संयुक्तिरध्वनां पञ्चके तव ॥ २१३ ॥

कलाध्वेति समुद्दिष्टमध्वनां त्रयमीरितम् ।
एतस्मिन्नेव भूतानां वर्णा लवरदा स्मृताः ॥ २१४ ॥

लकारः पृथिवी ज्ञेयः वकरोजल मुच्यते ।
रेफो हि वह्निसंयुक्तो यकारो वायुरेव च ॥ २१५ ॥

प्. ७०४)

हकरो व्योमवर्णः स्यात् एवं पञ्चाक्षरं भवेत् ।
वर्णानां कलया सार्धं वर्णाध्वा ध्यानतो भवेत् ॥ २१६ ॥

वर्णात्पदाध्वकोत्पत्तिः पदाध्वानं शृणु क्रमात् ।
भावोद्भावोद्भवश्शर्वस्सर्वभूतसुखप्रदः ॥ २१७ ॥

सर्वसाध्यैककरणं ब्रह्मविष्णुरुद्रार्चितः ।
अस्तुतत्पूर्व स्थितः । साक्षिसाक्षि । ऋतु ऋतु ॥ २१८ ॥

पतंग पतंग । पिम्.ग पिंग । ज्ञान ज्ञान । शब्द सब्द ।
सूक्ष्म सूक्ष्म । शिव शिव । ओं नमः । शिवाय नमोनमः ॥ २१९ ॥

निवृत्तेश्च वदत्वेवमष्टाविंशतिना वदेत् ।
व्यापिन् व्यापिन् । अरूपारूप । प्रथम प्रथम ॥ २२० ॥

प्. ७०५)

तेजस्तेज । ज्योतिर्ज्योति । रूप । अथं । अस्मभवं
अनादे । ना ना ना ना । धू धू । ओं भूः ओं भुवः ॥ २२१ ॥

अनिधन अनिधन । निधनोद्भव । शिव शिव ।
परमात्मन् महेश्वर महेश्वर । महादेव महेश्वर ॥ २२२ ॥

महातेज । योगाधि पतये मुञ्च मुञ्च । प्रथम
प्रथम । शिवश्शर्वेति । । २२३ ॥

द्वात्रिंशत्पद संयुक्तां प्रतिष्ठा च विशेषतः ।
ओं नमश्शिवाय सर्वप्रभवे ईशानमूर्धाय ॥ २२४ ॥

तत्पुरुषवक्त्राय अघोरहृदयाय वामदेव ।
गुह्याय सद्योजातमूर्तये ओं नमोनमः ॥ २२५ ॥

प्. ७०६)

गुह्याति गुह्यगोप्त्रे अनिधन एकविंशतिः ।
विद्यायाः पदान्युक्तानि * * * * * * तत्र वै ॥ २२६ ॥

ओं व्योमव्यापिने व्योमरूपाय सर्वव्यापिने ।
ओं शिवाय अनन्ताय अनाथाय । अनाश्रिताय ॥ २२७ ॥

शालाथा च योगपीठसंस्थिताय नित्ययोगिने
श्यानाहाराय ॥ २२८ ॥

एवं द्वादशकं प्रोक्तं शान्त्ययोग विशेषतः ।
ओमित्येक पदं नित्यं शान्त्यतीत कलापदम् ॥ २२९ ॥

चतुर्णवति संयुक्तं पदाध्वा रत्नगर्भकम् ।
वक्ष्यते तत्र तत्राध्वा ईशानादि शिवान्तकम् ॥ २३० ॥

प्. ७०७)

ईशानः पुरुषश्चैव अघोरो वामदेवयुक् ।
सद्यमित्येव मुक्तं स्यात्पद्मब्रह्मपरं मतम् ॥ २३१ ॥

शान्त्यतीतादि पृथ्व्यन्तं एकैकं मन्त्रमुच्चरेत् ।
हृदयं च शिरश्चैव शिखा कवचमेव च ॥ २३२ ॥

नेत्रत्रयं च तत्रैव षडध्वा च भवेत्तदा ।
नेत्रं विदान्निवृत्त्यादि शान्त्यतीतशिवान्तकम् ॥ २३३ ॥

मूलमन्त्रं शिवं प्रोक्तं मन्त्राध्वा संयुतं परम् ।
कलानां वक्ष्यते तत्र निवृत्त्याद्याश्च पञ्च च ॥ २३४ ॥

निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ।
एताः पञ्च कलाः प्रोक्ताः पञ्चब्रह्मकलाः पुनः ॥ २३५ ॥

प्. ७०८)

  • * * चांगदा ज्येष्ठा मरीचिर्ज्वालिनी तथा ।

ईशानस्य कलाः पञ्च प्रोक्तास्तत्पुत्रवा पुनः ॥ २३६ ॥

निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
पुरुषस्य कलाश्चापि चतस्त्र इति कीर्तितः ॥ २३७ ॥

तमो मोहाक्षया निष्ठा मृत्युर्मायामया तथा ।
जरा चैवाष्टमी विद्या अघोरस्येतिताः स्मृताः ॥ २३८ ॥

लाक्षा ज्येष्ठा च रक्षा च रुद्रका च कपालिनी ।
कलकामविकरणा स्वयमी तु परिक्रिया ॥ २३९ ॥

विकरणा च कार्या च भ्रामणी मोहिनी तथा ।
वामदेवकलाश्चापि त्रयोदशकमीरितम् ॥ २४० ॥

प्. ७०९)

वृद्धि-ऋद्धिर्द्युतिर्लक्ष्मीः मेधा कान्तिः स्वरा धृतिः ।
सद्योजात कलाश्चाष्टौ अष्टत्रिंशदुदीरिताः ॥ २४१ ॥

कलाध्वा चैव मुक्तस्तु चैवं षडध्व निर्णयम् ।
षडध्वभिश्च मार्गेऽस्मिन्विशत्येव शिवं परम् ॥ २४२ ॥

एवं षडध्व विज्ञप्तिर्यस्य सा पाशहा भवेत् ।
इत्यचिन्त्य विश्वसादाख्ये (षडध्वनिर्णयः) अष्टत्रिंशत्पटलः ॥



अतः परं प्रवक्ष्यामि दीक्षां विज्ञान संयुतम् ।
विशेषज्ञान पूर्वत्वात् विचित्रत्वाद्विजृम्भणात् ॥ १ ॥

विज्ञान दीक्षा सा प्रोक्ता दीक्षाणामुत्तमोत्तमा ।
मन्त्रहीन क्रियाहीन ध्यानहीनादिदीक्षिते ॥ २ ॥

प्. ७१०)

परिपूर्णत्व सिद्धत्वात् दीक्षाणां तु पवित्रिणी ।
दीक्षाय तच्छिवत्वं हि क्षीयते सर्वसंशयः ॥ ३ ॥

एवं विशिष्ट रूपत्वात् विज्ञानाख्येति कीर्तितः ।
अत्यन्त भक्तिसंयुक्तं गुरुदर्शनमात्रतः ॥ ४ ॥

रोमाञ्चित शरीरं च आनन्दाश्रुविलोचनम् ।
सर्वदा श्रवणोत्कण्ठं सर्वदा श्रवणोन्मुखम् ॥ ५ ॥

सर्वदा गुरुशुश्रूषा वाञ्च्छायुक्तमलोलुपम् ।
आज्ञापालन संयुक्तं सुखं वा दुःखमेव वा ॥ ६ ॥

अस्वातन्त्र्यं च तद्देहे कौलालिक मृदादिवत् ।
समुद्रपतने चैव जाह्नव्यां पतनेऽपि वा ॥ ७ ॥

प्. ७११)

व्याघ्रसर्पादिपतनेऽप्याज्ञा चेदविचारणः ।
सर्वस्वं जलधौ क्षिप्तं इति चेत्तेन भावितम् ॥ ८ ॥

तत्कार्ये तु प्रवीणत्वं कर्तव्यानितरां सदा ।
भूमौ निक्षिप्य वित्तादी ननु वा ज्ञानमार्गणम् ॥ ९ ॥

मातरं पितरं पुत्रं भ्रातॄन्जायामशेषतः ।
विसर्जने चेत्तच्चित्तं तद्विसर्जनवल्लभम् ॥ १० ॥

विवर्जितानां सर्वेषां स्वीकारं गुरुणोदितम् ।
तत्राविचार्य दीक्षान्तं एवमादिषु सर्वदा ॥ ११ ॥

पूर्वोक्तदीक्षासंयुक्तं शिष्यं विज्ञानदीक्षया ।
दीक्षयेत्कृपया पूर्णो गुरुस्सन्मार्गनायकः ॥ १२ ॥

प्. ७१२)

मनोव्यापारमात्रेण दीक्षया विद्यते क्रमात् ।
सा दीक्षा ज्ञानदीक्षा तु विज्ञानाख्या च वै भवेत् ॥ १३ ॥

मनोरम्ये शुभे देशे मनोरम्ये तु कालके ।
मनोरम्याखवस्थासु उभयोस्सुखसाम्ययोः ॥ १४ ॥

तदानीमेव सा दीक्षा सर्वसंसारनाशिनी ।
पञ्चाधार स्थितश्चापि गुरुदेहे व्यवस्थितः ॥ १५ ॥

गुर्वध्वमण्डले चैव गुरुमण्डलमुत्तमम् ।
सर्वसाक्षिमयं तत्तु शिवं परमकारणम् ॥ १६ ॥

पश्चाद्गुरुप्रसादेन मन्त्रन्यासादि पूर्ववत् ।
गुरोः पाणितले चैव स्थितं सकलतीर्थकम् ॥ १७ ॥

प्. ७१३)

अंगुष्ठमूले ब्राह्म्यं हि कराग्रे देवमन्त्रयोः ।
देवर्षिभिस्तु संसेव्यं अंगुलीपर्वसन्धिजम् ॥ १८ ॥

मनुष्याणामृषीणां च कनिष्ठामूलतीर्थकम् ।
हस्तमूले तु भूतानां तीर्थमित्यभिधीयते ॥ १९ ॥

तर्जन्यंगुष्ठयोर्मध्ये पितृतीर्थं व्यवस्थितम् ।
सप्ततीर्थं च तद्धस्ते विद्यमानं विभावयेत् ॥ २० ॥

बिन्दुरूपाणि तीर्थानि भावयित्वा विचक्षणः ।
तस्य दक्षिण हस्तेन शिवमन्त्रेण व्यापितम् ॥ २१ ॥

वामं तु शक्तिमन्त्रेण व्यापितं भावयेद्गुरुः ।
गन्धैः पुष्पैश्च धूपैश्च दीपैश्शिष्यं च कारयेत् ॥ २२ ॥

प्. ७१४)

सुखासने समावेश्य तद्दृष्टिगतमानसः ।
एवं विधो भवेच्छिष्यो भवेद्गुरुरनन्तरम् ॥ २३ ॥

मूलाधाराग्नि कुण्डोत्थं शिवाग्निं भावयेत्तदा ।
आज्ञाध्वाने च सर्पींषि चन्द्रमण्डलगां सुधाम् ॥ २४ ॥

शिवमण्डलके चैव स्रुवाग्निं स्थाप्य देशिकः ।
मनस्स्रुक् बुद्धिस्रुवं च समिधश्च कलास्तथा ॥ २५ ॥

मूलकुण्डलिना बाहुलतामुद्यम्य चोर्ध्वतः ।
इडां च पिंगलां चापि सोमसूर्यं च भावयेत् ॥ २६ ॥

नादस्वरूपदर्भेण चाज्यशुद्धिं विधाय च ।
पूर्वमेवाग्नि सिद्धत्वाद् विना चाग्निमुखं तथा ॥ २७ ॥

प्. ७१५)

तारशक्यं जपित्वान्ते शिवं चाप्यन्यसंपुटम् ।
पुष्पान्तं मन्त्रमेवं स्यात् ज्ञानाहुतीरनुत्तमाः ॥ २८ ॥

ओं हं सं सें सूर्यस्सोहमीशान तत्पुरुषाभ्यां ।
सो हं हौं स्वाहा । ओं ह्रीं हंसः ओं ॥ २९ ॥

पिंगलानाडिमार्गेण मूलाधारे च होमयेत् ।
ओं ह्रीं हंसः ओं हां ईश्वरमयस्सोहं हौं स्वाहा ॥ ३० ॥

इडया च हुनेत्पश्चान् मूलाधारे च होमयेत् ।
ओं ह्रीं हंसः सूर्यसोमाग्निस्सोहं हौं स्वाहा ॥ ३१ ॥

ओं ह्रीं हंसः हुं अघोरस्सोहं हुं स्वाहा ।
ओं ह्रीं हंसः तत्पुरुषाभ्यां सोहं स्वाहा ॥ ३२ ॥

प्. ७१६)

ओं ह्रीं हंसः हिं वामदेवस्सोहं हौं स्वाहा ।
ओं ह्रीं हंसः अघोरवामदेवाभ्यां सौं हौं स्वाहा ॥ ३३ ॥

ओं ह्रीं हंसः सं सद्योजाताय सोहं सौं स्वाहा ।
ओं ह्रीं हंसः शान्तिकलायै सोहं हौं स्वाहा ॥ ३४ ॥

ओं ह्री. हंसः । सद्योजातवामदेवाघोर तत्पुरुषेशानेभ्यः स्वाहा ॥ ३५ ॥

एवं विधैश्च मन्त्रैस्तु एकीकृत्य तु होमयेत् ।
ओं ह्रीं हंसस्सोहं हौं स्वाहा ॥ ३६ ॥

अनेनैव तु मन्त्रेण तृप्त्यन्तं होममाचरेत् ।
दशांशमंगमन्त्रेण होमयेन्नन्दिकेश्वर ॥ ३७ ॥

प्. ७१७)

ओं ह्रीं हंसः निवृत्तिकलायै सोहं हैं स्वाहा ।
ओं हौं सोहं हैं स्वाहा । प्रतिष्ठा कलायै सोहं हौं स्वाहा ॥ ३८ ॥

ओं ह्रीं हंसः विद्याकलायै सोहं हौं स्वाहा ।
ओं ह्रीं हंसः शान्तिकलायै सोहं हौं स्वाहा ॥ ३९ ॥

ओं ह्रीं हंसः शान्त्यतीतकलायै सोहं हौं स्वाहा ।
वागीश्वर्यास्तु बीजैश्च होमयेन्नन्दिकेश्वर ॥ ४० ॥

प्रासादेन तु मन्त्रेण पूर्णाहुतिमथाचरेत् ।
शिष्यचैतन्यमाकृष्य मूलाधारे च योजयेत् ॥ ४१ ॥

तस्मात्प्रदेशादाकृष्य ब्रह्मणार्घ्यं तरेत्पुनः ।
गुरुमण्डलमध्ये च सदानन्दा मृतोज्वले ॥ ४२ ॥

प्. ७१८)

शिष्यात्मानं च संयोज्य क्रमात्सन्मार्गदायकः ।
शिवरूपमिदं ध्यात्वा पुनर्मूले च योजयेत् ॥ ४३ ॥

तलादि सर्वलोकान्तं शिवनामानि होमयेत् ।
मायादिभूमिपर्यन्तं एकत्रिंशच्च तत्वकम् ॥ ४४ ॥

अकारादि क्षकारान्तं अक्षराणां च होमकम् ।
विलोमेन च तत्सर्वं प्रत्येकं होममाचरेत् ॥ ४५ ॥

भवादि प्रणवान्तं च चतुष्षण्णवतीपदम् ।
ओं ह्रीं हंसः भवस्सोहं हौं स्वाहा ॥ ४६ ॥

ओं ह्रीं हंसः भवोद्भवस्सोहं हौं स्वाहा ।
इत्येवमादिहोमं च मनसा जुहुयाद्गुरुः ॥ ४७ ॥

प्. ७१९)

निवृत्त्यादिकलाश्चैव होमयेन्नन्दिकेश्वर ।
पूर्णाहुतीश्शिवेनैव होमयेच्छिवभाविताः ॥ ४८ ॥

नेत्रत्रयं गुरुस्साक्षात् कृपानन्दोज्वलाकृतिः ।
शिवशक्त्यात्मकं बुध्वा शिष्यदेहं निरीक्षयेत् ॥ ४९ ॥

सन्ततं शिवयागार्थं अजपामन्त्रसंज्ञितम् ।
चन्द्रार्कनाशनं चापि सततं योगवर्धनम् ॥ ५० ॥

जाग्रतः स्वपतो विद्धि तिष्ठतश्च गमागमे ।
सन्ततं शिवयागं च नित्यं तिष्ठति तिष्ठति ॥ ५१ ॥

शिष्य चैतन्यमादाय गुरुमण्डलमध्यमे ।
संयोज्य तत्र संलीनं शिवं शिष्यं च भावयेत् ॥ ५२ ॥

प्. ७२०)

शिष्यदेहे च संयोज्य शिवमूर्तिं च भावयेत् ।
संहारक्रममारभ्य षडध्वानो विशेषतः ॥ ५३ ॥

सर्वं शिवेति लीनं च कुर्यात्सन्मार्गनायकः ।
वाच्यवाचकशून्यं तु मनोवाचामगोचरम् ॥ ५४ ॥

अप्रमेयमसादिभ्यमप्रपञ्चमलक्षणम् ।
आद्यन्त शून्यं कैवल्यमसंज्ञमनन्तकम् ॥ ५५ ॥

परात्परं मृत्युमानं द्वैताद्वैत विवर्जितम् ।
एवं ध्यात्वा महाज्ञानी शिष्यमालिंग्य निर्भरम् ॥ ५६ ॥

तन्मूर्ध्न्याधाय यत्काले अखण्डितवपुः स्मरेत् ।
आनन्दस्तस्य तत्रैव जायते च न संशयः ॥ ५७ ॥

प्. ७२१)

कम्पः स्वेदश्च पुलकः सर्वज्ञानस्य चोदयः ।
संपद्यते च तत्रैव शिवरूपी विशिष्यकः ॥ ५८ ॥

पुष्पमाल्यं च तत्रैव स्वमूर्ध्न्याधाय निक्षिपेत् ।
हस्ताभ्यामभिषेकं च कुर्यात्सन्मार्गदायकः ॥ ५९ ॥

विज्ञान दीक्षा हीनश्चेत् कुतो मोक्षः कुतः शिवः ।
इत्यचिन्त्यविश्वसादाख्ये विज्ञान दीक्षाविधिरेकोन चत्वारिंशत्पटलः ॥



समयानात्म तत्वं च शृणुत्वं नन्दिकेश्वर ।
शिवं परात्परं सूक्ष्ममप्रमेयमनुत्तमम् ॥ १ ॥

प्. ७२२)

आदावभूद् द्विधाज्ञानं अधिकार विभेदतः ।
परात्परेण भेदेन पापेनाश्वत्थदर्शकम् ॥ २ ॥

शिवप्रकाशकं ज्ञानं शिवज्ञानं परं स्मृतम् ।
चैद्यं त्वपर विज्ञानं पशुपाशार्थ दर्शकम् ॥ ३ ॥

नन्दिकेश्वरः ।

बौद्धादिसमयाः केते तत्तद्भेदः कथं भवेत् ।
तत्तत्तत्वं कथं ब्रूहि तदसंकरसंकरम् ॥ ४ ॥

मिथ्योत्पत्तिकथां कस्मात्कथ्यतां भगवन्मम ।

ईश्वरः ।

बौद्धं च आर्हतं चैव पाञ्चरात्रं च शैवकम् ॥ ५ ॥

समयं चतुर्विधं स्यात्तु तत्तद्भेदस्तु वक्ष्यते ।
शापकं च महायानं ततः प्रत्येकनायकम् ॥ ६ ॥

प्. ७२३)

विभज्य वैभाषिकत्वं तदन्तं बन्धभेदकम् ।
लोकायतं तु तत्रैव महायानानुगामि च ॥ ७ ॥

महायाने पूर्वपक्षं लोकायतमतो भवेत् ।
प्रत्येकनायके तत्र सौत्रीतिकपदाभ्रताः ॥ ८ ॥

योगाचारस्ततस्तस्मात् तन्त्रं च मच्युतो भवेत् ।
वैभाषिकस्थितिर्द्वेधा प्रत्येकं श्रवकं तथा ॥ ९ ॥

महायानं च तत्रैव द्विविधं परमं स्मृतम् ।
परमेतानशश्चेति सुमन्त्ररथ एव च ॥ १० ॥

परतोनयस्तत्वं * सौत्रान्तिक उदाहृतः ।
द्विधा मन्त्रस्थयोगाच्चरदिरे * * * व च ॥ ११ ॥

प्. ७२४)

द्विविधस्तद्योगा च साननाश्च निराकृतिः ।
एवं माध्यमिका प्रोक्ता मा * षमाद्वयस्ततः ॥ १२ ॥

सर्वे धर्मप्रतिष्ठां हि वादिनस्ते प्रकीर्तिताः ।
बौद्धभेदस्थितं ज्ञेयं महाभेदमथोच्यते ॥ १३ ॥

लश्रावनो निष्कलंक अकलंक स्त्रिधा भवेत् ।
त्रिभिस्त्रिभिः प्रकर्तव्यमाश्रमं च चतुर्विधम् ॥ १४ ॥

गृहस्थो भिक्षुकश्चैव ब्रह्मचारी तथैव च ।
वानप्रस्थश्च इत्येते आश्रमाश्च उदाहृताः ॥ १५ ॥

वैष्णवं त्रिविधं प्रोक्तं तस्य भेदमथोच्यते ।
पञ्चरात्रं भागवतं तथा वैखानसंमतम् ॥ १६ ॥

प्. ७२५)

इत्येवं त्रिविधं प्रोक्तं मीमांसा न्यायमेव च ।
वैशेषिकश्च सांख्यश्च आत्म वा इति क्रमात् ॥ १७ ॥

वैदिकानां च तद्भेदः प्रोक्तो वामाख्यमुच्यते ।
वामं तु त्रिविधं प्रोक्तमनादिः पूर्वपश्चिमम् ॥ १८ ॥

चतुर्विधं दक्षिणं स्यान्महाव्रतमतः परम् ।
कालामुखं च कापालं तद्वत्पाशुपतं भवेत् ॥ १९ ॥

शैवश्चतुर्विधः प्रोक्तः सिद्धान्तं द्विविधं भवेत् ।
कर्मान्तमेवं ज्ञानान्तं ज्ञानमूर्ध्वं परं स्मृतम् ॥ २० ॥

चर्या चैव क्रियायोगः कर्मणां साधनं भवेत् ।
चर्याक्रिया योगयुक्तं ज्ञानं चैव भवेत्तदा ॥ २१ ॥

प्. ७२६)

शक्तिश्शिवश्च सादाख्यं मन्त्रः प्राधान्यकात्मकः ।
समाप्तकलुषत्वं च मुक्तिस्तत्रैव चोच्यते ॥ २२ ॥

कर्मावरणमेवं स्यात् तस्योर्ध्वे तु निरावृतम् ।
बिन्दुर्नादश्च शक्तिश्च परश्चैव परात्परम् ॥ २३ ॥

ब्रह्मप्राप्त्यवधिश्चैव आत्मानन्दसुखं भवेत् ।
निरावरणमेवं तु शैवभेदस्तथोत्तरः ॥ २४ ॥

एतेषामेकहोमत्वान् न दोषाय तु संकरः ।
एवंभूत विशेषोऽस्ति तद्विशेषं शृणुष्व तत् ॥ २५ ॥

शिव सामान्यता रूपं शिवविग्रहमेव हि ।
विरागमार्हतं चैव अव्यक्ताद्विस्मृतं परम् ॥ २६ ॥

प्. ७२७)

ऐश्वर्यानन्दसंप्राप्तिः पंचरात्रादिभेदकम् ।
शैवं परात्परं ज्ञेयं सर्वतत्वैकनायकम् ॥ २७ ॥

सर्वमन्त्रमयं ज्ञेयं सर्वदेवमयं भवेत् ।
जन्मान्तरतपोभिश्च सन्मार्गज्ञान संभवम् ॥ २८ ॥

न लंघयेत्तु गुर्वाज्ञां मनोवाक्कायकर्मभिः ।
लंघने नरकं चैव ज्ञानचोरस्तथैव च ॥ २९ ॥

तस्मात्सर्व प्रयत्नेन गुर्वाज्ञां न च लंघयेत् ।
गुर्वाराधननिष्ठस्य कर्तृज्ञानं स्फुटं भवेत् ॥ ३० ॥

सप्तत्वात्संभवत्वाच्च तत्वमित्यभिधीयते ।
देहयुक्तस्य तत्सिद्धिर्देहान्तेपि च तस्य वै ॥ ३१ ॥

प्. ७२८)

देहयुक्तो लभेज्ज्ञानं सिद्धिर्देह विवर्जिता ।
नानाविधैरुपायैश्च वासनानां च वर्धनम् ॥ ३२ ॥

अवश्यकरणीयं च स शिवो नन्दिकेश्वर ।
शैव सिद्धान्तयुक्तस्य संज्ञां वक्ष्ये शृणुष्व तत् ॥ ३३ ॥

मठं वृक्षश्च गोत्रं च गोचरं च तथैव च ।
पूजनापञ्चकं वापि कर्मावरण युक्तके ॥ ३४ ॥

मुखन्देवं मठश्चापि दर्शनं वासनं तथा ।
पञ्चतत्वं गुहां वापि वृक्षं च वनमेव च ॥ ३५ ॥

गोत्रगोचरसन्तानद्वादशज्ञानकं भवेत् ।
ज्ञानाचरणकं त्वैवं नास्य नाम पृथक् पृथक् ॥ ३६ ॥

प्. ७२९)

मुखमीशानकं चापि दैवं शिवमिहोदितम् ।
मठं ब्रह्म च विख्यातं सन्मार्गं दर्शनं भवेत् ॥ ३७ ॥

ज्ञानादित्रयमित्याहुरावासापर्वतं तथा ।
मनोभंगाख्यमतुलं सिद्धिमन्त्रं गुहां तथा ॥ ३८ ॥

जगद्धक्षोवनं भूतं श्रोत्रं शुद्धसुगत्वमे ।
गोचरं शिवमन्त्रं तु सन्तानं तन्मयं भवेत् ॥ ३९ ॥

एवमादींश्च संज्ञात्वा सत्पुत्राय परं पराम् ।
बोधयेत्सर्वविज्ञानमनेनैव विचारणात् ॥ ४० ॥

इत्यचिन्त्यविश्वसादाख्ये समयलक्षणविधिश्चत्वारिंशत्पटलः ॥



प्. ७३०)

अथ वक्ष्ये विशेषेण रत्नगर्भाभिरक्षितुम् ।
विप्रादिषु चतुर्ष्वेवमभिषेकं तु षट्सु च ॥ १ ॥

एतेषां दशजातीनां आचार्यत्वं विधीयते ।
लोकानुष्ठान संवादो जातिभेदश्च निर्णयेत् ॥ २ ॥

जात्याचारेण चान्येषां पावनासन गौरवात् ।
दशदीक्षान्न जातीनामभिषेकं न कारयेत् ॥ ३ ॥

यदि नाम न वैक्ष्यैव शिवाग्नि विधिरीरितः ।
तस्माद्यतेश्च कर्तव्यं शैवमार्गे विशेषतः ॥ ४ ॥

आचार्याणां च मध्ये वै यतीनां किंचि दन्तरम् ।
परहंसयतीनां च तपस्सन्यासिनां च यत् ॥ ५ ॥

प्. ७३१)

अनयोरग्निकार्येषु योगत्वन्न विधीयते ।
होमं विना तयोरेवमभिषेकं विधीयते ॥ ६ ॥

पूर्वोक्तगुण संयुक्तं पूर्वदीक्षा समन्वितम् ।
श्रुतज्ञानोप संयुक्तमाचार्यगुण संयुतम् ॥ ७ ॥

तमुद्दिश्याभिषेकं च विदध्याद्देशिकोत्तमः ।
सर्वे संपूर्णवत्पूज्या मण्डपादिश्च पूर्ववत् ॥ ८ ॥

स्थण्डिलोपरिकुम्भाश्च अधमे शिवकुम्भकम् ।
वर्धनीं तस्य वामेन विन्यसेच्छक्ति संयुतः ॥ ९ ॥

विद्येशानष्टकुम्भेषु तस्य बाह्ये तु विन्यसेत् ।
पञ्चाशदौषधैर्वापि दशपुष्पै * * न वा ॥ १० ॥

प्. ७३२)

सहदेव्येक पत्रं तु भद्रं वैकंकतं तथा ।
विष्णुक्रान्तिश्च पञ्चैते पञ्चौषधमथापि वा ॥ ११ ॥

चन्दनागरुकर्पूरं ह्रीबेरं मासिरेव च ।
कुंकुमोशीरकन्दं च चतुर्जाति समन्वितम् ॥ १२ ॥

पञ्चरत्नौषधैर्युक्ता शालितण्डुलकैर्युता ।
शुद्धतोयेन संपूर्णान् चूतपल्लवशोभितान् ॥ १३ ॥

तेषु क्षारोदधिक्षीरदध्योदघृतसागराः ।
इक्षु साराम्बु शुद्धाम्बुगर्भोत्पन्नान्समुद्रकान् ॥ १४ ॥

क्रमेण बाह्ये संपूज्य चाष्टविद्येश्वरानपि ।
पूर्वे शिखण्डिनं चैव श्रीकण्ठोपि च कोणके ॥ १५ ॥

प्. ७३३)

त्रिमूर्तिर्दक्षिणे भागे चैकरुद्रं तु दक्षिणे ।
वारुण्यामेकनेत्रं च सूक्ष्मदंष्ट्रः कृतो भवेत् ॥ १६ ॥

अनन्तरूपमैशान्ये मध्याद्यन्ते च विन्यसेत् ।
मध्ये शिवसमुद्रं च वर्धन्यां शक्तिसागरम् ॥ १७ ॥

निवृत्त्यादिकलाभिस्तु कुम्भैः पञ्चभिरेव च ।
शिववत्पूजयेत्सर्वं मूलमन्त्राष्टवाचकैः ॥ १८ ॥

अथ वाप्येक कुम्भेन तादृशेनाभिषेचनम् ।
पञ्चकुम्भेषु विद्येशान् द्वौ द्वौ कुंभे तु विन्यसेत् ॥ १९ ॥

समुद्राणां द्वयं चापि तद्वदेव तु विन्यसेत् ।
मध्ये च शिवकुम्भं च शिवाम्भोधिं तथैव च ॥ २० ॥

प्. ७३४)

तत्पार्श्वे वर्धनीं चापि शक्त्यम्भोधि समन्वितम् ।
मण्डपोत्तरभागे च स्नानमण्डपमुत्तमम् ॥ २१ ॥

अष्टांगुलोत्थितां वेदीं द्वौ द्वौ हस्तौ च पार्श्वके ।
श्रीपर्णाद्यासने तत्र विन्यस्यार्चितमानसम् ॥ २२ ॥

शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत् ।
कुलालोदनमृद्भस्मदूर्वागोमयगोलकैः ॥ २३ ॥

सिद्धार्थघृततोयैश्च कुर्यान्निर्मथनं ततः ।
क्षीरोदानुक्रमेणैव हृदि विद्येशमन्त्रकैः ॥ २४ ॥

शिष्यं तु धारकैर्मन्त्रैः कवचैरभिषेचयेत् ।
शुद्धवस्त्रेण संवेष्ट्य निवेश्य शिवदक्षिणे ॥ २५ ॥

प्. ७३५)

पूर्वोक्ते चासने शिष्यं पुनः पूर्ववदाचरेत् ।
उष्णीषं मकुटं छत्रं पाण्डरं चामराणि वै ॥ २६ ॥

नैष्ठिकाचार्यवर्याय ददेत्तत्र तु भेदिके ।
रथाश्वगजपत्रादि करणीं कर्तरीं घटीम् ॥ २७ ॥

उभयोर्योग्यकं चैवमन्यत्तस्मात्तु दापयेत् ।
अक्षमालाकुशौ चापि स्रुक्स्रुवौ पुस्तकादि च ॥ २८ ॥

सन्मार्गपारगस्सोहमभिषेकोदये शिवे ।
तृप्तये मन्त्रजालस्य जुहुयात्पञ्च चाहुतीः ॥ २९ ॥

पूर्णाहुतिं तथा दद्यात् स्थापयेन्निजदक्षिणे ।
श्रोतव्यं च शिवज्ञानं श्रावयेच्च तदर्थितम् ॥ ३० ॥

प्. ७३६)

पूर्वोक्तगुण संपन्ने दीक्षां शिष्ये समापयेत् ।
स्वल्पं जपं चाग्निकार्यं स्वल्पमग्नौ च होमयेत् ॥ ३१ ॥

स्वल्प ध्यानं स्वल्पमन्त्रं जपं तत्र गुरौ भवेत् ।
आगमानां चाध्ययनं सर्वत्रैव पुलो भवेत् ॥ ३२ ॥

इत्यचिन्त्यविश्वसादाख्ये रत्नगर्भविधिरेक चत्वारिंशत्पटलः ॥



अभिषेकं साधकानां वक्ष्येऽहं नन्दिकेश्वर ।
पूर्ववन्मण्डपादींश्च पूजनं चाग्निकार्यकम् ॥ १ ॥

निवृत्त्यादिकलानां च त्रयं विद्यान्तमेव च ।
शान्तं समन्तमानीय शोधयेन्नन्दिकेश्वर ॥ २ ॥

प्. ७३७)

ततः सदाशिवं ध्यात्वा मूलमन्त्रेण पूर्णया ।
शतं संयोज्य कुर्वीत गुणं तादृशमष्टधा ॥ ३ ॥

अणिमा लघिमा चेति प्राप्तिः प्राकाम्यमेव च ।
महिमा चेशितत्वं च वशित्वं चेच्छया यथा ॥ ४ ॥

कामानां च वशित्वाद्धी चाष्टैश्वर्यं त्विमानि हि ।
ओं हां अणिमाशक्ते भवतु स्वाहा ॥ ५ ॥

ओं हां आत्मन् प्राप्तिस्ते भवतु स्वाहा ।
एवमादि चतुर्थ्यन्तं स्वाहा युक्तेन मेलयेत् ॥ ६ ॥

पूर्ववद्योजनां कृत्वा स्वाहा युक्तेन होमयेत् ।
पूर्ववद्योजनां कृत्वा पञ्चभिः कलशैस्सह ॥ ७ ॥

प्. ७३८)

कुतषञ्चस्सह ध्यात्वा मन्त्रमन्त्रसमन्वितैः ।
मूलमन्त्रेण होतव्यमष्टोत्तरशतं क्रमात् ॥ ८ ॥

तदन्ते शान्तिकुम्भेन पञ्चमेनाभिषेचयेत् ।
पूर्वादिदिक् समुद्राणां कलशैरभिषेचयेत् ॥ ९ ॥

उदङ्मुखासनस्थाय रेचकोद्भव मुद्रया ।
पीयूषवर्षबुध्या तु साधकं चाभिषेचयेत् ॥ १० ॥

साध्यमन्त्रशताहुत्या तैस्सप्तभिरभिषेचनम् ।
शम्भोर्दक्षिणभागेऽपि निवेश्य सकलीं प्रियाम् ॥ ११ ॥

पूर्ववत्तस्य वै कुर्याद् उष्णीषं कर्तरीमपि ।
अधिकारं च तत्रैव दापयेन्नन्दिकेश्वर ॥ १२ ॥

प्. ७३९)

सतारं साध्यमन्त्रं च समुच्चार्याथ देशिकः ।
रेचकेन यथा दद्यात् पुष्पादि युतमञ्जलौ ॥ १३ ॥

महाप्रसाद इत्युक्तां शरदिन्दुसमुज्वलाम् ।
हृत्पद्मे पुरकोणैव साधके सन्निवेशयेत् ॥ १४ ॥

साध्यमन्त्राणि संहृत्य पावके भावसंयुतः ।
दक्षिणे मण्डलादीनां मातृकाम्बुजमर्चयेत् ॥ १५ ॥

तन्मध्ये साध्यमन्त्राणि पूजयेन्नन्दिकेश्वर ।
गुरोराज्ञां समासाद्य प्राणायामं क्रमात्पुनः ॥ १६ ॥

सुलग्ने शोभने काले मन्त्रसंरोधनं भवेत् ।
योगीत्यणिमादिसिध्यर्थं घृतस्य पयसोऽथवा ॥ १७ ॥

प्. ७४०)

सद्गुरुश्चैव साहस्रं शतं वा होममारभेत् ।
त्रिणयनागमार्थ्यादि पारंपर्यक्रमानुगमम् ॥ १८ ॥

सद्गुरोरुपदेशेन सर्वं सिध्यति तत्क्षणात् ।
इत्यचिन्त्य विश्वसादाख्ये साधकाभिषेक विधिस्त्रिचत्वारिंशत्पटलः ॥



अथ वक्ष्ये विशेषेण चास्त्रेणैवा भिषेचनम् ।
भूभुजानान्नराणां च वन्ध्यादीनां च योषिताम् ॥ १ ॥

महा ना यन्त्रितानां सद्यः शान्तिप्रदं शुभम् ।
सौभाग्यलक्ष्मीविजय काम्यधर्मादि सिद्धिदम् ॥ २ ॥

ओं श्रीं पूर्वमुच्चार्य फं ग्रन्थिं हुं फण्णमः ।
ओं हृदयाय हुं फण्णमः । ओं श्रीं श्लीं शिरसे हंफण्णमः ॥ ३ ॥

प्. ७४१)

ओं श्रीं कवचाय हुंफण्णमः ओं हुं नेत्रेभ्यो हुं फण्णमः ।
मन्त्रं सकृत्समुच्चार्य शरीरे विन्यसेद्गुरुः ॥ ४ ॥

ओं अंगादिविन्यसेत् पंच ओंकारादिनमोन्तकम् ।
पद्ममष्टदलैर्युक्तं कृत्वा चास्त्रं समुच्चरेत् ॥ ५ ॥

चतुरश्रे मण्डले वा पद्ममण्डलितेऽपि वा ।
तारासनस्थदेवेशं दशबाहुसमन्वितम् ॥ ६ ॥

पञ्चवक्त्रयुतं चैव दशश्रोत्र समन्वितम् ।
अर्घ्यं प्रति त्रिणयनं जटामकुट संयुतम् ॥ ७ ॥

दंष्ट्राकरालमत्युग्रं महानादं महाबलम् ।
जिह्वाभिर्लेलिहानं तं सूर्यकोट्ययुतप्रभम् ॥ ८ ॥

प्. ७४२)

एवं पाशुपतं चास्त्रं विघ्नसंघातनाशनम् ।
अणिमामध्यमासीनं पूजयेत्परमेश्वरम् ॥ ९ ॥

लक्षमन्त्रस्य जपतः संसिद्धिर्भवति ध्रुवम् ।
अथवा जपमात्रेण सिद्धं कार्यं ततः शृणु ॥ १० ॥

मारणादिषु कार्येषु बिन्दुनादविहीनकम् ।
भुक्तिमुक्त्योश्च संसिद्धिर्बिन्दुनाद समन्वितम् ॥ ११ ॥

प्रणवं वह्निपित्रेऽपि श्रीकारं चैवकेदले ।
पकारं नै-ऋते भागे श्रीकारं वायुगोचरे ॥ १२ ॥

देवनेत्रेषु हुंकारं फट्कारं सोमदिग्दले ।
एवं विन्यस्य संपूज्य विधिना होममादिशेत् ॥ १३ ॥

प्. ७४३)

वह्नौ तु संस्कृते तत्र नवात्मा भुक्तिभिस्ततः ।
मधुत्रयैर्होमकार्यं मन्त्रराजाय वै भवेत् ॥ १४ ॥

अष्टाधिकशतं तत्र होमं कुर्यात्प्रयत्नतः ।
तथाविधिं विधानेन पुर्वं कलशपूरणम् ॥ १५ ॥

प्रणवासनं च संपूज्य पूर्ववन्नन्दिकेश्वर ।
अष्टोर्ध्वशतमन्त्रेण पूजयेदस्त्रराजकम् ॥ १६ ॥

पूर्ववत्कलशेनैव स्नापयेच्छिष्यमूर्धनि ।
वेदघोषैश्च वादित्रैः स्तोत्रैर्मंगलवाचकैः ॥ १७ ॥

बहुशिष्यादि वस्त्रादीन् हेमरत्नादिभूषणम् ।
देशिकाय पुरस्कृत्य दद्यात्प्रीत्यर्थ सिद्धये ॥ १८ ॥

प्. ७४४)

एवं अस्त्राभिषेकश्च महापापौघनाशनः ॥ १८ १/२ ॥

इत्यचिन्त्यविश्वसादाख्ये अस्त्राभिषेकविधिः चतुश्चत्वारिंशत्पटलः ॥



अमृताभिषेकं वक्ष्यामि शृणुत्वं नन्दिकेश्वर ।
अघोरं प्रीतिदं कुर्वत्सर्वरोगनिवारणम् ॥ १ ॥

अपमृत्युजयं चैव मजरामरसिद्धिदम् ।
अमृतौघमयं चक्रं सर्वसान्द्रसुखावहम् ॥ २ ॥

अनेनाभिषेक संयुक्ते देशिकश्चन्द्रशेखरः ।
चक्रमन्त्रं ततो ध्यानं साधनं चाभिषेचनम् ॥ ३ ॥

विनियोगं यथा सर्वं तत्तद्भेदं वदाम्यहम् ।
अष्टपत्रं लिखेच्चक्रं भूपत्रादिकके तथा ॥ ४ ॥

प्. ७४५)

चन्दनागरुकर्पूररोचना कुंकुमं तथा ।
हिमाम्बुभिश्च संयुक्तं रसद्रव्यैश्च लेखयेत् ॥ ५ ॥

हेमकूर्चं च कर्तव्यममृतेनापि वर्त्मना ।
तद्वृते चाम्बुजद्वन्द्वं कमलाकर्णिकायुतम् ॥ ६ ॥

अमृतौघं महामन्त्रं अनेकाक्षर संयुतम् ।
एकोद्धारयुतं चैव चिन्तामणिरिवापरम् ॥ ७ ॥

तस्योपरि ठकारं च बिन्दुयुक्तमनन्तरम् ।
सकारं च जकारं च तस्यान्ते रेफ संयुतम् ॥ ८ ॥

शिवमन्त्रं च बिन्दुं च नादं चापि तथैव च ।

  • तुरीयाणि मध्येऽपि शक्तिबीज समन्वितम् ॥ ९ ॥


प्. ७४६)

एतत् पिण्डं महामन्त्रं कर्णिका मध्यमो भवेत् ।
चन्द्ररूपं चलं चापि चतुरानन संयुतम् ॥ १० ॥

अजेशमग्नि संयुक्तं तन्मध्ये शक्तिसंयुतम् ।
सदाशिवस्य बीजं तु लिकुचेन तु संयुतम् ॥ ११ ॥

अष्टबीजयुतं पिण्डं बिन्दुनाद समन्वितम् ।

ह्रीं फं हौं ॥

दलबाह्ये विशेषेण कलाः षोडश विन्यसेत् ॥ १२ ॥

द्वितीयं पद्मदलं केचित् तृतीयं दलकं प्रति ।
चत्रतीयस्तृतीये च चतुर्थीदल पंक्तिके ॥ १३ ॥

मान्तं च पञ्चमे वृत्ते वारुणं बीजमालिखेत् ।
षष्ठे तु दान्तं विन्यस्य सप्तमे शिवबीजकम् ॥ १४ ॥

प्. ७४७)

कलास्स बिन्दुकं न्यस्य तद्बहिष्ठाक्षराण्यपि ।
षोडशस्वरयुक्तानि विन्यसेत्क्रमशस्सुधीः ॥ १५ ॥

  • * * वृतामहं चन्द्रं दिव्यमेतदुदाहृतम् ।

अन्यं तु मध्यमं चक्रं शृणुत्वं नन्दिकेश्वर ॥ १६ ॥

सप्तवृत्तं लिखेच्चक्रं षोडशार समन्वितम् ।
पूर्ववत्पिण्डिकामध्ये पिण्डरूपं महामनुम् ॥ १७ ॥

बहिष्षोडशपात्रेषु चतुरीयां तु विन्यसेत् ।
जकारं च ततो बाह्ये तद्बहिर्वारुणं न्यसेत् ॥ १८ ॥

सकारं तद्बहिर्वृत्ते सोमबीजं च तद्बहिः ।
सध्मराणि स विज्ञानि न्यसेच्छक्तानि पूर्वकम् ॥ १९ ॥

प्. ७४८)

देवस्य चोत्तरे भागे मण्डलं कारयेद्बुधः ।
गोमयालेपनं कृत्वा दर्पणोदरसन्निभे ॥ २० ॥

सुगन्धचन्दनाम्भोभिः प्रोक्षयेन्मण्डपादिकम् ।
सितक्षौमयुतश्शुद्धो भस्मोद्धूलितविग्रहः ॥ २१ ॥

दिव्यगन्धानुलिप्तांगः सितपुष्पैरलंकृतः ।
निस्तुलैर्मौक्तिकैर्युक्तः शुक्लयज्ञोपवीतवान् ॥ २२ ॥

पूर्ववद्वेदि मध्ये तु श्वेतपिष्टैस्तु संयुतैः ।
कर्पूरैस्तु हिमाम्भोभिः लिखेत्पूर्वोक्त चक्रतः ॥ २३ ॥

आसनं कूर्चकं कृत्वा न्यस्त्वा न्यासत्रयं क्रमात् ।
आत्मानं शिवं च नाहं भावयित्वा विचक्षणः ॥ २४ ॥

प्. ७४९)

स्वकीय गुरुभक्तिं तु वैतद्बिम्बमयं शुभम् ।
तस्योर्ध्वे तु गुरुं ध्यात्वा तद्गात्रामृत वारिभिः ॥ २५ ॥

सिच्यमानं स्वमात्मानं भावयेन्नन्दिकेश्वर ।
ससारूप्ययुतं मन्त्रं जपं कुर्यात्समाहितः ॥ २६ ॥

एतदष्टांशंसलिलैः तर्पयेद्गन्ध संयुतैः ।
श्वेतैर्नीलैः श्वेतपुष्पैः श्वेततण्डुलकैरपि ॥ २७ ॥

सर्पिषा पायसेनापि जाति पुष्पैश्च पूजयेत् ।
शिवं चन्द्रावतं सं तं निवेद्यं पायसं परम् ॥ २८ ॥

एवं स्वाध्यकृतं मन्त्रं सर्वसिद्धिकरं परम् ।
आयुष्कामस्तुलायां च विधा स्कन्दादि पूजयेत् ॥ २९ ॥

प्. ७५०)

अपामार्गैश्च पूर्वाभिः सर्पिषा पायसेन च ।
संहृत्य जुहुयादग्नौ अपमृत्युविनाशनम् ॥ ३० ॥

पालाशसमिधैश्चापि मधुरत्रय संयुतैः ।
वारत्रयं च जुहुयात् सहस्रं च दिने दिने ॥ ३१ ॥

प्रथमं मासमेवं तु पश्चान्मासं प्रति प्रति ।
दिनत्रयं च कर्तव्यं पौर्णादिकमतो भवेत् ॥ ३२ ॥

शतायुश्च भवेद्देही देहान्ते च शिवं व्रजेत् ।
एकविंशद्दिनैश्चापि गडूच्या सिततण्डुलैः ॥ ३३ ॥

श्वेतैस्तिलैश्च जुहुयात् आरोग्ये पूर्व संख्यया ।
वृष्टिकामोऽपि पूर्वायां प्रातः स्नात्वा समाहितः ॥ ३४ ॥

प्. ७५१)

गुरोः पादारविन्दं च नमस्कृत्वाभ्यनुज्ञतः ।
परं विघ्नेश्वरादींश्च पूर्ववत्पूजयेत्पुनः ॥ ३५ ॥

लोकानां रक्षणार्थाय वृष्टिं संसाधयाम्यहम् ।
इति संकल्प्य मनसा शिवभक्तांश्च भोजयेत् ॥ ३६ ॥

पूर्ववन्मण्डलादीनां अलंकारं मनोहरम् ।
तन्मध्ये वेदिकां कुर्याद् हस्तमात्रेण साधकः ॥ ३७ ॥

उच्छ्रायमपि तन्मानं तन्मध्ये शालितण्डुलैः ।
चतुर्द्रोणै स्थितं पद्मं साष्टपत्रं सपर्णकम् ॥ ३८ ॥

स्थापयेद्द्रोणतोयेन पूर्वकुम्भे सतोयकम् ।
सपल्लवापिधानं तु दुकूलद्वय संयुतम् ॥ ३९ ॥

प्. ७५२)

सुगन्धि द्रव्य संयुक्तं रजतं मूलसंयुतम् ।
मुक्तादाप परिक्षिप्तं क्षिप्तं पुष्पोपशोभितम् ॥ ४० ॥

तन्मध्ये शिवचन्द्रं च पूजयेत्पिण्डमन्त्रतः ।
श्वेतैस्सुगन्धैः पुष्पैश्च पूजयेत्तदनन्तरम् ॥ ४१ ॥

नैवेद्यं पायसेनैव कुर्यात्तन्नन्दिकेश्वर ।
वह्निं चन्द्रमसं ध्यात्वा वेतसोर्थैस्समिद्वरैः ॥ ४२ ॥

मधुरत्रय संयुक्तैः सहस्रं जुहुयात्क्रमात् ।
सप्तविंशद्दिनान्तेपि महावृष्टिर्भविष्यति ॥ ४३ ॥

अन्यत्तद्वृष्टि संबाधे लवणैस्तन्निवारणम् ।
वश्यकार्ये तु मधुना सर्पिषा जाति पुष्पकैः ॥ ४४ ॥

प्. ७५३)

पायसैस्साध्यदिग्भूत्वा पौर्णमास्यां च शुभ्रके ।
मूलमन्त्रं समुच्चार्य साध्यनाममतः परम् ॥ ४५ ॥

वशमानय इत्यन्तं वह्निजाया समन्वितः ।
सहस्रं जुहुयान्मन्त्रं शतमष्टोत्तरं तु वा ॥ ४६ ॥

एकविंशद्दिनान्मध्ये मनसान्ये नियोज्यतः ।
छित्वा दक्षिणपादादि वामपादावसानकम् ॥ ४७ ॥

जुहुयान्मूलमन्त्रेण मधुना सर्पिषा ततः ।
एकविंशद्दिनं चापि कृत्वा पूर्णादिकं चरेत् ॥ ४८ ॥

मध्ये रात्रे तु कर्तव्यं तस्याकर्षणकं ध्रुवम् ।
सिक्थेन वापि साध्यस्य स्वरूपाकर्षणं हुनेत् ॥ ४९ ॥

प्. ७५४)

मधूच्छिष्टेन वा कुर्याद् दीपेन परितापनम् ।
आकर्षणमिदं प्रोक्तं कौलालिक्य मृदापि वा ॥ ५० ॥

पूर्ववज्जुहुयाद्विद्वान् आकर्षणमिदं परम् ।
ज्वरदाहादिशान्त्यै च पूर्ववच्चक्रमाद्भवेत् ॥ ५१ ॥

लिखेयं च निवेद्यं च शिवं चन्द्राय दापयेत् ।
पूर्वादिभससर्पिश्च क्षीरपायस संयुतैः ॥ ५२ ॥

आहुतीभिश्च जुहुयात् प्रत्येकं च सहस्रकम् ।
एकं सप्तदिनादेव ज्वरदाहादिशान्तिके ॥ ५३ ॥

श्रीचक्रं पूर्ववत्पूज्यं बिल्वपंचांगकैरपि ।
सप्तवारं सहस्रं च जुहुयान्महतीं श्रियम् ॥ ५४ ॥

प्. ७५५)

लभेच्च शिवचन्द्रं च पूजयेन्नन्दिकेश्वर ।
महागणपति प्रोक्तास्तीहनं चापि कारयेत् ॥ ५५ ॥

पूर्ववच्छिव चन्द्रं च कुर्यात्प्राज्ञस्तदग्रके ।
सर्पिषा पायसेनैव त्रिसहस्रं च होमयेत् ॥ ५६ ॥

इष्टं विज्ञाप्य देवाय विघ्नं दुर्गां च पूजयेत् ।
तत्रैव भवने कूपं जलमब्धिसुधोपमम् ॥ ५७ ॥

विषण्णं च समाहूय मन्त्रध्यान परायणम् ।
स्वकीयामृत संस्थानं मर्दनं विषनाशनम् ॥ ५८ ॥

अंगुष्ठा पादतल संधिषु जानुगुह्ये
नाभीषु वक्षसि कुचे गलनासिकेषु ।
नेत्रश्रुति भ्रुकुटिगण्डशिखाशिरस्सु ॥ ५९ ॥

प्. ७५६)

पुंसां वामेतरेणैव कलया परिवर्तते ।
विषादं विषदष्टं च पूर्वमुक्तं च चक्रमम् ॥ ६० ॥

शिरोर्ध्वे तस्य संस्मृत्य सुधाधाराभिषेचनम् ।
निष्कैर्द्वादशकैर्वापि तदर्धैश्च तदर्धकैः ॥ ६१ ॥

तदर्धैरर्धतो वापि पद्मं कृत्वाऽथ देशिकः ।
मण्डपस्थ जलं सर्वं पूर्ववन्नन्दिकेश्वर ! ॥ ६२ ॥

स्थण्डिलं कारयेद्धीमांश्चतुर्हस्तसमन्वितम् ।
पूर्वोक्तं च क्रमाल्लिख्य पूजयेद्भक्तिसंयुतः ॥ ६३ ॥

तन्मध्ये चामृतं कुम्भं तन्मध्ये पद्ममेव च ।
चतुष्कोणे शुभैस्तोयैस्सुगन्धैः पूरयेद्घटम् ॥ ६४ ॥

प्. ७५७)

नवरत्नसमोपेतं चूतपल्लव संयुतम् ।
ब्रह्माण्डरूपमेतत्तु बुध्वा तन्मध्यगं जलम् ॥ ६५ ॥

सुधारूपमिति ध्यात्वा तन्मध्ये शिवचन्द्रकम् ।
समभ्यर्च्य सितैः पुष्पैः होमकर्मादिशक्तिभिः ॥ ६६ ॥

सितैर्होमद्वयेनापि वेष्टयेत्तन्मनोहरम् ।
वेदघोष समायुक्तं स्तोत्रघोष समन्वितम् ॥ ६७ ॥

सर्वमंगलशब्दैश्च शिष्यं तमभिषेचयेत् ।
गुरुभक्तिसमायुक्तः पूजयेच्छिववत्क्रमात् ॥ ६८ ॥

हेमरत्नादिकं चापि विभवानुक्रमेण तु ।
दद्याद्भक्त्या च गुरवे नमस्कुर्याच्च दण्डवत् ॥ ६९ ॥

प्. ७५८)

पश्चात्तु शिवभक्तांश्च पूजयेत्पूर्ववत्क्रमात् ॥ ६९ १/२ ॥

इत्यचिन्त्य विश्वसादाख्ये अमृताभिषेकविधिः पंचचत्वारिंशत्पटलः ॥



अथ वक्ष्ये विशेषेण भोजनानां नवं शुभम् ।
तत्संततोपवासश्च भैक्षं तद्वदयाचितम् ॥ १ ॥

नक्तमित्येव नक्तं वै भोजनानां चतुर्विधम् ।
प्रथमं भुजक्ते काके त्वन्नपानादिसेवनम् ॥ २ ॥

अन्यकाले चान्न पानं खादेनापि विसर्जनम् ।
एतल्लक्षण संयुक्तमुपवासस्सतां मतम् ॥ ३ ॥

माधूकरी च भिक्षा तु चैकान्त परिवर्जनम् ।
अयाचितं तुश्चथा मानादरेण समर्पणम् ॥ ४ ॥

प्. ७५९)

अन्नादिभूमिपर्यन्तं या भिक्षा स्यादयाचिता ।
अन्यत्वयाचनं कृत्वा स्वकीय द्रव्यभोजनम् ॥ ५ ॥

न्यायेनोपार्जितं चापि तत्रायाचितकन्द्वयम् ।
त्रिसंध्यावन्दनं चापि शिवलिंगार्चनादिकम् ॥ ६ ॥

अग्निकार्यं च कृत्वा तु पश्चाद्विविधभोजनम् ।
तत्तद्भोजनमित्युक्तं सर्वपाप प्रणाशनम् ॥ ७ ॥

दिवा न भोजनं रात्रौ भोजनं नक्तमुच्यते ।
स दोपवासाच्छ्रेष्ठं हि भिक्षां तन्नन्दिकेश्वर ॥ ८ ॥

भैक्षादयाचितं श्रेष्ठं अयाचितान्नक्तमुत्तमम् ।
पूर्वाह्ने देवताभुक्तिः मध्याह्ने भूरिभोजनम् ॥ ९ ॥

प्. ७६०)

अपराह्ने पैतृकं स्यात् सन्ध्यायां गुह्यकादिभिः ।
सर्ववेलामतिक्रम्य नक्तभोजनकं भवेत् ॥ १० ॥

तस्मात्सर्वानयं भोज्यभोजनात्स मुनीश्वरः ।
भिक्षाविधिं विसृज्याथ भोजनत्रितयं शृणु ॥ ११ ॥

गोमयाद्यादि संशुद्धे विविक्ते भोजनालये ।
विशुद्धपाकमानीयमंशकादि विवर्जिते ॥ १२ ॥

वौषडन्तयुतं तत्र मृत्युञ्जयमथो वदेत् ।
सप्तवारं च दर्भैश्च प्रोक्षयेज्जल बिन्दुभिः ॥ १३ ॥

पालाग्रं सर्वमुद्धृत्य शिवादित्रयकारणात् ।
चुल्लीहोमाय शेषार्धं कल्पयेद्विधिना सह ॥ १४ ॥

प्. ७६१)

शुक्लशुद्धं च कृत्वा तु वर्धनीं पूर्वयोगतः ।
नात्यग्निना चैकमत्यं रेचकेनापि वायुना ॥ १५ ॥

समादायाग्निबीजं तु कादिस्थानगति क्रमात् ।
शिवानि स्वमिति प्रोक्त्वा चुल्लिकाग्नौ तु होमयेत् ॥ १६ ॥

ओं हां अग्नये नम इति मन्त्रमेवं समुच्चरेत् ।
ओं हां सूर्याय नमः । इति ओं हां । ओं हां ॥ १७ ॥

विश्वेभ्यो देवेभ्यो नमः । इति ओं हां अग्नये ।
स्विष्टकृतये नमः * * * * * * * * * ॥ १८ ॥

अग्न्यादि सूर्यपर्यन्तं पूजयित्वोन्नयेत्क्रमात् ।
स्वाहान्तमाहुतीर्हुत्वा क्षमयित्वा विसर्जयेत् ॥ १९ ॥

प्. ७६२)

तत्र ओं धर्माय नमः । चलादि दक्षिणाबाहौ ।
ओं धर्माय नमः । इति वामबाहौ । ओं सर- ॥ २० ॥

स्वपरिवर्तना । काञ्जिनादिसन्धाय यात्रेषु जं-
जलाय श्रुताय वरुणाय नमः । ओमिति ॥ २१ ॥

जलपात्रेषु । ओं हां विश्वराजाय नमः । इति ।
ग्रहप्रमदेवचोदिते नमः । ओं संमार्जनम् । ॥ २२ ॥

कामाय कुसुमायुधाय नमः । ल्य शिरसि । ओं ।
स्कन्दाय ग्रहाधिपतये नमः । इति मध्यस्तंभाधस्तात् ॥ २३ ॥

एवं वास्तुबलिं दत्वा प्रादप्रक्षालनं भवेत् ।
भौतिको नैष्ठिकश्चापि तद्योगेन बलिं क्षिपेत् ॥ २४ ॥

प्. ७६३)

समं सम्यक्च्छुचिर्भूत्वा ततो ध्यानं समाविशेत् ।
तत्रैव सर्वदेवानां एकानां च बलिं क्षिपेत् ॥ २५ ॥

ओं हां गृहोपकरणाय देविकायै वाहनायै नमः ।
एवं वा तत्र कर्तव्यं देशिकस्य विशेषतः ॥ २६ ॥

शिवभक्ति समायुक्तैः सदाचार युतैश्शुभैः ।
शुद्धशैवैश्च सन्मार्गतपोनिष्ठैस्सुदारुणैः ॥ २७ ॥

परस्पर समाकीर्णैः अभ्यग्रैश्च सवर्णकैः ।
एकपंक्त्या तु भुञ्जीत मौनीचान्तर्मनाश्शुचिः ॥ २८ ॥

हैमराजतताम्रे च लोहपात्रे सु शोधिते ।
गुरुस्स साधकश्चैव पुत्राश्च समयीक्रमात् ॥ २९ ॥

प्. ७६४)

सरोजपत्र पालाशं कदलीपनसं तथा ।
आम्रपत्रं नालिकेरं मधूकं च तथैव च ॥ ३० ॥

अन्यच्च पावनं पत्रमनिन्दितममन्त्रकम् ।
कांस्ये तु भस्मना शुद्धे सप्तधा पत्रकेऽथवा ॥ ३१ ॥

बाहुरूपाभिजप्ते च पात्रशुद्धिर्भवेत्तदा ।
पादादिसज्जभल्लात प्लक्षाश्वत्थार्क संभवैः ॥ ३२ ॥

एरण्डालाबुजैः पत्रैः अर्कपत्रैश्च शोभनैः ।
दुर्गन्धयुक्तैरन्यैश्च निषिद्धैर्भोजनं तु वा ॥ ३३ ॥

भौतिकस्य विशेषेण पालाशं पद्मिनीदलम् ।
अयोग्यं भोजनं तत्र भुक्तिश्चेद्दोष एव च ॥ ३४ ॥

प्. ७६५)

नैष्ठिकस्यापि तत्पात्रे भोजनं पापनाशनम् ।
स्नानं तु भस्मना चैव रेखाया रक्षणं भवेत् ॥ ३५ ॥

जानुमुच्चकरो भूत्वा मौनी वीरासनस्थितः ।
वामहस्तेन संस्पृष्ट्वा पात्रमन्येन वा स्पृशेत् ॥ ३६ ॥

पूर्णाभि मन्त्रितं पूतं श्रद्धया जठराग्निके ।
अस्त्रमन्त्रेण संदीप्ते जुहुयात्सघृतास्पदम् ॥ ३७ ॥

आपोशनं पुनः कृत्वा प्रणवप्राण संयुतः ।
स्वाहान्तैराहुतीः पञ्च जुहुयान्नन्दिकेश्वर ॥ ३८ ॥

नागः कूर्मोथ कृकरो देवदत्त धनञ्जयौ ।
उपप्राणाय स्वाहा * * * * * * * * * ॥ ३९ ॥

प्. ७६६)

ओं प्राणाय स्वाहेति प्राणाहुतीर्दत्वा विधिना ।
भुक्त्वा ओं अमृतापिधानमसि । मन्त्रेण प्रक्षा- ॥ ४० ॥

लितहस्तेन चुलुकं गृह्याचामेदिति भागैकस्तु ।
ग्रहेनैव तु पूरयेत् ॥ ४१ ॥

पानीयेनैकभागं तु पूरयेन्नन्दिकेश्वर ।
प्राणसंचारणार्थं तु एकभागं तु पूरयेत् ॥ ४२ ॥

शिग्रुं पलाण्डुं लशुनं क्रमुकं मधुमांसकम् ।
कूजनं हस्तदत्तं च लवणं परिवर्जयेत् ॥ ४३ ॥

भोजनानां तु म * * * तं लवणवर्जितम् ।
उदुम्बरमलाबुं तु शार्गाष्ठं च कुमारिकाम् ॥ ४४ ॥

प्. ७६७)

सौवीरं पर्युषितं च पर्युषितोपदंशकम् ।
वृन्ताकं काकुजं चैव छत्राकं बिम्बकं तथा ॥ ४५ ॥

वशञ्चिकाद्रं मरीषं प्ररोहाणि च सर्वशः ।
वर्जनीयं विशेषेण भोजनेऽप्युपदंशकः ॥ ४६ ॥

मूर्धाभिधानं नोत्कुट्य रकुद्भाभक्षणं तथा ।
न जृम्भणं च कर्तव्यं भोजने जल्पनं तथा ॥ ४७ ॥

प्रक्षालितकरेणापि नान्यस्वोर्ध्वजलं पिबेत् ।
नव * * * वक्त्रेण नवपिण्डेन चेतसा ॥ ४८ ॥

पिपीलिकामक्षिकादिनखकेशादिदूषितम् ।
दुष्टान्त मन्त्रकिंचिच्च त्यक्त्या च क्षालयेत्करम् ॥ ४९ ॥

प्. ७६८)

भस्म स्पृष्टिं च कुर्याच्च शुद्धये नन्दिकेश्वर ।
भुंजीत शेषं भुक्त्यन्ते वारिणा चामृतात्मने ॥ ५० ॥

पिधानमसिचेत्युक्त्वा प्रक्षाल्य करयोर्द्वयम् ।
पादस्य दक्षिणांगुष्ठं सिञ्चेदंगुष्ठवारिणा ॥ ५१ ॥

मुक्तियुक्तेन तेनैव भोजनेनाटनेऽपि वा ।
भोजयीत यथा लाभं * * * णातिथीनपि ॥ ५२ ॥

दक्षिणांगुष्ठ पादे वै परात्परतरो भुवः ।
आत्मा तिष्ठति तत्तत्र त्वभिषिञ्चाभिज्येष्ठया ॥ ५३ ॥

पूर्ववत्सकलीकृत्य भुक्ति दोषस्य शान्तये ।
बध्नीयान्नासिकान्तं च मुद्रघातिभिधाम् ॥ ५४ ॥

प्. ७६९)

भिक्षाविधिर्विशेषेण माधूकरमनुत्तमम् ।
ब्रह्महत्यादिपापानां नाशनं तपसोच्छ्रयम् ॥ ५५ ॥

नापितान्कारुमारभ्य तदधोजातिगेहके ।
पतितानां गृहे वापि गुरुद्रोहि गृहेऽपि वा ॥ ५६ ॥

शिवनिन्दागृहे वापि ज्ञाननिन्दा गृहेऽपि वा ।
मद्यपानि गृहे वापि भिक्षां नैवात्र कारयेत् ॥ ५७ ॥

शेषिकानां गृहे वापि न प्राप्यं च चरेद्बुधः ।
यथा मध्वाददानोऽपि पुष्पं भृंगो न बाधते ॥ ५८ ॥

तद्वद्भिक्षां क्षमी भूत्वा चाददीत गृहाधिपात् ।
माधूकरीं चरेद्भिक्षामेकान्नं परिवर्जयेत् ॥ ५९ ॥

प्. ७७०)

अज्ञानिनां गृहे वापि शुद्धा माधूकरी तथा ।
एकान्नं न तु भुञ्जीत बृहस्पति कुलादपि ॥ ६० ॥

प्रार्थनाद्युपरोधाद्वा भिक्षाकार्यं च दोषकृत् ।
पालाशकदलीचाम्र पनसादलकेऽपि वा ॥ ६१ ॥

भोजनार्थं तु यत्पत्रं तत्सर्वं पात्रमेव च ।
अलाभेऽलाबुपत्रं वा भिक्षापात्रं तथैव च ॥ ६२ ॥

मुमुक्षोस्तुबुरुं श्रेष्ठं बहुरूपाभिमन्त्रितम् ।
धौतपाद * * * * * * * णावकुण्ठनम् ॥ ६३ ॥

विशुद्धं भस्मना स्नानं त्रिपुण्ट्रेण विराजितम् ।
मुमुक्षोर्यदि भिक्षाशा बभुक्षुः शुक्लवस्त्रकम् ॥ ६४ ॥

प्. ७७१)

कौपीन मुत्तरीयं च परिवृत्य समाचरेत् ।
शिवं गुह्यं च भक्त्या च ध्यायेन्मौनी दृढव्रतः ॥ ६५ ॥

आज्ञां तत्र समादाय दण्डमस्त्राभिमन्त्रितम् ।
आतपत्रकरो यायाद् भिक्षार्थं च गृहान्प्रति ॥ ६६ ॥

मार्गमध्ये च निष्ठी च तन्मार्गे च समर्पणम् ।
कुत्सनं चत्यजेत् * * * * चार्वादि संकुलम् ॥ ६७ ॥

भिक्षां देहीति संकल्प्य पादांगुष्ठाग्रनेत्रकः ।
तावत्कालं प्रतीक्षेत यावद्गोवत्सयोर्गतिः ॥ ६८ ॥

प्रसवं च समाप्नोति तत्रान्यत्र व्रजेन्मुनिः ।
गच्छन्पुनर्निवृत्तो न समाहूतो न तत्र वै ॥ ६९ ॥

प्. ७७२)

यजमानादिभिर्नीतां आददीत पुनर्मुनिः ।
न करेण न निर्वाचा न कांस्येनाददीतताम् ॥ ७० ॥

मलयस्त्री च वृषणी गर्भिणी रोगिणी तथा ।
क्लेशिनी रोदिनीत्यादि हस्तेन तु परीलिहेत् ॥ ७१ ॥

भिक्षिकापात्र पूर्णान्तं अवातृप्तिश्च मन्त्रके ।
जगतां शोभनं ध्यात्वा स्वाश्रमं च व्रजेत्तथा ॥ ७२ ॥

भिक्षापात्रं शुचिस्थाने स्थापयित्वाथ भिक्षुकः ।
पादप्रक्षालनं कृत्वा चोद्धूत्य सकलां तनुम् ॥ ७३ ॥

आचम्य विधिवत्पाद्यैः प्रपूज्यास्त्रेण पूजयेत् ।
चन्द्रामृतेन संप्रोक्ष्य मुद्रया धेनु मुद्रया ॥ ७४ ॥

प्. ७७३)

त्रिभागं कुर्यात्पश्चाद्वै देवायगुरवे तथा ।
तृतीयं भागमादाय स्वात्मनो भोजनाय वै ॥ ७५ ॥

पूर्ववद्भोजनं कुर्यात् स्वाध्यायश्च ततो भवेत् ।
सायन्तनीं च संध्यां तु पूर्ववद्वन्दयेत्क्रमात् ॥ ७६ ॥

विशुद्धभूतले देशे तृणच्छन्ने मृगत्वचि ।
शार्दूल चर्म * * र्ते धापरिस्तरकं भवेत् ॥ ७७ ॥

मन्त्रन्यस्ततनुर्भूत्वा शयित्वा योगनिद्रया ।
अजपां शिव संयुक्तां चन्द्रार्कौ नाश संयुतौ ॥ ७८ ॥

कृत्वा स्वपेत्सदा योगी निद्राकालेऽपि पूजनम् ।
तुरीयं वापि सा सन्ध्या ज्ञानिनां च विशेषतः ॥ ७९ ॥

प्. ७७४)

पूर्व पश्चिमयोर्मध्ये रात्रौ तु दशनाडिकाः ।
स्वापकालमिदं प्रोक्तं पश्चात्पूर्ववदाचरेत् ॥ ८० ॥

इत्यचिन्त्य विश्वसादाख्ये (भोजनविधिः) सप्त चत्वारिंशत्पटलः ॥


अथ वक्ष्ये विशेषेण भक्तानां पूजनं तथा ।
मोक्षार्थिनां मोक्षदं च धनार्थिनां धनप्रदम् ॥ १ ॥

जयार्थिनां जयकरं पुत्रेप्सूनां च पुत्रदम् ।
रोगिणां रोगनाशं च भक्तिहीनस्य भक्तिदम् ॥ २ ॥

अज्ञाने ज्ञानदं चैव सर्वशक्तिकरं परम् ।
स्थावरं जंगमं चैव द्विविधं शिवपूजनम् ॥ ३ ॥

प्. ७७५)

लिंगादिपूजनं तत्र परिवारं नन्दिकेश्वर ।

  • * * * * तत्र जंगमनायनमापरम् ॥ ४ ॥


पूजाकालेऽपि सान्निध्यं स्थावरे शिव तेजसि ।
जंगमे सर्वकालं च सान्निध्यं कुरुते शिवः ॥ ५ ॥

जंगमस्याव मानेन स्थावरं निष्फलं भवेत् ।
दीक्षायोग्यस्तु जातीनां दीक्षितस्य विशेषतः ॥ ६ ॥

जातिभेदविशेषोऽस्ति दीक्षितानां तु सर्वदा ।
वागीश्वरीगर्भदेहं गत्वा तु शिवपुत्रकः ॥ ७ ॥

तस्यापत्यत्व सिद्धत्वाच्छैव इत्यभिधीयते ।
मलत्रयस्य नाशत्वाद् विज्ञान कलनादपि ॥ ८ ॥

प्. ७७६)

श्रेष्ठत्वं विद्यते तस्य भवेदेको विशेषतः ।
यस्य चित्तं शिवे लीनं तस्य जात्यादिकं स्मरन् ॥ ९ ॥

शिवलिंगे शिलाबुद्धिं कुर्वाणस्स हि पातकी ।
ज्ञान वैराग्य भक्तिश्च दीक्षितस्य च चिह्नकम् ॥ १० ॥

नामभेदादयोप्यत्र पूर्वजातिवशात्पुरा ।
प्रोक्तं तत्रापि यत्कार्यं शृणुत्वं नन्दिकेश्वर ॥ ११ ॥

राजतं ताम्रकं चापि सीसमायसकं तथा ।
वेधको घुटिकाद्याभिः संजाताश्चानुयेत्तदा ॥ १२ ॥

पूर्वरूपं च संज्ञानं चिह्नत्वं नामभेदकम् ।
हेमत्वसिद्धौ सर्वं च विमानत्वं प्रपद्यते ॥ १३ ॥

प्. ७७७)

तस्माद्विप्रादिशूद्रान्तं दीक्षितानां न जातिकम् ।
भक्तानां पात्रमुख्यत्वं शृणुत्वं नन्दिकेश्वर ॥ १४ ॥

अनुपनीतः प्रथमो द्वितीयोऽप्युपनीतकः ।
वेदाध्यायी तृतीयः स्यादग्निहोत्री चतुर्थकः ॥ १५ ॥

यज्ञाद्यैश्चैव तत्रैव पञ्चमश्च प्रकीर्तितः ।
सत्रयाजी तु षष्ठः स्याद् वेदान्ती सप्तमः स्मृतः ॥ १६ ॥

उत्तरोत्तरतश्चैते श्रेष्ठा गुणसहस्रकाः ।
मुख्य वेदान्त विदुषो कोटिश्रेष्ठश्च मत्प्रियः ॥ १७ ॥

भक्त्या सदृशको नास्ति पुष्पजातिषु तद्दले ।
सर्वथा दीक्षितानां तु सदृशो नास्ति लौकिके ॥ १८ ॥

प्. ७७८)

यथा शिवस्तथा भक्तो यथा भक्तस्तथा शिवः ।
तस्मात्सर्वप्रयत्नेन दीक्षितानां च भोजनम् ॥ १९ ॥

भोगमोक्ष प्रमाणत्वात् कारणं च मम प्रियम् ।
शुद्धदेशे मनोरम्ये सालंकारयुते परे ॥ २० ॥

मोक्षार्थिनामन्नित्यं पञ्चविंशति संमितान् ।
शुद्धशैवान्समानीय गुरुवद्भक्तिसंयुतः ॥ २१ ॥

आसनं पाद्यमाचामं स्नानवस्त्रादि दानकम् ।
अन्नपानादिकं सर्वं शुद्धमानीय यत्नतः ॥ २२ ॥

परस्परमसंकीर्णं भोजयेद्विधिवत्क्रमात् ।
दिने दिने वा मासेवा वत्सरे वापि भोजयेत् ॥ २३ ॥

प्. ७७९)

वित्तानुसारतश्चापि पूजयेन्नन्दिकेश्वर ।
मुक्तिः प्रसाद संज्ञात्वात्तत्रैव तु न संशयः ॥ २४ ॥

त्रिंशद्भक्तजनस्यापि पूजयेद्भक्तिमान्यदा ।
करोति श्रीर्महत्येव नात्र कार्या विचारणा ॥ २५ ॥

इष्टकामस्य संसिद्धौ सप्तविंशद्दिनं भवेत् ।
अष्टाविंशच्च पुष्ट्यर्थं भक्तानां पूजनं परम् ॥ २६ ॥

विजये चापि त्रिंशच्च शत्रुनाशे च षोडश ।
अष्टोत्तरशतं चापि सर्वशान्तिकरं भवेत् ॥ २७ ॥

भूतव्याध्यादिसकलं भक्तपूजा विधानतः ।
शान्तिं गच्छति तद्गेहं वक्ष्येहन्नन्दिकेश्वर ॥ २८ ॥

प्. ७८०)

पूर्व जन्मनि तत्रैव ब्रह्महा मद्यमांस भुक् ।
सौख्यमस्माकमखिलं परेषामन्यसाधकम् ॥ २९ ॥

परदोष प्रकाशेन परश्रीः क्षीयतोऽपि च ।
गुरुमाहेश्वराणां च स्वर्णदानं विधीयते ॥ ३० ॥

स पादैकाधिकं तद्वद् ज्ञानतोऽपि गतो भवेत् ।
श्रीरुद्रैः पावमानीभिः नित्यं लिंगं प्रपूजयेत् ॥ ३१ ॥

गुरुचित्तं सर्वसन्तापि चोष्णत्वरयुतो भवेत् ।
चन्दनोशीरकर्पूरशीतलैरम्बुभिश्शिवम् ॥ ३२ ॥

देवीं चापि सुसंस्थाप्य पूजयेच विशेषतः ।
शान्तिहोमं तु कर्तव्यं अष्टाविंशति भोजनम् ॥ ३३ ॥

प्. ७८१)

शिवभक्तांश्च संपूज्य गुरुपूजां च कारयेत् ।
दिवसे नैव शान्तिः स्याद् भक्तिश्रद्धा समन्वितः ॥ ३४ ॥

यो मोहाच्च गुरूंश्चैव परहृद्रोगकृन्नरः ।
तस्य शीतज्वरं चैव कुष्ठं चैव भयंकरम् ॥ ३५ ॥

महोदरं वा गुल्मं च अतिसारांघ्रिरोगकाः ।
रोगभेदाच्च सञ्जाता व्याधयस्तत्र शान्तये ॥ ३६ ॥

अभिषेकं पुरा कृत्वा शान्तिहोमं समाचरेत् ।
अष्टाविंशतिभक्तानां भोजनं सांगकं भवेत् ॥ ३७ ॥

कुष्ठे तु राजतं दानं रत्नदानं भगन्दरे ।
उपानं वाहनं चापि पादरोगे च दापयेत् ॥ ३८ ॥

प्. ७८२)

पादस्य वसुदानं च विशेषेण प्रशस्यते ।
विस्रब्धस्य विषाधानमभक्ष्यस्य व भक्षणम् ॥ ३४ ॥

अपथ्य भोजनाच्चैव देवद्रव्यापहारतः ।
फ्लन्दिलम्बश्रयञ्चेयः क्षुद्बाधां चापि जायते ॥ ३५ ॥

बह्वाशनोऽप्यभक्षाणां भक्षणाच्चापि जायते ।
अष्टोत्तरं च पंचाशत् भक्तानां भोजनं भवेत् ॥ ३६ ॥

शिवपूजा शान्तिहोमो गुरुपूजा तथैव च ।
स्वर्णस्य निष्कसप्तेन दानाद्गच्छन्ति शान्तिकम् ॥ ३७ ॥

ज्ञानहीनस्य चक्षूंषि प्राणिनामुद्धरेन्नरः ।
परदारांश्च रागाच्च निरीक्षेत च शोधनात् ॥ ३८ ॥

प्. ७८३)

कूटसाक्षी गुरुद्रोही नेत्ररोगी च जायते ।
महाभिषेक पूजां च शिवलिंगं विधाय च ॥ ३९ ॥

शान्तिहोमं समारभ्य नेत्रमन्त्रेण होमयेत् ।
उपदानं च देवाय भक्तिश्रद्धा समन्वितः ॥ ४० ॥

अष्टपञ्चाशद्भक्तानां भोजनं तु विधीयते ।
यथाशक्ति स्वर्गदातं पायसान्नं च दापयेत् ॥ ४१ ॥

नेत्ररोगादयश्चापि नेत्रं गच्छन्ति निश्चयः ।
अन्नापहारिणो नित्यं जीर्णत्वं प्रतिपद्यते ॥ ४२ ॥

महाभिषेकमीशस्य कृत्वा वै शान्तिहोमकम् ।
अष्टाविंशतिभक्तानां भोजनाच्छान्तिमृच्छति ॥ ४३ ॥

प्. ७८४)

परदाराभिगमनात् तिर्यग्योनिषु मैथुनात् ।
कन्या संयोगश्चापि विधवायास्तथैव च ॥ ४४ ॥

गुरुतल्पगतिं स्मृत्वा प्रमेहाद्यैस्तथैव च ।
तिर्याज्ञर्यादिभिश्चैव शर्करा मधुभोगकैः ॥ ४५ ॥

एवमादिभी रोगैश्च बाधा चैव भवेत्तदा ।
महाभिषेकमीशस्य भक्त्या कुर्यात्समाहितः ॥ ४६ ॥

अघोरास्त्रेण मन्त्रेण होमं कुर्याद्विचक्षणः ।
त्रिंशद्भक्तांश्च संपूज्य होमयेन्नन्दिकेश्वर ॥ ४७ ॥

रसभस्म तु संसेव्यं पाशशान्त्यै दिने दिने ।
मोहाद्भ्रात्रीं च जननीमभिगच्छेन्नराधमः ॥ ४८ ॥

प्. ७८५)

मधुमेहमनः पीडास्यान्नात्र कार्या विचारणा ।
शिवपूजा च कार्या तु अघोरास्त्रेण होमयेत् ॥ ४९ ॥

अघोररूपतो जप्त्वा पश्चाद्भक्तांश्च भोजयेत् ।
द्वादशाथ शतं तत्र भक्तानां भोजनं भवेत् ॥ ५० ॥

गुरुपूजा च कर्तव्या शान्तिमायुः प्रयच्छति ।
विमुखस्य गुरोराज्ञामन्यायेनान्य जिह्मकम् ॥ ५१ ॥

छेदनं पुरुषोक्तिं वाप्यसत्यस्य च सादिकम् ।
करोति तस्य रोगाश्च मुखे भवति च ध्रुवम् ॥ ५२ ॥

तस्य शान्त्यै शिवं पूज्य चिन्तामणिविचित्रकैः ।
होमेन शान्तिमागच्छेत् भक्तानां भोजनेन च ॥ ५३ ॥

प्. ७८६)

चतुरशीति भक्तानां भोजनाच्छान्तिरुच्यते ।
गुरुदोषश्रवादेव शुभबोधशिरस्तथा ॥ ५४ ॥

अशुभत्वस्य बोधत्वादश्रोतव्यस्य सात्विकः ।
कर्णकुन्तनयुक्तश्चेद् व्याधिर्वायुश्च जायते ॥ ५५ ॥

तस्य शान्तिश्च लिंगे च पूजाभक्तिश्च सर्वदा ।
स्तोत्रैश्च विविधैर्देवं अघोरास्त्रेण होमयेत् ॥ ५६ ॥

अष्टाविंशतिभक्तानां भोजनाच्छान्तिरिष्यते ।
वस्त्रदानं च तेषां वै धान्यपुस्तकदानकम् ॥ ५७ ॥

गुरुदेवादिकानां तु चालेपहरणादपि ।
कम्बलाद्यपहारात्तु कर्मादेश्च विशेषतः ॥ ५८ ॥

प्. ७८७)

कुरंगकोलकान्तीनां तुरगाणां च रक्षिणाम् ।
हिंसने कुष्ठरोगश्च जायते नात्रसंशयः ॥ ५९ ॥

तस्य शान्तिस्तु संपूज्य शिवं परमकारणम् ।
आढकेन घृतेनैव पञ्चगव्यादिभिस्तथा ॥ ६० ॥

अभिषेकं च कर्तव्यमघोरास्त्रेण होमयेत् ।
अष्टाविंशति भक्तानां भोजनं च दिने दिने ॥ ६१ ॥

रसभस्म च संसेव्यं रोगशान्त्यै विशेषतः ।
गुरुतेजो विनाशित्वं परं शुभविनाशनम् ॥ ६२ ॥

प्राणिहिंसादिशीलं च परेष्टस्य विघातता ।
क्रोधाल्लोभात्तथामोहात् रोगाणां च चिकित्सिता ॥ ६३ ॥

प्. ७८८)

परदुःखे दयालुत्वं मध्येध्यादि दुर्लक्षणात् ।
श्वेकुष्ठादिभिर्बाधा जायते तत्र निष्कृतिः ॥ ६४ ॥

शिवपूजां विधानेन कृत्वा होमं समाचरेत् ।
गायत्र्या घोरास्त्र मन्त्रेण च हुनेत्तदा ॥ ६५ ॥

षडशीतेश्च भक्तानां भोजनं च विधीयते ।
श्वेतकुष्ठादिभिर्बाधा शान्तिमायाति निश्चयः ॥ ६६ ॥

षडशीतिश्च भक्तानां भोजनं च * * * * ।
देननिन्दादयालुश्च पुरपुत्रादिसंपदम् ॥ ६७ ॥

ईष्यालुत्वं च तत्रैव परपूजावलोकनम् ।
परस्परायादन्यस्य रहस्याद्याय नास्ति तत् ॥ ६८ ॥

प्. ७८९)

इत्येवमादि दोषात्तु वो * * * श्च जायते ।
संपूज्य परमेशानं वागीशीपूजनं तथा ॥ ६९ ॥

दक्षिणामूर्तिमन्त्रेण वागीशीमन्त्रहोमतः ।
अष्टोत्तर सहस्राभ्यां होमं कुर्यात्तु शान्तये ॥ ७० ॥

षडशीतिश्च भक्तानां भोजनं च दिने दिने ।
यावत्प्रबोधमायाति तावद्भोजन संभवेत् ॥ ७१ ॥

होमादि गुरवे दद्यान् मधुना चाभिषेचनम् ।
शिवस्य तेन तत्सर्वं शान्तिमायाति निश्चयः ॥ ७२ ॥

देवद्रव्यापहारी च गुरुद्रव्यविनाशकः ।
अतीतभयमेते * * * * वथ कर्मणः ॥ ७३ ॥

प्. ७९०)

तत्प्रधानविहीनश्च याति वृद्ध्या विसर्जयेत् ।
भस्म संस्पर्शहीनस्य दानविघ्नं करोति यः ॥ ७४ ॥

दारिद्र्यादि महाबाधा जायते नात्र संशयः ।
शिवपूजारतस्यापि शिवभक्तस्य पूजनम् ॥ ७५ ॥

विनायकस्य पूजा च तन्मन्त्रं चात्र होमकम् ।
त्रिंशद्भक्तान्नदानानुभोजनाच्छान्तिरेव च ॥ ७६ ॥

तस्मादितरदेवानां साम्यबुद्धि समन्वितः ।
गुरुं च मां च मान्यत्वं बुद्धिशून्यश्च पार्वति ॥ ७७ ॥

लक्षणादिदोषे बुद्धियुक्तोऽपस्मारिको भवेत् ।
दारिद्र्यभोजनं चैव पूजां चैव विशेषतः ॥ ७८ ॥

प्. ७९१)

गुरुहोमान्त कृत्वाधी चात्रहोमं समाचरेत् ।
अघोरास्त्रेण मन्त्रेण शतमष्टोत्तरं हुनेत् ॥ ७९ ॥

हेमरत्नादिकं सर्वं गुरवे च प्रदापयेत् ।
शीतज्वरं कुक्षिरोगं स्फोटकं पादहस्तयोः ॥ ८० ॥

तस्य शान्त्यै शिवं पूज्यमघोरेण सहस्रकः ।
होमेन शान्तिमायान्ति भक्तानां भोजनादपि ॥ ८१ ॥

त्रिंशच्च गुरुपूजा च शान्तये च विशेषतः ।
आगमादींस्तथाशास्त्रा न शुचिस्संस्पृशेत्तु यः ॥ ८२ ॥

मोहादुमूखलादींश्च न्यस्तांघ्रिश्चापतिष्ठते ।
महान्तिह्वाख्यके नाम ग्राहाति प्रबलो ग्रहः ॥ ८३ ॥

प्. ७९२)

तस्यांघ्रिकार्यकर्ता तं प्रतिमाबोध शान्तये ।
दीर्घनिश्वासनं चापि कम्पं पुलकमेव च ॥ ८४ ॥

गमने चाप्यशक्तित्वं तस्य वै भवति ध्रुवम् ।
पूर्ववल्लिंगपूजा च तस्याघोरेण होमयेत् ॥ ८५ ॥

भक्तानां भोजनं चापि अष्टाविंशति तं सवेत् ।
रसभस्म तु संसेव्यं शान्तिमाशु प्रयच्छति ॥ ८६ ॥

वल्मीकभित्तिच्छिद्रपृष्ठं खात्वा सर्पादि बाध्यते ।
तं वासवग्रहो मानं ग्राहात्यस्य महाज्वरः ॥ ८७ ॥

आक्रोशो भ्रान्तिरुन्मादकुक्षिरोगश्च वै भवेत् ।
पूर्ववत्पूजयित्वा तु तस्याघोरेण होमयेत् ॥ ८८ ॥

प्. ७९३)

अष्टोत्तरशतं हुत्वा त्रिंशद्भक्तांश्च होमयेत् ।
गुरुपूजां प्रकुर्वीत वस्त्रहेमादिभिस्तथा ॥ ८९ ॥

मातापित्रोर्गुरोश्चापि बान्धवे दोषवाचकम् ।
साहसानां प्रयोगेण लम्बनगृहवैशनम् ॥ ९० ॥

तस्य चिह्नं ज्वरः कासो सश्वस्सर्वांगयातकम् ।
कन्धूरेन्नपानादौ वैरस्यं गतिविभ्रमम् ॥ ९१ ॥

तस्य रोगस्य शान्त्यर्थं शिवपूजा विधीयते ।
अघोरास्त्रेण मन्त्रेण अष्टोत्तरशतं हुनेत् ॥ ९२ ॥

भोजयेच्छिवभक्तांश्च त्रिंशत्तत्रापि शान्तये ।
गुरुनिन्दारतस्याऽपि शिवनिन्दारतस्य च ॥ ९३ ॥

प्. ७९४)

ज्ञाननिन्दारतस्यापि बहुशो यस्य कस्यचित् ।
दीर्घकालं तु वातेन पित्तेन च तथैव च ॥ ९४ ॥

रोगेण दीर्घकालं तु बाधा तस्यैव जायते ।
पूर्ववच्छिवमभ्यर्च्य अघोरास्त्रेण होमयेत् ॥ ९५ ॥

अष्टसाहस्र संख्येन शिवभक्तांश्च पूजयेत् ।
त्रिंशदादिषु तच्छान्त्यैवासनं नन्दिकेश्वर ॥ ९६ ॥

तेन ते शान्तिमायान्ति गुरुपूजादि पूर्ववत् ।
एतेषां शान्तिपातेन भेदेन सकलामयम् ॥ ९७ ॥

उत्क्रान्तौ त्रिविधेनैव प्राप्तिरस्ति न दोषदृक् ।
सर्वेषामन्यकाले तु शिवादित्रयनिन्दनात् ॥ ९८ ॥

प्. ७९५)

संभवन्त्येव दोषाणि तस्माद्दोषाणि निस्त्यजेत् ।
शिवादित्रय कार्यार्थं अशनं कृत्वा तु शोचति ॥ ९९ ॥

पुनरादातुमिच्छा वै सत्यसान्तग्रहग्रहि ।
शोफरोगश्च तिमिरं कुष्ठरोगं तथैव च ॥ १०० ॥

स्तनन्धयस्य क्षीरस्य पानतोऽपि च जायते ।
शिवलिंगं च संपूज्य शान्तिहोमं समाचरेत् ॥ १०१ ॥

अष्टाविंशतिभक्तानां भोजनाच्छान्ति माप्नुयात् ।
देवतानां गुरूणां च ब्राह्मणानां तपस्विनाम् ॥ १०२ ॥

व्यसनानां च काले च संप्राप्य स्वयमेव च ।
शान्तिकाले च दत्तं चेद् कर्णग्रहनिपीडना ॥ १०३ ॥

प्. ७९६)

तस्य हिक्का च बहुधा बधिरत्वं च विद्यते ।
तस्य शान्त्यै शिवं पूज्य नीरोगश्शान्ति पूर्ववत् ॥ १०४ ॥

शिवभक्तांश्च संपूज्य त्रिंशत्स्यात्तस्य शान्तये ।

  • * * स्वामिनां ज्येष्ठं मित्रं तस्योपकार्यकम् ॥ १०५ ॥


गर्भयोत्तु विशेषात्तु धनग्रहा हि तद * ।
पुरीष मूत्रयोर्बन्धं छर्दिश्च भवति ध्रुवम् ॥ १०६ ॥

तस्य शान्त्ये शिवं पूज्य शान्तिहोमं समाचरेत् ।
त्रिंशद्भक्तजनानां तु भोजनाच्छान्तिरेव हि ॥ १०७ ॥

ग्रहणी काकशिशोर्भागोपद्रवश्च जायते ।
परदाराभिगमने क्लंबाशोऽपि च जायते ॥ १०८ ॥

प्. ७९७)

तस्य शान्त्यै शिवं पूज्य अघोरास्त्रेण होमयेत् ।
रसभस्म च संसेव्यं सर्वपापविशुद्धये ॥ १०९ ॥

जन्मर्क्षे वा शुभे काले पुण्यर्क्षे च विशेषतः ।
शिवभक्तांश्च त्रिंशच्च भोजयेच्छान्तये तदा ॥ ११० ॥

व्याधिभेदान्गुरुर्बुध्वा तस्य शान्तिं च कारयेत् ।
दरिद्रश्चेन्मन्त्रजपं कुर्यात्पापविशुद्धये ॥ १११ ॥

शिवलिंगार्चनं चापि भक्तानां वन्दनादपि ।
रसभस्म विशेषेण व्याधिर्नाशमुपैति वै ॥ ११२ ॥

धनवांश्चेन्निरीक्षेत व्याधेश्च गुरुलाघवम् ।
यावच्च्युतिस्तावदेव शान्तिकर्म समाचरेत् ॥ ११३ ॥

प्. ७९८)

अर्थलाभेन कर्तव्यमात्मार्थं सर्वमेव हि ।
सर्वसंसाधकांशे च मानुषान्नन्दिकेश्वर ॥ ११४ ॥

तस्मात्सर्व प्रयत्नेन शान्तिकर्म समाचरेत् ।
लिंगार्चनं तु भक्तानां पूजनाच्छान्तिकर्मणा ॥ ११५ ॥

ऐहिके शान्तिमाप्नोति पश्चाद्रुद्रत्वमाप्नुयात् ।
पयः पानेन पित्तं च क्षुद्बाधा च निवर्तते ॥ ११६ ॥

तद्वच्छान्ति गतिश्चापि भक्तानां भोजनाद्भवेत् ॥ ११६ १/२ ॥

इत्यचिन्त्य विश्वसादाख्ये भक्तपूजनविधिः षट्चत्वारिंशत्पटलः ॥

प्. ७९९)

अभीष्ट सिद्धये चापि कर्तव्यं नन्दिकेश्वर ।
पयो दध्याज्यमधुभिरैक्षवैर्मधुपञ्चभिः ॥ १ ॥

पञ्चगव्यादिभिश्चैव वक्षसैः फलकारकैः ।
देवदेवं च संस्थाप्य सवेदिश्च विशेषतः ॥ २ ॥

पिष्टैरामलकाद्यैश्च विरुद्धैश्च शनैश्शनैः ।
सुगन्ध तोयैः संस्नाप्य शुद्धवस्त्रेण मार्जयेत् ॥ ३ ॥

चन्दनागरु कर्पूरैरष्टगन्धैर्विलेप्य च ।
वस्त्राद्यैर्भूषणैस्सर्वैर्भूषयेच्छिवमव्ययम् ॥ ४ ॥

गन्धपुष्पैः स्रगाद्यैश्च पूजयेन्नन्दिकेश्वर ।
इन्द्रवर्ति समायुक्ता दीपमालार्तिकं ददेत् ॥ ५ ॥

प्. ८००)

पञ्चवर्णं हविर्वापि पायसं शुद्धमेव वा ।
नानोपदंश संयुक्तं नानाफल समन्वितम् ॥ ६ ॥

ताम्बूलं मुखवासञ्च तदन्ते दापयेत्तदा ।
एलालवंगतक्कोलजाति कर्पूर वर्णयुक् ॥ ७ ॥

मद्विषत्खण्ड संयुक्तं मुखवासमिदं भवेत् ।
प्रणम्याध्येष्य लब्धज्ञैर्होमार्थं कुण्डमाश्रयेत् ॥ ८ ॥

समिदाज्येन चरुणा तिलेनापि समन्वितम् ।
शतमष्टोत्तरं हुत्वा पूर्णमन्त्रं समापयेत् ॥ ९ ॥

  • * * तस्मात्स्थादाय यजमानाय दापयेत् ।

वांछतो कर्मदेवाय संप्रार्थ्य प्रणमेत्पुनः ॥ १० ॥

प्. ८०१)

वारमेकं समारभ्य सप्ताहान्तं समाचरेत् ।
द्विगुणं त्रिगुणं चापि चतुष्पञ्चगुणं तु वा ॥ ११ ॥

षट्सप्तगुण संख्यातं कर्मसिध्यन्तमेव वा ।
विशेषपूजा चैवोक्ता पूर्वोक्तवि * * इति ॥ १२ ॥

नैमित्तिकं च कर्तव्यं नित्यान्तेऽप्य विरोधतः ।
वर्तमाने तु नित्ये तु यदा नैमित्तिकं भवेत् ॥ १३ ॥

समाप्य कलिते काले नित्यं नैमित्तिकं चरेत् ।
सन्ध्या परार्धकाले चेत् पूर्वार्धो विद्यते यदि ॥ १४ ॥

कार्यं नैमित्तिकं कालेप्यविचार्य विशेषतः ।
अल्पकालेन संध्यं वै अपरार्धे समाचरेत् ॥ १५ ॥

प्. ८०२)

तन्त्र न व्याप्यनुष्ठानं उभयत्र समाचरेत् ।
पायसं वाथ नैवेद्यं पर्य * * * मेव वा ॥ १६ ॥

विधाय प्राप्तकाले तु नैमित्तिकमथाचरेत् ।
नैमित्तिकमहच्चेद्धि समारभ्य स्वकालके ॥ १७ ॥

एकाद्यावरणान्ते तु सन्ध्या शेषं समाप्य च ।
वैदैश्च कलशे देवं सितेदवधिते क्रमात् ॥ १८ ॥

नैमित्तिकद्वयं प्राप्तौ महदादौ समाचरेत् ।
लघुं ते सदृशं तच्चेत् कामाचारो विधीयते ॥ १९ ॥

कालोऽपि द्विविधः प्रोक्तो नैमित्तिक विधौ ।

  • * नल्प विभागेन स्वल्पासुदयनाधिकः ॥ २० ॥


प्. ८०३)

ग्रहणादिर्महाकालः स्वल्प कालोग्रसू भवेत् ।
आदित्ये गृह्यमाने तु मुच्यमाने निशाकरे ॥ २१ ॥

भविष्यत्यथ दष्टे चेद् * * त्तनेरेकालके ।
विषुवे मध्यकाले च स्नपनाद्यं समाचरेत् ॥ २२ ॥

सिह्मेऽपि वृश्चिके कुम्भे वृषे चादौ समाचरेत् ।
अर्धमेकद्वयं चापि यामं वा घटिकामपि ॥ २३ ॥

आदाव * * * हीयत् स्नापनादिषु कर्मसु ।
आचार्यं पूजयेत्पश्चाद् वस्त्रहेमांगुलीयकैः ॥ २४ ॥

यागोपयुक्त द्रव्यं तु हेमवस्त्रादिकं तथा ।
आचार्याय च तद्दद्यात् नान्यभोगाय कल्पयेत् ॥ २५ ॥

प्. ८०४)

यागावशिष्टं यद्द्रव्यं भूषणं मण्डपस्य च ।
वस्त्रं स्थण्डिकं कुम्भं * * * चैकलदायिकम् ॥ २६ ॥

तोरणं सृक् सृवाष्टौ च मंगलं नवरत्नकम् ।
तद्धोमचरुनैवेद्य शेषं यन्मण्डपस्य च ॥ २७ ॥

शयनं धूपं दीपश्च यदन्यत्स्नपयुक्तकम् ।
आचार्याय च तद्देयं सन्मार्गकुलनायकम् ॥ २८ ॥

निष्कादि दशनिष्कादि देशिके दक्षिणा मता ।
निष्काष्टक हान्यस्यमष्टमार्धं तदर्धकम् ॥ २९ ॥

नवधा दक्षिणा क्षुद्रक्रमे स्याद्ध्यानवित्तमे ।
नित्ये तु कल्पयेद्भक्तिं तमनस्कोषणी तथा ॥ ३० ॥

प्. ८०५)

निकामि शुक्रवारे च द्वादशी श्रवणान्विते ।
आयुष्यकरमस्ते तु रविवारे द्वितीयके ॥ ३१ ॥

गुरुवारे च पुष्यार्थी पञ्चमं मृगशीर्षके ।
सप्तम्यां च कर्तव्यं विधिना नन्दिकेश्वर ॥ ३२ ॥

व्याधिनाशाय कर्तव्यं भौमवारे रवावपि ।
जन्मत्रयविपदृक्षे प्रत्यरे षट्तथापि वा ॥ ३३ ॥

वैनाशिके चाष्टमे च पूजयेद्विधिना गुरुम् ।
शत्रुनाशाय तदृक्षे षोडशी गुणवर्धनम् ॥ ३४ ॥

एवं विशेषपूजा वै कर्तव्या नन्दिकेश्वर ।

इत्यचिन्त्यविश्वसादाख्ये विशेषपूजाविधिरेकोन चत्वारिंशः पटलः ॥



प्. ८०६)

अथ वक्ष्ये विशेषेण शिवरात्रि व्रतं पुनः ।
शिवानन्दं च तत्सर्वं व्रतानामुत्तमोत्तमम् ॥ १ ॥

ईप्सितानां च संसिद्ध्यै देव्या पूर्वमनुष्ठितम् ।
न बाधा यमराजस्य किंकरैरपि वर्धते ॥ २ ॥

एतद्व्रतानुचारी तु नरकं च न पश्यति ।
माघमासे चतुर्दश्यां कृष्णपक्षे विशेषतः ॥ ३ ॥

तद्रात्रिश्शिवरात्रिस्तु सर्वपुण्य शुभावहा ।
पूर्वेऽह्नि कृतसुस्नातः कृतकृत्य विधिश्शुचिः ॥ ४ ॥

पश्चाच्च तस्य रात्रौ तु शिवलिंगं च पूजयेत् ।
शिवानन्तं च संजप्य कर्तव्यं नन्दिकेश्वर ॥ ५ ॥

प्. ८०७)

कृत्वा तु पञ्चशुद्धिं वै विधिना साधकोत्तमः ।
खण्डूं शमासनं तत्र संनिधीकृत्य संयुतः ॥ ६ ॥

पाद्याचार्घ्यादिना पूज्य सन्निधीकृत्य तं शिवम् ।
गन्ध ले तु चा सव्यं पिष्टेनोद्वर्तयेत्पुनः ॥ ७ ॥

पञ्चामृतैः पञ्चगव्यैः तत्तदुक्त्याभिषेचयत् ।
पवित्रैः पञ्चभिः कुर्यापञ्चांगैस्तु क्रमेण तु ॥ ८ ॥

पिष्टेन देवदेवेशं उद्वर्त्य च पुनः पुनः ।
पूर्णेन चापि पिष्टेन रजसा स्थूपितेन च ॥ ९ ॥

वस्त्रेण शोधितेनैव साधयेदुदकेन च ।
नालिकेरोदकेनैव तत्पश्चादभिषेचयेत् ॥ १० ॥

प्. ८०८)

शुद्धवस्त्रेण संमार्ज्य लिंगं वै पीठिकान्वितम् ।
शुद्धेन वाससा चापि संमार्ज्याथ विधानवित् ॥ ११ ॥

यामः प्रति पृथग्द्रव्यैः गन्धाद्यैश्च शिवं यजेत् ।
चन्दनागरुकर्पूर कुंकुमाद्यैश्च भक्तितः ॥ १२ ॥

बिल्वैश्च जातिभिश्चैव मल्लिकोत्पलपंकजैः ।
दूर्वाक्षत तिलैर्वापि संयुक्त्या सम्यगर्चयेत् ॥ १३ ॥

गद्गुलुं गुरुनिर्यासं सज्जसारञ्च धूपयेत् ।
स घृतेनेन्द्र संयुक्तं वर्तिनाज्यकसंयुता ॥ १४ ॥

दीपमारात्रिकं विद्याद्विधिना नन्दिकेश्वर ।
पूर्वे तु पायसं यामे द्वितीये कृसरं भवेत् ॥ १५ ॥

प्. ८०९)

शुद्धान्नं च तृतीये तु चतुर्थे शुद्धमन्नकम् ।
अशेषैर्व्यञ्जनैर्युक्तं महाहविर्निवेद्य च ॥ १६ ॥

घृतं च शर्करा चैव घृतसाराभिमिश्रितम् ।
ताम्बूल मुखवासानि दापयेन्नन्दिकेश्वर ॥ १७ ॥

आरात्रिकं प्रदीपं च धूपयुक्तं च दापयेत् ।
शिवाग्नौ होमः कर्तव्यः कुण्डे वा स्थण्डिलेपि वा ॥ १८ ॥

शिवाग्नेर्हृदि संकल्प्य चासनं विधिना गुरुः ।
संपूज्य तत्र देवाय जुहुयाज्ज्वलितानले ॥ १९ ॥

समिदाज्यादिभिर्लाजतिलैर्मूलांगब्रह्मभिः ।
शिवाद्दशांशतोन्येषां मन्त्राणामाहुतिर्भवेत् ॥ २० ॥

प्. ८१०)

दशादि दशवृद्ध्या तु यावत्पंचाशदाहुतिः ।
पूर्णां कृत्वा शिवेनैव निश्छिद्र परिपूरणा ॥ २१ ॥

द्वन्दयित्वा तु तद्भस्म देवेशमभिवन्द्य च ।
पूजयेत्पुनरेवेशं यामः प्रति पुनः पुनः ॥ २२ ॥

देवं पूर्ववदभ्यर्च्य गुरुपूजां ततो नयेत् ।
दक्षिणां च ततो दद्याद्वित्तशाठ्यं विवर्जयेत् ॥ २३ ॥

लिंगिनश्शिवभक्तांश्च ब्राह्मणा न तिथीनपि ।
पूजयेद्भक्तितः शक्त्या पूजां सम्यक् समाप्य च ॥ २४ ॥

विष्णुब्रह्मसमं देवं शिवं परमकारणम् ।
संस्मृत्याथ भवेत्पूर्णः देवीं चापि रमां समाम् ॥ २५ ॥

प्. ८११)

सरस्वत्या रमां चापि संस्मृतापि च यद्भवेत् ।
तत्पापमखिलं चापि शिवज्ञान प्रदायकम् ॥ २६ ॥

शिवं चैव गुरुं चैव केवलं मनुजस्त्वसौ ।
एवं स्मृत्वा तु यत्मापं कृतं तदखिलं पुनः ॥ २७ ॥

शिवमायाति तद्रात्रिः पापमात्रं न संशयः ।
शिवरात्रिसमं पुण्यं न भूतं न भविष्यति ॥ २८ ॥

सर्वपापहरं नित्यं व्रतानामुत्तमोत्तमम् ।

इत्यचिन्त्य विश्वसादाख्ये शिवरात्रिपूजाविधिः पञ्चाशत्पटलः ॥



प्. ८१२)

माघमासे तु माघर्क्षे कुर्याद्वै घृतकम्बलम् ।
कपिलाज्यं नवप्रस्थं कृमिकीटादिवर्जितम् ॥ १ ॥

नीतं नूतनं संशुद्धं सुगन्धं दीपयेद्गुरुः ।
अस्त्रेण निक्षिपेत्तोयं वारुणं बीजमुच्चरन् ॥ २ ॥

तदाज्यं पिण्डवत्कृत्वा शिवेन तदनन्तरम् ।
पञ्चामृतैः पञ्चगव्यैः विशेषस्नपनं भवेत् ॥ ३ ॥

अष्टागन्धेन तोयेन विदध्याच्छिवमव्ययम् ।
कृत्वा विशेषपूजां च स्थापयेच्छिवमव्ययम् ॥ ४ ॥

गन्धधूपादिभिश्चैव हृन्मन्त्रं सम्यगुच्चरेत् ।
घृते संपातहोमं च पवित्रारोपवर्त्मना ॥ ५ ॥

प्. ८१३)

कृत्वा संस्थापयेत् कुम्भं स्थण्डिले सापिधानकम् ।
कवचेनावकुण्ठ्याथ प्रातर्मध्याह्नमेव च ॥ ६ ॥

संपूज्य पूर्ववद्देवं स्नपनादि समन्वितम् ।
विशेषेणार्चयित्वा तु सर्वालंकार संयुतम् ॥ ७ ॥

धामप्रदक्षिणं कृत्वा शिवमन्त्रं समुच्चरन् ।
लिंगं सर्वत्र चालिप्य पीठान्तं सर्वपीठकम् ॥ ८ ॥

गन्धाद्यैरर्चयित्वा तु कम्बलेन च वेष्टयेत् ।
दद्याद्देवं बहिश्शम्भोः ताम्बूलेन समन्वितम् ॥ ९ ॥

सन्ध्यान्ते वा परेद्युर्वा कम्बलाद्यं विसृज्य च ।
पूर्ववत्पूजयेद् देवं गुरुं संपूजयेत्तदा ॥ १० ॥

प्. ८१४)

दक्षिणां दापयेत्तस्य यथा विभव विस्तरम् ।
अयुगं चरमं पूर्वे कर्तव्यं वा नवाचरेत् ॥ ११ ॥

घृतकम्बलदानेन सर्वसिद्धिं समाप्नुयात् ।

इत्यचिन्त्य विश्वसादाख्ये घृतकम्बलविधिः एकपंचाशत्पटलः ॥




अथ वक्ष्ये विशेषेण पुण्यनिर्णयमुत्तमम् ।
सर्वलोकहितं पुण्यं सर्वसिद्धिप्रदायकम् ॥ १ ॥

शिखरभूरतो दृष्ट्वा नमस्कुर्याच्छिवालयम् ।
जन्मान्तरकृतं पापं तत्क्षणाद्गलति ध्रुवम् ॥ २ ॥

प्. ८१९)

दूराध्वानपदा शान्तं प्रादक्षिण्यं शिवालयम् ।
तत्क्लेशं तु शिवोप्याथ भवेत्पापौघनाशनम् ॥ ३ ॥

गुरुदेशालयात्तत्तु द्विगुणं फलमृच्छति ।
तस्माद्द्विगुणमुत्कर्षं गुरुदर्शनतो भवेत् ॥ ४ ॥

नमस्कारात्तु द्विगुणं स्तोत्रेणापि शतं भवेत् ।
आदरेण तु शुश्रूषा मोक्षाय भवति ध्रुवम् ॥ ५ ॥

अथवा भोगकामी चेत्सांगोपाङ्गं समाचरेत् ।
देवस्य चोत्सवे काले यः कुर्यात्तु परिश्रमः ॥ ६ ॥

पदे पदेऽश्वमेधस्य फलं तद्वद्गुरावपि ।
ध्वजारोहणकाले तु यथा कुर्वन्प्रदक्षिणम् ॥ ७ ॥

प्. ८२०)

इहैव धनवांच्छ्रीमान् पुत्रपौत्रविवृद्धिमान् ।
ध्वजारोहणकाले तु वृषभस्य निवेद्यकम् ॥ ८ ॥

तद्भुक्त्वा च त्रिधा वन्ध्या लभेत्पुत्रं न संशयः ।
केवलं देवायतने प्रादक्षिण्य प्रवर्तनम् ॥ ९ ॥

सप्तजन्मकृतात्पापात् दिने नैव तु मुच्यते ।
नित्योत्सवस्य काले यः प्रदक्षिणमथाचरेत् ॥ १० ॥

रुद्रत्वं समवाप्नोति नात्र कार्या विचारणा ।
नमस्कारं यथा कृत्वा तथा लोके सुपूजितः ॥ ११ ॥

एकाङ्गं च द्वयाङ्गं च त्रयाङ्गं पञ्चमाङ्गकम् ।
अष्टमाङ्गं क्रमेणैव तत्तत्फलमवाप्नुयात् ॥ १२ ॥

प्. ८२१)

शिरसा तु नमस्कारमेकांगन्त्विति कीर्तितम् ।
शिरसा दक्षहस्तेन द्वयांगं च भवेदिदम् ॥ १३ ॥

करद्वयेन शिरसा त्रयांगमिति कीर्तितम् ।
शिरसा पाणिपादैस्तु पञ्चांगं दण्डवद्भवेत् ॥ १४ ॥

शिरसा चिबुकेनैव श्रवणद्वयजानुके ।
करद्वयेन संयुक्तमष्टांगमिति कीर्तितम् ॥ १५ ॥

एवं विधैर्नमस्कारैः पञ्चभिर्नन्दिकेश्वर ।
सालोक्यं चैव सामीप्यं सारूप्यं सदृशं तथा ॥ १६ ॥

नमस्काराद्यर्चनाद्यैरेतेषां प्राप्तियोग्यता ।
स्थित्वा देवालयस्याग्रे प्रदक्षिणत्रयं स्वयम् ॥ १७ ॥

प्. ८२२)

कृत्वा सामीप्यमायाति नित्यमेव न संशयः ।
यत्र ज्ञानक्रियायोगी दिनार्घं दिवसं तथा ॥ १८ ॥

दिवसाद्यं दिनं चापि दिनद्वयमथापि वा ।
तत्तीर्थं तपसो यज्ञन्तन्मन्त्रं च पवित्रकम् ॥ १९ ॥

बुद्धिपूर्वं वसेत्सापि घटिकार्धं समाहितः ।
यत्र यत्क्रियते पापं नाशमायाति निश्चयः ॥ २० ॥

जलं शुद्धमशुद्धं वा शिवधामसमीपगम् ।
दिव्यगंगेति तां विद्यात् तत्र स्नायात्तु यो नरः ॥ २१ ॥

सप्तजन्मकृतं पापं अनेनैव विनश्यति ।
देशिकांघ्रिज तोयेन प्रोक्षयेन्नन्दिकेश्वर ॥ २२ ॥

प्. ८२३)

तस्य पापादिकर्माणि तत्क्षणान्नश्यति ध्रुवम् ।
आचार्योच्छिष्टकं यस्तु गुरोरादेशताच्छ्रुतः ॥ २३ ॥

तस्य शे साम्यत्वमाप्नोत्येव न संशयः ।
महापातक शान्तिस्तु नात्र कार्या विचारणा ॥ २४ ॥

सद्गुरोरंघ्रिसं स्पर्शात् सर्वपापैर्विमुच्यते ।
हेमादि स्वर्णदानं तु धेनूनां कोटिदानकम् ॥ २५ ॥

कन्याकोटिशतं दानं तत्तुल्यं लिंगदर्शनात् ।
लिंगसंस्पर्शनाद्भक्त्या सर्वपापैः प्रमुच्यते ॥ २६ ॥

स्पर्शवेदि स्पर्शनाल्लोहः स्वर्णत्वं नयते क्षणात् ।
तद्वत्स्पर्शनतोन्मुक्तो नात्र कार्या विचारणा ॥ २७ ॥

प्. ८२४)

गन्धपुष्पजलोद्भूतं नानापुष्पं च यो ददेत् ।
शिवभक्त्या च यत्सोपि शिवलोके महीयते ॥ २८ ॥

तद्देशे दृश्यते पुष्पं देवतोद्दिश्य निश्चयम् ।
यत्कृतं शिवं संस्मृत्य मोक्षद्वारा च वै भवेत् ॥ २९ ॥

उद्यानं देवदेवस्य यः कुर्याद्भक्ति पूर्वकम् ।
इहैव धनवांच्छ्रीमान् सोऽन्ते रुद्रपदं लभेत् ॥ ३० ॥

प्रातः काले गवार्थं तु मुष्टिमात्रं ददेत् तृणम् ।
मुक्तिमाप्नोति दारिद्र्याच्छिवलोके महीयते ॥ ३१ ॥

वेदशास्त्रार्थविप्राणां कोटिदानेन यत्फलम् ।
भिक्षामात्र प्रदानेन तत्तुल्यं शिवयोगिने ॥ ३२ ॥

प्. ८२५)

अयुतं यो गवां दद्याच्छोत्रिये वेदपारगे ।
गोसंज्ञातीर्थके क्षीरस्नापनेन तु तत्समम् ॥ ३३ ॥

लिंगं तु पञ्चगव्यैस्तु विधिना स्नापयेत्तु यः ।
काञ्चनेन विमानेन रुद्रलोके महीयते ॥ ३४ ॥

कपिलायास्तु गव्येन घृतवारियुतेन च ।
यथा शक्त्यभिषेकं तु कृत वांच्छंकरस्य वै ॥ ३५ ॥

स रुद्रपदमाप्नोति नात्र कार्या विचारणा ।
विध्युक्तस्नपनं कुर्याद् यो नरो भक्तिसंयुतः ॥ ३६ ॥

नानाभोगांश्च भुञ्जीत शिवलोके महीयते ।
नद्यन्तस्थं जलं शीतं गन्धपुष्पविमिश्रितम् ॥ ३७ ॥

प्. ८२६)

सेचनाद्देवदत्तस्य तद्रुद्रूपदमाप्नुयात् ।
पूर्वपक्षं तु यद्द्रव्यं भोज्यं दद्याच्छिवाय वै ॥ ३८ ॥

फलपुष्पादयश्चापि धनधान्यादिवर्धनम् ।
लिंगे वा वृतमाया वा मण्डले भित्तिचित्रके ॥ ३९ ॥

पदे वा फलकायां वा क्षणिके मानसेऽपि वा ।
विधिनाप्तजयेल्लिंगं काले काले च तत् प्रियम् ॥ ४० ॥

मनसो मण्डलं श्रेष्ठं मण्डलाल्लक्षणिश्चिरम् ।
क्षणिकात्फलका श्रेष्ठा फलकायाः पटस्तथा ॥ ४१ ॥

पटामाभासमुत्कृष्ठं आभासाद्बिम्बमुत्तमम् ।
तद्बिम्बाल्लिंगमुत्कृष्टं स्फटिकं बाणजं वरम् ॥ ४२ ॥

प्. ८२७)

सर्वपापहरं पुण्यं सर्वतीर्थफलं भवेत् ।
सर्वदानफलं चैव सर्वयज्ञफलं भवेत् ॥ ४३ ॥

ब्रह्महा भ्रूणहा वापि स्नेहहा गुरुतल्पगः ।
बन्धुहा बीरहा वापि मातृहा पितृहापि वा ॥ ४४ ॥

गोघ्नोऽपि वा कृतघ्नो वा पुत्र भ्रातृघ्न एव वा ।
मित्रहा वा महापापयुक्तो वा परदारिकः ॥ ४५ ॥

ज्ञानयोगी शिवं पूज्य सर्वपापैः प्रमुच्यते ।
हविर्दत्वा तु विधिना सकृत्काले शिवालये ॥ ४६ ॥

अल्पे महति वा तुल्यं फलमाढ्य दरिद्रयोः ।
इहैव धनवांच्छ्रीमान् सोऽन्ते मोक्षमवाप्नुयात् ॥ ४७ ॥

प्. ८२८)

यतीनां ब्रह्मचारीणां गृहस्थानां सुतामपि ।
ज्ञानयोगक्रियाध्यानाद्दानं दारिद्र्य नाशनम् ॥ ४८ ॥

पुत्रपौत्रादयश्चापि वर्धन्ते धनधान्यकम् ।
शंखचामरवाद्यानि दर्पणच्छत्रवाससाम् ॥ ४९ ॥

हेमताम्रादि पात्राणां दानाद्दारिद्र्यनाशनम् ।
पश्चाद्रुद्रत्वमाप्नोति नात्र कार्या विचारणा ॥ ५० ॥

धूपघण्टां महाघण्टां देवाय विनिवेदयेत् ।
यशः श्रीः ख्यात्यदारिद्र्यं सिध्यत्येव न संशयः ॥ ५१ ॥

आसनं शयनं वापि हयं वा शिबिकादिकम् ।
यो दद्याद्देवदेवाय तत्सामीप्यमवाप्नुयात् ॥ ५२ ॥

प्. ८२९)

प्रासादं मण्डपं वापि प्राकारं गोपुरं तु वा ।
देवाय कृतवान्सद्यः सारूप्यपदमाप्नुयात् ॥ ५३ ॥

राज्ञाद्याभरणादीन् दीपगन्धादिदानगः ।
कीर्तिमान्पुष्टिमान्लोके चान्ते देवं समाप्नुयात् ॥ ५४ ॥

गोचर्ममात्रकां भूमिं शिवाय विनिवेदयेत् ।
सर्वदानफलं तत्तु सर्वपापप्रणाशनम् ॥ ५५ ॥

जलसंयुक्तकेदारं सस्यार्थं दापयेद्बुधः ।
शिवाय वृक्षदानेन सर्वभोगप्रवर्धनम् ॥ ५६ ॥

यो नरः शिवयज्ञं तु कुरुते विधिपूजनम् ।
त्रिसप्तकुलमुद्धृत्य शिवलोके महीयते ॥ ५७ ॥

प्. ८३०)

ज्ञानयोगेन देवेशं ज्ञात्वागुरुमुखेन वै ।
भक्त्या च लभते देवं पुनर्जन्म न यच्छति ॥ ५८ ॥

वापीकूपतटाकाद्यैर्देवमुद्दिश्य यत्नतः ।
कुर्वन्बहुधनाढ्यस्तु तदन्ते शिवमाप्नुयात् ॥ ५९ ॥

यश्शयनं च विधिना भक्तिपूर्वं समर्चयेत् ।
सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् ॥ ६० ॥

शिवादित्रयकार्याय सम्यक् प्राणान्परित्यजेत् ।
तस्यैव फलसंपत्तिं वर्णितुं नैव शक्यते ॥ ६१ ॥

स्वभावश्च विकी चैव कृत्रिमा च त्रिधा भवेत् ।
स्वाभाविकी तु या भक्तिः इहा मुत्र सुखप्रदा ॥ ६२ ॥

प्. ८३१)

कृत्रिमा वै कृता चेत्तु सा परत्र सुखप्रदा ।
लिंगाद्धस्तशतं सार्धं शिवक्षेत्रमिति स्मृतम् ॥ ६३ ॥

तच्छिव क्षेत्रसामीप्ये मरणं विद्यते द्यया ।
स याति शिवसामीप्यं नात्र कार्या विचारणा ॥ ६४ ॥

अन्येषु बहुशास्त्रेषु स्वर्गमात्रफलं भवेत् ।
शिवं शास्त्रं विशेषेण भोगमोक्षौ क्लमाल्लभम् ॥ ६५ ॥

मातेन जन्मना सिद्धिं सन्मार्गं चिन्त्यरत्नके ।
तस्मात्सर्वप्रयत्नेन चिन्त्यसादाख्यमभ्यसेत् ॥ ६६ ॥

गुर्वाज्ञया च कर्तव्यं सर्वदानजपादिकम् ।

इत्यचिन्त्य विश्वसादाख्ये (पुण्यविधिः) द्विपंचाशत्पटलः ॥


 

प्. ८३२)

अतीतानि मठान्यानि देवतायतनानि च ।
लिंगादि पुष्करण्यादि स्थापितान्यपि केनचित् ॥ १ ॥

पूर्व प्रतिष्ठिकास्तस्य सहसा गुणितं भगम् ।
जीर्णोद्धारे शतगुणं पापनाशात्समं भवेत् ॥ २ ॥

लिंगान्यपि च यावन्ति पूजितान्यपि नित्यशः ।
स्थापिता पूजिता भक्त्या यावत्तेजो महीतलम् ॥ ३ ॥

तावत्संख्यासमं पुण्यं प्रासादं मठं कल्यते ।
वस्त्रं वा वृषभं वापि तुरगं वा वृषाह्वयम् ॥ ४ ॥

तैरंकित शरीरो यो नरमेधफलं भवेत् ।
कः पुमान तिथित्वेन लब्ध्वा नैष्ठिकमुत्सृजेत् ॥ ५ ॥

प्. ८३३)

चतुर्वेदार्थविदुषां ब्राह्मणानां महात्मनाम् ।
आचार्येण तु भुक्तेन भोजिता कोटिरुच्यते ॥ ६ ॥

साधके पूजिते तत्र लक्षं पुण्यफलं भवेत् ।
पुत्रो वाप्ययुतं पुण्यं समयस्ते समग्रहम् ॥ ७ ॥

शतं माहेश्वरो भोक्ता सघृतं सोपदंशकम् ।
चारन्तण्डुलीपुष्पं च दीपं वस्त्रफलादिकम् ॥ ८ ॥

शिवाय गुरवे शैवं दद्यात् तत्तत्फलं शृणु ।
रोमतण्डुलपुष्पाणि दीपतन्तु फलानि वै ॥ ९ ॥

यावत्तद्द्रव्यसंख्यानि परिसंख्यानि यावति ।
तावद्युग सहस्राणि शिवलोके महीयते ॥ १० ॥

प्. ८३४)

शिवमुद्दिश्य चोद्यानं यः कुर्याद्भक्तिसंयुतः ।
पत्रं पुष्पं फलं यावत् तदुद्यानं भवेत्तदा ॥ ११ ॥

तावत्संख्येन संख्यातं शिवलोकयुतं भवेत् ।
शिवभक्तो जटी भूयाज्जटां प्रति दिने दिने ॥ १२ ॥

अश्वमेधफलं पुण्यं प्राप्यते च न संशयः ।
मुण्डी वापि शिखीवापि शिवायेति भवेद्यदि ॥ १३ ॥

नरमेधहनं पुण्यं दिनं प्रति दिनं प्रति ।
शिवभक्तस्य पूजायै योलिंगं दापयेद्यदि ॥ १४ ॥

तिलसंख्यानि यावन्ति लिंगवेदी प्रमाणके ।
तावत्कल्पायुतं दिव्यं शिवलोके महीयते ॥ १५ ॥

प्. ८३५)

सूक्ष्मजन्तून्प्रतिहरन् शिवाय गुरवे तथा ।
संमार्जनं चैकदिनं चान्द्रायणफलं भवेत् ॥ १६ ॥

नैरन्तर्येण यः कुर्यात् पक्षं संमार्जनं तथा ।
शतकोटियुगं दिव्यं रुद्रलोके महीयते ॥ १७ ॥

नानादिकालिके प्राप्ते नीराजन समर्पणात् ।
कोट्यादित्य समो भूत्वा शिवलोके वसेत्सदा ॥ १८ ॥

दध्ना लिंगं सकृत्स्नाप्य विष्णुलोके महीयते ।
कल्पकोटि सहस्रोपदुर्जनं वाससञ्चयम् ॥ १९ ॥

घृतस्नानादि तत्सर्वं नाशमायाति तत्क्षणात् ।
लिंगस्नानेन मधुना सर्वपापं व्यपोहति ॥ २० ॥

प्. ८३६)

अग्निना पूजितो भूत्वा वह्निलोके महीयते ।
एवमिक्षु रसेनैववीरो धरापतिर्भवेत् ॥ २१ ॥

अभ्यंगैस्तिलतैलेन वायुलोके महीयते ।
यो लिंगं फलसारेण स्नापयेत् पापनाशनम् ॥ २२ ॥

देहान्ते पितृणां यानं गच्छत्येव न संशयः ।
सितेन भस्मना लिंगं स्नापनं शिववत्सदा ॥ २३ ॥

शिवलोकादि लोकेषु पूज्य एव न संशयः ।
शिवाय गुरवे चैव तुटिमात्र प्रमाणकम् ॥ २४ ॥

हैममैन्द्रपदं रत्नं ब्रह्मवल्लोकमाप्नुयात् ।
देवदारुं न मेरुं च सज्जश्रीवासकुन्दरम् ॥ २५ ॥

प्. ८३७)

श्रीफलाद्यघृतं मिश्रं धूपाल्लक्ष्मीपतिर्भवेत् ।
वित्सहस्रगुणाधिक्यं धूपयेद्गन्धसंयुतः ॥ २६ ॥

अयुतं गुद्गुलं प्रोक्तं तत्साहस्रं घृतान्वितम् ।
द्विगुणं महिषाक्षाभं शिवतुल्यफलप्रदम् ॥ २७ ॥

कृष्णागरूद्भवो धूपः सर्वपापविनाशनः ।
सुगन्धि चन्दनालेपं सकृत्कृत्वा तु लिंगकम् ॥ २८ ॥

वर्षकोटियुतं दिव्यं रुद्रलोके महीयते ।
चन्दनागरुतः श्रेष्ठं ततः श्रेष्ठं कमुष्णकम् ॥ २९ ॥

ततोऽधिकं कुंकुमं स्यादन्योन्यं चाष्टमाधिकम् ।
अन्याश्चतुर्गुणं श्रेष्ठं धूपं गुल्गुलुमिश्रितम् ॥ ३० ॥

प्. ८३८)

तदर्धं पनसादीनां फलानां सरसामपि ।
ताम्बूलं तैलकर्पूर विफलासंयुतं भवेत् ॥ ३१ ॥

शिवाय गुरवे चैव दानमत्यन्तमुत्तमम् ।
इहैव धनवांच्छ्रीमान् परत्र च परां गतिम् ॥ ३२ ॥

मामृतां हैरिमररवतिमिलापटहादिकम् ।
शंखतालककांस्यादिकाहलं वेणुनन्दनम् ॥ ३३ ॥

शिवाय विनियोगेन शिवलोके विमानके ।
शिवतुल्यबलोपेतो वसेत्कल्पायुतं सुखी ॥ ३४ ॥

मुक्तादामत्रिशोभाढ्यं प्रासादेऽपि मठेऽपि वा ।
यः कुर्यात्सर्वलोकेषु शिववन्मोदते चिरम् ॥ ३५ ॥

प्. ८३९)

स्तोत्रं गीतं च देवाय भक्त्या परमया युतः ।
तच्छ्रोतारश्च वृक्षाश्च कृमिकीटादयस्तथा ॥ ३६ ॥

शिवसालोक्यमाप्नोति किं पुनः स्तोत्रगेयवान् ।
नृत्तं शिवाय यः कश्चित्कुरुते तत्फलं शृणु ॥ ३७ ॥

सूर्याय पूजयेद्यस्तु सेव्यमानोप्सरोगणैः ।
नृत्तगीतादि संयुक्तः शिवलोके महीयते ॥ ३८ ॥

कामादकामतो वापि भ्रूणहत्यादि पातकम् ।
तत्सर्वं शास्त्रदानेन नाथमायाद्यनिश्चयम् ॥ ३९ ॥

महापद्मविमानेन शिवलोके महीयते ।
ज्ञानयोगक्रियाचर्याः सर्वे भक्तिप्रधानकाः ॥ ४० ॥

प्. ८४०)

तस्माद्भक्तिप्रधानं तु शृणुत्वं नन्दिकेश्वर ।
मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् ॥ ४१ ॥

अभ्यर्चनं स्वयं भक्त्या ममार्थे च * * * * ।
मत्क्थाश्रवणे भक्तिः स्वरनेत्रांगविक्रिया ॥ ४२ ॥

ममानुस्मरणं नित्यं य मानोपजीवति ।
भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छेऽपि वर्तते ॥ ४३ ॥

स विप्रेन्द्रो यतिः श्रीमान् वाक्पतिस्स च पण्डितः ।
न मे प्रियश्चतुर्वेदीमद्भक्तः श्वपचोऽपि यः ॥ ४४ ॥

तस्यैते यत्नतो ग्राह्यं स च पूज्यो यथाह्यहम् ।
आयान्तं शिवभक्तं वै दृष्ट्वा दद्याद्विमानकम् ॥ ४५ ॥

प्. ८४१)

तमहा सर्वदा नन्दिन् युष्मद्दर्शनवत्प्रियः ।
शिव * * * * * * दासनं श्रद्धयान्वितः ॥ ४६ ॥

विंशद्वर्षसहस्राणि चन्द्रलोके महीयते ।
गंगास्नानसमं पुण्यं दृष्टमात्रे न संशयः ॥ ४७ ॥

जलेन शिवभक्ताय पादप्रक्षालनं भवेत् ।
यशोवतीं समाश्रित्य मोदते युगपञ्चकम् ॥ ४८ ॥

घृतेनाभ्यज्य चोद्वर्त्य विष्णुलोके महीयते ।
शिवभक्ताय यो दद्यान् मुखवासं च भक्तितः ॥ ४९ ॥

वर्षकोटि सहस्राणि कौबेरं पुरमाप्नुयात् ।
सम्यगाचमनं कृत्वा पश्चादर्घ्य प्रदानकम् ॥ ५० ॥

प्. ८४२)

शिवभक्ताय यो दद्यात् शिवलोके महीयते ।
शिवभक्तस्य दीपस्य प्रदानं ज्ञानमुत्तमम् ॥ ५१ ॥

संवीज्य तालवृन्तेन शिवभक्तं नरं हि यः ।
वायुना पूज्यमानोऽसौ वायुलोकं स गच्छति ॥ ५२ ॥

युगकोटि सहस्राणि रुद्रलोके महीयते ।
ऊर्णं प्रावरणं दद्यात् शिवभक्ताय शक्तिमान् ॥ ५३ ॥

निष्करोमवशादेव स्वर्णदानफलं भवेत् ।
तत्तद्व्याघ्रादि चर्माणि तत्वादिफलमाप्नुयात् ॥ ५४ ॥

शिवभक्ताय यो दद्याद् भोजनं तत्फलं शृणु ।
कल्पकोटि सहस्राणि रुद्रलोके महीयते ॥ ५५ ॥

प्. ८४३)

  • * * * * * * * कल्पकोटि शतानि च ।

शिवलोकादि लोकेषु शिववन्मोदते चिरम् ॥ ५६ ॥

क्रमादाक्रम्य लोकेऽस्मि राजा भवति धार्मिकः ।
अथवा ज्ञानयोगादीन् लब्ध्वा मोक्षमवाप्नुयात् ॥ ५७ ॥

पितॄनुद्दिश्य यो भक्तः शिवभक्तांश्च भोजयेत् ।
समस्ताः पितरस्तेऽपि शिवलोके महीयते ॥ ५८ ॥

पाटल्युत्पलगन्धादि शीतलस्त्वे रियः * * ।
शिवभक्तस्य दानेन वारुणं लोकमाप्नुयात् ॥ ५९ ॥

शिवभक्ताय यो दद्यात् कमण्डल्वादिकं शुभम् ।
वर्षकोटियुतं दिव्यं विष्णुना पूजितो भवेत् ॥ ६० ॥

प्. ८४४)

विश्वभेषजवर्गादि शिवभक्ताय दानतः ।
कल्पकोटिसहस्राणि भवेत्सूर्येण पूजितः ॥ ६१ ॥

निक्षेपरक्षणं कृत्वा शिवभक्ताय यो नरः ।
शिवलोकं समाश्रित्य न पुनर्गच्छतीह सः ॥ ६२ ॥

रोगार्तशिवभक्ताय भैषज्यानि प्रयच्छति ।
युगकोटिशतं दिव्यं शिवलोके महीयते ॥ ६३ ॥

तस्माद्धारं च भक्ताय यो दद्याद्भस्म संयुतम् ।
सर्वतीर्थफलं लब्ध्वा शिवलोके महीयते ॥ ६४ ॥

योगपट्टं च यो दद्याच्छिवभक्ताय यो नरः ।
वस्त्रयुग्म सहस्रस्य दत्तस्य फलमाप्नुयात् ॥ ६५ ॥

प्. ८४५)

शिवज्ञानाभियुक्ताय शिवज्ञानस्य पुस्तकम् ।
यो दद्यात्सकलं दत्तं शिववन्मोदते चिरम् ॥ ६६ ॥

शिवशास्त्रस्याध्ययितुं फलं पुस्तकदानतः ।
कोटिकोटियुतं पुण्यं प्राप्नोत्येव न संशयः ॥ ६७ ॥

शिवज्ञानार्थं निर्णीतुं फलं वाचामगोचरम् ।
रुद्राक्ष मालादानेन शिवभक्ताय यो नरः ॥ ६८ ॥

स रुद्रपदमाप्नोति रुद्रलोके महीयते ।
शिवभक्ताय यो दद्याच्छत्र दण्डसमन्वितम् ॥ ६९ ॥

शतयोजन विस्तीर्नां पृथ्वीं भुंक्ते स पत्निकः ।
उपानह् शिवभक्ताय दानं कुर्यात्तु यो नरः ॥ ७० ॥

प्. ८४६)

रथादिवाहनं लब्ध्वा शिवलोके महीयते ।
उपदेशं विना यस्माच्छिव धर्मं न चारयेत् ॥ ७१ ॥

उपदेष्टानुमन्ता च कर्मकारव्रताय च ।
कृतानुपावृतं चैव पञ्च तुल्यफलाः स्मृताः ॥ ७२ ॥

एतेषामपि सर्वेषां रक्तियुक्तोत्तमोत्तमः ।
आलयादीनि सर्वाणि रक्षक्षेर्ण विहीयते ॥ ७३ ॥

माशमायाति सर्वंस्तु तस्माद्रक्षक उत्तमः ।
रक्षको हि जगत्कर्ता रक्षको हि जगद्गुरुः ॥ ७४ ॥

रक्षको हि पिता माता रक्षकस्सर्वदा सुहृत् ।
समयी दासमार्गश्च शिवभक्तिपरायणः ॥ ७५ ॥

प्. ८४७)

एतानि समयस्थस्य पर्यायवचनानि वै ।
शिवार्चकः पुत्रमार्गी पुत्रसंस्कारदीक्षितः ॥ ७६ ॥

सहमार्गश्च योगी च साधको योगदीक्षकः ।
साधकैरभिषिक्त इति तस्य पर्यायवाचकम् ॥ ७७ ॥

ज्ञानविज्ञानदीक्षां वा नानारोप्यभिषिक्तकः ।
सन्मार्गीत्येव नामानि देशिकस्यैव तत्वतः ॥ ७८ ॥

भक्तो दीक्षाकरश्चापि समयी च विशिष्यते ।
समये युक्त संस्कारं सहसा साधकोत्तमः ॥ ७९ ॥

स एव योगयुक्तश्चेत् सहसा गुणमुत्तमः ।
स एव च शिरो भूत्वा सहसा च विशिष्यते ॥ ८० ॥

प्. ८४८)

पञ्चविंशत् सहस्रं तु शिवज्ञानं हि लोहितः ।
आचार्यः प्रथमः प्रोक्तः पञ्चाशन्तु सहस्रकी ॥ ८१ ॥

मध्यमाचार्य इत्युक्तो लक्षाध्यायी तदुत्तमः ।
आगमानां च सर्वेषां सारात्साराख्यतन्त्रकम् ॥ ८२ ॥

तस्मादध्ययनादस्य सर्वांगकविदां वरः ।
केवलं भक्तिमार्गे च दानं प्रोक्तमिहागमे ॥ ८३ ॥

समयादिदेशिकान्तं तु वैशिष्यादिकवत्फलम् ।
दानधर्मादि पूजासु वै वैशिष्यमिष्यते ॥ ८४ ॥

कृपया पाणिना दानं शिवभक्त समं भवेत् ।

इत्यचिन्त्य विश्वसादाख्ये पुण्य निर्णयविधिर्द्विपञ्चाशत्पटलः ॥


प्. ८४९)

अतः परं व्रतं वक्ष्ये दीक्षितानां हिताय वै ।
वैदिकं शैवमित्येवं व्रतं हि द्विविधं भवेत् ॥ १ ॥

त्रैवर्णिकानां कर्तव्यमुपनीतादि वैदिकम् ।
शिवदीक्षा प्रदानं तु शैवमत्यन्तमुत्तमम् ॥ २ ॥

वाग्देवी योनिजातत्वाच्छिव पुत्रत्वकारणात् ।
विप्रादि दशवर्णानां योगित्वमुपजायते ॥ ३ ॥

ब्रह्मचारी गृही चैव वानप्रस्थोऽथ भिक्षुकः ।
चतुराश्रममेवं स्याद् गोचराणां तु पञ्चकम् ॥ ४ ॥

द्विविधं ब्रह्मचर्यं हि नैष्ठिकं भौतिकं तथा ।
आजन्म ब्रह्मचर्यं तु यावदामरणान्तिकम् ॥ ५ ॥

प्. ८५०)

जटी मुण्डी शिखीवाथ कौपीनी तु समेखलः ।
यज्ञोपवीती दण्डी च भस्मोद्धूलित विग्रहः ॥ ६ ॥

त्रिपुण्ट्रांकित देही च रुद्राक्षैश्च विभूषितः ।
त्रिकालमेककालं वा स्नानयुक्तो जितेन्द्रियः ॥ ७ ॥

सत्यवादीप्यधश्शायी क्षमायुक्तो दृढव्रतः ।
गुरुशुश्रूषणायुक्तो गुर्वाज्ञा पालने रतः ॥ ८ ॥

भिक्षाशी देहरक्षार्थमेककालं गुरोर्गृहे ।
ताम्बूलमञ्जनं चैव हरिद्रां लवणं तथा ॥ ९ ॥

पादुकां मकुटं वापि गन्धमाल्यादिवर्णनम् ।
गुरोः स्थाने वसेन्नित्यमन्यगेहे न च स्वपेत् ॥ १० ॥

प्. ८५१)

स्वस्वातन्त्र्यादिकं हित्वा गुरुस्वातन्त्र्यसंयुतः ।
पुण्यक्षेत्रं च तीर्थं च दानं कर्मादिकं तथा ॥ ११ ॥

सर्वं च गुरुकारुण्यं दर्शनं च पुनः पुनः ।
गुर्वाज्ञया विहीनं तु तपोदानादि निष्फलम् ॥ १२ ॥

नैष्ठिकं ब्रह्मचर्यं तु गृहस्थानां विधिं शृणु ।
कालं संकल्प्य विधिना पूर्ववद्ब्रह्मचर्यकम् ॥ १३ ॥

अन्ते व्रतेश्वरं यागं कृत्वोद्वाहं ततश्चरेत् ।
गृहस्थाचरणं कुर्याद् द्विविधं ब्रह्मचर्यकम् ॥ १४ ॥

गृहस्थानां व्रतं वक्ष्ये शृणुत्वं नन्दिकेश्वर ।
विवाहं विधिना कृत्वा गृहिण्या सह वे युक् ॥ १५ ॥

प्. ८५२)

गुरुदेवाग्निपूजां तु नित्यं भक्ति समन्वितः ।
अतिथ्याभ्यागतानां तु यथाशक्तिं च पूजयेत् ॥ १६ ॥

गृहधर्ममशेषं च प्रासादं मठकल्पनम् ।
सन्तानवृद्धिस्सर्वं च रक्षसां च विशेषतः ॥ १७ ॥

अध्यायाध्यापनं चैव यजनं याजनं तथा ।
दानं प्रतिग्रहश्चैवं षट्कर्म ह्यागमोदितम् ॥ १८ ॥

सदाचार्याभिषेकेण युक्तश्चेद्याजनं भवेत् ।
गृहस्थस्य तु कर्तव्यं नैष्ठिकानां तु नैष्ठिकः ॥ १९ ॥

शिखी वा बद्धकेशो वा बाह्य यज्ञोपवीतवान् ।
आतुरेण युते वापि दीक्षितस्य विशेषतः ॥ २० ॥

प्. ८५३)

रुद्राक्षहेमरत्नादि स्फटिकैरजतादिभिः ।
अलंकृतांग यष्टिः स्याद्गन्धैर्माल्यादिभिस्तथा ॥ २१ ॥

स्त्वदाने संगतिर्नित्यं मृत्युकाले विशेषतः ।
आर्थवान् षोडशादीनं सन्तानार्थाय मैथुनम् ॥ २२ ॥

गृहस्थाश्रम एवं स्यात्कर्तव्यं नन्दिकेश्वर ।
वानप्रस्थाश्रमस्थानां आचारं शृणु सांप्रतम् ॥ २३ ॥

सभार्यो भार्याहीनो वा द्विविधं शिवभाषणे ।
वने संवासिनो नित्यं शाकमूलफलाशिनः ॥ २४ ॥

गृहस्थानां सपत्नीको अन्वा चैव तदेव हि ।
व्रतं भार्यावियुक्तानां ऽऽ सृणुत्वं नन्दिकेश्वर ॥ २५ ॥

प्. ८५४)

कुडुम्बं पुत्रपौत्रादीन् दारान्वै मातुलां स्तथा ।
भ्रातॄन्सखींश्च जनकं जननीं च तथैव च ॥ २६ ॥

वेदं वेदांगकाश्चापि यज्ञसूत्रं शिखां तथा ।
अग्निष्टोमादिकान्यज्ञान्त्रेतां चैव तथैव च ॥ २७ ॥

कामंक्रोधं च लोभं च मोहं मदविवादनम् ।
डम्भगन्धोक्तिकं चैवमीषणात्रयमेव च ॥ २८ ॥

सप्तपातालकप्राप्ति सप्तलोकाश्रयं तथा ।
अणिमाद्यष्टकं सर्वं वर्जयेन्नन्दिकेश्वर ॥ २९ ॥

शिवोहंभावसंयुक्तो बाह्याभ्यन्तरशौचयुक् ।
त्रिकालस्नानसंयुक्तोप्येककालेन वा युतः ॥ ३० ॥

प्. ८५५)

भस्मोद्धूलित सर्वांगो धौतकाषाय संयुतः ।
कौपीनदण्डसंयुक्तो लिंगार्चनपरायणः ॥ ३१ ॥

शिवयोगेन संतुष्टो शिवध्यानपरायणः ।
शिवानुभूति संयुक्तः सर्वक्लेश विवर्जितः ॥ ३२ ॥

प्रियाप्रियसमश्चैव समलोष्ठाश्मकाञ्चनः ।
सर्वात्ममैत्रभावश्च सदा सन्तुष्टि संयुतः ॥ ३३ ॥

स्त्रियं कुणपवत्पश्यंश्छिवभाव समन्वितः ।
अभेद्यो मत्तवान्नित्यं शिवभाव्यश्च भेदिकम् ॥ ३४ ॥

स शोको न्यस्य दुःखानि चाविश्वस्वस्य दुःखयुक् ।
चेष्टते तत्वदेवाय परदुःखेन दुःखितः ॥ ३५ ॥

प्. ८५६)

बालोन्मत्तपिशाचानामेवं गुणसमन्वितः ।
मूलमन्त्रं जपेन्नित्यं शिवध्यानपरायणः ॥ ३६ ॥

जपोपरति संयुक्तो ध्यानमेव समाचरेत् ।
ध्यानोपरति संयुक्तो पश्चान्मूलं जपेत्सदा ॥ ३७ ॥

औषधादन्नपानादीन् क्षुद्वाधा शान्तये चरेत् ।
भिक्षार्थं ग्राम संवेशं वृक्षमूले मठेऽपि वा ॥ ३८ ॥

अन्येन कल्पिते चैव वासं कुर्यान्मठादिषु ।
सन्ध्या वन्दकश्चापि यतीनां ज्ञान सन्ध्यया ॥ ३९ ॥

यतयस्त्रिविधा ज्ञेयास्तपस्वि विदुषस्तथा ।
विद्वानिति त्रिधा प्रोक्तास्तेषां भेदं शृणु क्रमात् ॥ ४० ॥

प्. ८५७)

तपोनिष्ठस्तपस्वीति तस्य युक्तिस्सु संवृतः ।
नाध्येतव्यं न सांकल्पं न श्रोतव्यं कथञ्चन ॥ ४१ ॥

शिष्याणां संग्रहं चैव नैव विद्या प्रकाशनम् ।
न वदेत्संस्कृतां भाषां न दण्डी चक्रमण्डलः ॥ ४२ ॥

लिंगं क्षणिकमभ्यर्च्य भक्तिमात्रेण संशयः ।
प्रियाप्रियं च संकल्प्य समलोष्ठाश्मकाञ्चनः ॥ ४३ ॥

एकाकी वृक्षमूले वा वने वा जनवर्जिते ।
जनाद्भीति समायुक्तो वसेद्बाहूपधानकः ॥ ४४ ॥

वसनं येन केनापि तथैवाशनपानकम् ।
पाणिपात्रे वरेत्पार्श्वे याचितं तेन जीवितम् ॥ ४५ ॥

प्. ८५८)

इत्यतस्तु तपस्वी स्यात् साधको यदि नाम वाक् ।
विदुषोर्यद्यतेश्चापि वर्तनं नन्दिकेश्वर ॥ ४६ ॥

अध्यापनं चाध्ययनं श्रवणं चिन्तनं तथा ।
एवं चतुष्टयं तस्य विदुषश्च विशेषतः ॥ ४७ ॥

विद्वद्यतेर्विशेषोऽस्ति व्याख्यानं चिन्तनं भवेत् ।
सदाचार्याभिषेकेण युक्तो विद्वत्समाख्यकः ॥ ४८ ॥

यतिना स्त्रिविधं त्वं हि शैवानां चतुराश्रमाः ।
चतुराश्रमिणां मध्ये वैशेषिक व्रतं शृणु ॥ ४९ ॥

शिवश्शिखा तथा ज्योतिः सावित्री व्योमगोचरा ।
तथा संख्येन संख्यास्युर्व्र?क्तिश्चापि शृणु क्रमात् ॥ ५० ॥

प्. ८५९)

गोचराणां तु पञ्चानां प्रजावन्द्यादिकं भवेत् ।
समये मो * * * * स्वाध्यायस्सत्यवादिता ॥ ५१ ॥

ब्रह्मचारी चरेदेवं प्राजापत्यव्रतं शुभम् ।
शान्तिकं पौष्टिकं चैव सुदुषानां सदा तथा ॥ ५२ ॥

अभिस्सर्वत्र संसारान् महीपालाख्य तं व्रतम् ।
निपति * न्कणान्भूमौ भक्षणार्थमुपेतवत् ॥ ५३ ॥

कपोत वृत्तिवित्तास्तुते वै कापोतिकाः स्मृताः ।
अभ्यासात्सततं ग्रन्थमाममादि महायशान् ॥ ५४ ॥

देवताभ्यस्य जन्त्यर्थांस्ते वै तद्ग्रन्थकावृता ।
नदीतीरेऽपि वेलायां कुटीं कृत्वा निवासनम् ॥ ५५ ॥

प्. ८६०)

ब्रह्मचारिव्रतं ह्येतत् कुटिकं प्रकीर्तितम् ।
एते पञ्च व्रताः प्रोक्ताः प्रेतवेताल * * * ॥ ५६ ॥

तीर्थे जरांके वापि वने वा भार्यया वृतः ।
तपोत्साहसमायुक्तो वेताल प्रतिमानयुक् ॥ ५७ ॥

गत्यर्थमर्कपत्राशी पत्राहुति समन्वितः ।
वानप्रस्थाश्रमी भूमौ * * * * * * * * ॥ ५८ ॥

  • * का च रक्षा ये च ज्ञानयोगादि संयुताः ।

स्वयमुत्पन्न * * श्च हंसकास्ते अमी मताः ॥ ५९ ॥

धृतराष्ट्रव्रतं पश्चाद् ब्रह्मचर्येण संयुतः ।
योगाचार * * * * करणेन्द्रिय निर्जितः ॥ ६० ॥

प्. ८६१)

देशाद्देशान्तरं कृत्वा धृतराष्ट्रव्रती भवेत् ।
शिवज्ञानगतः पश्चाद् गूढाचारश्च संवृतः ॥ ६१ ॥

शिवैकगति निष्पापन्तदेकव्रतगो भवेत् ।
गोपाला * * * पश्चाद् गोनिवासे निवासनः ॥ ६२ ॥

पञ्चगव्यं पिबेन्नित्यं जपध्यानपरायणः ।
वायव्यतीर्थं संयुक्तः पञ्चेन्द्रिय विनिर्मितः ॥ ६३ ॥

गोपालव्रतिगो भूयात् त्रीणि मात्रधनादपि ।
नित्यं चान्द्रायणे नैव सर्वपापं विनश्यति ॥ ६४ ॥

  • * * * वदं चैव ब्रह्मचर्य विवर्धनम् ।

कुटिकानां व्रतं ह्येतद् ज्ञानयोग प्रकाशनम् ॥ ६५ ॥

प्. ८६२)

धमविद्या च सहितो मठवासी जितेन्द्रियः ।
भिक्षान्नभोजनं नित्यं मठकाख्यव्रतं भवेत् ॥ ६६ ॥

  • * * * व्रतं पश्चाद् घुटिकानां तु भोजनात् ।

देहं च तेन संरक्ष्य घुटिकाख्यो व्रती भवेत् ॥ ६७ ॥

दण्डव्रतं च तद्ग्राह्यं दण्डासन समन्वितः ।
शिवध्यान समायुक्तो दण्डतण्डं च संग्रहम् ॥ ६८ ॥

ब्रह्माद्यतव्रतं पश्चाद् ब्रह्मचर्यं च * * * ।

  • * * * * * वासी नित्यं त्रिषवणिस्तथा ॥ ६९ ॥


कुटिचारव्रतं पश्चात् स्वदारास्थितमासनः ।
सद्योचित्तधनैर्युक्तः कुटिचाराद्विशेषतः ॥ ७० ॥

प्. ८६४)

कुन्दीचाराख्यकं ह्येतद् गृहस्थानामिदं भवेत् ।

  • * * * तथा श्राव्यं शुद्ध्यते याश्रये तथा ॥ ७१ ॥


तत्र देशे वने वापि जपध्यानपरायणः ।
हंसव्रतानि साव्युक्तास्तस्मात्परम हंसकम् ॥ ७२ ॥

ग्रामैकरात्र मात्रेण पृथ्वीं च सकलामतान् ।
यतीनां परहंसानां * * * * * हेतुकम् ॥ ७३ ॥

प्रोक्तं वैशेषिकं नन्दिन् दीक्षितस्तु समाचरेत् ।
यावज्जीवं व्रती भूत्वा कालसंकल्पसंयुतः ॥ ७४ ॥

समाप्ते कल्पिते काले यते सद्यव्रते वरम् ।
तद्व्रतेश्वरयागं तु शृणुत्वं नन्दिकेश्वर ॥ ७५ ॥

प्. ८६५)

यागस्थानमलंकृत्य पुष्पमालोपशोभितम् ।
गोमयालेपनं कृत्वा मण्डलं चतुरश्रकम् ॥ ७६ ॥

भूतपद्मं लिखेत्सम्यक् श्वेताब्जं मध्यगं भवेत् ।
ऐन्द्रांशं वै पद्मकं स्याद्दक्षिणं चाञ्जनात्मकम् ॥ ७७ ॥

श्वेतं च पश्चिमे भागे * * * * * * * * थोत्तरे ।
ईशानादि क्रमेणैव मध्य पद्मादिपञ्चके ॥ ७८ ॥

पञ्चब्रह्मस्वरूपेण पूजयेद्देशिकोत्तमः ।
तत्तन्मन्त्रं शतं जप्त्वा भक्तियुक्तो व्रतेश्वरम् ॥ ७९ ॥

विज्ञाप्य व्रतमीशाय व्रतपूर्णत्व हेतवे ।
पञ्चभिः कलशैश्चैव पञ्चब्रह्मादि साधितैः ॥ ८० ॥

प्. ८६६)

तैरेव स्नापयेच्छिष्यं व्रतमित्येव देशिकः ।
व्रतेश्वरं नमस्कृत्वाच्छ्रुत्यातं श्रावयेद्व्रतम् ॥ ८१ ॥

तदभावे जपेल्लिंगं तदभावे विशेषतः ।
मञ्जनं मृद्भवं चैव गोमयोद्भूतलिंगकम् ॥ ८२ ॥

पिष्टजं सैकतोद्भूतं नदीतीरादिकोद्भवम् ।
संपूज्य भक्तिसंयुक्तो व्रतस्तुत्यन्तकारणात् ॥ ८३ ॥

व्योमव्यापि शिवेनैव जलेनैवं विनिक्षिपेत् ।
कपनं पर्चयित्वा तु अन्यत्सर्वं समं भवेत् ॥ ८४ ॥

अथ वक्ष्ये विशेषेण वनानां व्रतमुत्तमम् ।
विशेषः कथ्यते यन्त्रि शृणुत्वं नन्दिकेश्वर ॥ ८५ ॥

प्. ८६७)

ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ।
चतुराश्रमवृत्तिस्तु पूर्वमेवोदितं क्रमात् ॥ ८६ ॥

सन्यासाश्रममत्यन्तं मुक्तिदं दीक्षितं भवेत् ।
तस्मात्तद्व्रतमुक्तिस्तु नास्ति कैवल्य कारणम् ॥ ८७ ॥

ब्रह्मचार्यादि युक्तश्चेद् गृहस्थाश्रममाश्रयेत् ।
वानप्रस्थाश्रमं वापि गृहस्थानां ततोऽधिकम् ॥ ८८ ॥

वानप्रस्थाश्रम स्थानां सन्यासी तु विशिष्यते ।
एतेषामपि विन्यासं योग्यं मुख्यं विधीयते ॥ ८९ ॥

ब्रह्मचर्यव्रतस्थानां मुक्तिरत्राभिधीयते ।
पूर्वोक्त पञ्चपद्मेषु सद्योजातादि पूजयेत् ॥ ९० ॥

प्. ८६८)

तत्र संयमकौपीनं दण्डभस्मजटाः पुनः ।
व्रतांगपञ्चकं ह्येतत् प्रत्येकं तु शतं हुनेत् ॥ ९१ ॥

पञ्चब्रह्मषडंगैश्च होमयेद्देशिकोत्तमः ।
उपोषितशिरोरंगामुपनीयांगकानि वै ॥ ९२ ॥

सद्योजातादिभिर्मन्त्रैश्चन्दनाद्याय दापयेत् ।
संमर्द्य विधिना चैव जलचाहेत्प्रवाहयेत् ॥ ९३ ॥

आहतं वस्त्रयुग्मं तु दद्याच्छिष्याय देशिकः ।
अन्यकामानुरूपं च कुलीनां परिणेष्यभिः ॥ ९४ ॥

एवमुक्त्वा कृतं शिष्यं गार्हस्थ्ये च नियोजयेत् ।
वानप्रस्थो गृहस्थो वा ब्रह्मचर्ययुतोऽपि वा ॥ ९५ ॥

प्. ८६९)

सन्यास व्रतसिध्यर्थं पूर्वाश्रम विमुक्तये ।
संश्रयेद्यति वृत्तं तु तं वक्ष्ये नन्दिकेश्वर ॥ ९६ ॥

पूर्वोक्त पञ्चपद्मेषु पूजां कृत्वा विधानतः ।
पादादि मूर्धपर्यन्तं दिव्यदृष्ट्या निरीक्षयेत् ॥ ९७ ॥

शिष्यं विमुक्ति सिध्यर्थं संहारन्यास पूर्वकम् ।
जटिनं शिखिनं चैव मुण्डिनं वा विधाय तम् ॥ ९८ ॥

उपवीतं त्यजेद्भूमौ जले सन्यस्तमन्त्रतः ।
मातरं पितरं पुत्रं कलत्रमुपवीतकम् ॥ ९९ ॥

शिवं विहाय सत्यं च सन्यस्तमिह तन्मया ।
एतन्मन्त्रं पठेत्पञ्चवारं सद्गुरुसन्निधौ ॥ १०० ॥

प्. ८७०)

सद्यमन्त्रेण कौपीनं काषायवसनं तथा ।
वैणवं दण्डमस्त्रेण भूतिकोशं शिवेन च ॥ १०१ ॥

भिक्षापात्रं च शिरसा कवचेनावगुण्ठनम् ।
एतैर्मन्त्रैश्च संसाध्य शिष्याय प्रददेद्गुरुः ॥ १०२ ॥

बाणलिंगं शिवज्ञानपुस्तकं च प्रदापयेत् ।
यावत्कालाच्छिव ज्ञानं द्रढीभवति तत्र वै ॥ १०३ ॥

यावत्कालं च कर्तव्यं श्रवणादि विशेषतः ।
एवं वदेत्तु तं शिष्यं देशिकः कृपया युतः ॥ १०४ ॥

शैवानां कृतमुक्तिस्तु संक्षेपात्कथितः क्रमात् ।
बोध्याथ वान्यलिंगस्थास्तत्तत्समयकल्पितान् ॥ १०५ ॥

प्. ८७१)

व्रतमुक्तिविशेषांश्च शैवप्राप्तिं शृणु क्रमात् ।
शोध्योदयश्च नीबद्धिस्तत्वैकगुरुमौलिषु ॥ १०६ ॥

वेदान्ते चात्मतत्वे च आनन्दं भगवन्मुखात् ।
मायातत्वे पाशुपते विद्यातत्वे महाव्रताः ॥ १०७ ॥

सौगताद्यन्यतीर्थानां बौद्धानां मुक्तिकाविधिः ।
पञ्चरात्रं त्रिरात्रं वा सोपवासपरायणाः ॥ १०८ ॥

प्रायश्चित्तविधि तं मण्डपाद्बहिरेव च ।
शिवं संपूज्य विधिना भक्ति युक्तस्सदा गुरुः ॥ १०९ ॥

अमीषां व्रतचिह्नं तु देशिकोत्प्यनयत्पुनः ।
बुद्धितत्वादि वृक्ष्यन्तं होमयेत्तत्पृथक् पृथक् ॥ ११० ॥

प्. ८७२)

स्वस्वनाम्ना च मन्त्रेण हुत्वा सन्मार्गनायकः ।
बाह्यस्थितानामेतेषां नाडीयोजन संयुता ॥ १११ ॥

विधाय विधिनासम्यग्विशेषं कर्षणं तथा ।
स्वात्मन्येव स्थितं कृत्वा मूलेन स्वाहया हुनेत् ॥ ११२ ॥

तत्तत्पुण्यफलत्वं हि हेतवेऽग्नौ च होमयेत् ।
अस्त्रेणाष्ट सहस्राणि लिंगिनं लिंगिनं प्रति ॥ ११३ ॥

मूलेन प्रतितत्वानां विमुक्त्यै पञ्चपञ्चकम् ।
उद्धृत्य बुद्धितत्वानि वृत्तान्तं तं नियोजयेत् ॥ ११४ ॥

योगस्थित्यैश्च पूर्वान्तं शिवाग्नौ योजयेत्पुनः ।
अष्टोत्तरशतं हुत्वा मूलमन्त्रेण देशिकः ॥ ११५ ॥

प्. ८७३)

वृत्तांगानि जलं क्षिप्त्वा तथा पाशुपतेन च ।
अथवा रागकार्योस्तु घृतमेकं क्रमं शृणु ॥ ११६ ॥

पूर्ववद्बाह्य यजनं कृत्वा सन्मार्गनायकः ।
दलाष्टकसमोपेतं पद्मं संलिख्य देशिकः ॥ ११७ ॥

क्षोंकारं कर्णिकामध्ये शिवमन्त्रैश्च दिग्दलैः ।
कवर्गं पूर्वोत्तरे चैव च वर्गं वायुदिग्दले ॥ ११८ ॥

तवर्गं पश्चिमे चैव नैर्-ऋते तु टवर्गकम् ।
चवर्गं दक्षिणेनैव कवर्गं वह्निदिग्दले ॥ ११९ ॥

अवर्गं पूर्वदिग्भागे योजयेद्देशिकोत्तमः ।
पञ्चब्रह्मषडंगैश्च स्वरैः षोडशकैरपि ॥ १२० ॥

प्. ८७४)

क्षोंकारं च शिवं पूज्य तत्तद्वह्नौ तु होमयेत् ।
वर्णवर्गाष्टकानां तु तर्पणाय यजेत्पुनः ॥ १२१ ॥

अग्नये चाञ्जलिं कृत्वा शिष्य चैतन्य योजनम् ।
सन्मार्गनायकः कुर्यात् पूर्ववन्नन्दिकेश्वर ॥ १२२ ॥

पूर्णाहुतिं ततः कृत्वा षडंगेन शतं हुनेत् ।
अग्नेराकृष्य * * * * * * * क्रमाद्गुरुः ॥ १२३ ॥

जलप्रवाहे निक्षिप्य जलांगानि च सर्वशः ।
पश्चादस्त्रयुतं दत्वा दीक्षाकर्म समाचरेत् ॥ १२४ ॥

यतीनामाश्रमे चैनं भाव्यास्थो वा नियोजयेत् ।
तत्तदीक्षानुसारेण दीक्षयेत्तं विशेषतः ॥ १२५ ॥

स्थण्डिले साग्रमन्त्रादीन्विसृज्यास्त्रेण शोधयेत् ।

इत्यचिन्त्यविश्वसादाख्ये वृत्तिसिध्यादिविधिः षट्पञ्चाशत्पटलः ॥



प्. ८७५)

अतः परं प्रवक्ष्यामि वास्तुहोमविधिं परम् ।
स्थण्डिलं विधिना कृत्वा चतुष्षष्टि पदान्वितम् ॥ १ ॥

पूर्वादिककाल मध्ये जलभाण्डं तु विन्यसेत् ।
मध्ये चतुष्पदेनापि ब्रह्माणं तु समर्चयेत् ॥ २ ॥

अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् ।
समिदाज्येन चरुणा वास्तुदेवान्स्वमन्त्रकैः ॥ ३ ॥

होमयेत्तु पृथङ्मन्त्री चत्वारिंशन्नवाथकम् ।
शंकरश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः ॥ ४ ॥

मार्ताण्डस्सत्यको भ्रंशोप्यन्तरिक्षस्तथैव च ।
वह्निः पूषा च वितथो ग्रहक्षतयमौ तथा ॥ ५ ॥

प्. ८७६)

गन्धर्वो भृंगराजस्तु ऋतगो निर्-ऋतिस्तथा ।
दौवारिकश्च सावः पुष्पदन्तस्तथैव च ॥ ६ ॥

अरुणश्चासुरश्चैव रुद्रो रुद्रजयस्तथा ।
मरीचिस्सविता त्वै मित्रश्चैव धराधरः ॥ ७ ॥

च करी च विदारी च पूतना पापराक्षसी ।
स्कन्दश्चैवार्यमा चैव जंभगः फलपिंछकः ॥ ८ ॥

मध्ये पूर्वं तु देवानां वास्तुहोमं स्वनामभिः ।
पर्यग्निकरणं कृत्वा षट्सदर्भैः समाहितः ॥ ९ ॥

प्रोक्षयेत्सर्वतीर्थेषु सर्वदोषप्रशान्तये ।
वास्तुहोमं च कर्तव्यं प्रतिष्ठादौ विशेषतः ॥ १० ॥

इत्य चिन्त्यविश्वसादाख्ये वास्तुहोमविधि पटलः ॥



प्. ८७७)

अथ वक्ष्ये विशेषेण प्रतिष्ठालक्षणं परम् ।
शिवमन्त्रैर्यथा योगं पीठशक्तिं शिवं तथा ॥ १ ॥

पिंगं शिव इति ख्यातस्तद्योगं भोगमोक्षदम् ।
तद्योगं च प्रतिष्ठाद्याः पञ्चभेदा मयोदिताः ॥ २ ॥

वैर्णारिश्चाग्निसंयोगः प्रतिष्ठेत्यादितोदिताः ।
विष्ठरे च यथायोगं निर्नेशास्थापनं भवेत् ॥ ३ ॥

लिंगद्विभेद भेदस्य स्थितिस्थापनमेव हि ।
उत्तापनास्यलिंगस्य प्रोद्धारगमनोद्यताः ॥ ४ ॥

लिंगमारोप्य यस्यां वै संस्कारः क्रियते यदा ।
आस्थापनाख्य चैवं तु पञ्चधा तु शिवं श्रिता ॥ ५ ॥

प्. ८७८)

विष्ण्वादीनां प्रतिष्ठानां आस्थायोत्थाप्यभेदतः ।
पञ्चधा तत्र विहिता यथा योगं क्रमाद्भवेत् ॥ ६ ॥

प्रासादादीनि कर्माणि भूपरीक्षा भवेत्तदा ।
शुक्ला रक्ता च पीता च कृष्णाप्येवं चतुर्विधा ॥ ७ ॥

आज्यगन्धा * * * * * * रक्तसुगन्धिनी ।
सुधागन्धा यथा संख्या ब्राह्मणाद्या वसुन्धरा ॥ ८ ॥

ईशपूर्णतरं किंचित् स्तवयुक्तं प्रशस्यते ।
उक्तवर्णमृदोऽलाभे वर्णावाधारमुच्यते ॥ ९ ॥

हस्तमात्रे तु कले तु मृदमादाय तां पुनः ।
अपदन्त मृदा चैव पूरयेदधिका भवेत् ॥ १० ॥

प्. ८७९)

अघोरास्त्रेण मन्त्रेण सहस्रं विधिना तदा ।
भूमिं भुवि स्थलीं कृत्वा शोधयेत्कुंकुमैस्तथा ॥ ११ ॥

रेवाहोमाक्षताद्यैश्च कुर्यात्सर्वं क्रमात्तदा ।
पूर्वकुम्भे तथैशानं * * मध्ये शिवं यजेत् ॥ १२ ॥

अभ्यर्च्य वास्तुतोयेन कुण्डलादींश्च योजयेत् ।
रक्षो ग्रहाद्बहिः पूज्या * * * विधिना क्षिपेत् ॥ १३ ॥

संहृत्य पूज्यं कुम्भे तु सुलग्ने वह्निकोष्ठके ।
क्षौद्रसिक्तेनखर्दाल मुखेन * * * नयेत् ॥ १४ ॥

मृत्क्षेपं राक्षसे भागे वा वटे कुम्भतोयकम् ।
सुस्नाप्य तां भुवः पश्चात्कुद्दालाद्यं प्रपूजयेत् ॥ १५ ॥

प्. ८८०)

वस्त्रयुग्मेन संवेष्ट्य द्विजसन्ध्येन्य कुम्भकम् ।
विधाय पञ्चघोषानि स्वस्तिवाचनकैरपि ॥ १६ ॥

विप्राशीर्भिर्विशेषेण पूर्वसीमान्तराश्चसि ।
पुरस्यथाक्त तत्रैव क्षणं स्थित्वा प्रसन्नधीः ॥ १७ ॥

परिभ्रमेत्तु परितः सीमान्तांकं विधाय च ।
ईशानं तन्तुकु * * * द्रुकुम्भ परिभ्रमात् ॥ १८ ॥

अर्घ्यदानादिदं प्रोक्तं वामेक्तं नन्दिकेश्वर ।
एवं कृते तु भूमेऽस्तु परिग्रहमुदीरितम् ॥ १९ ॥

कर्मरान्तजरान्तन्तु शल्यशेषनिवृत्तये ।
खनित्वाऽप्यथ राज्ञात्वा श * * न्विधिनोद्धरेत् ॥ २० ॥

प्. ८८१)

महीचक्राख्यचक्रेण शल्यं ज्ञात्वा विशेषतः ।
गुरूबलिवयत्रस्थस्तत्र वै होमशल्यकम् ॥ २१ ॥

शुक्रे गुरौप्यसीवक्त्रे कृतां सीसादि चन्द्रकैः ।
मन्दश्चेदायसं शल्यं * * * * * वेत्तदा ॥ २२ ॥

कंसादि शल्यमार्के तु ज्ञात्वा शल्यं समुद्धरेत् ।
तत्काल प्रश्रजानां तु अक्षराणि भवन्ति हि ॥ २३ ॥

अकारश्च इकारश्च उकारस्तदनन्तरम् ।
एकारश्च तथोकारं पञ्चाकारमिदं भवेत् ॥ २४ ॥

एतेषु गुणयोगेन ग्रहपंचकमेव हि ।
पृथ्वीजलं वह्निर्मरुत् व्योम चैव यथाक्रमम् ॥ २५ ॥

प्. ८८२)

अकारादिषु वर्णेषु संयोज्यनन्दिकेश्वर ।
सूरे च गुरुकाव्ये च भूसुते बुध एव च ॥ २६ ॥

शशीशनिरिति ह्येवमक्षराणां क्रमं भवेत् ।
एवं विनीत्वा तैरेवं शल्यादिकमुदाहरेत् ॥ २७ ॥

ध्वजश्च धूमसिंहौ च वृषारासर एव च ।
द्विपञ्च वायसीश्चापि पूर्वादिषु यथा क्रमम् ॥ २८ ॥

शल्यप्रमाणकं सर्वं कर्तुरंगविचेष्टया ।
तत्पार्श्वस्थानशल्यानां ज्ञानन्तच्छल्यचक्रतः ॥ २९ ॥

ग्रहाणां फलमालोक्य वदेच्छल्यमशेषकम् ।
शल्यमुक्तं तु स्थानेपि शीघ्रमन्दत्वकारणात् ॥ ३० ॥

प्. ८८३)

प्रोक्ष्याशीर्भिः करापूपैः अष्टांगुलमृतं ददौ ।
आपूर्य पादोनखातत्वं जरैर्मुद्गारकाहतैः ॥ ३१ ॥

तां भुवास्व * * * त्य सुप्लवां कारयेत्तदा ।
वक्ष्यमाणं मण्डपंच यावत्सामान्यकाख्यकः ॥ ३२ ॥

संपूज्य तोरणेशा च प्रत्यग्द्वारेण संविशेत् ।
शिलाशुद्ध्यादिकं कुर्यात्कुण्डमण्डलशुद्धिदम् ॥ ३३ ॥

कुम्भं च वर्धनीयुक्तं लोकपालशिवार्चनम् ।
गर्भाधानादिकं सर्वं वह्नेश्चापि तु पूर्ववत् ॥ ३४ ॥

कर्ता तु पूजितो यायाच्छिला स्नानाय मण्डपम् ।
शिलाप्रासादलिंगस्य पादार्धादि संज्ञकाः ॥ ३५ ॥

प्. ८८४)

उच्छ्रिताष्टांगुलाः शस्ताः चतुरश्रकरायताः ।
पाषाणानां शिलां कुर्यात्तदर्धश्चेष्टकाथ वा ॥ ३६ ॥

प्रासादस्य शिलाशैलैरिष्टकामजपूरितैः ।
अंगिनासनवज्राद्यैः पञ्च वा पञ्चकांकितैः ॥ ३७ ॥

नन्दा भद्रा जयारिक्ता पूर्णा वै पञ्चमी शिला ।
आसांवतो महापद्मः शंखो मकरकस्तथा ॥ ३८ ॥

समुद्रश्चेति पञ्चमी निधिकुम्भाः क्रमाद्भवेत् ।
नन्दा भद्रा जया पूर्णा अजिता चापराजिता ॥ ३९ ॥

विजयामंगलाख्या च धरिणी नामवी शिला ।
सुभद्रश्च विभद्रश्च सुन्दरं पुष्पनन्दनः ॥ ४० ॥

प्. ८८५)

जयोऽथ विजयश्चैव कुम्भकर्णस्तथोत्तरः ।
निधिक्रमा अमी प्रोक्ता नवानां तु यथाक्रमम् ॥ ४१ ॥

प्रवणं चासनं दत्वा त्वस्त्रेणाविश्य ताडयेत् ।
कवचे नाद्य सर्वासां अवकुण्ठनमुच्यते ॥ ४२ ॥

मृद्गोमय गोमूत्रैः क्षालयेद्गन्धवारिणा ।
हुंफडन्तेन चास्त्रेण मलस्नानं विधीयते ॥ ४३ ॥

पंचगव्येन पंचामृतेन विधिना स्नानमाचरेत् ।
पश्चात्तु गन्धतोयेन स्वनामांकित गन्धतः ॥ ४४ ॥

फलरत्नसुवर्णानां शृंगं च सलिलैः पुनः ।
लेपयेच्चन्दनेनैव अस्त्रेणच्छादयेच्छिलाः ॥ ४५ ॥

प्. ८८६)

विमुक्तमासनं तत्र भवेद्यागप्रदक्षिणम् ।
हृदयेन तु शययायां कुशतल्पे निवेशयेत् ॥ ४६ ॥

तत्वान्विन्यस्य संपूज्य पृथिव्यां तत्वसंचयम् ।
त्रिखण्डव्यापकं तत्र पद्मविद्याशिवान्तकम् ॥ ४७ ॥

क्रमाद्विन्यस्य विधिना न्यासोऽयन्नन्दिकेश्वर ।
बुद्ध्यादि चित्तपर्यन्तं चित्तं तन्मन्त्रकां विधौ ॥ ४८ ॥

तन्मात्राद्या धरान्तं च शिवविद्यात्मना स्थितिः ।
स्वमन्त्रेण च तत्वानि तत्वेशांश्च हृदार्चयेत् ॥ ४९ ॥

पुष्पमालादि युक्तेषु स्थानेषु च यथा क्रमम् ।
तन्मात्राणि यथा संख्यं शृणुत्वं नन्दिकेश्वर ॥ ५० ॥

प्. ८८७)

ओं हं शिवतत्वाय च नमोऽन्तं मन्त्रकं भवेत् ।
ओं हां शिवतत्वाधिपतये रुद्राय नम इत्यपि ॥ ५१ ॥

ओं ह्रीं विद्या तत्वाय नमोन्तं तदनन्तरम् ।
ओं ह्रीं विद्या तत्वाधिपतये विष्णवे नम इत्यपि ॥ ५२ ॥

ओं हां आत्मतत्वाय नमोन्तमुच्चरेत् ।
ओं हां आत्मतत्वाधिपतये ब्रह्मणे नम इत्यपि ॥ ५३ ॥

एवं क्रमाच्च विन्यासं कुर्यात्तत्र च वै गुरुः ।
पृथ्व्यग्नि यजमानार्क जलवायविन्दुखानि वै ॥ ५४ ॥

तत्र प्रविन्यसेदष्टौ मूर्तिः प्रतिशिलां शिलाम् ।
शर्वं पशुपतिं चोग्रं रुद्रं भवं महेश्वरम् ॥ ५५ ॥

प्. ८८८)

महादेवं च भीमं च मूर्तीशांश्च तथैव च ।
ओं हां रथाधिपतये शर्वाय नमः * * * ॥ ५६ ॥

इत्येवं स्वस्वना वाचाधिपतयेन समन्वितः ।
लोकपाला * * * न्त स्वस्वमन्त्रैर्यथाक्रमम् ॥ ५७ ॥

विन्यस्य पूजयेत्कुम्भांस्तन्मन्त्रैश्च निजार्णकैः ।
इन्द्रादिलोकपालानां बीजान्यपि यथा क्रमम् ॥ ५८ ॥

धृं रूं श्रूं स्रूं क्षूमिति नमः * * * * * * * ।
नमश्शिवप्रतिष्ठासु चोत्तरं तत्क्रमेत्पुनः ॥ ५९ ॥

पञ्चानां तु विशेषेण प्रतितत्वं च विन्यसेत् ।
तन्मूर्ति सूक्ष्माः पञ्चैव धराद्यांश्चापि पूजयेत् ॥ ६० ॥

प्. ८८९)

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते वै पञ्चमूर्त्यंशान्यस्तव्यास्तासु पूर्ववत् ॥ ६१ ॥

ओं पृथ्वीमूत्यधिपतये नमः ।
एवं मन्त्रं समुच्चार्य संपूज्य कलशानपि ॥ ६२ ॥

स्वनामभिश्च पञ्चैव पूजयेत् स्वस्वनामभिः ।
विधानेन निरुन्धीत न्यासो मध्यशिलाः क्रमात् ॥ ६३ ॥

प्रकारं हेतिना कुर्यात् भूतिदर्भैस्तिलैस्ततः ।
आधारशक्ति कुंभे च संपूज्यन्तर्पयेत्पुनः ॥ ६४ ॥

तत्वतत्वाधिपान्मूर्तिमूर्तीशांश्च घृतादिभिः ।
अजांशशुद्धे मूलांग प्र * * * क्रमाद्धुनेत् ॥ ६५ ॥

प्. ८९०)

इन्द्रादि पूर्णाहुत्यन्तं शिष्यं शान्तिजलैः शिलाः ।
कुशैश्च पूजयेत् पश्चात् प्रतितत्वं क्रमाद्गुरुः ॥ ६६ ॥

कृत्वा सान्निध्यसन्धानं शुद्धिं कृत्वा पुनर्न्यसेत् ।
एवं भागत्रये कर्म गत्वा गत्वा समाचरेत् ॥ ६७ ॥

ब्रह्मांशादित्रयं चापि कुशमूलादिभिः स्पृशेत् ।
तत्वादीनां तु संन्यासं ह्रस्वदीर्घप्रयोगतः ॥ ६८ ॥

ओं आत्मतत्व विद्यातत्वाभ्यां नमः ।
ओं क्षॄं सं ऊं शिवतत्व विद्यातत्वाभ्यां नमः ॥ ६९ ॥

आज्येन मधुना पूर्णान् ताम्रान्कुंभान्प्रपूरयेत् ।
पञ्चगव्यादिभिस्सिक्तान् लोकपालाधिदैवतान् ॥ ७० ॥

प्. ८९१)

स्वस्वमन्त्रैश्च संपूज्य सन्निधौ होममाचरेत् ।
शिलानामपि सर्वासां संस्मरेदधिदेवताः ॥ ७१ ॥

विद्यारूपकृतस्नाता स्वर्णवर्णाश्रमाननाम् ।
सर्वाभरणसंयुक्ताः शिलानामधिदेवताः ॥ ७२ ॥

न्यूनाति षोडशान्त्यर्थं वास्तुभूमेऽस्तु शुद्धये ।
हेतिना पूर्णहोमान्तमाहुतीनां शतं शतम् ॥ ७३ ॥

पश्चात् प्रसादन्तास्तुभ्यं वर्तयेद्वास्तुमण्डलम् ।
चतुष्षष्टिपदे क्षेत्रे पदार्थैस्तु समे कृते ॥ ७४ ॥

कोष्ठेषु विन्यसेद्वंशादुष्टुरज्जोऽपि गोणकाः ।
द्विपदाष्षष्टि पादास्तौ तत्तद्यार्ह्यर्चयेत्तदा ॥ ७५ ॥

प्. ८९२)

अंकुचितं कचं वास्तु मुक्तानां मण्डलाकृतिः ।
स्मरेद्गुहादि पूजासुनिश्शेषध्व नाशनम् ॥ ७६ ॥

जानुकोर्परतासक्ते * * ति शिवाकृतिवह्निके ।
ऐशाने च शिरोदेशे राक्षसे पदयोर्युतम् ॥ ७७ ॥

हृदये चाञ्चलिं कृत्वा सत्वाख्योऽपि महासुर ।
शुक्रं क्रोधात्सुसंपन्नं स्वयं सिंह्मन्तुमक्षमः ॥ ७८ ॥

तेनासुरेण लोकायां उपनीतमनेकशः ।
तस्मादस्त्रं स्थिता देवाः पूजिताश्च शुभा अमी ॥ ७९ ॥

अष्टकोणाधिपा * * कोणाष्टे षष्टसुस्थितः ।
याम्याद्यादिस्तु मध्योत्या दिक्षु चैन्द्रादिषु क्रमात् ॥ ८० ॥

प्. ८९३)

मध्ये चतुष्पदे ब्रह्मामध्ये तु पदिकाः स्मृताः ।
समस्तनाडि संपातो महाधर्माम्बुजं हलम् ॥ ८१ ॥

त्रिशूलं स्वस्तिको वज्रं महास्वस्तिकसंपुटौ ।
त्रिकटोकर्मनिर्बन्धं स्तुविशुद्धपदं तथा ॥ ८२ ॥

इति द्वादशमर्माणि वास्तोरित्यादिना न्यसेत् ।
ईशाय तण्डुलं सर्पिः पर्जन्याय च वारियुक् ॥ ८३ ॥

पताकमंकुशं चैव जयन्ताददते * * ।

  • * * ज महेन्द्रायरवौ धूम्रं विनायकैः ॥ ८४ ॥


सत्याय घृत गोधूमं माषं भक्तं मृगाय च ।
अन्तरिक्षाय मांसान्नं कूर्चेष्वष्टसु पूर्वतः ॥ ८५ ॥

प्. ८९४)

क्षीराज्यं मधुसंपूर्णं स्रुवञ्च शशिनो भवेत् ।
पूर्णे जालं हेम * नि वितथाय निवेदयेत् ॥ ८६ ॥

क्षेत्रं गृहक्षते दद्यादमरेज्यो फलोदनम् ।
गन्धं गन्धर्वराजाय जिह्वां भ्रंशाय पक्षिणा ॥ ८७ ॥

  • * मृगाया च वाणार्याम्यमित्यस्य देवताः ।

पित्र्यं नीलोदनं क्षीरं वृक्षजं दन्तधावनम् ॥ ८८ ॥

  • * * काय मुद्गान्नं सुग्रीवायाप्यधूमकम् ।

दर्भाश्च पुष्पदन्ताय रुधिरं च प्रचेतसे ॥ ८९ ॥

असुरायाब्जसंमिश्रां सुरां चापि निवेदयेत् ।
योषेरप्याज्यमन्नं स्याद्यागाय घृतमण्डकाः ॥ ९० ॥

प्. ८९५)

लाजा * श्विममाजायां देवाष्टकमितीरितम् ।
पीतध्वजममूतोव रागाय नागकेसरम् ॥ ९१ ॥

मुख्ये भक्ष्याणि भल्लाटे मुद्गसूपं सुसंस्कृतम् ।
सोमाय पायसं साज्यं शाल्यंगं मुद्गवे दिशेत् ॥ ९२ ॥

सपीमदितलेदित्यै पुरीमृत्य * * ष्टकम् ।
ब्रह्माणं च पुरोभागे मोदकाक्षिपयेत्फलम् ॥ ९३ ॥

मरीचये विशेषेण षट्पदस्थाय तत्र वै ।
वह्न्यन्धकोणकोष्ठेपि सवित्रे रत्नपुष्पकम् ॥ ९४ ॥

तदधः कोणकोष्ठेऽपि सवित्र * * * ष्पकम् ।
तदधः कोणकोष्ठेऽपि सावित्राश्च कुशोदकम् ॥ ९५ ॥

प्. ८९६)

षट्पदस्थिति युक्ताय विश्वते रक्तचन्दनम् ।
रक्षोधः कोणकोष्ठेपि चैन्द्रायान्नं हरिद्रया ॥ ९६ ॥

इन्द्रजयाय मिश्रान्नं इन्द्राधस्तात्तु दापयेत् ।
वारुणा * पदाहीनमित्रेश गुलमोदनम् ॥ ९७ ॥

रुद्राश्च घृतसिद्धान्नं वायुकोणे धरापदम् ।
तदधो रुद्रदासाय मांसमार्द्रमथोत्तरे ॥ ९८ ॥

धरायने षट्पदस्थे माषनैवेद्यकं ददेत् ।
आपाय शिव कर्णाय तद्वंशायै * * त्तले ॥ ९९ ॥

क्रमाद्दद्यादाधिकारीं पूजयित्वा विधानतः ।
चतुष्पादविनष्टाय ब्रह्मणे मध्यदेशिकः ॥ १०० ॥

प्. ८९७)

एवं गव्याक्षतोपेतं चरुं साज्यं निवेदयेत् ।
ईशादि वायुपर्यन्तं कोणेश्वपि यथाक्रमम् ॥ १०१ ॥

वास्तु बाह्ये च रक्षाद्याश्चतसॄः पूजयेद्यथा ।
घृतं मांसं च रक्तैस्तु दधि पद्मं विधानके ॥ १०२ ॥

पतनाये फलं पद्मं रत्नं च विनिवेदयेत् ।
अस्थिनीपापराक्षस्योः रक्त रक्तफलानि च ॥ १०३ ॥

ततो माषोदनं प्राच्या स्कन्दाय विधिवद्ददेत् ।
अर्यम्णो दक्षिणेशाय अपूपान्कृसरैर्युतान् ॥ १०४ ॥

वामृणामामिषं रक्तं अन्तकाय च दापयेत् ।
प्रतीच्यां बलिपिंछाय रक्तान्नं कुसुमानि च ॥ १०५ ॥

प्. ८९८)

पूजयेंगदितान्यत्र कुशमध्यक्षितैस्तिलैः ।
कुड्यादिष्वपि वर्तेत वास्त्वेकाशीतिकोष्ठके ॥ १०६ ॥

त्रिपद्या रज्जुपं कुर्याषट्पदाश्वपुरोक्तवान् ।
ईशान्या पादिकातस्मिन्नापाद्याश्चर्चकोष्ठकाः ॥ १०७ ॥

मरीचाद्याः षट्पदस्थाः ब्रह्मा नवपदे भवेत् ।
ईशानादिषु रक्ताद्याः पूर्ववत्पूजयेद्बहिः ॥ १०८ ॥

प्रत्येकं देवतानां वै आहुतित्रितयं भवेत् ।
भूतक्रूरबलिं दत्वा सुलग्ने द्यासमारभेत् ॥ १०९ ॥

न्यसेच्छक्तिं मध्यशुभे कुम्भस्नानन्तरन्त्रिकम् ।
पृथ्वीबीजेन मूलेन ह्रीं मे च धरणी शिलाम् ॥ ११० ॥

प्. ८९९)

अष्टकुम्भान्समुद्रादिदिक्षु चैन्द्रादिषु क्रमात् ।
लोकपालाणुभिर्न्यस्य स्वभेषु न्यस्तशक्तिषु ॥ १११ ॥

नादद्याश्च शिलाश्चापि क्रमात्तेषु निवेशयेत् ।
शम्बरैर्मुक्तिनाथानां यथा दिक्षु च मध्यतः ॥ ११२ ॥

अष्टौ धर्माधिकाश्चापि कोणकोणविभागशः ।
पूर्वासु चाजितद्वाश्च कर्यादिष्वथवा न्यसेत् ॥ ११३ ॥

ब्रह्माणं चोपरिन्यस्य व्यापकं च महेश्वर ।
अध्वानं चिन्तयेत्पश्चाद्योग प्रासादमव्ययम् ॥ ११४ ॥

बलिं दत्वा च वेदास्त्रं विघ्नदोषस्य शान्तये ।
शिलापञ्चक पक्षेऽपि मौनमुद्दिश्यते यथा ॥ ११५ ॥

प्. ९००)

न्यस्य मध्ये पूर्वशिलां समुद्रकुशलोद्धृतः ।
पद्मादिषु च नन्दाद्याः कोणेष्वग्न्यादिषु क्रमात् ॥ ११६ ॥

मध्यहीना चतस्रोऽपि मात्रसद्भावसंमिताः ।
ऊर्णां तत्वं महाविद्ये सर्वसन्दोहलक्षणम् ॥ ११७ ॥

सर्वं संपूर्णमेवात्र कुरुष्वांगिरस्सुते ।
ओं नन्दिनन्दिनि पुंसित्वान्मन्त्राश्च स्थापयाम्यहम् ॥ ११८ ॥

प्रासादे तिष्ठ सुहृदा यावच्चन्द्रार्कतारकम् ।
आयुष्कामंश्रियं दद्याद् देहवासिषु देहिनाम् ॥ ११९ ॥

अस्मिन् रक्षा सदा कार्या प्रासादे यत्ततस्सदा ।
ओं भद्रे * * * * * लोकानां कुरुकाश्यपि ॥ १२० ॥

प्. ९०१)

आयुर्दा कामदा देवी सुप्रसादा सदा भवेत् ।
ओं बीजेऽत्र सदा देवि तिष्ठत्वं स्थापिता मया ॥ १२१ ॥

नित्यं जयाय भूत्यै च स्वामिनो भव भागवित् ।
ओं रिक्ते रिक्ता दोषघ्ने सिद्धिमुक्तिप्रदे शिवे ॥ १२२ ॥

सर्वदा सर्वदेशस्थे तिष्ठास्मिन्नीशरूपिणी ।
व्योम चायतनं ध्यात्वा तत्र तत्वत्रयं न्यसेत् ॥ १२३ ॥

प्रायश्चित्तं ततो भूत्वा विधिना चोत्सृजेन्मखम् ।
शिलान्यास्य विधिस्त्वेवं प्रोक्तस्वत्रं समासतः ॥ १२४ ॥

क्रमेणैवोक्तमार्गेण विदध्यान्नन्दिकेश्वर ।
अथ वक्ष्ये विशेषेण लिंगस्थापनकर्मणि ॥ १२५ ॥

प्. ९०२)

मण्डपाद्यं तु सर्वं च प्रतिष्ठोपकरणं तथा ।
तत्सदा क्रियते मुक्त्यै मुक्त्यै देव दिने भवेत् ॥ १२६ ॥

चैत्र वर्जं च मासादौ प्रतिष्ठामासपञ्चके ।
करणादि क्रिये चैव जीवशुक्रोदये तथा ॥ १२७ ॥

सितपक्षे विशेषेण कृष्णाद्यं पञ्चकं शुभम् ।
रिक्तां च नवमीं षष्ठीं वर्जयित्वा चतुर्दशीम् ॥ १२८ ॥

तिथयश्शोभनाश्शेषाः पापवारविवर्जिताः ।
आर्द्राशतभिषक् चैव धनिष्ठा चोत्तरत्रयम् ॥ १२९ ॥

अनूराधा रोहिणी च पुष्या हस्तोत्तराषाढमेव च ।
पूर्वाषाढाश्च भान्याहुर्द्विजस्य च विशेषतः ॥ १३० ॥

प्. ९०३)

चित्रा पुनर्वसुश्चापि धनिष्ठा श्रवणान्विता ।
क्षत्रियस्य प्रतिष्ठायां विहितानि च तानि वै ॥ १३१ ॥

शूद्रस्यापि विशेषेण ज्येष्ठा स्वाती च फल्गुनी ।
मखा चापि विशेषेण विहितस्तारकाक्रमः ॥ १३२ ॥

त्यक्त्वा प्रासादतः पञ्चगुणभूमिं च संमिताम् ।
हस्तं द्वादश सोपानात् कुर्यान्मण्डलमग्रतः ॥ १३३ ॥

वेदशास्त्रं चतुर्द्वारं स्थानार्धं तु तदर्धतः ।
वेदास्य * * * न्द्रं स्याद्रौद्र्यां प्राच्युत्तरेपि वा ॥ १३४ ॥

आद्यलिंगत्रयाणां च विदध्यान्मण्डपत्रयम् ।
हास्तिकं लिंग * * * मष्टहस्तं तु मण्डपम् ॥ १३५ ॥

प्. ९०४)

द्वितीयं लिंगमानस्य प्रत्येकं हस्तवृद्धितः ।
चतुर्थं लिंगमानस्य द्वौ द्वौ हस्तेन वर्धनम् ॥ १३६ ॥

एवं नवकरे लिंगे हस्तद्वाविंशतिर्भवेत् ।
दशहस्तार्कहस्ते वा हास्तिके लिंगमानके ॥ १३७ ॥

अन्यमण्डपकोष्ठादि द्विहस्तोऽन्तर वृद्धिदम् ।
वृद्धिपादादिलिंगेषु कुर्यान् मानानुसारतः ॥ १३८ ॥

बाणे च रत्नसंभूते लोहलिंगे तथैव च ।
मण्डपं करमायामं विदध्यान्नन्दिकेश्वर ॥ १३९ ॥

एतेषां मण्डपं चापि प्रासादसदृशं भवेत् ।
प्रथमं घनमं स्याध्या द्वितीयं घोषसंज्ञितम् ॥ १४० ॥

प्. ९०५)

विराजं च तृतीयं स्यात् काञ्चनं च चतुर्थकम् ।
रामकार्यस्ततो नन्दिन् मण्डपाः पञ्चतो भवेत् ॥ १४१ ॥

षष्ठं तु कामराजाख्यं सुखवेशोऽथ सप्तमम् ।
अष्टमं घर्घराख्यासौ ददक्षोन च मण्डपः ॥ १४२ ॥

स्थूणाः कोणं चतस्रः स्युर्द्वेद्वे द्वारे तु हास्तिके ।
विस्तीर्णे तु यथाशोभं भावयन्यन्यका अपि ॥ १४३ ॥

मध्ये वेदी चतुर्हस्ता कोणे च स्तम्भसंयुतम् ।
वेदीनां मुनिभिश्चापि साष्टांगुरुरुदीरिता ॥ १४४ ॥

समुच्छ्रयेद् द्व्यंगुलं चेद् विस्तारस्तु करं परम् ।
आसां क्रमेण यावन्तो वर्धन्ते रविसंख्यया ॥ १४५ ॥

प्. ९०६)

शान्तिके वर्धयेत्पादं विस्तारादुच्छ्रयादपि ।
एकाशीतिपदानां तु मध्येऽपि नवके तथा ॥ १४६ ॥

कुर्याद् विशेषेण तस्य बाह्येऽपि संत्यजेत् ।
पादादिकं चिकं दद्यात् तत्पार्श्वे कुण्डमुच्यते ॥ १४७ ॥

नव कुण्डानि वा कुर्यात् पञ्च कुण्डानि तत्र वा ।
अष्टद्विश्वष्ट कुण्डानि नवमं प्रागुदग्भवेत् ॥ १४८ ॥

चतुर्दिक्षु च कुण्डं वै शेपोवन्नस्तथोच्यते ।
अथवाप्येक कुण्डं तु रौद्र्यां प्राच्यामथापि वा ॥ १४९ ॥

पाश्चात्ये वा वरोः पश्चाद् वेदाश्रं वृत्तमेव वा ।
लिंगे तु हास्तिके कुण्डं हास्तिके च भवेत् तदा ॥ १५० ॥

प्. ९०७)

शेषाणामपि लिंगानां कुण्डं च द्वादशांगुलम् ।
नवहस्ते लिंगके तु त्र्यंशोतीत करद्वयम् ॥ १५१ ॥

सुलिंगान्बाणरत्नादीन् विदध्यान्मण्टपोचितान् ।
मुष्टिमात्रे तु कुण्डे तु रत्निमात्रे तथैव च ॥ १५२ ॥

शतार्कं होमसंख्या वै शकश्च रत्निको भवेत् ।
हस्तकुम्भे सहस्रं स्याद्द्विहस्तं चायुतं भवेत् ॥ १५३ ॥

वेदहस्तं तु लक्षं स्याद् द्विलक्षे षट्करं मतम् ।
अष्ठहस्ते त्रिलक्षं स्यात् तत ऊर्ध्वं न कारयेत् ॥ १५४ ॥

कुण्डानां लक्षणं चापि पूर्वमेव मयोदितम् ।
प्राच्यां प्लक्षं तु याम्ये तु उदुम्बरमुदीरितम् ॥ १५५ ॥

प्. ९०८)

औदुम्बरं प्रतीच्यां वै पदं वारुणमुत्तरे ।
शान्तिनाम च पूर्वे तु दक्षिणे भूति संज्ञकम् ॥ १५६ ॥

वारुण्यां बलसंज्ञं स्यादारोग्यं चोत्तरं भवेत् ।
चतुर्णामपि रक्षाणामलाभेऽप्येवमेव वा ॥ १५७ ॥

दिक्षु सर्वासु संस्थाप्य तेषामुच्छ्रायकं शृणु ।
पञ्चषट्सप्तहस्तानि तोरणानि कनीयसाम् ॥ १५८ ॥

चतुर्णां लिंगमारभ्यत्रीणि लिंगानि मध्यमम् ।
चतुरंगुलद्वयं वृद्ध्या वर्धयेन्नन्दिकेश्वर ! ॥ १५९ ॥

अंगुल्यष्टकया वृद्ध्या नवहस्तान्तलिंगके ।
यवन्तवक्षरे लिंगं तदष्टार्धकरं भवेत् ॥ १६० ॥

प्. ९०९)

कनीयसां तोरणानां च वास्तोर्हस्त प्रमाणतः ।
मध्यमानां त्रयाणां च चतुरंगुलवृद्धितः ॥ १६१ ॥

उत्तमानां त्रयाणां तु परं सार्धकरो भवेत् ।
अंगुलद्वयवृद्ध्या वै मध्यमार्धादि षट्करम् ॥ १६२ ॥

अथवा पञ्चमांशेन सर्वेषां खातनं भवेत् ।
उच्छ्रायाद्यन्त विस्तारः उच्छ्रायसदृशं तु वा ॥ १६३ ॥

धारिताश्चापि तत्तुल्याद्बाहुल्यं तु षडंगुलम् ।
पञ्चहस्तं ह्यशेषाणां शेषाणामंगुलं प्रति ॥ १६४ ॥

वर्धयेच्च क्रमादेवं शल्यमष्टांगुलं भवेत् ।

  • * * * * अन्येषां वृद्धिरंगुलमंगुलम् ॥ १६५ ॥


प्. ९१०)

क्रमेण मासां पिण्डं च विदध्यात्तत्समं तथा ।
पञ्चमांशेन चोच्छ्रायशूलं पक्षांश निर्मितम् ॥ १६६ ॥

तस्योच्छ्रायत्रिभागेन शूलपादाय विस्तृतिः ।
द्व्यंगुष्ठं प्रथमेऽप्यंशे चान्येषामंगुलोत्तरम् ॥ १६७ ॥

पद्मं वा स्वस्तिकं वापि लंकः वामहस्तके न्यसेत् ।
द्वारं प्रति विशेषेण रम्भास्तम्भं च पल्लवैः ॥ १६८ ॥

अश्वत्थपत्रैर्दर्भाभिः अलंकुर्यात्सुशोभनम् ।
पूर्वद्वारे तु साम्बा स्याद् भुक्तिमुक्तिप्रदायकम् ॥ १६९ ॥

देवीं देवं च चान्यानि विदध्यान्नन्दिकेश्वर ।
यजमानेच्छया वापि दक्षिणं पश्चिमं तथा ॥ १७० ॥

प्. ९११)

इन्द्रचापनिभा रक्ता कृष्णा धूम्रा शशिप्रभा ।
किराभा स्वर्णवर्णा च पताका स्फटिकोपमा ॥ १७१ ॥

ऐन्द्रादितो विधातव्या रक्तचन्द्रब्रह्मपदम् ।
नैर्-ऋत्यां नीलवर्णाभा माध्ये चित्राथ वासिता ॥ १७२ ॥

पञ्चहस्तांशजास्तत्तत् कुर्याद्विकरविस्तृताः ।
सप्तहस्ताः पताकास्तु विंशत्यंगुलविस्तृताः ॥ १७३ ॥

ध्वजदण्डप्रवेशास्तु करायामस्तु पञ्च वै ।
भास्तिकं चापि विख्याता स * * * * * * * ॥ १७४ ॥

दशहस्ता पताकानां पञ्चमांशनिवेशकाः ।
सप्तभिर्दशभिः कुर्याद् विंशत्यावा कपै जान् ॥ १७५ ॥

प्. ९१२)

अधमं मध्यमं श्रेष्ठं हस्तद्वितयविस्तृताः ।
अष्टहस्ताथवा ज्येष्ठा द्विकरा विस्तरेण वै ॥ १७६ ॥

क्रमाच्चेष्टास्व * * * * * दृष्टं मयानघ ।
पीठं तु ब्रह्मणो भागाद् द्विगुणं क्षीरवृक्षजम् ॥ १७७ ॥

चतुष्पादं पंकजांकं उच्छ्राये षोडशांगुलम् ।
अथ चोक्तसमुच्छ्रायं विस्तारे द्विगुणं ततः ॥ १७८ ॥

विस्तार द्विगुणायामं भद्रपीठं कनीयसाम् ।
चतुरंगुल वृद्ध्या वै * * * * * * * * त् ॥ १७९ ॥

अथवा च परेषां तु नवानां विष्ठरं क्रमात् ।
त्रीणि तत्रापि दृश्यन्ते पीठेष्वेवं तु लक्षणम् ॥ १८० ॥

प्. ९१३)

अव्यक्तात्क्षत्रियद्वारात् सिन्धुतीराद्धलात्कुशात् ।
वल्मीकात्करणादन्तात् गोशृंगात्पद्मषण्डतः ॥ १८१ ॥

वराहाद्गोष्ठमध्यात्तु शृंगाटक समुद्भवात् ।
प्रशस्ता द्वादश ह्येता ग्राह्या मृत्स्ना विशेषतः ॥ १८२ ॥

अथवाष्टौ च वैकुण्ठे पिनाकी च तथैव च ।
अश्वत्थ जम्बून्यग्रोध चूतोदुम्बरकोद्भवैः ॥ १८३ ॥

त्वगभिक्षायमेवं वै पञ्चकं नन्दिकेश्वर ।
पुष्पा * * * * * * फलानि च विशेषतः ॥ १८४ ॥

तीर्थाम्बूनि सुगन्धीनि महौषधिजलं तथा ।
सस्यं च सर्वपुष्पं च फलं च स्वर्णरत्नकम् ॥ १८५ ॥

प्. ९१४)

ग्रोभाग्र वारिसानमया प्रभेदेत्पंचगव्यकम् ।
पञ्चामृतं तथा पिष्टं वज्रादिद्रव्यकं तथा ॥ १८६ ॥

  • * मे र्चनाय स्नाय सहसा सुषिरं घटम् ।

मंगलार्थं च कर्पूरं रोचनागरुचन्दनम् ॥ १८७ ॥

शतमौषधिमूलानां विजया लक्षणा बला ।
गलूच्याहि बलापामा सहदेवी शतावरी ॥ १८८ ॥

वृद्धिस्सुवर्चला वृद्धिः स्नानायोक्ताः पृथक् पृथक् ।

  • * * * * * क्षायै भस्मस्नाने तु केवलम् ॥ १८९ ॥


गोधूमयवशालीनां बिल्वानां चूर्णमित्यपि ।
आलेपनार्थमिन्द्रेण चन्दनं स्नानकुम्भकम् ॥ १९० ॥

प्. ९१५)

बन्धूकोश्चोत्तरा चापि वितानद्वयमण्टपम् ।
चन्द्रोदयं विचित्रैश्च वक्त्रैरपि च कारयेत् ॥ १९१ ॥

सोपधानं सुखश्चांगं कुपिकायुग्मसंयुताम् ।
धौतपुच्छद्वयपदं शयनीयद्वयं भवेत् ॥ १९२ ॥

मध्वाज्य पूर्ण पात्राणि होमसूदितशालकाः ।
त्रिद्वैकमाषिकाद्याश्च क्रमाज्ज्येष्ठादिषु त्रिषु ॥ १९३ ॥

वर्धनी पूर्ण कुम्भं च लोकपालघटानपि ।
स्वप्नार्थमेक कुम्भं च शान्त्यर्थं कुण्डसंख्यया ॥ १९४ ॥

दिक्पालकुम्भकाश्चापि तद्धर्मस्तु विशेषतः ।
प्रशान्तादि घटाश्चापि वास्तुलक्ष्मी घटेशके ॥ १९५ ॥

प्. ९१६)

कलशानपि सर्वांश्च विद्या न परसंयुताम् ।
वस्त्रसाद्भूषिताश्चापि हिरण्य नवरत्नकाः ॥ १९६ ॥

गन्धवारि सुपर्णाश्च पूर्णपात्रफलान्विताः ।
प्रवाण मुखयुक्ताश्च शोभनास्यास्सलक्षणाः ॥ १९७ ॥

सर्वकुम्भा विधातव्या सवस्त्रा कुम्भतोरणाः ।
स्तम्भान्वासोभिराच्छाद्य गौरसर्षपविष्किरान् ॥ १९८ ॥

लाजांश्च सहदेवं च ज्ञानखड्गं च पूर्ववत् ।
सापिधानाश्चरूः कुंभीं दर्वीं ताम्रेण कल्पिताम् ॥ १९९ ॥

आज्यक्षौद्रयुतं पात्रं पादाभ्यां तत्कृते तथा ।
आसनानि विशेषेण त्रिंशद्दर्भदलैर्भवेत् ॥ २०० ॥

बाहुप्रमाण युक्तानि कर्तव्यानि तथा पुनः ।
पालाशसमिधश्चापि चतुरश्चतुरो भवेत् ॥ २०१ ॥

सस्सनाडी हविः पात्रं तिलपात्राज्यकानि वै ।
मधुमन्त्राणि सर्वाणि फलविंशति संयुतम् ॥ २०२ ॥

घण्टाधूपप्रधानं च सृक्सृवौ विकटावधि ।
घृणाधि पञ्चितं शुद्धं शुष्कं * * * कालकम् ॥ २०३ ॥

व्यञ्जनार्थं तालवृन्ते मुक्तामुक्तं च पुष्करम् ।
गुल्गुलुं बिल्वपत्रं च धूमं कुंकुमबन्धि च ॥ २०४ ॥

सर्पिषा पूर्णदीपांश्च कल्पयेन्नन्दिकेश्वर ।
तण्डुलानि त्रिशूलं वा आज्यं गन्धं यवांस्तिलान् ॥ २३५ ॥

प्. ९१८)

कुशदर्भानते दीक्षां शान्त्यर्थं मधुरत्रयम् ।
पायसं च हविः शुद्धं कल्पयेद्विधिना पुनः ॥ २०६ ॥

याज्ञिकैः पादपोत्थैश्च समिद्भिरपि चोज्वलैः ।
दशरात्री विहीनां च * * * नन्दिकेश्वर ॥ २०७ ॥

त्रिविधा चांगुली ज्ञेया मध्यमादिप्रभेदतः ।
अधमं मध्यमं श्रेष्ठं गुरोरिच्छावशाद्भवेत् ॥ २०८ ॥

दैर्घ्यं षट्त्रिंशता कुर्या अंगुल्या च स्रुवं तथा ।
बहुमानं प्रकुर्वीत श्रेष्ठमध्याधमक्रमात् ॥ २०९ ॥

कुर्यादेकांगुल * * सृक्सुवानां च लक्षणम् ।
उक्तं पूर्वनिदानं तु किंचिल्लक्षणदण्डवत् ॥ २१० ॥

प्. ९१९)

तस्याष्ट सप्तभिर्वेदी कण्ठ * * स्य लक्षणम् ।
दण्डस्य नाहायामं स्याद्रसविंशतिभिर्भवेत् ॥ २११ ॥

गुणवेदांगुलं कुम्भे ग्रन्थियुक्तं द्वयांगुलम् ।
चतुरश्रांगुली तत्स्यात् तं वृत्तं द्व्यंगुलं खनेत् ॥ २१२ ॥

तस्याग्रकरयोर स्याद् देवी त्रिंशेन निष्कृतिः ।
आज्यनिर्गममार्गश्च कनिष्ठाम्भश्च विस्तृतिः ॥ २१३ ॥

मेखलाद्यंगुलावृत्ता स्रुवायामोजितांगुलम् ।
दण्डांगुलं द्वाविंशतिभिः तत्तं चतुरंगुलम् ॥ २१४ ॥

क्रमुको द्व्यंगुलं ख्यातः पंके मृगपदाकृतिः ।
दण्डस्य मुग्रो चाग्रेऽपि दण्डी कंकणवद्भवेत् ॥ २१५ ॥

प्. ९२०)

विकंकतिश्च श्रीपर्णी शिंशुपा दारुबीजकाः ।
सूच्यग्रं पादपाः प्रोक्ताः किंशुकाद्याश्च याज्ञिकाः ॥ २१६ ॥

आदित्यादिग्रहाणां च समिधोऽर्कपलाशजाः ।
खादिराः किणिभिश्चैव पिप्पलोदुम्बरोद्भवाः ॥ २१७ ॥

शमीदूर्वा कुशोद्भूता जटाधिकशतोज्वलाः ।
क्रमेण संग्रहेत् सर्वं तदलाभे यवांस्तिलान् ॥ २१८ ॥

इमानि विष्ठरादीनि कुण्डं प्रति निवेदयेत् ।
सर्वं गृहोपकरणं स्थालीं दवीं विधानकम् ॥ २१९ ॥

उलूखलं च मुसलं खड्गं च क्षुरिका तथा ।
छत्रं च चामरं चैव तालवृत्तं च दर्पणम् ॥ २२० ॥

प्. ९२१)

शिवां पतद्ग्रस्थालं यन्त्रिका पादुकाद्वयम् ।
सिन्धूरभाजनं चैव पूगफलं तथैव च ॥ २२१ ॥

ताम्बूलपेक्ष पूर्णाम्बु करण्डकयुतं तथा ।
भाजनं पञ्चनानान्त योगपट्टं च मार्जनीम् ॥ २२२ ॥

पट्टं च भूषणं चैव चन्दनाद्यनुलेपनम् ।
स्नानयोग्यं तथा सर्वमधिवासाय चानयेत् ॥ २२३ ॥

स्नातोऽधिवासयेद् शिलावेदी वृषाय च ।
मकुटं कुण्डलं चैव हारकेयूरमुद्रिकाम् ॥ २२४ ॥

विचित्रवस्त्रक्षौमादीनाहरेद्गुरु तृप्तये ।
वित्तशाठ्यं न कर्तव्यं आचार्याय विशेषतः ॥ २२५ ॥

प्. ९२२)

तत्प्रीतिर्जगतां प्रीतिर्भवत्येव न संशयः ।
श्रीमद्गुरोः पदद्वन्द्व पूजनात् सर्वपूजनम् ॥ २२६ ॥

शस्त्रशंसनयुक्तेभ्यो मूर्तिभूतेभ्य एव च ।
तत्पादपादहीनाश्च दक्षिणाश्च भवेत्तदा ॥ २२७ ॥

दैवज्ञशिल्पिना चापि पूजा तुल्या चतसृभिः ।
पविरं कर्मणिन्नीलं मत्तिनीलं तथैव च ॥ २२८ ॥

मौक्तिकं पुष्परागं च पद्मरागं तथैव च ।
वैडूर्यमष्टकं प्रोक्तं रत्नगर्भं विशेषतः ॥ २२९ ॥

चन्दनागरुरक्ता च चन्दनोशीरमाधवाः ।
श्रीकण्ठकण्ठं च तथा शारी च शाखिनी तथा ॥ २३० ॥

प्. ९२३)

ओषधीनां गणंश्चैवं लोहानां च ततः शृणु ।
स्वर्णं ताम्रमयोवर्ग भारमारं स कार्यकम् ॥ २३१ ॥

सीसं मनश्शिला चापि हरितालमथाष्टकम् ।
तोरिकास्सर्गमाक्षीकं रसवर्जितगैरिकम् ॥ २३२ ॥

गन्धकं चाष्टमित्यष्टौ धातवश्च प्रकीर्तिताः ।
गोधूमं च तिलं चैव माषं मुद्गस्वरं तथा ॥ २३३ ॥

वार * * मकानेवं व्रीहयोऽष्टौ प्रकीर्तिताः ।
अथवाष्टकला तु पञ्चहञ्च समाहरेत् ॥ २३४ ॥

जीरकं सहदेवं च स्वर्णकालयवं तथा ।
पसर्पे तु यवाहा च पारदं स्वर्णमेव वा ॥ २३५ ॥

प्. ९२४)

कूर्म भूवृषपद्मानां एकं हेमादिनिर्मितम् ।
माषकं व्याप्तके कुर्यात् प्रत्येकोत्तरया तदा ॥ २३६ ॥

ज्येष्ठलिंगे बृहन्माषैरिति सर्वं समाहरेत् ।
पूर्वसंभूतसंभारैः आचार्यादींश्च पूजयेत् ॥ २३७ ॥

अथ वक्ष्ये विशेषेण स्नानं कुर्याद्गुरुस्तदा ।
नित्यक्रियां च कृत्वा तु प्राणवप्यकवस्वयम् ॥ २३८ ॥

मूर्तिभूतैस्सहायैश्च द्विजैर्गच्छेन्महालयम् ।
शान्ताख्यतोरणादींश्च सर्वं संपूजयेद्गुरुः ॥ २३९ ॥

प्रादक्षिण्य क्रमात्तेषां चाग्रयोद्वारपालकान् ।
पूर्वे नन्दिमहाकालौ याम्ये भृंगि विनायकौ ॥ २४० ॥

प्. ९२५)

प्रतीच्यां वृषभ स्कन्दौ चोत्तरे देविनन्दिकौ ।
शाखामूले च तत्रस्थैः प्रशान्तशिखरौ यदा ॥ २४१ ॥

पर्जन्यशोकनामानौ भूतसंजीवनावृतौ ।
धनदश्रीप्रदौ द्वौ द्वौ क्रमात्संपूजयेद्गुरुः ॥ २४२ ॥

प्रणवादि चतुर्थ्यन्तैः नमोन्तैः स्वस्वनामभिः ।
लोकग्रहस्वस्यद्वस्था नन्दिनं च द्वयं द्वयम् ॥ २४३ ॥

रवित्रयं युगं वेदं लक्ष्मीर्गणपतिस्तथा ।
यागमूले मराश्चैते तिष्ठन्ति प्रतितोरणम् ॥ २४४ ॥

यागसंरक्षणायैव प्रत्यूहामर्दनाय च ।
पूर्वादिति क्रमाद्वापि चायुधान्यपि चार्चयेत् ॥ २४५ ॥

प्. ९२६)

शक्तिं चापि तथा दण्डं खड्गं पाशं ध्वजं गदाम् ।
त्रिशूलं चक्रमम्भोजं पताका च यथा क्रमम् ॥ २४६ ॥

ओं हूमिति चवोन्य वज्राय च तथैव च ।
हुंफण्णमोऽन्तास्त्रमन्त्रं मन्त्रैरेवं समर्चयेत् ॥ २४७ ॥

ओं हूं हूं शक्तये हुंफण्णमः ।
ओं ह्रूं ह्रूं दण्डाय हुंफण्णमः ॥ २४८ ॥

एवं क्रमादनेनैव मन्त्रेण तु समर्चयेत् ।
कुमुदः कुमुदाक्षश्च पुण्डरीकाक्षश्च वामनः ॥ २४९ ॥

शंखकर्णस्तथा सर्वं वेत्रस्सुमुख संज्ञकः ।
सुप्रतिष्ठितनामा च गजानाग्रं विभावयेत् ॥ २५० ॥

प्. ९२७)

खड्गहस्तं शवारूढं नीलोत्पलदलप्रभम् ।
रक्तनेत्रं रक्तपानं निर्-ऋतिं राक्षसाधिपम् ॥ २५१ ॥

शरच्चन्द्र प्रतीकाशं नागपाशधरं शुभम् ।
अनेकरत्नसंयुक्तं मकरोपरि संस्थितम् ॥ २५२ ॥

वरुणं पश्चिमे भागे भावयेन्नन्दिकेश्वर ।
विलोलध्वजहस्तं च पीतश्यामतनुं शुभम् ॥ २५३ ॥

पृषदश्व स भूतानां प्राणभूतं समीरणम् ।
हयारूढं शर्व शर्वरंरीरं च कुबेरकम् ॥ २५४ ॥

हेमवर्णं गदाहस्तं उत्तराशापतिं स्मरेत् ।
वृषारूढं तमीशानं त्रिशूलव्यालधारिणम् ॥ २५५ ॥

प्. ९२८)

शरच्चन्द्र प्रतीकाशं भस्मोद्धूलितविग्रहम् ।
त्रिलोचनं जटाचूट शरच्चन्द्रार्धशेखरम् ॥ २५६ ॥

सहस्रफणसंयुक्तं पुण्डरीकनिभेक्षणम् ।
तटित्कोटि प्रतीकाशं कूर्मारूढमनन्तरम् ॥ २५७ ॥

पूजयेत् तदधोभागे चोर्ध्वे ब्रह्माणमर्चयेत् ।
चतुर्वक्त्रं स्वर्णवर्णं हंसारूढमनौपमम् ॥ २५८ ॥

अक्षमालां च दण्डं च कमण्डलु धरं तदा ।
स्तम्भमूले घटेष्वेव वेदधर्मादिकान् न्यसेत् ॥ २५९ ॥

अथवा दिक्षु कुम्भेषु अनन्तादींश्च पूजयेत् ।
वर्धनीं पृष्ठनीं कुम्भं भ्रामयेत्तं शिवाज्ञया ॥ २६० ॥

प्. ९२९)

श्रावयेत् स्थापयेत् कुम्भं वर्धनीं तदनन्तरम् ।
कुम्भे स्थिरासनं देवं शस्त्रालुं च ध्रुवासनम् ॥ २६१ ॥

संपूज्य पूर्ववद् देवं संस्पृशेदुद्भवाख्यया ।
निजयागं जगन्नाथं रक्ष भक्तानुकम्पया ॥ २६२ ॥

इति संश्राव्य रक्षार्थं कुम्भे खड्गं निवेदयेत् ।
अथवा स्थण्डिले कुंभे मण्डले शिवमर्चयेत् ॥ २६३ ॥

मण्डले च यथा पूर्वं पूजयेच्छिवमव्ययम् ।
मण्डलस्य तु मध्ये विलिखेदष्टदलाम्बुजम् ॥ २६४ ॥

आद्यंशे कर्णिका कार्या द्वितीये केसराणि वै ।
दलसन्धि तृतीयांशं चतुर्थं * * * * कम् ॥ २६५ ॥

प्. ९३०)

अंगुलाष्टकमानेन कर्णिका तत्र वै भवेत् ।
पद्मपत्रदलाग्राणि गात्राणि दलसन्धयः ॥ २६६ ॥

चतुरंगुलमानेन यथा शोभं क्रमाल्लिखेत् ।
दलाग्रं तु दलं न्यस्त्वा प्रतिवारुण मण्डलम् ॥ २६७ ॥

परिताङ्गुलेनैव कर्तव्यं नन्दिकेश्वर ।
शिवस्या सनकं तत्र वीथ्यादि सहितं भवेत् ॥ २६८ ॥

वीथ्या द्वारमथाद्येन तदर्धेनापि चाभवेत् ।
शोभानुद्वारमानेन कपालौ कृतदर्धता ॥ २६९ ॥

सिते रक्तं तथा कृष्णं रजतं पीतं पिधानकम् ।

  • * * * दलाग्राणि दलगात्राणि च क्रमात् ॥ २७० ॥


प्. ९३१)

अयं कुलेन तत्कुर्यात् कर्णिकाश्च षडंगुलम् ।
शिवं तत्रैव संपूज्य गच्छेयुः कुण्ड सन्निधौ ॥ २७१ ।

मूर्तिपा स्वकलाश्चापि कुण्डनाभि पुरस्कृताः ।
कुण्डसंस्कारकादीनि देशिकादेशतो भवेत् ॥ २७२ ॥

जापिनोऽपि जपेयुस्ते हेतिमन्ये तु संहिताम् ।
चतुर्वेदविदो विप्राः पठेयुः शान्तिसूक्तकान् ॥ २७३ ॥

पवमानि सूसूक्तं च मैत्रं चैव वृषाकपिः ।
प्राच्यां पठेत्तु ऋग्वेदी सर्वमेतत्समं तदा ॥ २७४ ॥

  • * * * * * *ण्ड देवरुद्रमनन्तरम् ।

पुरुषं गतिमेतानि सामवेदी तु दक्षिनः ॥ २७५ ॥

प्. ९३२)

रुद्रं पुरुषसूक्तं च श्लोकाध्यायं विशेषतः ।
यजुर्वेदी ब्राह्मणस्तु प्रतीच्यां वै समुच्चरेत् ॥ २७६ ॥

उत्तरे सर्वशीर्षं च नीलरुद्रं तथैव च ।
स्रुवसूक्तं तथैवाशु जपेदाथर्वणिस्तथा ॥ २७७ ॥

देशिको वह्निमुत्पाद्य कुण्डं प्रति विनिक्षिपेत् ।
अग्नेः प्रागादिकान्यागात् पूर्वकुण्डादिभिः क्रमात् ॥ २७८ ॥

धूपदीपं च रूपं च कृते नाग्निं समुद्धरेत् ।
देवे * * * * * * * * बोग्नौ मन्तर्पणम् ॥ २७९ ॥

संपत्त्यै दुर्निमित्तानां शान्तये होममाचरेत् ।
पूर्णाहुतिं क्रमाद्दत्वा पूर्ववच्चरुकुम्भकम् ॥ २८० ॥

प्. ९३३)

कुण्डं प्रति यथायोगं कारयेद्देशिकोत्तमः ।
यजमानोऽपि पूर्वोक्तभूषणैर्भूषयेच्च ताः ॥ २८१ ॥

अलंकृतास्तु ते सर्वे प्रययुः स्नानमण्डपम् ।
पद्मासने तु प्रायेद्याः प्रणवासनमध्यमे ॥ २८२ ॥

शिवं तत्र समावाह्य ताडयित्वा च कुण्डयेत् ।
काषायकरुणा चैव स्नाप * * * * तथा ॥ २८३ ॥

गोमूत्रगोमयैर्वापि शुद्धतोयान्तरान्तरम् ।
गन्धतोयेन फट्कारहेतिना शुद्धवारिणा ॥ २८४ ॥

भस्मना वापि संस्नाप्य पूजयित्वा विधानतः ।
पादादिकरशुद्धिश्च मूर्तिपैः कारयेद्गुरुः ॥ २८५ ॥

प्. ९३४)

तनुत्रजप्तपीतेन वाससाच्छाद्य सांप्रतम् ।
शुद्धपुष्पैः सुसंपूज्य नयेदुत्तर वेदिकाम् ॥ २८६ ॥

शययासने सुसंवेश्य कुंकुमारुणसूत्रकैः ।
विमृज्य विलिखेत्तत्र हेमसूच्या गुरुः स्वयम् ॥ २८७ ॥

कृत * * * * णचांगकश्शिल्पि समुच्चरेत् ।
आचार्यस्त्रिंशताबोधा पादादर्धं तथापि वा ॥ २८८ ॥

शुभमंगं च कर्तव्यं सर्वकामार्थ सिद्धये ।
लिंगदैर्घ्यविकारांशे त्रिभक्ते भागहीनतः ॥ २८९ ॥

सप्तारे लिंगदेशस्य लिंगमस्तकयुग्भवेत् ।
क्षेत्राष्टं चेतु चिह्नं स्यान्मूर्ध्नि भाक्तिद्वयोच्यते ॥ २९० ॥

प्. ९३५)

वश्यभागपरिवर्तेषु चाधोभागद्वयं त्यजेत् ।
पृष्ठभागे तु सम्बद्धं लेखात् संभ्रमणाद्भवेत् ॥ २९१ ॥

रत्नजे लोहजे वापि नर्मदा * * * * * ।

  • * * * * * * सं मीचान पञ्चलोहके ॥ २९२ ॥


व्यक्ते तु नयनोन्मेष लक्ष्म तत्सन्निधाय वै ।
कल्लक्ष्ममार्गमधुना घृतेनापि प्रपूरयेत् ॥ २९३ ॥

शिल्पिदोष * * * व्य पूजयेल्लिंगमुत्तमम् ।
शययाभूषणपात्रादि * * * * * * * * ॥ २९४ ॥

शलाकापासनं तर्प्य शिल्पिनं यजमानकः ।
भूषणैर्विविधैरेव गोभिः क्षीरसमृद्धिभिः ॥ २९५ ॥

प्. ९३६)

संपूजयेत् ततो लिंगं धूपदीपाक्षतादिभिः ।
गायन्त्यो मंगलं नार्यो जीवपुत्रास्सभ्रातृकाः ॥ २९६ ॥

सव्ये च व्योमहस्तेन सूत्रेणाद्य कुशेन वा ।
स्पृष्ट्वा च रोचनां दत्वा कार्यनिर्मर्त्सनादिकम् ॥ २९७ ॥

धान्यैश्च लवणैश्चापि शुद्धैकश्शर्करादिभिः ।
सन्तोषयेच्च कर्ता तु विविधैः स्वर्णदानकैः ॥ २९८ ॥

देशिको मूर्तिपैस्सार्धं प्रणवेन हृदाथवा ।
मृत्स्नागोमयगोमूत्र भस्मभिस्सलिलान्तरम् ॥ २९९ ॥

पञ्चगव्येन संस्नाप्य पञ्चामृत पुरस्सरम् ।
काषायवारिणा चैव निर्मस्ति तदनन्तरम् ॥ ३०० ॥

प्. ९३७)

सर्वौषधिजले नैव शुभपुष्पफलान्वितैः ।
रत्नशृंग सुवर्णादि वारिभिश्चाभिषेचयेत् ॥ ३०१ ॥

सहस्रधारणायेन दिव्यौषधिजलेन च ।
गंगादितीर्थतोयेन पददेन च वारिणा ॥ ३०२ ॥

काकार्णवादिभिः कुंभैः शिवकुंभजलेन च ।
निर्मत्सलं विलेपं च सुगन्धैश्चन्दनादिभिः ॥ ३०३ ॥

ब्रह्मांगैश्च शुभैः पुष्पैः वर्मणारक्तपीडनैः ।
अघोरेण तु नीराज्य भस्मना तिलकं भवेत् ॥ ३०४ ॥

नृत्तैश्च गीतैर्वाद्यैश्च ब्रह्मघोषादि मंगलैः ।
जलजीरकधात्रादि पूर्वैरप्यादिषूचितैः ॥ ३०५ ॥

प्. ९३८)

संतुष्टमर्चयेत्तत्र जपस्तुत्यादि मंगलैः ।
पुरुषेण विशेषेण समाचम्य पदा तदा ॥ ३०६ ॥

एवं देवं च संब्रूयादुयतां भगवानिति ।
ततो रथं समारोप्य मण्डपं पुरमेव वा ॥ ३०७ ॥

शतांगाग्रे च कर्तारं देशिकप्रोक्षिते कले ।
व्रजनृष्यादिभिस्सार्धं रथमार्गानुसारिभिः ॥ ३०८ ॥

वस्त्रादि हेमरत्नादि सप्तब्रूहि * * * कान् ।
नृत्तगीतादिभिश्चैव मालाभिश्च सुगन्धिभिः ॥ ३०९ ॥

वित्तानुसारतश्चैव दीपं च परितो भवेत् ।
पूर्वं तु मण्डपद्वारं तत्र भद्रासनस्थितान् ॥ ३१० ॥

प्. ९३९)

शिवं समां च संपूज्य कृते स्वस्त्ययने सति ।

  • * * * * पश्चिमे न्यस्य शिलां वै संज्ञताम् ॥ ३११ ॥


पश्चिमास्ये विधिस्त्वेवं पूर्वास्ये तद्विपर्ययम् ।
तत्र शस्त्रशताल्लब्ध निद्राकुम्भध्रुवासनम् ॥ ३१२ ॥

संकल्प्य शिवकोणे च दत्वार्घ्यं हृदयेन तु ।
पश्चात् स्करं फलशिरसा च * * * * * * ॥ ३१३ ॥

  • * * * * * * * * * पकरणादि यत् ।

पदतां च ग्रहादीनि हृदा दद्यात्स्वशक्तितः ॥ ३१४ ॥

अभ्यंगाय घृतक्षौद्र युक्तपात्रं पदादिगे ।
तत्र स्थितो गुरुः पश्चात् षट्त्रिंशत्तत्वसंचयम् ॥ ३१५ ॥

प्. ९४०)

शक्त्याद्यवनिपर्यन्तं स्वतत्वाधिपसंयुतम् ।
विन्यस्य पुष्पमालाभिः त्रिपुण्ट्रं परिकल्पयेत् ॥ ३१६ ॥

आथा सन्देश * * * * * * * * * * * ।

  • * * *ण विन्यस्ये दर्घ्यविद्ध्या शिवात्मना ॥ ३१७ ॥


  • * * * * रांश्चापि पूर्वादिक्रमतो न्यसेत् ।

भूवह्नियजमानार्क जलवायु निशाकरात् ॥ ३१८ ॥

व्योममूर्ति स्वरूपास्तां न्यसेत्तदधिनायकान् ।
शर्वं पशुपतिं चोग्रं रुद्रं भवमथेश्वरम् ॥ ३१९ ॥

महादेवं च भीमं च मन्त्रस्तत्वार्थ नामकान् ।

  • * * * * * रस पवसाश्च त्रिरात्रिक ॥ ३२० ॥


तारं * * * * * * * * * * * * * * ।

प्. ९४१)

अथवा पञ्चमे कुण्डमूर्तिः प * * * * सेत् ।
क्ष्म * * * * * * * * * * * * * स्तथा ॥ ३२१ ॥

ब्रह्माणं विष्णुरुद्रौ च ईश्वरं च सदाशिवम् ।
सृष्टि क्रमेण भोगाय मुक्त्यर्थं विपरीतकम् ॥ ३२२ ॥

मुमुक्षोर्वनिवृत्त्याद्या अजाताद्यास्तदीश्वरः ।
तत्र द्वयं न्यसेद्वाप्य सर्वत्र द्व्यसकारणम् ॥ ३२३ ॥

विशुद्धेऽध्वनि विद्येशा न शुद्धे लोकनायकाः ।
द्रष्टव्या मूर्तिपाश्चैते भोगिनो म * * * * ॥ ३२४ ॥

थेवाष्ट * * * * * पञ्चत्रीणि यथाक्रमम् ।
कृतस्नाता * * * * चन्दनादि * * * * ॥ ३२५ ॥

प्. ९४२)

  • * * * * * * द्य भगचिह्नेषु रन्ध्रके ।

रक्तपञ्चक संयुक्तं लिंगस्योत्तरतः स्थितान् ॥ ३२६ ॥

लिंगवत्कृतविन्यासान् विधिवत् समपूजयेत् ।
कृतस्नानादिकान्तद्वा लिंगमूले शिवां न्यसेत् ॥ ३२७ ॥

कृतस्नानादि संस्कारं शक्त्यन्तत्व वृतं तथा ।
तारपूर्वं च मूसूंह्रीं मध्यादन्यतमेन च ॥ ३२८ ॥

क्रियाशक्तिनिभांपिण्डं शिशला * * * * * ।

  • * * * * * कुर्याद् भस्मदर्भतिलैर्युतः ॥ ३२९ ॥


दिक्पति * * * * त्र रक्षा * * * * क्तये ।
ओं ह्रीं ह्रां सः ओं हां भौरि रुद्र इत्येते स्वाहेत्यपि च पिण्डिकाम् ॥ ३३० ॥

प्. ९४३)

ओं हां आधारशक्तये नमः ओं हां वृषभाय नमः ।
धारिका दीप्तमत्युग्रा ज्योत्स्ना चेतासलोत्कटा ॥ ३३१ ॥

धात्रीविहितमूर्तीशा न्यसेद्वा पञ्चनाडिका ।
वामा ज्येष्ठा क्रियाज्ञानि चेष्टा तिस्रोऽथवा न्यसेत् ॥ ३३२ ॥

क्रियाज्ञानि * * * * * * * * * * * * ।
मा मोक्षा क्षयानिद्रा मृत्युं मायाभय थ चक्रता ॥ ३३३ ॥

  • थवा क्रियाज्ञानि तथैश्चावा विनायकाः * ।

आत्मविद्याशिवाख्येषु त्रिषु मूर्तिषु विन्यसेत् ॥ ३३४ ॥

अत्रापि पिण्डिका ब्रह्म शिलिधिष्ट यथाविधि ।
गौर्यादि मन्त्रकैरेव पूर्ववत्संप्रपूजयेत् ॥ ३३५ ॥

प्. ९४४)

कुण्डपार्श्वे ततो गत्वा न्यासं कुर्याद्यथा विधि ।
कुण्डस्य मध्ये देवेशं मेखलासु महत्स्वरम् ॥ ३३६ ॥

ना * * * * * * * * * * ष्ठे च विन्यसेत् ।
कलशे स्थण्डिले * * * * * धानमा * * ॥ ३३७ ॥

  • * * * * * * * * * * सव मुद्गताम् ।

गच्छन्ति शून्यमार्गेण निस्सरन्ति समुद्गताः ॥ ३३८ ॥

शून्यमार्गेण गच्छन्ति स्वस्यतां तत्र चिन्तयेत् ।
संध्येयं मूर्तिपैस्तत्र चान्योन्यं नन्दिकेश्वर ॥ ३३९ ॥

आधारशक्तिं संपूज्य कुण्डे सन्तर्प्य च क्रमात् ।
तत्वं तत्वेश्वरान्मूर्तिं मूर्तीशांश्च घृतादिभिः ॥ ३४० ॥

प्. ९४५)

तर्पयित्वाथ संपूज्य * * * संहिताणुभिः ।
पूर्णाहुत्या सहस्रं च शतं वा चापि होमयेत् ॥ ३४१ ॥

  • * * * श्वरं मूर्ति * * * * * * * * ।
  • * * तर्प्य जुहुयात् सन्निधौ मूर्तिपानपि ॥ ३४२ ॥


पञ्चब्रह्मषडंगैश्च द्रव्यकालात्मनोरतः ।
शान्तिकुम्भे जलैश्चापि प्रोक्षयेत् कुशमूलतः ॥ ३४३ ॥

संस्पृश्य लिंगमूलं च जपं कुर्याच्च संख्यया ।
विदध्यात् सन्निधानार्थं हृदा रोधावकुण्ठनम् ॥ ३४४ ॥

कवचेन तदा कुर्यान् मूर्तिपांश्च विशेषतः ।

  • * * * * संशोध्य विष्णुं शौच विशुद्धये ॥ ३४५ ॥


प्. ९४६)

पूर्ववद्धोमसंख्यादि * * * * * * * * ।

  • * * * * * * * * * मध्याग्रतः स्पृशेत् ॥ ३४६ ॥


यथा संख्यं च सन्धानं तदिदानीमिहोच्यते ।
ओं हां हां वं ओं ओं ओं वां वह्निमूर्तये नमः ॥ ३४७ ॥

क्रमात्तु यजमानादि मूर्तिभिश्चापि सन्धये ।
पञ्चमूर्त्या प्येवं सन्धानं हृदयादिभिः ॥ ३४८ ॥

स्वधाबीजैश्च मूलेन ज्ञेयं तत्वत्रयात्मके ।
वृद्ध्या वृक्षेऽपि वैनं * * * गच्छ स्वयं नरैः ॥ ३४९ ॥

प्रत्येकं भागशुद्ध्यर्थं शतं होमं च शतम् ।
हुत्वा यद्यत्कृतं कर्म शिवश्रोत्रे निवेदयेत् ॥ ३५० ॥

प्. ९४७)

कर्मैतत्कथितं ह्येतत् चिच्छक्त्यै च मया प्रभो ! ।
ओं नमो भगवते रुद्राय रुद्रामोवित्कृते ॥ ३५१ ॥

विधिं पूर्वम * * * शक्त्या पूज्यर्कगृह्यता ।
ओं ह्रीं शांकरी पूरय स्वाहा * * * * * * ॥ ३५२ ॥

पिण्डिकायां न्यसेदेवमधिलिंगे न्यसे * * ।

  • णशक्तिं क्रियाशक्तिं पिण्डे थैव च विग्रहेत् ॥ ३५३ ॥


आधारर * * * * * * * * * * * * ।
सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकम् ॥ ३५४ ॥

एकरात्रमथोवापि यद्वा सद्योऽधिवासितम् ।
अधिवास विहीनश्चेद् योगो निष्फलमाप्नुयात् ॥ ३५५ ॥

प्. ९४८)

स्वस्वमन्त्रैश्च होतव्यमाहुतीनां शतं शतम् ।
दिग्बलिं विधिना कुर्याच्छिवकुम्भं च पूजयेत् ॥ ३५६ ॥

अधिवासविधिस्त्वेवं कृतोऽयं नन्दिकेश्वर ।

  • * * * * * पश्चात् कृतनित्यविधिः स्वयम् ॥ ३५७ ॥


द्वारपूजां च कुर्याच्च पू * * * * * * चरेत् ।
समभ्यर्च्य च दिक्पालान्शिवकुम्भं च वर्धनीम् ॥ ३५८ ॥

लिंगमग्निं च संपूज्य अष्टपुष्पिकया क्रमात् ।
गच्छेच्छिवाज्ञया तत्र प्रासादं शस्त्रमुच्चरेत् ॥ ३५९ ॥

हुंफडन्तास्त्रमन्त्रेण * * * नि निवारयेत् ।
लिंगं न मध्ये स्थातव्यं वेदघोष विशंकया ॥ ३६० ॥

प्. ९४९)

मध्यान्तस्तात् परित्यज्य वर्धनाय च * * * ।
तस्मादीशानमाश्रित्य शिलां मध्ये निवेशयेत् ॥ ३६१ ॥

मूलेन तामनन्ताख्य विन्यसेदचलां शिलाम् ।
अथवानेन मन्त्रेण शिवस्यासन रूपिणीम् ॥ ३६२ ॥

ओं नरो व्यापिनि स्थिरे चले ध्रुवे ह्रीं स्वाहा ।
शिवाज्ञयात्वया चेदा स्थातव्यमिहसन्ततम् ॥ ३६३ ॥

इत्यु * * * * ध्यच्य निरुध्याद्रोधमुद्रया ।
वज्रादीनि ततो चान्तानि तथोशीरादिकौषधौ ॥ ३६४ ॥

हेमादि लोहकां * * * * * * दिकांस्तथा ।
पूर्वोक्तधान्यराशींश्च क्रमा च विरचयय च ॥ ३६५ ॥

प्. ९५०)

प्र * * * * विक्तस्तु लोकपालेश मन्त्रकैः ।
पूर्वादिचाष्टगात्रेषु क्रमादेकैकशः क्रमात् ॥ ३६६ ॥

स्वर्णं वा ताम्रजं कूर्मं वृषं वा द्वारसम्मुखम् ।
सरित्तटमृदा युक्तं पर्वताग्रमृदादि वा ॥ ३६७ ॥

  • * * मध्यगर्तायां यवां मेरुं सुवर्णकम् ।

मधुकाक्षत संयुक्तं अञ्जनेन समन्वितम् ॥ ३६८ ॥

राजतां पृथ्वीं यद्वा यद्वा व * * * * * * ।
सर्वबीजसुवर्णाभ्यां समायुक्तं विनिक्षिपेत् ॥ ३६९ ॥

हेमं चर * * * * * * * * रत्नमन्त्रतः ।
वेदे नवस्य शक्त्यादि शक्तिपर्यन्तमासनम् ॥ ३७० ॥

प्. ९५१)

कल्पयेत्पायसेनाथ क्षिपेद्गुद्गुलुवाथवा ।
स्वभूमाच्छाद्य वस्त्रेण कवचेनास्त्ररक्षणम् ॥ ३७१ ॥

दत्वा बलिं दिक्पतिभ्यः समाच्छान्ते गुरुस्सदा ।
शीलासूत्रजदोषस्य शान्तये मूलमन्त्रतः ॥ ३७२ ॥

शतं सम्यक् च जुहुयादस्त्रमन्त्रेण वाथवा ।
प्रत्येकं वास्तुदेवानां तृणेन जुहुयात्क्रमात् ॥ ३७३ ॥

हृदा देवं समुत्थाप्य मान * * * * * तैः ।
स्वबन्धुसहितः कर्ता पाश्चात्यो दैवतोऽपि वा ॥ ३७४ ॥

परिभ्रमाथ प्रासाद ग्रामादीन् क्रमशोपि वा ।
लिंगं स्थाप्य जलेभद्रां भद्रास्यै चार्धमुत्तमम् ॥ ३७५ ॥

प्. ९५२)

प्रासादं च नयेत्पश्चाद् रत्नगर्भं विशेषतः ।
द्वारेण द्वारबन्धे च द्वारदेशेन तद्विना ॥ ३७६ ॥

शिलाशूरे द्वारबन्धे तदूर्ध्वेनाथ तद्विते ।
द्वारस्पर्शाद्विसृज्यैव द्वारेणैव शयेत् ॥ ३७७ ॥

अयमेव विधिर्ज्ञेयो व्यक्तलिंगेऽपि सर्वतः ।
गृहे प्रवेशस्तद्द्वारारिकैरपि समीरितम् ॥ ३७८ ॥

अपद्वारप्रवेशे तु गोत्रक्षयमनन्तरम् ।
कर्तुस्त्वन्तु विनाशाय मतश्शान्तिं समाचरेत् ॥ ३७९ ॥

जीर्णादिदोष दुष्टः स्यादपद्वारेण निर्मितम् ।
द्वाराभिमुख माप्यापि पीठे लिंगमनन्तरम् ॥ ३८० ॥

प्. ९५३)

मंगलैस्तूर्यनिर्घोषैरक्षतैर्दूर्वयार्चयेत् ।
प्रीतोत्तिह्याथ देशिको मूर्तिपैस्सह ॥ ३८१ ॥

चन्दनैः कुंकुमैर्वापि विलिप्त्वा यन्त्रधारिणम् ।
ध्यात्वैक्यं शक्तिशिवयोश्शिवयोगी च लम्बनम् ॥ ३८२ ॥

लयान्तमूलमुच्चार्य सृष्ट्यार्षश्चभ्रे निवेशयेत् ।
र्यंशेन ब्रह्मभागे वा यद्वात्र्यंशद्वयेन च ॥ ३८३ ॥

अर्धेन चाष्टमांशेन सर्वस्याधः प्रवेशनम् ।
सीसकंभमपीडायाथ दीर्घान्तार्भस्समं हितः ॥ ३८४ ॥

पूर्वश्च शृंगवालुकाभि स्थिर * * रूपिणीम् ।
शक्त्यन्तमूलमुच्चार्य न्यसेद्दृष्ट्वा च निष्कलम् ॥ ३८५ ॥

प्. ९५४)

लिंगवत् स्थाप्यमानं तु यां यां दिशमुपाश्रयेत् ।
तत्तद्दिगीशमन्त्रेण पूर्णां तं दक्षिणान्वितम् ॥ ३८६ ॥

भ्रामत्ते च स्फुटी वक्त्रे शब्दोच्चारेण संयुते ।
शतं मूलेन कर्तव्यं अर्धवारेण वा भवेत् ॥ ३८७ ॥

अन्येष्वपि च देशेषु एवं शान्तिं समाचरेत् ।
लिंगोक्त न्यासके कुर्याद्दोषशान्त्यै विशेषतः ॥ ३८८ ॥

  • * * * * * * * पिण्डष्वष्या च विन्यसेत् ।

वालुकाभिश्च भूसन्धिं पूर्य यज्ञानु लेपनात् ॥ ३८९ ॥

देशिको मूर्तिपैस्सार्धं शान्ति कुम्भजलार्धतः ।
संस्नाप्य कलशैन्यस्तैस्तद्वत् पञ्चामृतादिभिः ॥ ३९० ॥

प्. ९५५)

चन्दनाद्यैः सुसंलिप्य शिवं संपूज्य देशिकः ।
उमामहेश मन्त्राभ्यां कौस्पर्शे लिं * * * * ॥ ३९१ ॥

  • * * * * * * * तत्वत्रयमथो न्यसेत् ।

च कुर्या * * * * * * * शक्तिं च पीठके ॥ ३९२ ॥

एवं क्रमाच्च विन्यस्य पूजयेज्जगदीश्वरम् ।
कुंकुमागरुकर्पूरैः समालभ्याथ भूषणैः ॥ ३९३ ॥

साज्यं गुग्गुलु दग्ध्वाच व्याप्यत्वेन शिवं न्यसेत् ।
धूपदीपं च नैवेद्यं हृदयेन फलानि च ॥ ३९४ ॥

निवेद्यं च ततः कुर्यात् समा * * * * * * ।

  • * दत्वा जपं कुर्याद् निवेद्य * * * * * ॥ ३९५ ॥


प्. ९५६)

प्रणम्यैवं बहिर्गत्वा प्रणवेन हृदाऽथवा ।
वृषभं स्थापयेत् पश्चात् पूर्व * * * * हुनेत् ॥ ३९६ ॥

ऋणादि दोषमोक्षार्थं ततो मृत्याजितं निश ।
हुत्वा शिवे * * * * शान्त्यर्थं प * * प्रभो ! ॥ ३९७ ॥

हिरण्य पशुभूत्यादि हेतवे * * * * * ।
महोत्सवं च दानं कुर्याद्दिन चतुष्टयम् ॥ ३९८ ॥

होमयेन् मूर्तिपैस्सार्धं त्रिसन्ध्यं तु दिनत्रयम् ।
तुरीये च दिने चैव पूर्णया बहुरूपिणा ॥ ३९९ ॥

चरुं च निर्वपेत्पश्चान् निवेद्यं तदनन्तरम् ।
सर्वकुण्डेषु संपाताहुतिं शोधितं हरेत् ॥ ४०० ॥

प्. ९५७)

तृतिये * * * * * निर्माल्यं च तदूर्ध्वतः ।
निर्माल्यापनयं कृत्वा स्नापयित्वा प्रपूजयेत् ॥ ४०१ ॥

स्वमन्त्रवर्जनं कुर्याल्लिंगं चैतन्य संयुतम् ।
असाधारणलिंगेषु क्षमस्वेति विसर्जनम् ॥ ४०२ ॥

आवाहनमभि व्यक्ति स सद्यश्शक्तिरूपतः ।
प्रतिष्ठान्ते च कर्तव्यं स्थिराद्याहुति सप्तकम् ॥ ४०३ ॥

स्थिरस्वधाप्रमेयानां अधिबोधस्तथैव च ।
नित्योथ सर्वगैश्चैव नीराशी तृप्तयेव च ॥ ४०४ ॥

शिवस्य संनिधानार्थं शृणुह्येतान् प्रकीर्तितान् ।
ओं नमः शिवाय * * * * * * * * * * ॥ ४०५ ॥

प्. ९५८)

  • * क्रमाच्च होतव्यं स्वाहान्तेन गुणेन च ।

संपाद्यैवं विधायैव शिवकुम्भवदव्ययम् ॥ ४०६ ॥

घटद्वयं च तन्मध्यादेक कुम्भं यथाभवम् ।
संस्नाप्य तद्द्वितीयं तु यजमानाभिषेचने ॥ ४०७ ॥

धारयेत्तु बलिं दत्वा समाचम्य बहिर्व्रजेत् ।
शिवाज्ञया बहिर्गत्वा जगती बाह्यतः शुभैः ॥ ४०८ ॥

ऐशान्यां चण्डधामापि विधिना कारयेद्गुरुः ।
भगप्रमाणयुक्ते च स्वपीठे कल्पितासने ॥ ४०९ ॥

  • * * * धिवक्तेन ब्रह्मांगैरर्चयेत्क्रमात् ।

उक्तानि पूर्वमंगानि ब्रह्माणि त्वयनं विना ॥ ४१० ॥

प्. ९५९)

ओं वं सद्योजाताय हुं फण्णमः ।
ओं सं वामदेवाय हुं फण्णमः ॥ ४११ ॥

ओं चुं अघोराय हुं फण्णमः ।
ओं चें तत्पुरुषाय हुं फण्णमः ॥ ४१२ ॥

ओं चों ईशानाय हुं फण्णमः ।
नमस्कारेण सन्तर्प्य निवेद्यं च जपं तथा ॥ ४१३ ॥

विज्ञाप्य भक्तिसंयुक्तो यावत् संनिधयेत् तदा ।
तत्रत्वं सन्निधीग्राह्या देव * * * * * * ॥ ४१४ ॥

  • * सादेन चण्डेश तत्सर्वं परिपूरय ।

चललिंगे च लोहे च बाणलिंगे स्वयंभुवि ॥ ४१५ ॥

प्. ९६०)

न चण्डोऽधि कृतस्तत्र विशेषाद्रत्नगर्भके ।
अद्वित भावनायुक्ते स्थण्डिले च त्रिधावधि ॥ ४१६ ॥

चण्डमेवं च संस्थाप्य चण्डदोषनिवृत्तये ।
बन्धुदारसुतैर्युक्तं कर्तारं स परिग्रहम् ॥ ४१७ ॥

स्थापयेत् पूर्वकुम्भेन स्थापको देशिकोत्तमः ।
शिववत्पूजनं कुर्याद् यजमानोऽपि देशिकम् ॥ ४१८ ॥

  • * * * * * * * * गुरोस्सन्तोष हेतवे ।

गुरुस्सन्तोषहीनश्चेद् यजमानोऽपि निष्फलः ॥ ४१९ ॥

मूर्तिपाश्च द्विजाश्चापि दैवज्ञं शिल्पिनं तथा ।
दक्षिणाश्च ततो दद्याद् यथा शक्त्या विशेषतः ॥ ४२० ॥

प्. ९६१)

अन्धान्कुम्भांश्च कृपणाकुष्ठव्याध्यादि पीडितान् ।
तोषयेच्च विशेषेण यजमानः स्वयं तथा ॥ ४२१ ॥

गुरुः कर्तुश्च संतुष्टः फलमेवं प्रदर्शयेत् ।
प्रतिमालिंगदेवीनां यावन्तः परमाणवः ॥ ४२२ ॥

तावद्युग सहस्राणि शिवलोके महीयते ।

  • * * * प्रदं नित्यं शिवलिंगप्रतिष्ठितम् ॥ ४२३ ॥


यदत्र सन्मुखीभावे चोदितं भगवन्मया ।
क्षमस्व नाद्य तत्सर्वं कारुण्याम्बुनिधिर्मम ॥ ४२४ ॥

एवं देवाय विज्ञाप्य भक्तियुक्तो गुरुस्तथा ।
प्रतिष्ठां पुण्यकं यत्तु स्फुरन्नक्षत्र सुप्रभम् ॥ ४२५ ॥

प्. ९६२)

जलपुष्पकरोपेतं स्वकरेण समर्पयेत् ।
पश्चात् पाशुपतं जप्त्वा प्रणम्य शिवमव्ययम् ॥ ४२६ ॥

  • * * बलिभिस्तत्र सन्निधापनरोधयेत् ।

स्थातव्यं भवता तावद् यावत् स * * * * * ॥ ४२७ ॥

  • * * देशिकः शिल्प पात्रादिकमथा हरेत् ।

स्वस्वमन्त्रैश्च देवाश्च स्थाप्यास्तत्र विशेषतः ॥ ४२८ ॥

आद्यक्षरेण भेदाद्या तत्वव्यापितभावितः ।
साध्यादि देवा ऋषयः नक्षत्रं किं नरस्तथा ॥ ४२९ ॥

भूतत्वान् निर्मिताश्चैते विशेषान्नन्दिकेश्वर ।
गङ्गा च यमुना चैव नदी चैव सरस्वती ॥ ४३० ॥

प्. ९६३)

जलतत्व विशेषेण स्थिता वै नन्दिकेश्वर ।

  • * * * * * नाञ्च स्थानं तत्र व्यवस्थितम् ॥ ४३१ ॥


मनोबुद्धिप्रदानास्ते त्रितत्व ब्रह्मणः पुनः ।

  • * * व गणदाद्री नागकेशर जन्मनाम् ॥ ४३२ ॥


मनोधीशुद्धविद्यान्त पदं गणपतेस्तथा ।
मायान्तं रविरेवं स्यादान्तरं शक्तिरेव च ॥ ४३३ ॥

शक्त्यन्तं शिवसंस्थानं लिंगे चैतद्विशेषणम् ।
अर्चना * * रान्तं वै कूर्माद्यासन पूर्वकम् ॥ ४३४ ॥

पंचरत्नादिकं चापि गर्ते चैव विनिक्षपेत् ।
शिवलिंगं च कर्तव्यं अन्यब्रह्म * * * * ॥ ४३५ ॥

प्. ९६४)

गर्भं भज्य षड्भागं पृष्ठे चैकं विसर्जयेत् ।
पञ्चमांशं तु सं * * * * * * * * * * ॥ ४३६ ॥

  • * * * विशेषेण धारनाभिर्विशुध्यति ।

आसनं स्नानपाद्यादि रत्नन्यासादिकं तथा ॥ ४३७ ॥

निरम्बुभिश्च कर्तव्यं भावना मुद्रया तथा ।
चललिंगे विशेषेण त्रिभिर्वा पञ्चभिस्तथा ॥ ४३८ ॥

पीठेव * * * * * * * च्छायां तु ते शृणु ।
भागत्रये द्वयेवापि कर्तव्यं नन्दिकेश्वर ॥ ४३९ ॥

स पीठेष्वपि तद्वत् स्यात् लिंगेषु * * * * * ।
स्फुटिकादिं च संस्कारो विष्टमन्त्रेण कारयेत् ॥ ४४० ॥

प्. ९६५)

किं च ब्रह्मसिलायोगं मनसा परिकल्पयेत् ।
बाणस्वयंभुवादीनां पीठसंस्कार वर्जनम् ॥ ४४१ ॥

स्थापनं संहितामन्त्रन्यासहोमं च कारयेत् ।
पैष्टिकम्मृण्मयादीनां क्षणलिंगं तथा भवेत् ॥ ४४२ ॥

प्रोक्षणादींश्च कृत्वा संपूजयेत्तदा ।
मन्त्रानात्मनि संस्थाप्य तज्जले प्रक्षिपेत् पुनः ॥ ४४३ ॥

संवत्सरेण त * * * * * नन्दिकेश्वर ।

इत्यचिन्त्यविश्वसादाख्ये प्रतिष्ठालक्षणः पटलः ॥


प्. ९६६)

मण्डपं मण्डलं कुण्डं पूर्ववन्नन्दिकेश्वर ।
देवीं संस्नाप्य शययायां अधिरोप्य च पूर्ववत् ॥ १ ॥

ब्रह्मरन्ध्राल्ललाटान्तं ललाटाद्धृदयावधि ।
हृदयान्नाभि पर्यन्तं ना * * * * * वधि ॥ २ ॥

जानुभ्यामङ्घ्रिपर्यन्तं मूर्त्यादि विनिवेशनम् ।
आत्मविद्या शिवान्तं तु कुर्यादीशान वेशनम् ॥ ३ ॥

न्यस्त्वा * * * * * पि अपराख्यामनन्तरम् ।
क्रमाद्धुत्वा च पीत्वा च सन्ध्यायाममनन्तरम् ॥ ४ ॥

व्यापिकां * * * ध्यात्वा न्यस्तरत्नादिकां तथा ।
पश्चात्संस्थाप्य देवेशीं तस्यामेव नियोजयेत् ॥ ५ ॥

प्. ९६७)

स्वमन्त्रेण क्रियाशक्ति रूपात्तां सृष्टियोगतः ।
क्रियाशक्तिं ततो न्यस्येद् * * * * न्य रूपिणीम् ॥ ६ ॥

विग्रहे च ततो न्यस्येद् व्यापिनीं शक्तिरूपिणीम् ।
अमुकेशी च नामां च समालभ्य च पूजयेत् ॥ ७ ॥

  • * * * * * मन्त्रा भवत्येव न संशयः ।

ओं आं आधारशक्त्यै नमः * * * * * * * ॥ ८ ॥

ओं रांकन्द * * * * नालाय * * नायनः ।
ओं ॡं वैराग्याय नमः । ओं ॡं ऐश्वर्याय नमः ॥ ९ ॥

ओं ऋं अधर्माय नमः । ओं ॠं अज्ञानाय नमः ।
ओं ॡं अवैराग्याय नमः । ओं लूं अनैश्वर्याय नमः ॥ १० ॥

प्. ९६८)

ओं * धच्छदनाय नमः । ओं अं ऊर्ध्वच्छदनाय नमः ।
ओं हां पद्माय नमः । ओं हां केसरेभ्यो नमः ॥ ११ ॥

ओं हां कर्णिकायै नमः । ओं हां पुष्करेभ्यो नमः ।
ओं ह्रीं प्राज्ञ्यै नमः । ओं ह्रीं ज्ञान्यै नमः ॥ १२ ॥

  • * * * * यै नमः । * * वागैश्वर्यै नमः ।

ओं ह्रीं ज्वालिन्यै नमः । ओं ह्रीं वामायै नमः ॥ १३ ॥

ओं ह्रूं ज्येष्ठायै नमः । ओं ह्रूं रौद्र्यै नमः ।
नवशक्तीरिमा न्यस्य देवी ध्यानं च कारयेत् ॥ १४ ॥

हेमवर्णां सकुसुमां चन्दनादि विलेपिताम् ।
चतुर्भुजां त्रिणेत्रां च सर्वलक्षण संयुताम् ॥ १५ ॥

प्. ९६९)

अनेकाभर * * * * * * * * * * * ।
एवं ध्यात्वा जगद्धात्रीं गौर्याभ * * * * * ॥ १६ ॥

ओं गौं गौर्यै नमः । * * * * * * * * नमः ।
ओं ह्रीं ह्रीं सः महागौरि रुद्रदयिते नमः ॥ १७ ॥

ओन्नमो गौरि रुद्रदयितायै स्वाहा ।
इति मूलमन्त्रः । ओं गां हृदयाय नमः ॥ १८ ॥

ओं गीं शिरए स्वाहा । ओं गूं शिखायै वषट् ।
ओं गैं कवचाय हुम् । ओं गौं नेत्रत्रयाय वौषट् ॥ १९ ॥

ओं गः अस्त्राय फट् । ओं सीं ज्ञानशक्तये नमः ।

ओं सिं नमः ।

  • * * मन्त्र पूर्वोक्तः सुभगाद्या अनन्तरम् ॥ २० ॥


प्. ९७०)

  • * * * सुभगायै नमः । सूं कामिन्यै नमः ।

ओं सैं काममालिन्यै नमः । * * * * * * * ॥ २१ ॥

एता गौरीसमानास्युः शक्तयो नन्दिकेश्वर ।
एवं ध्यात्वा सुसंपूज्य सुगन्धैः कुसुमाक्षतैः ॥ २२ ॥

निवेद्य वेदनादीनि पूर्ववन्नन्दिकेश्वर ! ।

इत्यचिन्त्यविश्वसादाख्ये गौरीप्रतिष्ठाविधिरेकोन षष्टितमः पटलः ॥




  • * * * * * ष्वास शृणुत्वं नन्दिकेश्वर ! ।

विद्यान्तासनशर्य * गंस त्रयमथो न्यसेत् ॥ १ ॥

प्. ९७१)

ईश्वरं तत्र विन्यस्य व्योमादि क्ष्मान्तपञ्चकम् ।
शुद्ध्यादि पूर्ववत्कुर्यात् कृत्वा पिण्डं च पूर्ववत् ॥ २ ॥

स देश पदपर्यन्तं विन्यस्तं रत्नपञ्चकम् ।
शक्त्या च सर्वतो मुख्यास्संस्थाप्य विधिवत्ततः ॥ ३ ॥

स्थाणुना विधिवत्सूर्यं शक्त्यन्तं स्थापयेद्गुरुः ।

  • * * * म्यं तथा * * क्षन्तं नाम धारयेत् ॥ ४ ॥


सूर्यमन्त्रास्तुष्टव्या स्था * * * * * * * * ।

  • * * * * * * * वक्ष्येहं नन्दिकेश्वर ॥ ५ ॥


आरामे चालये वापि पुण्यदेशे मनोरमे ।
आत्मार्थं च परार्थं च स्थापनं च विधीयते ॥ ६ ॥

प्. ९७२)

परार्थे व्यचलत्वं वै विशेषत्वाच्च कीर्तितः ।
मण्टपं मण्डलं कुण्डं पूर्ववन्नन्दिकेश्वर ! ॥ ७ ॥

पूर्वादीशान पर्यन्तं परिवारमथोच्यते ।
उन्मत्तं ललितं भीमं तीक्ष्णदंष्ट्रं नमम् ॥ ८ ॥

वि * * * * * * * * * * * * * भवेत् ।
विकटं भीमसंज्ञं च द्वारपार्श्वे प्रकल्पयेत् ॥ ९ ॥

कुम्भोदकं च निर्माल्य धारणं चैव देशिके ।
आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा ॥ १० ॥

अविघ्नो विघ्नराजश्च भक्ष्याशी पञ्चहस्तकः ।
अष्टमूर्त्यधिपा ह्येते अथवा हस्तिवक्त्रकः ॥ ११ ॥

प्. ९७३)

विमेख

भूतरूपौ द्वारपालौ द्विभुजौ हलदण्डकौ ।
दंष्ट्राकरलवदनौ * * * स्कन्दपादकौ ॥ १२ ॥

मध्य पद्मे गणाध्यक्षं सर्वतारोपशोभितम् ।
गजाननो महाकायः प्रलम्बोदर संयुतः ॥ १३ ॥

व्यालयज्ञोपवीती च हृस्वज.घाद्वयान्वितम् ।
सन्ध्याभ्रसन्निभोवापि नीलनीररुहप्रभः ॥ १४ ॥

तप्तकांचन संकाशः शुद्धस्फटिक सन्निभः ।
श्यामवर्णमयो वापि यथेष्टफलयोगतः ॥ १५ ॥

पाशाङ्कुशौ स्वदन्तं च लड्डुकं चोत्पलं तथा ।
किरीट मकुटोपेतं शुक्लयज्ञोपवीतवान् ॥ १६ ॥

प्. ९७४)

सर्वाभरण संयुक्तो नेत्रत्रय विराजितः ।
पीठस्थं मूषिकस्थं वा सिह्मस्थं वाथ कल्पयेत् ॥ १७ ॥

बेरशुद्धिं ततः कृत्वा ग्रामादीनां प्रदक्षिणम् ।
जलाधिवासनं कुर्याल्लम्बकूर्च समन्वितम् ॥ १८ ॥

अष्टकुम्भन् न्यसेत् पश्चान्नर्मदाद्यष्टतीर्थकम् ।
कुण्डानि पञ्चकं चैवमथवा परिकल्पयेत् ॥ १९ ॥

शिल्पिनोद्वासनं कृत्वा पुण्याहं वाचयेद्द्विजैः ।
जलादानीय विघ्नेशं स्नानवेद्यां तु विन्यसेत् ॥ २० ॥

मण्डपस्योत्तरे भागे स्नपनं पूर्ववच्चरेत् ।
रक्षासूत्रं च बध्वा तु मूलमन्त्रं पठेद्बुधः ॥ २१ ॥

प्. ९७५)

संशिरोदेशपरितो परितोऽष्टघटान् न्यसेत् ।
नवरत्नादिकं न्यस्त्वा वासाभ्यां क्रमवेष्टनम् ॥ २२ ॥

पात्रहोमादिपुष्पाद्यैस्तर्पयेज्जुहुयात्ततः ।
समिदाज्य चरूंश्चैवं अष्टद्रव्यैश्च होमयेत् ॥ २३ ॥

सहस्रमर्धमर्धं वा शतमष्टोत्तरं तु वा ।
मूलमन्त्राद्दशांगानां * * * * न्तु विक्रिया ॥ २४ ॥

मूर्तिपानां तदर्धं स्यात् तत्वतत्वेशहोमकम् ।
स्वस्वमन्त्रेण शान्त्यर्थं प्रोक्षणं कारयेद्गुरुः ॥ २५ ॥

दर्भैस्संस्पर्शनं वापि प्रतिभागं समाचरेत् ।
आसीनासनमेवं हि प्रातःकाले गुरुः स्वयम् ॥ २६ ॥

प्. ९७६)

नित्यकर्मद्वयं कृत्वा मण्डलादि प्रवेशनम् ।
उद्धृतं विघ्नराजानं कुम्भ वह्न्यादिमर्चयेत् ॥ २७ ॥

प्रायश्चित्तमघोरेण शतं वा होममाचरेत् ।
पूर्णाहुतिं च जुहुयात् प्रविशेद्भगवान्गुरुः ॥ २८ ॥

रत्नौषध्यादि संयुक्तां शिलां ब्रह्ममयीमपि ।
पूर्णान् न्यस्त्वा ततः पश्चाद्विघ्नराज प्रतिष्ठितम् ॥ २९ ॥

प्रायोद्विघ्नस्य मूलेन मन्त्रेण च समर्चयेत् ।
सुमुहूर्ते विशेषेण मन्त्रन्यासादिकं चरेत् ॥ ३० ॥

चलं चेत् स्नानवेद्यां तु मन्त्रन्यासादिकं भवेत् ।
तत्तत्कुम्भोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ॥ ३१ ॥

प्. ९७७)

तत्वमूर्त्त्यादि विन्यासं पूर्ववत्कारयेद्गुरुः ।
एवं च स्नपनं कृत्वा नैवेद्यं च निवेदयेत् ॥ ३२ ॥

आचार्यं पूजयेत् पश्चान्मूर्तिपांश्च विशेषतः ।
वस्त्रहेमांगुलीयाद्यैः स्तोषयेद्गुरु मूर्तिपान् ॥ ३३ ॥

विघ्नेशस्थापनात् सर्वसिद्धयश्च भवन्ति हि ।

इत्यचिन्त्य विश्वसादाख्ये विघ्नेश स्थापनविधि पटलः ॥


स्थापनं तव नन्दीश ! भुक्तिमुक्तिफलप्रदम् ।
त्रिणेत्रं चतुर्भुजं शान्तं कृताञ्जलि पुटस्थितम् ॥ १ ॥

प्. ९७८)

मृगं च परशुं चैव करालम्बित वेत्रकम् ।
जटामकुट संयुक्तं नमाशुश्रिं * * * * खम् ॥ २ ॥

वामे तु सुयशादेवी संयुक्तं लक्षणान्वितम् ।
बालेन्दुशेखरं चैव कालकण्ठविराजितम् ॥ ३ ॥

बालसूर्य प्रतीकाशं रुद्राक्षैर्लक्षणान्वितम् ।
देवीं च श्यामवर्णाभां सर्वालंकारसंयुताम् ॥ ४ ॥

अंकुरं रत्नविन्यासमधिवासादिकं तथा ।
शयनारोपणं चैव पूर्ववन्नन्दिकेश्वर ॥ ५ ॥

देवस्य पुरतः कुम्भान्वेदिमुद्दिश्य वर्धनीम् ।
वसुकुम्भान् न्यसेद्दिक्षु * * रांश्चापि पूजयेत् ॥ ६ ॥

प्. ९७९)

त्रितत्वमष्टमूर्तिश्च मूर्तीशान् शिववन् न्यसेत् ।
वामबीजांग संयुक्त देवं देव्याश्च शक्तिमत् ॥ ७ ॥

होमकर्म विधातव्यं पूर्ववद्रत्नगर्भकम् ।
प्रभाते मूर्तिपैस्सार्धं स्नापयेद्विधिना गुरुः ॥ ८ ॥

गन्धपुष्पादिकं सर्वं नैवेद्यान्तं तथैव च ।
ततः प्रभृतिनन्दीशमर्चयेद्भक्ति संयुतः ॥ ९ ॥

इत्यचिन्त्यविश्वसादाख्ये नन्दिकेश्वरस्थापनविधिः षष्टितमः पटलः ॥

 

परार्थं विषये चैव नित्योत्सवविधिं शृणु ।
दक्षिणतस्तु कर्तव्यं वामे वा शुद्धभूतले ॥ १ ॥

प्. ९८०)

प्रासादे मण्डपे वापि गोमयालेपनं भवेत् ।
अस्त्रेण प्रोक्षणं कृत्वा पात्रं लक्षण संयुतम् ॥ २ ॥

सौवर्णं राजतं ताम्रं कांस्यं मृण्मययान्वितम् ।
रन्ध्रांगुलं समारभ्य व्योमांगुलविवर्धनात् ॥ ३ ॥

द्वात्रिंशदंगुलान्तं तु पात्राणां मानकं भवेत् ।
सुवृत्तं चासनोपेतं कर्णिकादलराजितम् ॥ ४ ॥

तत्पार्श्वे रससप्ताष्ट ग्रहदिग्रहभाजने ।
एकद्वित्रिचतुष्पञ्चषट् * * * * का भवेत् ॥ ५ ॥

शेषेन मानमाख्यानं विकाराष्टदलं मतम् ।
अर्धत्रिपादमात्रं वा द्विमात्रं कर्णिकोच्छ्रयम् ॥ ६ ॥

प्. ९८१)

तद्वतोषु समोपेतं पात्रं केवलमेव वा ।
कुडुम्बद्वयमारभ्य कुडम्बाध्या विधि ॥ ७ ॥

तण्डुलं कल्पयेदन्न लिंगार्थं समुदाहृतम् ।
अन्नलिंगं त्रिकालेपि प्रातर्मध्याह्नकेषु च ॥ ८ ॥

पुष्पलिंगं तु पूर्वाह्ने मध्याह्ने वाथ कल्पयेत् ।
प्रदोषेक्षतलिंगं स्यात् तत्र पाशु * * * * ॥ ९ ॥

चन्द्रशेखरसंयुक्ते तद्विहीने मेव हि ।
त्रिधा पाशुपतो ज्ञेयो मिश्र शान्तोग्रभेदतः ॥ १० ॥

द्विहस्तश्च चतुर्हस्तः सौम्यस्सौम्येक्षणान्वितः ।
विद्युन्मालानिभश्चेतो जटामकुटमण्डितः ॥ ११ ॥

प्. ९८२)

  • * * * क्षमालायुगि रवेरपरपावयुक् ।

वरदाभयपाणिर्वा सर्वलक्षणसंयुतः ॥ १२ ॥

पाशाक्षमालां हित्वा वै पद्मं घण्टां क्रमेण वै ।
योजयेत् सौम्यमूर्तिः स्याद्रत्नगर्भं विशेषतः ॥ १३ ॥

रौद्रं पाशुपतं वक्ष्ये शृणुत्वं नन्दिकेश्वर ।
शूलमूलाभये दक्षे शूलाग्रवरदान्वितः ॥ १४ ॥

रौद्रदृष्टिं ज्वलत्केशं व्यत्यासकरशूलकम् ।
त्रिशूलास्त्रकरं वौषट् त्रिधा रौद्रीं स्मरन्यजेत् ॥ १५ ॥

एतन्मिश्रं तु मिश्रः स्यात्परशुं शूलमावहन् ।
दक्षे पाशं मृगं वामे त्वन्यथा च निगद्यते ॥ १६ ॥

प्. ९८३)

त्रिशूलमभयं सव्ये पाशं च वरदप्रभम् ।
दधद्द्विधा समाख्यातं मिश्रं पाशुपतं त्रिधा ॥ १७ ॥

पुष्पाक्षतान्न लिंगेषु * * * पूजमन्त्रतः ।
अथवा प्रतिमाकारो विधेयस्तत्प्रमाणतः ॥ १८ ॥

सपीठगोलकाकारे पीठे वा कृतमर्चयेत् ।
अन्नलिंग प्रमाणे तु मूलाग्ने समविस्तरे ॥ १९ ॥

करावधि प्रमाणान्ते सर्वलक्षण लक्षिते ।
स्थिलीकामानदण्डेन सहितं वा समर्चयेत् ॥ २० ॥

इन्दुशेखरमूर्तिः स्यात् प्रतिमालक्षणेन तु ।
पादुकात्र्यंगुले तस्मादंगुलादंगुलैर्घनात् ॥ २१ ॥

प्. ९८४)

तिथिमात्रावसानं तु तयोर्देव्य * * र्तितः ।
दैर्घ्यानुसारतः कुर्याद्विस्तारोस्यार्ध उच्छ्रयः ॥ २२ ॥

अष्टांशावनतो मध्यमनेनुपानकम् ।
तयोस्तु वृषभः पूज्यः स्नानान्तो वा प्रकीर्तितः ॥ २३ ॥

समन्ताल्लोकपाः पूज्याः पूर्वादीशावसानके ।
नवांगलिंग संयुक्तमथ नित्योत्सवं नयेत् ॥ २४ ॥

सर्वैरेतैस्समायुक्त नित्योत्सवमथाचरेत् ।
द्वाभ्यां त्रिभिश्चतुर्भिर्वा पूर्वाह्ने च प्रदोषके ॥ २५ ॥

मध्याह्ने केवलं पूज्योऽथवा पाशुपताह्वयः ।
रंगे वा शिबिकायां वा परिचारकमूर्धसु ॥ २६ ॥

प्. ९८५)

आरोप्य सुकृतं देवं वितानेन समन्वितम् ।
छत्रचामर संयुक्तं नानाध्वजसमायुतम् ॥ २७ ॥

नृत्तगीत समायुक्तं प्रदक्षिणमथाचरेत् ।
आद्यं प्रदक्षिणं कुर्याद् भृंगिणी तालसंयुतम् ॥ २८ ॥

वृषस्य वृषलम्बं स्याद् भृंगिणीतालवह्नितालकम् ।
मातॄणां चन्द्रतालं स्या विघ्नेशं धरकी भवेत् ॥ २९ ॥

उत्कटं च ग्रहे प्रोक्तं ज्येष्ठायां पुन्नितालकः ।
तटप्रभारं दुर्गायां विषमश्चिन्त चण्डिके ॥ ३० ॥

ग्रामे वा नगरे वापि बाह्यप्राकार एव वा ।
द्वितीयभ्रमणं ह्येतन् महापीठप्रदक्षिणम् ॥ ३१ ॥

प्. ९८६)

एकं वापि द्वयं वापि त्रयं वा शम्बरीयुतम् ।
अथवा बलिपीठे तु ब्रह्मतालसमन्वितम् ॥ ३२ ॥

गजतालेन संयुक्तं द्वयं कुर्यात्प्रदक्षिणम् ।
पैशाचे ज्वलमेवं स्याच्छावरी तालसंयुतम् ॥ ३३ ॥

गोपुरे वाद्यहीनं स्याच्छंखध्वनि समन्वितम् ।
दक्षिणे भृंगिनी तालं कौशिकेन समन्वितम् ॥ ३४ ॥

चालोफाणि समायुक्तं शांकरे ढक्करी मता ।
एवं प्रदक्षिणं कृत्वा तृतीयं धाम संविशेत् ॥ ३५ ॥

प्रक्षालितांघ्रयस्सर्वे प्रविशेयुः शिवालये ।
अथवा मण्टपादौ तु पीठसंस्थानमत्क्रमात् ॥ ३६ ॥

प्. ९८७)

वाद्याद्यैरुपचारैस्तु पूजयित्वा प्रवेशयेत् ।
एवं लिंगात्समास्तित्य लिंगदक्षे निवेशयेत् ॥ ३७ ॥

शिवस्य पादौ वा पूज्यौ पादुके दक्षवामके ।
अन्यासामपि देवीनां देवानां मूलबिम्बवत् ॥ ३८ ॥

रूपान्तरं स्वयं सिद्धं नित्योत्सवमथाचरेत् ।
संपाद्यं तेन नित्यं तु नित्योत्सवमथाचरेत् ॥ ३९ ॥

तदस्त्रमन्नलिंगादौ पूजनीयं स्ववाहनम् ।
पादुकाद्वितयं पूज्यं नित्योत्सवविधि क्रमात् ॥ ४० ॥

इत्यचिन्त्य विश्वसादाख्ये नित्योत्सवविधिरेकषष्ठिः पटलः ॥

 

प्. ९८८)

विष्णोस्तु स्थापनं वक्ष्ये शृणुत्वं नन्दिकेश्वर ! ।
मण्टपं मण्डलं कुण्डं पूर्ववद्विधिना भवेत् ॥ १ ॥

स्नानादिकं च सर्वं च संपूज्यं पूर्ववत्तथा ।
हास्तिकं भद्रपीठं तु कल्पयेल्लक्षणान्वितम् ॥ २ ॥

तारपाशमहामायान्धण्डीशो वा भवस्थया ।
पुनश्चतां नमस्कारं सर्वे वै प्रणवादिकाः ॥ ३ ॥

चतुर्थी कन्यनन्ता पञ्चात्महृदयं शिरः ।
शिखाश्च कवचं तत्र अस्त्रमन्त्रैस्तु मध्यगैः ॥ ४ ॥

मन्त्रा भवन्ति पद्माद्याः क्रमात्सस्तैव ते कथा ।
तारं हृदय संयुक्तं भगवते तथैव च ॥ ५ ॥

प्. ९८९)

वासुदेवाय इत्येवं द्वादशार्णो महामनुः ।
अवान्तरेण रूपेण ध्येयमूर्तिस्समीरिता ॥ ६ ॥

अनेनैव तु मन्त्रेण विष्णुस्साक्षाद् व्यवस्थितः ।
मण्टपादिषु संस्कारो दिगीशावाहमाचरेत् ॥ ७ ॥

कृत्वा हृदा हृदास्त्रेण गायत्र्या वचनेन च ।
अथ लक्ष्मी पुनः स्थानं देवस्य च यथाक्रमम् ॥ ८ ॥

परिधाप्य च वासांसि दत्वा पूर्ववदासनम् ।
निवेश्य मूर्तिरूपं तु शययायां तदनन्तरम् ॥ ९ ॥

द्वादशाक्षरमन्त्रस्य कृत्वा न्यासमनन्तरम् ।
खड्गादीनां च विन्यासं मन्त्री कुर्याच्च तद्यथा ॥ १० ॥

प्. ९९०)

शिरो घ्राणललाटेष्वास्य कर्णहृदयेषु च ।
दक्षिणौ वामपादौ ध्यादक्षमाजांघ्रिषु क्रमात् ॥ ११ ॥

ज्वालामाकुलयेत्तं मे चक्रादित्य समप्रभा ।
पीतश्शुक्लारुणःश्वेत विद्युत्पीत सितारुणाः ॥ १२ ॥

प्रणवादि यकारान्त द्वादशार्णात् क्रमान् न्यसेत् ।
शिखायां खड्गविन्यासं ललाटे जगवमेव च ॥ १३ ॥

चतुर्थ्यन्तं नमोन्तेन स्वनाम्ना प्रणवेन च ।
लगं च मुसलं चैव बाह्येत्येकोदनन्तरम् ॥ १४ ॥

प्रणवाद्येन चारूढ चक्राथमध्यवर्तिताः ।
नमस्कारेण मन्त्रेण नाभी जठर पृष्ठयोः ॥ ५ ॥

प्. ९९१)

प्रणवेनाथ पूज्यं तु हं हां शंखाय नमस्तथा ।
गुरुं शंखं च शि * * * * * * * * * * ॥ १६ ॥

  • * * * च मेढ्रेषु शंखवह्निं निवेशयेत् ।

तारपूर्वं श्वं ढं पाषं गदायै च नमोणुना ॥ १७ ॥

मन्त्रविद्यात्मने चैव जंघाजानुषु विन्यसेत् ।

  • * * * * * * * * * पादेषु निक्षिपेत् ॥ १८ ॥


ग्रीवायां माधवं कर्णे गोविन्दं हृदये भवेत् ।
विष्णुं च पृष्ठवंशे तु तथवं मधुसूदनम् ॥ १९ ॥

त्रिविक्रमं तु जठरे वामनं * दयोर्युगे ।
श्रीधरं जंघनैञ्चैव हृषीकेशमनन्तरम् ॥ २० ॥

प्. ९९२)

पादयोः * * * सर्वान् पूर्वभागे विनिक्षिपेत् ।

  • * * * * क्षामन्त्रैरक्षणादि स्वसंज्ञया ॥ २१ ॥


द्वितीयं हृदयाद्यं तु प्रोच्यते साम्प्रतं यथा ।
नमोन्तरं हृदयाद्यैश्च ओं ह्रीमित्यादिकास्तथा ॥ २२ ॥

मन्त्रो हृदयसंज्ञः स्यादों नमो विष्णवे नमः ।
शिरोऽभिधायितोमन्त्र प्रसिद्धैर्नन्दिकेश्वर ॥ २३ ॥

प्रणवाद्यं नमोन्तं च ब्रह्मणेति ध्रुवेण च ।
शिखां वर्मक्रमादस्त्रमों चक्रीति पठन्तिकम् ॥ २४ ॥

ओं काभ्रद्विनमोन्तौ च शाम्भवं विजयाविमौ ।
गायत्रीं चापि सावित्रीं प्रणवादि नमोऽन्तकम् ॥ २५ ॥

प्. ९९३)

तारादिकं नमोन्तं च क्षीरूपा ये विमध्यगः ।
सप्तार्णं पिण्डमाख्यं च मन्त्रोऽयं सर्वसिद्धिदः ॥ २६ ॥

मात्रामेतां चतुर्थ्यन्तां चतुर्थ्यन्तान्ग्रहादिकान् ।
गायत्रीं चापि सावित्रीं नेत्रयोर्वामदक्षयोः ॥ २७ ॥

यथा स्थानं च विन्यस्य पूजयेद्भक्तिसंयुतः ।
ओं क्षं पिंगलाक्षरूपाय नमः ॥ २८ ॥

चक्रास्त्वादशारं च ज्योतिषा भास्करं परम् ।
तन्मध्ये च पुनर्देव यं पद्माष्टदलं भवेत् ॥ २९ ॥

कर्णिकायां च हृदयं पूर्ववक्त्रे शिरस्तथा ।
सव्ये दले शिखां चापि पश्चिमे कवचं न्यसेत् ॥ ३० ॥

प्. ९९४)

अस्त्रमुत्तरतो न्यस्य गायत्रीं वह्निपत्रके ।
ऐशे दले च सावित्रीं राक्षसं नेत्रमन्त्रकम् ॥ ३१ ॥

पिंगलास्त्रं वायुदले चान्तरालारुणं भवेत् ।
अथ द्वितीयावरणं चक्रे वै द्वारदेशके ॥ ३२ ॥

केशवादि नमस्कार तारयुक्ता स्वनामभिः ।
दामोदरान्तमन्त्रे च पूर्वादिषु यथा क्रमम् ॥ ३३ ॥

विन्यस्य पश्चात्तद्बाह्ये खड्गं कौमोदकीं तथा ।
गदां च चक्रं शंखं च पद्मं च हलमेव च ॥ ३४ ॥

मुसलं च तथा शार्ङ्गं विन्यसेन्नन्दिकेश्वर ।
गन्धैः पुष्पैश्च नैवेद्यैर्वस्त्रालंकरणादिभिः ॥ ३५ ॥

प्. ९९५)

अंगैरावरणैस्सर्वैर्वासुदेवं सुपूजयेत् ।
न्यासे तु पञ्चमूर्त्त्यन्ते मूलमन्त्रो भवेद्यथा ॥ ३६ ॥

नमोन्ते वासुदेवाय ओं ह मित्यादिकस्तथा ।
ओं हां रीं रं अं तथा । ओं अं ओं युग्मकपूर्वका ॥ ३७ ॥

संकर्षण प्रद्युम्न निरुद्धाख्य संज्ञकाः ।
नारायण क्रमादेता नमोऽन्ताश्च चतुर्थियुक् ॥ ३८ ॥

मूर्तीशमूर्तयः पश्चात् पञ्च क्षित्यादि पूजयेत् ।
अंगानां चापि विन्यासो यथा पूर्वं प्रपूजनम् ॥ ३९ ॥

अष्टमूर्त्यादि पक्षे तु पूर्वोक्ताश्च तदीश्वराः ।
मूलमन्त्र सहस्रं च तदर्धं देशिको जपेत् ॥ ४० ॥

प्. ९९६)

पूर्णाहुतिं च जुहुयात् हुत्वा श्रोत्रे निवेदयेत् ।
यागदोष निवृत्त्यर्थं बलिदानं च दापयेत् ॥ ४१ ॥

हृदि हुत्वा तु तद्वच्च संकुर्यात् पिण्डिकामतः ।
लक्ष्यो नमोवन्मूर्त्त्या न तु ओं भं फं ध्रुवानिरा ॥ ४२ ॥

मन्त्रेणानेन संचिन्त्य लक्ष्मीर्भूत्वा च पूर्ववत् ।
पञ्चसंख्यान्त मन्त्रैश्च तन्मध्ये च व्यवस्थितः ॥ ४३ ॥

अक्षिरै हृच्छिरास्त्रस्य वर्मनेत्राभिधायकैः ।
हुंफडस्त्रावसानेन समुदायेन वा क्वचित् ॥ ४४ ॥

पूर्ववत्तां च संस्मृत्य प्रसादे वेशयेत्ततः ।
व्यापिनीं प्रकृतिं तस्य लक्ष्मी मन्त्रेण पीठिकाम् ॥ ४५ ॥

प्. ९९७)

ओं ओं लक्ष्मीमूर्तये नमः । ओं यं टं रं भं फं लक्ष्म्यै नमः ।
पूर्वविन्यस्तरत्नां च तत्र च द्वादशाक्षरम् ॥ ४६ ॥

पुरुषान्तं समुच्चार्य पीतवस्त्रं चतुर्भुजम् ।
शंखं चक्रं गदां खड्गं भस्मं च वनमालिनम् ॥ ४७ ॥

सर्वेपयेच्च चक्रं च चक्र पद्मासनं भवेत् ।
नमोऽन्तव्यापनान्तं तु मूर्त्त्या युग्मशनीस्तथा ॥ ४८ ॥

तन्मात्रेष्वात्म तत्वं तु विद्यातत्व प्रधानकम् ।
पुरुषान्तं भवेदीशं विभाव्यैव मतः परम् ॥ ४९ ॥

परावरं समावाह्य देवं त्र्यावरणान्वितम् ।
भक्त्या संपूज्य विधिवत्तेषां पूर्ववदाचरेत् ॥ ५० ॥

प्. ९९८)

स्वाम्यन्तं माधवान्तं वा कर्तृनाम्ना तु संयुतम् ।
धारयेन्नाम देवस्य विष्णोः स्थापनमुत्तमम् ॥ ५१ ॥

इत्यचिन्त्य विश्वसादाख्ये विष्णुस्थापनविधिश्चतुष्षष्टितमः पटलः ॥



अथ वक्ष्ये विशेषेण विद्यापीठ प्रतिष्ठिकाम् ।
विद्या च द्विविधा प्रोक्ता संस्कृत्यन्यात्मिका भवेत् ॥ १ ॥

प्रासादे वा मठे वापि शुद्धदेशे गृहेऽपि वा ।
भक्तोक्तस्थानके वापि सर्वतीर्थान्तरालके ॥ २ ॥

  • * * * न कर्तव्यं विधिना नन्दिकेश्वर ।

पूर्वोक्त पुस्तकं वापि अथवा लक्षणं शृणु ॥ ३ ॥

प्. ९९९)

अंगुलत्रयमारभ्य व्योमांगुलविवृद्धितः ।
पञ्चविंशति मात्रान्तं भवेत् पुस्तकदैर्घ्यकम् ॥ ४ ॥

व्योमांशात्पादवृद्ध्या वा अर्धमात्रावसानिकम् ।
प्रमाणं च विशालं स्यात् पक्षवह्नियुतं तु वा ॥ ५ ॥

भूर्जेत्यक्तारवे वापि तालीदल समुच्चये ।
तालं वा भूर्जपत्रं वा पदादौ स्वर्णपत्रके ॥ ६ ॥

कामे शैलेन दार्वादौ * * * * क्षरैः शुभैः ।
मष्या वा धातुना वापि लिखेत् तूलिकयापि वा ॥ ७ ॥

नाराचेनापि वा कुर्याद्देशिकः शिष्य एव वा ।
शुभवारे सुनक्षत्रे सुलग्ने च प्रसन्नधीः ॥ ८ ॥

प्. १०००)

विप्राद्यदीक्षितैर्जातु शिवज्ञानं न लेखयेत् ।
अदीक्षितसकाशे च नाध्येतव्यं विशेषतः ॥ ९ ॥

नानादेश समुद्भूतैरक्षरैः कृतिसंस्कृतैः ।
लेखयेद्विशदैर्वर्णैर्जप लुक्तायतं शुभम् ॥ १० ॥

प * * * * भिस्सर्वैरसंकीर्णं परस्परम् ।
शिवं सुगन्धैरभ्यर्च्य मातृकां शिवरूपिणीम् ॥ ११ ॥

वस्त्राद्यैर्देशिकश्चैषु पत्रिकामपि पूजयेत् ।
गोमयालिप्त भूभागे पुष्पव्रज सुशोभिते ॥ १२ ॥

गन्धधूपादि संयुक्ते ज्वलद्दीप समन्वितम् ।
शुद्धशैव समायुक्तो लिखेद्वा पाठधारणम् ॥ १३ ॥

प्. १००१)

दीर्घकालेन जीर्णत्वाच्छिवज्ञानस्य पुस्तकम् ।
न्यूनातिरिक्त वा * * * * * * प्रमादिभिः ॥ १४ ॥

प्रमादाधीत पाठस्य नाशितस्याल्प बुद्धिभिः ।
अल्पज्ञान समोपेतैराचार्याशोधितैरपि ॥ १५ ॥

व्यर्थार्थैरप्युपेतस्य पुनरुक्तिरकारणात् ।

  • * * रविरुद्धस्य स्वसिद्धान्त विरोधिनम् ॥ १६ ॥


छन्दसातीव नष्टस्य श्रुतार्थ रहितस्य च ।
इत्येवमादिभिर्दोषैः उपेतस्य क्वचित्क्वचित् ॥ १७ ॥

यः करोति पुनस्सम्यक् संस्कारं देशिकस्सुधीः ।
शिवत * * * * द्यः स विद्या परमेश्वरः ॥ १८ ॥

प्. १००२)

न बोधयेत भक्तांस्तु शिवभक्तांस्तु बोधयेत् ।
शिवविद्यानुसारेण विद्यादानं तदुच्यते ॥ १९ ॥

संस्कृतैः प्राकृतैर्वाक्यैर्देशभाषा प्रकाशजैः ।
संस्कृत प्रभवैश्शब्दैः विशुद्धैस्संस्कृतैरपि ॥ २० ॥

देशभाष्याद्युपायैश्च तथा भूतागमैरपि ।
प्रदेशवर्तिभिर्वाक्यैर्बोधयेद्देशिकोत्तमः ॥ २१ ॥

यथा शिवस्य नैवान्तस्संपूर्णस्य महा * * ।

  • * * गुणमैश्वर्यं विद्यादानस्य तत्फलम् ॥ २२ ॥


कीर्तिं श्रियं च महतीं सौख्यं मोक्षं समाप्नुयात् ।
घोरं च नरकं याति शिवज्ञानस्य नाशकः ॥ २३ ॥

प्. १००३)

शिववत्पूजयेत् पश्चाच्छिवज्ञानप्रकाशकम् ।
प्रत्यहं लेखयेद्विद्यान् यथाशक्ति सुबुद्धिमान् ॥ २४ ॥

यावत्यक्षरसंख्या स्याच्छिवज्ञानस्य पुस्तके ।
तावद्युगसहस्राणि शिवलोके महीयते ॥ २५ ॥

दश पूर्वान्समुद्धृत्य दश वंश्यांस्तु पश्चिमान् ।
मातृकस्वधर्म * * स्वार्थं स्वर्गं समेत्य च ॥ २६ ॥

स्वर्गे संस्थापितान् सर्वान्स्वयं शिवपदे वसेत् ।
अपि श्लोकं तदर्धं वा शिवज्ञानस्य वाक्यकम् ॥ २७ ॥

वाचयेच्चिन्तयेद्वापि लिखेद्वालेखयेत्तु वा ।
शृणुयादेक चित्तस्तु तदर्थमपि धारयेत् ॥ २८ ॥

प्. १००४)

अन्येभ्यः श्रावयेद्यस्तु तस्य पुण्यफलं महत् ।
शिवज्ञानाभियुक्तस्य भोजनाच्छादनं महत् ॥ २९ ॥

आसमाप्तेस्तु संरक्षां विद्यादानं फलं भवेत् ।
वश्येन्नकार * * येऽथ तदेव फलमश्नुते ॥ ३० ॥

यस्य राज्ये शिवज्ञान व्याख्यानं वर्तते सदा ।
स राजा वर्तते राष्ट्रं स नृपोऽप्यजितो भवेत् ॥ ३१ ॥

राष्ट्रराजगुरुनेतान् सेनापत्येऽन्य कर्मणि ।
पुरोहितत्वे सर्वेषां राजकार्येत्यदर्शने ॥ ३२ ॥

दीक्षितास्तेऽपि सर्वेवै योगान्यन्येऽपि केचन ।
तस्मात् सिद्धान्तशैवेन शुद्धशैव विदारणात् ॥ ३३ ॥

प्. १००५)

शान्तिकं पौष्टिकं कर्म नेयं राजा विशेषतः ।
एवं विद्या प्रभावत्वात् पावनं च शृणुष्व वै ॥ ३४ ॥

त्रयस्तन्तु समन्तं स्यात् त्रयस्त्रिंशत्कराणुना ।
विद्याशाला विशालास्यात्प्रासादे वाथ मण्डपे ॥ ३५ ॥

एकशालादिभेदेन शालोपलक्षणान्विता ।
विद्यापीठस्य विस्तारः सप्तांगुलि विशालतः ॥ ३६ ॥

सर्वलक्षण संयुक्तं मानोन्मानयुतं परम् ।
चतुरश्चस्तमो पास्याद् आयामाग्रं तु वा भवेत् ॥ ३७ ॥

विध्युक्तासनके चान्ये शिवज्ञानं यजेद्गुरुः ।
प्रोक्षयेत् पञ्चगव्येन शिवज्ञानाख्यविद्यताम् ॥ ३८ ॥

प्. १००६)

मण्डपे स्थण्डिलं कृत्वा वस्त्रोर्ध्वे तान्निवेशयेत् ।
आसनाद्यं विधेयं च मूर्तिमूर्तीश संयुताः ॥ ३९ ॥

शिवभेदे शिवः पूज्यो रुद्रभेदे स एव हि ।
मध्ये तु शिवकुंभं तु पार्श्वयोर्मकरद्वयम् ॥ ४० ॥

विद्येशांस्तत्र संपूज्य पूर्ववद्धोममाचरेत् ।
मन्त्रन्यासं गुरुः कृत्वा मध्ये तु परमं शिव ॥ ४१ ॥

पट्टिकायां न्यसेत्तत्र देवीं परमसुन्दरीम् ।

इत्यचिन्त्यविश्वसादाख्ये विद्याप्रतिष्ठाविधिः पञ्च षष्टिः पटलः ॥



प्. १००७)

अथ वक्ष्ये विशेषेण भक्तानां स्थापनं शिवे ।
विप्रक्षत्रिय विट्च्छूद्रास्त्वन्तरालास्त्रियोऽपि वा ॥ १ ॥

शिवभक्ति समापेता जीवन्तो वा मृताश्च वा ।
कृत्वा तेषां प्रतिकृतिं प्रतिष्ठाप्य समाचरेत् ॥ २ ॥

शैव पाशुपताश्चैव महाव्रतधराश्च ये ।
कौमाररौरवाद्यैश्च येन मार्गेण दीक्षिताः ॥ ३ ॥

तेषां तेनैव मार्गेण स्थापनाद्यं विधीयते ।
सर्वेषामपि शैवानां स्थापनं द्विविधं मतम् ॥ ४ ॥

स्वप्रधानं परांगं च रत्नगर्भं विशेषतः ।
अग्रहारे पुरादौ वा नदीतीरे वनेऽपि वा ॥ ५ ॥

प्. १००८)

उद्याने पुष्करिण्यादौ सर्वतो वा मनोरमे ।
स्थानेऽन्यत्र च कर्तव्यं स्वप्रधानस्य मन्दिरम् ॥ ६ ॥

देवालये येतारवादौ तत्र कल्पित मन्दिरे ।
परिवार समोपेतं स्वप्रधानं च कारयेत् ॥ ७ ॥

देवालयादौ सर्वत्र मालिकामण्टपादिषु ।
परिवारविहीनं तु कल्पितं त्वंगमिष्यते ॥ ८ ॥

त्रिहस्तं तु समारभ्य द्विद्विहस्तविवर्धनात् ।
एकविंशति हस्तान्तं विमानव्यास इष्यते ॥ ९ ॥

आयामोत्सेधगर्भाद्यं मण्टपाद्यं तथा परम् ।
प्राकारं गोपुरांगण्य मालादीनां निरीक्षणम् ॥ १० ॥

प्. १००९)

प्रथमेष्टाविधानं च गर्भसंस्थापनं तथा ।
मूर्धेष्टकाविधानं च पूर्ववत्समुदीरितम् ॥ ११ ॥

तदात्वं शिवलिंगं वा प्रतिमावा शिवस्य तु ।
विघ्नेशगुहनन्द्यादि प्रतिमाकृतिमेव वा ॥ १२ ॥

हेमराजत ताम्रादि हैमैर्लोहैश्च दारुभिः ।
मृद्भिर्वा कारयेद्धीमान् सर्वमा * * * * * ॥ १३ ॥

भित्तौ चित्रे पटे वापि कल्पयेन्नन्दिकेश्वर ।
लिंगं वा चोक्तमार्गेण प्रतिमां वापि कारयेत् ॥ १४ ॥

मानांगुलोक्तमार्गेण हर्म्यादीन्कारयेद्गुरुः ।
सर्वलक्षणसंयुक्तं सर्वमानोपशोभितम् ॥ १५ ॥

प्. १०१०)

द्वारगोपुरसंयुक्तं प्रासादींश्च प्रकल्पयेत् ।
तस्मिन्प्रति कृतिं कुर्याद्गतरुद्रानुकूलतः ॥ १६ ॥

लिंगं च तद्विधातव्यं विधिना रत्नगर्भके ।
अष्टतालेन मानेन प्रतिकृत्यां विधीयते ॥ १७ ॥

बद्धपद्मासनारूढं वाहनादौ स्थितं तु वा ।
आसनं मानविस्तारं सर्वलक्षण संयुतम् ॥ १८ ॥

मुण्डी जटी बद्धकेशः शिखी वा मकुटान्वितः ।
क्षत्रियश्चेद्विधातव्यं सर्वभूषणभूषितम् ॥ १९ ॥

यथेष्टायुधसंयुक्तं नमस्कारेण वा युतम् ।
स्त्रियः श्वेतदुकूलैश्च भूषणैर्भूषयेत्पुनः ॥ २० ॥

प्. १०११)

लक्षणं चैवमाख्यातं प्रतिष्ठाद्यं निगद्यते ।
प्रतिमोक्त प्रकारेण मधूच्छिष्टादिकं चरेत् ॥ २१ ॥

अयुगन्य * * * र्वे रत्नन्यासादिकं तथा ।
नेत्रस्योन्मीलनं चापि विधिना विधिना कारयेद्गुरुः ॥ २२ ॥

मण्डपं मण्डलं कुण्डं पूर्ववन्नन्दिकेश्वर ।
स्थण्डिलोपरि पीठं च प्रणवं कल्पयेद्गुरुः ॥ २३ ॥

तस्मिन्घटं प्रतिष्ठाप्य प्रतिमान्यासमाचरेत् ।
सुवर्ण वसुभाराभ्यां कृष्णमण्डलमालिखेत् ॥ २४ ॥

तेजामण्डलमालिख्य नेत्रं यूकप्रमाणकम् ।
नेत्रमन्त्रं समुच्चार्य क्रियामेनां समाचरेत् ॥ २५ ॥

प्. १०१२)

हेमदूर्वादलैर्नेत्रैः * * * * भिषेचयेत् ।
घृतेन मधुना वापि द्वयं संपूर्य दर्शयेत् ॥ २६ ॥

वस्त्रैर्वा चर्मजैरेव शयनं पञ्चकं हि वै ।
अनन्ताधारधर्माद्यामथोद्यासनकल्पनम् ॥ २७ ॥

तारेण मानुषं पीठं कल्पयेन्नन्दिकेश्वर ।
जलाधिवासितं बिम्बं स्नानवेद्यां न्यसेत्पुनः ॥ २८ ॥

विष्ठरे वरसंस्नानं विधिना कारयेद्गुरुः ।
वस्त्रैराभरणैर्माल्यैः भूषयेत्प्रतिमां पुनः ॥ २९ ॥

कौतुकं बन्धयित्वा तु शयनोपरि विन्यसेत् ।
पूर्वशीर्षं न्यसेद्बिम्बं तस्योत्तरे कुम्भं च कारयेत् ॥ ३० ॥

प्. १०१३)

अजपामन्त्र संयुक्तं जीवन्यासं च कारयेत् ।
व्योमाक्षरैश्च संयुक्तैः पञ्चब्रह्मषडंगकैः ॥ ३१ ॥

अंगनानां प्रतिष्ठायां शक्तिबीजं च कारयेत् ।
तत्तद्बीजेन कर्तव्यं पञ्चब्रह्मषडंगकम् ॥ ३२ ॥

जयादिसहिते तत्र प्रत्येकं वर्ण विन्यसेत् ।
स्त्रीप्रतिष्ठा स्वमन्त्राश्चेद्वर्धन्यां तु प्रकीर्तितम् ॥ ३३ ॥

पृथ्व्यादिपञ्चकं चैव मनोऽहंकारबुद्धयः ।
परिवारघटे पूजा स्वष्टौ वा वसवो मताः ॥ ३४ ॥

स्त्रीणां दिशस्तु पूर्वास्तैर्दैत्यानां परिकीर्तिताः ।
पूर्वाद्यष्टघटे वापि पुरुषे लोकपालकान् ॥ ३५ ॥

प्. १०१४)

गन्धपुष्पादिभिः पूज्य तत्वतत्वेश्वरान् न्यसेत् ।
आत्मविद्याशिवाख्यं तु तत्वत्रयमुदीरितम् ॥ ३६ ॥

आत्मानमन्तरात्मानं परमात्मानमेव च ।
क्रमेणाधिपतित्वेन पूजयेन्नन्दिकेश्वर ॥ ३७ ॥

स्त्रीणामप्येवमेव स्यादाहुतिक्ष्मादयो मताः ।
निवृत्त्याद्या मूर्तिपाःस्युरष्टमूर्तौ विशेषतः ॥ ३८ ॥

दिक्पालमूर्तिपास्तत्र तद्वदंगानि विन्यसेत् ।
अकारादिक्षकारान्तं मातृकान्यासमाचरेत् ॥ ३९ ॥

आत्ममन्त्रेण विन्यासं जीवन्यासमुदीरितम् ।
तेनैवांगन्तु विन्यस्य गन्धपुष्पादिनार्चयेत् ॥ ४० ॥

प्. १०१५)

वस्त्रेण वर्मणाच्छाद्य होमकर्म समाचरेत् ।
कुण्डसंस्कारकं * * * * णां जीवतर्पणम् ॥ ४१ ॥

पूर्वोक्तविधिना कृत्वा समिदाज्यादिशेषकम् ।
ब्रह्मो दुबरकाश्वत्थवटाः पूर्वादिषु क्रमात् ॥ ४२ ॥

अग्न्यादिषु शमी चैव खरमायूरचिल्लकाः ।
प्रधानं ब्रह्म वृक्षं स्याच्छतं वार्धं तदर्धकम् ॥ ४३ ॥

पूर्णान्तं होमकं कृत्वा तत्वतत्वेश्वरान्न्यसेत् ।
आहुतित्रितयं कुर्यात् प्रत्येकं नन्दिकेश्वर ॥ ४४ ॥

अघोरेण शतं हुत्वा प्रायश्चित्ताय देशिकः ।
शान्तितोयेन मूर्धादि पादान्तं प्रोक्षयेत्तदा ॥ ४५ ॥

प्. १०१६)

अन्तर्बहिर्बलिं दत्वा पादप्रक्षालनं कुरु ।
देशिको मूर्तिपैःस्नात्वा प्रभाते नित्यसंयुतः ॥ ४६ ॥

सर्वाभरण संयुक्तः सोष्णीषस्सोत्तरीयकः ।
अध्येतृभिश्च दैवज्ञैः शिल्पिभिस्सहितैर्युतः ॥ ४७ ॥

द्वाराधिपांश्च संपूज्य कृतकुम्भार्चनो गुरुः ।
पूर्णान्तमग्निहोमं च कृत्वोत्थाप्याथ बिम्बकम् ॥ ४८ ॥

शयनं तत्र तद्बिम्बं प्रासादादानयेत् क्रमात् ।
रत्नन्यासादिसंयुक्तं स्नानश्वभ्रे निवेशयेत् ॥ ४९ ॥

तारमासनकं कृत्वा मूर्तिमन्त्रानुकल्पितम् ।
मातृकान्यासकं कृत्वा जीवन्यासं समाचरेत् ॥ ५० ॥

प्. १०१७)

स्थापितैः कुम्भतोयैश्च स्नापयेद्गन्धपुष्पकैः ।
वस्त्राद्याभरणैश्चैव मलंकृत्वाथ देशिकः ॥ ५१ ॥

निवेद्यं च ततो दद्यात् उपचारपुरस्सरम् ।
शिवभक्तांश्च संपूज्य यथा विभवविस्तरम् ॥ ५२ ॥

ततः प्रभृति संपूज्य शिववन्नित्यमेव वा ।
सन्मार्गमात्मको नित्यमात्म मन्त्रषडंगकैः ॥ ५३ ॥

  • * * * जटं कृत्वा दीपान्तं वा हविष्यकम् ।

बल्यन्तं वा समभ्यर्च्य भक्त्या सन्मार्गनायकः ॥ ५४ ॥

तरोजपास्वनाम्ना तु नमस्कारान्तमन्त्रकम् ।
मूलमन्त्रमितिख्यातं स्वाहान्तं चाग्निकार्यके ॥ ५५ ॥

प्. १०१८)

भक्तजन्मदिने वापि कर्तृजन्मदिनेऽपि वा ।
प्रतिमासोत्सवं कुर्याद्विभवस्यानुसारतः ॥ ५६ ॥

ध्वजारोहणपूर्वं तु कर्तव्यं कर्तुमिच्छता ।
ध्वजेऽपि वृषभं कुर्याच्छिववच्चोत्सवं भवेत् ॥ ५७ ॥

नित्योत्सवसमायुक्तं पूर्णं कृत्वा तु देशिकः ।
पूर्वोत्सवं च कर्तव्यं वशिनां नन्दिकेश्वर ॥ ५८ ॥

शिवभक्त प्रतिष्ठां च यः कुर्यान्नरपुंगवः ।
तस्य श्रीर्विजयो तार्च्चिरत्ने सायुज्यमाप्नुयात् ॥ ५९ ॥

इत्यचिन्त्य विश्वसादाख्ये (भक्तप्रतिष्ठाविधिः) षष्षष्टितमः पटलः ॥



प्. १०१९)

द्वारप्रतिष्ठां वक्ष्यामि शृणुनन्दीश तत्क्रमात् ।
द्वारांगानि जयाद्यैश्च संस्कृत्यायतनं न्यसेत् ॥ १ ॥

मूलमध्याग्रभागेषु चात्मविद्याशिवान्तकम् ।
तत्वत्रयं क्रमान्न्यस्य सन्निरोध्याथ होमयेत् ॥ २ ॥

अनुरूपं जयं कुर्याद् विधिना नन्दिकेश्वर ।
वास्तुद्वारादयो यष्ट्वा तत्रैवानन्तमन्त्रतः ॥ ३ ॥

पञ्चरत्नादिकं न्यस्त्वा शान्तायामं समाचरेत् ॥
कान्तिसिद्धार्थरुद्धिश्च यववृद्धिसहानुना ॥ ४ ॥

गोमन्दरदरोगेन्द्र मोहिनीलक्षणान्वितः ।
ते च नारग्वधो दूर्वा सान्दघ्नश्च यो दलः ॥ ५ ॥

प्. १०२०)

कृत्वोर्ध्वोदुम्बरे बद्ध्वा र * र्थं प्रणवेन तु ।
द्वारमुत्तरतः किञ्चिद् आश्रितं सन्निवेशयेत् ॥ ६ ॥

आत्मतत्व मधोन्यस्य विद्यातत्वं तु शाखयोः ।
शिवमाकाशदेशे तु व्यापकं सर्वपृद्गलम् ॥ ७ ॥

ततो महेशानादींश्च विन्यसेन्मूलमन्त्रतः ।
द्वाराश्रितांश्च नन्द्यादीन् हृत्संयुक्तैः स्वनामभिः ॥ ८ ॥

जुहुयाच्छतमाद्यं वा द्विगुणं शक्तितोऽथवा ।
अस्त्रेण दोषमोक्षार्थं जुहुयादाहुतेश्शतम् ॥ ९ ॥

पूर्ववद्दिग्बलिं कृत्वा प्रदद्याद्दक्षिणादिकम् ।

इत्यचिन्त्यविश्वसादाख्ये द्वारप्रतिष्ठाविधिः सप्तषष्टितमः पटलः ॥



प्. १०२२)

स्फुरत्तारक संकाशं द्वादशान्तासमं भवेत् ।
निक्षिपेत् कुंभगर्भे च न्यस्य तन्त्रान्निवासिकम् ॥ ६ ॥

विग्रहं तद्गुणानां च बोधकं च कलादिकम् ।
क्ष्म्यान्तं च शेखरं तत्वं प्रान्तं तत्र निवेशयेत् ॥ ७ ॥

दशनाडीर्दश प्राणान् इन्द्रियाणि त्रयोर्दश ।
तत्रन्तदधिपाश्चापि प्रणवाद्यैः स्वनामभिः ॥ ८ ॥

स्वकार्यकारणत्वेन मायाकालनियामिकान् ।
विद्येशान् प्रेरकाच्छम्भुं प्रेरकश्च स्वयं वरैः ॥ ९ ॥

अंगानि च विनिक्षिप्य निरुध्यद्रोधमुद्रया ।
स्वर्णाद्याद्भवपुरुषं * * * पुरुषान्तरम् ॥ १० ॥


प्. १०२१)

चैतन्यस्य च सम्बन्धः प्रासादे वक्ष्यतेऽधुना ।
शुलनासा समाप्तौ तु पूर्ववेद्याश्च मध्यतः ॥ १ ॥

आनन्दं शक्तिपद्मे च विन्यसेत्प्रणवेन तु ।
पूर्णाद्येकतमं पूतं पञ्चगव्येन संयुतम् ॥ २ ॥

मधुक्षीरयुतं कुम्भं न्यस्तरत्नादिपञ्चकम् ।
गन्धलिप्तं सवस्त्रं च गन्धपुष्पप्रधूपितम् ॥ ३ ॥

आम्रपल्लववक्त्राढ्यं हृदाहृत्पद्मकं न्यसेत् ।
पूरकेण समादाय सकलीकृतविग्रहः ॥ ४ ॥

सर्वात्माभिन्नमात्मानं स्थाणुन स्वात्ममारुतः ।
बोधायनात्मवांच्छम्भोरेक केतुं ततो गुरुः ॥ ५ ॥


प्. १०२३)

पञ्चगव्य कषायाद्यैः पूर्ववत्संस्कृतं ततः ।
समारोप्य च शययायां ध्यात्वा रुद्रमुपान्तिमे ॥ ११ ॥

शिवमन्त्रेण तस्मिंश्च व्यापकत्वेन विन्यसेत् ।
होमं तु सन्निधानाय प्रोक्षणं स्पर्शनं जपम् ॥ १२ ॥

सन्निरोध्यारोधनं सर्वं भागत्रयविभागशः ।
प्रकृत्यन्तं विधायैव कुम्भे तान्विनिवेशयेत् ॥ १३ ॥

चूलिके ध्वजदण्डे च ध्वजेदेवकृतन्तथा ।
प्रतिष्ठा च ततोद्दिष्टा तथेदानीमिहोच्यते ॥ १४ ॥

ब्रह्मांगार्ध प्रवेशाद्वा यामं सर्वार्धवेशनात् ।
पैष्टिके दारुजं शूलं शैलजे धाम्नि शैलजम् ॥ १५ ॥

प्. १०२४)

कर्तव्यो लिंगमानेन कुम्भे वा प्रोक्तमानतः ।
स च त्रिशूलयुक्तस्तु ग्रहशूलानि होमतः ॥ १६ ॥

ईशः शूलस्समाख्यातो यस्तु शूलस्य वेष्टकम् ।
शुक्रैर्ग्रहैरसैर्वापि हस्तैर्दण्डस्तु संमतः ॥ १७ ॥

बीजपूरकयुक्तेन क्रमादुक्तेन मार्गतः ।
चित्रोज्वलं च संघातो यद्द्विजंघार्धतो भवेत् ॥ १८ ॥

यदि वा दण्डमानस्तु भवेद्द्वारं यदृच्छया ।
पीठस्य वेष्टकं शुक्रैः * * * * * * * * ॥ १९ ॥

उत्तमादिक्रमेणैव विज्ञेयः सूरिभिस्तु सः ।
रालजो वंशजो यद्वा यद्वासुन्दरिवल्लभः ॥ २० ॥

प्. १०२५)

कार्यश्शुभस्ततो वापि स भवेत्सर्व कामदः ।
अयमारोप्यमाणस्तु रूणमायाति वा यदि ॥ २१ ॥

जयमानविरोधं वा यद्द्वारज्ञो भवेद्भयम् ।
पूर्ववच्छान्तिहोमं च बहुरूपेण वा भवेत् ॥ २२ ॥

पूजां च द्वारपालादि मन्त्राणां तर्पणं तथा ।
विधाय रूपकं दण्डं स्थापयेदस्त्रमन्त्रतः ॥ २३ ॥

ध्वजं संप्रोक्ष्य तेनैवं * * * च विशेषतः ।
प्रासादस्थापनं कुर्यान् मृत्कषायादि वारिभिः ॥ २४ ॥

संलिप्याच्छाद्य शययायां विन्यसेत् पूर्ववद्गुरुः ।
लिंगवच्चूलिंका न्यासे विज्ञानार्चाक्रियां तथा ॥ २५ ॥

प्. १०२६)

विशेषादाचतुर्थी च न च दण्डस्य कल्पना ।
दण्डं तथात्म तत्वं च विद्यातत्वमतः परम् ॥ २६ ॥

लंचापि पूजयेन्मन्त्री सान्निध्ये संहिताणुभिः ।
ध्वजे यत्प्रतिभागन्तु पीठं तैस्तैस्तु मन्त्रकैः ॥ २७ ॥

संस्कारणं यच्चकूचि द्रव्यन्यथा कृतम् ।
अस्त्रयागविधानेन तत्सर्वमुपदर्शितम् ॥ २८ ॥

प्रासादे कारितास्नादि * * * * * भूषिते ।
जंघायोदितदूर्ध्वे तु त्रितत्व * * * * * ॥ २९ ॥

सर्वतत्वमयं ध्यात्वा शिवं च व्यापकं न्यसेत् ।
अनन्तं कालरुद्रं च ध्यायेत्तच्चरणाम्बुजैः ॥ ३० ॥

प्. १०२७)

कूश्माण्ड जटकोपेत पातालतरकैस्सह ।
भुवनैर्लोकपालैश्च शतरुद्रादिभिर्वृतम् ॥ ३१ ॥

ब्रह्मात्मकमिति ध्यात्वा जंघायां च विभावयेत् ।
जल तेजोऽनिलव्योम पञ्चाष्कसमन्वितम् ॥ ३२ ॥

सर्वावरणसंज्ञं च बुद्धयोन्यष्टकान्वितम् ।
योन्यष्टक समायुक्तं न्यासावधि गुणत्रयम् ॥ ३३ ॥

कुम्भस्थं पुरुषं सिह्मे रागञ्चापि क्रमान्न्यसेत् ।
मञ्जिरीवेदिकायां विद्याधिक चतुष्टयम् ॥ ३४ ॥

कुण्डे मायां सरुद्रां च विद्यां वामलसारके ।
तत्कलशेश्वरं बिम्बं विद्येश्वरमनन्तरम् ॥ ३५ ॥

प्. १०२८)

जटाजूटे लसच्चन्द्र शकलं शूलधारिणम् ।
इच्छाज्ञानक्रियां चापि दण्डे नाद्यं च विन्यसेत् ॥ ३६ ॥

ध्वजे तु कुण्डली शक्तिमेवन्धाम विभावयेत् ।
जघन्यां धामसन्धाय लिंगपिण्डिकया यथा ॥ ३७ ॥

पूर्ववत्सर्वमन्त्रोऽपि विधिनापूर्य कल्प्य च ।
ब्रह्मघोषैस्तूर्य घोषैः वेदमंगलगीतिभिः ॥ ३८ ॥

गुरुमूर्तिधरैस्सर्वं सिवशूलं ध्वजं तथा ।
स्वमन्त्रैश्च समुत्थाप्य विन्यसेच्छक्तिपकजे ॥ ३९ ॥

आधारे रत्नका कुत्स्था ध्वजं तत्र निवेशयेत् ।
यजमानो ध्वजे लग्ने सुहृद्भिर्बन्धुभिस्सह ॥ ४० ॥

प्. १०२९)

ग्रामप्रदक्षिणं कृत्वा अभीष्टफलमश्नुते ।
ध्यायन्गुरुः पशुपतिं स्थिरमस्त्राधिपैर्युतम् ॥ ४१ ॥

अधिपाश्शस्त्रयुक्ताश्च रक्षणाय निरोधयेत् ।
न्यूनाति दोषशान्त्यर्थं हुत्वा दत्वा च तत्फलम् ॥ ४२ ॥

गुरवे दक्षिणां दद्याद् यागदोष निवृत्तये ।
प्रतिमालिंगवेदीनां यावन्तः परमाणवः ॥ ४३ ॥

तावद्युगसहस्राणि कर्तुर्भोगभुजः फलम् ।
तत्कोटि गुणितं पुण्यं प्रासादे ध्वजरोपणात् ॥ ४४ ॥

इत्यचिन्त्य विश्वसादाख्ये ध्वजारोहणविधि पटलः ।


प्. १०३०)

अघेशश्चान्यतो मन्त्री सत्यं नैवाप्नुयाद्ध्रुवम् ।
आषाढादि चतुर्दश्यां अथ श्रावणभाद्रयोः ॥ १ ॥

सितासितासु कर्तव्यं चतुर्दश्यष्टमीषु च ।
त्रिषु मासेषु चैतेषु मुख्यमध्याधम क्रमात् ॥ २ ॥

पवित्रमेकं कर्तव्यं अन्यथा दोषकारकम् ।
क्षीराम्बुधौ हरिस्साक्षा सुप्तये त्रिमासिके ॥ ३ ॥

आषाढादिकमासे वै पवित्रं कारयेत् क्रमात् ।
त्रिविधं तद्विजानीयान् नैमित्तिकमिदं परम् ॥ ४ ॥

दिवसं प्रति कर्तव्यं हेतुत्वात्तु विशेषतः ।
नैमित्तिकमिदं नाम पवित्रकमिति स्फुटम् ॥ ५ ॥

प्. १०३१)

नित्ये तु नित्य पूजायां पत्रपुष्प कुशादिभिः ।
पवित्रमन्यकालेऽपि कल्पयेदन्वहं प्रति ॥ ६ ॥

वह्नौ ब्रह्मणि गौर्यां वै विघ्ननाग गुहेषु च ।
अर्के च शूलिनीता च चण्डिकायां यमं तथा ॥ ७ ॥

इन्द्रे च विष्णौ कामौ च महादेवे पितृष्वपि ।
समारभ्य प्रतिपदि यावत्पञ्चशतं क्रमात् ॥ ८ ॥

हैमजं राजतं ताम्रं कृतादिषु यथा क्रमम् ।
कलौ युगे च कार्पास तन्तुना च पवित्रकम् ॥ ९ ॥

त्रिगुणी स्त्रिगुणी कुर्याद् द्विजकन्यादिकृत् कृतम् ।
सूत्रं शुभं च घौतं च शोषितं तन्तु कल्पयेत् ॥ १० ॥

प्. १०३२)

क्षौमपद्मजवल्कोत्थ पट्टदर्भशणोद्भवम् ।
सूत्रं मौञ्ज्यादि संभूतं योग्यं तत्र पवित्रके ॥ ११ ॥

अर्केन्दु वह्न्यजे नागे स्कन्दसादाख्य विश्वतौ ।
तद्बहिस्तन्तुभिश्चैव कारयेत्तु पवित्रकम् ॥ १२ ॥

अष्टोत्तरशतेनैकं सूत्राणां स्यात् पवित्रकम् ।
इत्थं त्रीणि तदर्धेन विंशत्या वाथ सप्तधा ॥ १३ ॥

सूत्रैरेकाशीत्या वा त्रिंशता वाष्टयुक्तया ।
तुल्यग्रन्थ्यन्तरैश्चैव कर्तव्यं शतपञ्चकैः ॥ १४ ॥

द्वादशांगुलमानानि व्यासादष्टांगुलानि वै ।
अथवालिंगविस्तारमानानि चतुरंगुलैः ॥ १५ ॥

प्. १०३३)

तमर्च्य पिण्डिका स्पर्शं चतुर्थं सर्वतात्विकम् ।
गंगावतारकं चापि कुर्यात्किंकिणि कान्वितम् ॥ १६ ॥

सूत्रशुद्धिरजातेन गुह्यकेन सुरञ्जितम् ।
अघोरेण तु शुद्धिर्वै वक्त्रमन्त्रेण पूजयेत् ॥ १७ ॥

हरिचन्दनकर्पूर कस्तूरी कुंकुमैस्तथा ।
निशागैरिकराजैश्च रञ्जयेत्तु पवित्रकम् ॥ १८ ॥

दशग्रन्थिं न्यसेच्चैवमथवा सूत्रसंख्यया ।
यथा शोभमन्तरालमेक द्विचतुरंगुलम् ॥ १९ ॥

पौरुषप्रकृतिर्वीरा चतुर्थीत्वं च राजता ।
जायान्या विजया षष्ठी अजिता च सदाशिवा ॥ २० ॥

प्. १०३४)

मनोन्मनी ततः प्रोक्ता दशमी सर्वतोमुखी ।
अधिकावा यथा शोभं कर्तव्या ग्रन्थयः शुभाः ॥ २१ ॥

बाणलिंगे च लोहे स्थण्डिले च भुवि ।
रत्नजे च यथा योगं पवित्रं कारयेद्गुरुः ॥ २२ ॥

रविचण्डेश वह्नीनां तन्तुश्च शिववद्भवेत् ।
एतेषां देवतानां च पवित्रं कारयेद्गुरुः ॥ २३ ॥

पुस्तके निजमूर्तौ च गुरावीशे गणेश्वरे ।
एकैकद्वारदिक्पाल कलशादिषु विन्यसेत् ॥ २४ ॥

पवित्रं नवहस्तान्तमेक हस्तादिषु क्रमात् ।
दशभिर्दशभिग्रन्थिरष्टाविंशतितो भवेत् ॥ २५ ॥

प्. १०३५)

अन्तराल द्व्यंगुलादि क्रमादेकांगुलोत्तराः ।
ग्र * * * नमप्येषां ग्रन्थिविस्तारसंयुतम् ॥ २६ ॥

सप्तम्यां तु त्रयोदश्यां कृतनित्यविधिः शुचिः ।
रक्तैः क्षौमैश्च पुष्पैश्च भूषयेन्मखमन्दिरम् ॥ २७ ॥

सन्ध्यां नैमित्तिकं कुर्यात्तर्पणं च विशेषतः ।
र * * मर्चयेत् तत्र सूत्रिते भूप्रदेशके ॥ २८ ॥

प्रणवार्घ्यकरः स्वामी सकलीकृतविग्रहः ।
प्रोक्ष्य द्वाराणि चास्त्रेण क्रमात्पूर्वादितोऽर्चयेत् ॥ २९ ॥

ओं शान्तिकलाद्वाराय नमः । ओं हां निवृत्तिकलाद्वाराय नमः ।
ओं हां प्रतिष्ठाकला द्वाराय नमः ॥ ३० ॥

प्. १०३६)

पूर्वादुत्तर पर्यन्तं क्रमाद्दिक्षु कलायजेत् ।
तथैव द्वारशाखासु द्वे द्वेषु च यथा क्रमम् ॥ ३१ ॥

नन्दिनं च महाकालं भृंगिणं च विनायकम् ।

  • * * * * ऋषभं स्कन्दं देशैस्सह * * ॥ ३२ ॥


रक्षासूत्रं च कौपीनं भिक्षापात्रं च दण्डकम् ।
कंकतं कुंकुमं तैलं अञ्जनं दर्पणं तथा ॥ ३३ ॥

ताम्बूलं रोचनां चापि चोत्तरे सन्निवेशयेत् ।
आसनं पादुके पात्रं नागपट्टातपत्रकम् ॥ ३४ ॥

ईशमन्त्रेण चैशान्यां दद्यादीशान तुष्टये ।
साज्यं चरुं च पूर्वंस्या सान्तं गन्धादिकं नरे ॥ ३५ ॥

प्. १०३७)

असं पन्नेषु सर्वेषु मनसा तत्प्रकल्पयेत् ।
समादाय पवित्राणि प्रोक्षितान्यर्घ्य वारिणा ॥ ३६ ॥

  • * * संहितामन्त्र पूतानि ज्वलनात् पुनः ।

कृष्णा जिनादिनाच्छाद्य स्मरन् संवत्सरात्मकम् ॥ ३७ ॥

कर्मणां साक्षिणं चैव गोप्तारं शिवमव्ययम् ।
स्वेति हेति प्रयोगेण मंत्रसंहितया पुनः ॥ ३८ ॥

पवित्राण्य हि सं * * * *णामेक विंशतिः ।
यागधर्मवृषस्थान प्रासादानल संश्रयम् ॥ ३९ ॥

करणौघं च सूत्रेण वर्मणा परिवेष्टयेत् ।
पूजितायाथ सूर्याय दत्वा गन्धपवित्रकम् ॥ ४० ॥

प्. १०३८)

समाचम्य कृतन्यास प्रणी * * * तार्घकम् ।
दद्याद्गन्ध पवित्रं तु नन्द्यादि द्वारपालके ॥ ४१ ॥

प्रविश्य कस्तुनाद्याय ब्रह्मणेऽपि ददेत्ततः ।
शास्त्रेभ्यो लोकपालेभ्यः पवित्राणि स्वनामभिः ॥ ४२ ॥

शिवकुम्भादि वर्धन्यां दद्याल्लम्बोदराय च ।
अभ्यर्च्य विधिवद् * * * * शिकांघ्रिपदाम्बुजम् ॥ ४३ ॥

पूजयेद्गन्ध पुष्पैश्च दत्वा तां च पवित्रके ।
पञ्चाशदौषधीलिप्तं नरोमानविवर्जितम् ॥ ४४ ॥

पुष्पदूर्वादि संयुक्ते धूपितं च विशेषतः ।
एकग्र * * * * ढ्य चतुर्वर्गफलोदयम् ॥ ४५ ॥

प्. १०३९)

मात्राभिमन्त्रितं तन्तुविधायाञ्जलिमद्यमम् ।
अमन्त्रिणापतं ह्येति देशिकोपि यजेद्यथा ॥ ४६ ॥

ओं समस्तं विधिवच्छिद्र पूरणेशमखं प्रति ।
प्रभवात्मत्रयं मित्वा त्वदिच्छाव्याप्तिकारकम् ॥ ४७ ॥

त * * * नुनानी हि यजतश्चिदचित्पते ।
सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीदमे ॥ ४८ ॥

आमन्त्रितोसि देवेश सह देव्या गणेश्वरैः ।
मन्त्रैस्त्रैलोक्य पालैश्च सहितः परिवारकैः ॥ ४९ ॥

निवेदयाम्यहं तुभ्यं प्रभाते तु पवित्रकम् ।
नियमं च करिष्यामि परमेश तवाज्ञया ॥ ५० ॥

प्. १०४०)

आमन्त्रादेवमित्येव रेचकानात्म दीक्षितम् ।
मूलं शिवान्तमुच्चार्य तच्छिवाय निवेदयेत् ॥ ५१ ॥

जप्तैःस्तोत्र प्रमाणैश्च तोषयेत्परमेश्वरम् ।
तृतीयांश्च चरोर्हुत्वा तदतीत शिवाग्नये ॥ ५२ ॥

ततः पूर्वादि दिग्वासिभ्यो दिगीश मातृगणरुद्र-
क्षेत्रपालेभ्यः स्वाहेति ॥ ५३ ॥

आसां नाम्नादिभेदेन सर्वदिक्षु बहिर्बलिम् ।
अथ दद्यात्तु वायव्यं क्षेत्रपालबलिं गुरुः ॥ ५४ ॥

आचम्य विधिवच्छिद्रपूरकं होममाचरेत् ।
पूर्णाहुतिं व्याहृतिं च हुत्वा रुन्धति पावकम् ॥ ५५ ॥

प्. १०४१)

तत्र ओं हां अग्नये स्वाहा । ओं हां सोमाय स्वाहा ।
ओं हां अग्नीषोमाभ्यां स्वाहा । ओं हां अग्नये स्विष्टकृते स्वाहा ॥ ५६ ॥

कुर्यादाहुतिभिश्चैवं चतुर्भिर्नन्दिकेश्वर ! ।
देव्यास्तु स्थण्डिलेभ्यर्च्य वह्नौ कृतदनन्तरम् ॥ ५७ ॥

नाडीसन्धानविधिना योजयेन्नन्दिकेश्वर ! ।
अस्त्रमन्त्रेण संशुद्धं शिवमन्त्रेण * * * ॥ ५८ ॥

  • * द्वौ द्वौ क्रमात्पूज्यौ ओं हां जें कं नमो युतैः ।

ओं हां नन्दिने नमः । ओं हां महाकालाय नमः ॥ ५९ ॥

ओं हां भृंगिणे नमः । ओं हां विनायकाय नमः ।
ओं हां वृषभाय नमः । ओं हां देव्यै नमः ॥ ६० ॥

प्. १०४२)

ओं हां चण्डाय नमः ।
इत्येवं क्रमतोऽभ्यर्च्य द्वारपालादिकान् न्यसेत् ॥ ६१ ॥

पूर्वद्वारेत्र संविश्य पूजयेन्नन्दिकेश्वर ।
भूतशुद्धिर्विशेषार्घ्यं चोशीरं प्रोक्षणादिकः ॥ ६२ ॥

पूर्ववद्वांगसंहारं अहमन्त्रा यथा विधिः ।
कुसुमैरक्षतैर्दूर्वा चन्दनाद्यैर्मृदादिभिः ॥ ६३ ॥

कृत्वा तु शिवहस्तं वै स्वशिरस्यधिरोपयेत् ।
शिवोहमिति सर्वत्र ज्ञानमग्रे प्रजानता ॥ ६४ ॥

ज्ञानमग्रकरोत्यर्वं भावयेद्गुरुरुत्तमः ।
आसाद्य राक्षसीं काष्ठां प्रक्षिपेदुत्तरायणे ॥ ६५ ॥

प्. १०४३)

पञ्चगव्यमधो धाम समन्ताद्याग मण्टपम् ।
चतुर्ष्वथान्त्य संस्कारैर्लक्षणाद्यैस्सु संस्कृतैः ॥ ६६ ॥

राजादि विकिरेद्द्रव्यं कुशकूर्चकुमू भवेत् ।
वर्धनीं चासनार्थाय तानत्रैव प्रकल्पयेत् ॥ ६७ ॥

वास्तुदेवं च नैर्-ऋत्यां लक्ष्मीं द्वारे च पूजयेत् ।
पूर्वाद्यभिमुखं कुम्भं सर्वधान्योपरि स्थितम् ॥ ६८ ॥

प्रणवेन वृसारूढं सिह्मस्थां पार्वतीं ततः ।
शिवमन्त्रैस्समभ्यर्च्य वर्धन्या मन्त्रमर्चयेत् ॥ ६९ ॥

इन्द्राद्यजादि दिक्पालदशकांश्च समर्चयेत् ।
कुम्भञ्चानु गांसम्यग्वर्धनीं च तथैव च ॥ ७० ॥

प्. १०४४)

गुरुः शिवाज्ञां संश्राव्य पूर्वादीशान गोचरम् ।
मूलमन्त्रं समुच्चार्य अविच्छिन्नाम्बुधारया ॥ ७१ ॥

वर्धनीं भ्रामयेदेनां रक्षार्थं हेमरूपिणीम् ।
घटं पूर्वं समारोप्य वर्धनीं तस्य पार्श्वतः ॥ ७२ ॥

कुम्भे च संग्रहेत् स्नाके यजेद्देवं स्थिरासने ।
तारासवस्थ वर्धन्यां आसनं च तदा द्वयोः ॥ ७३ ॥

भगलिंगसमायोगं विदध्याल्लिंगमुद्रया ।
ज्ञानखड्गं घटे न्यस्य मूलाणुञ्च जपेत्तदा ॥ ७४ ॥

वर्धन्यां तद्दशांशेन रक्षां विज्ञापयेदिति ।
लम्बोदरं तु नैर्-ऋत्यां पूजयेत्तु चतुर्भुजम् ॥ ७५ ॥

प्. १०४५)

सायुधं पद्मरागाभं प्रत्यूहध्वंसनं परम् ।
गुरुमैशानके भागे स्थापयेत्तदनन्तरम् ॥ ७६ ॥

देशिकं शिववत्पूज्य सर्वज्ञान प्रदेशिकम् ।
विधिवत् स्थापयेत् पश्चाद् गन्धतोयैस्तथाम्बुभिः ॥ ७७ ॥

देवं संपूजयेत् पश्चाद् विधिना द्वारपालकैः ।
कुण्डसंस्कारपूर्वं तु शिवाग्निं परिपूजयेत् ॥ ७८ ॥

विध्युक्त चरुकं कुर्यात् संपाताहुति शोधितम् ।
देववह्न्यात्मभेदेन त्रिधा दर्व्या विभाजयेत् ॥ ७९ ॥

भागद्वयं शिवाग्नौ तु दत्वा चात्मार्थमेककम् ।
पूर्वोक्तदन्तकाष्ठं च दद्यात्क्षीरतरूद्भवम् ॥ ८० ॥

प्. १०४६)

कवचेन नरेणैव पूर्वतो दन्तधावनम् ।
दातव्यं रूपिणा भस्म दक्षिणे शिखयाऽथवा ॥ ८१ ॥

मृत्तिकां पञ्चगव्यं च * * * * सुगन्धि वै ।
पुष्पमीशानके कुर्याद् आग्नेययांदिशि रोचनम् ॥ ८२ ॥

राक्षसे नागरुं चैव चातुर्जातं च मारुते ।
सर्वाणि होमद्रव्याणि सद्यो जाते कुशैस्सह ॥ ८३ ॥

अक्षसूत्रं च कौपीनं भिक्षापात्रं च दण्डकम् ।
कंकतं कुंकुमं तैलं अञ्जनं दर्पणं तथा ॥ ८४ ॥

ताम्बूलं रोचनां चापि चोत्तरे सन्निवेशयेत् ।
आसनं पादुके पात्रं नागपट्टातपत्रकम् ॥ ८५ ॥

प्. १०४७)

ईशमन्त्रेण चैशान्यां दद्यादीशान तुष्टये ।
साज्यं चरुं च पूर्वंस्यासान्न गन्धादिकं नरे ॥ ८६ ॥

असं पन्नेषु सर्वेषु मनसा तत्प्रकल्पयेत् ।
समादाय पवित्राणि प्रोक्षितान्यर्घ्यवारिणा ॥ ८७ ॥

नीत्वा तु संहितामन्त्र पूतानि ज्वलनात्पुनः ।
कृष्णाजिनादिनाच्छाद्य स्मरन्संवत्सरात्मिकम् ॥ ८८ ॥

कर्मणां साक्षिणं चैव गोप्तारं शिवमव्ययम् ।
स्वेति हेति प्रयोगेन मन्त्रसंहितया पुनः ॥ ८९ ॥

पवित्राप्य हि संशोध्य वारणामेक विंशतिः ।
यागधाम वृषस्थान प्रासादानल संश्रयम् ॥ ९० ॥

प्. १०४८)

करणौघं च सूत्रेण वर्मणा परिवेष्टयेत् ।
पूजितायाथ सूर्याय दत्वा गन्धपवित्रकम् ॥ ९१ ॥

समाचम्या कृतन्यास प्रणिपत्य कृतार्थकम् ।
दद्यान्गन्धपवित्रं तु नन्द्यादि द्वारपालके ॥ ९२ ॥

प्रविश्यकस्तुनाद्याय ब्रह्मणो विददेत् ततः ।
सास्त्रेभ्यो लोकपालेभ्यः पवित्राणि स्वनामभिः ॥ ९३ ॥

शिवकुम्भादि वर्धन्यां दद्याल्लम्बोदराय च ।
अभ्यर्च्य विघ्नराजं च देशिकांघ्रि पदाम्बुजम् ॥ ९४ ॥

पूजयेद्गन्धपुष्पेण दत्वान्नं च पवित्रके ।
पञ्चाशदौषधीलिप्तमानोन्मान विवर्जितम् ॥ ९५ ॥

प्. १०४९)

पूष्पदूर्वादि संयुक्ते धूपितं च विशेषतः ।
एकग्रन्थ्यल्प सूत्राढ्यं चतुर्वर्गफलोदयम् ॥ ९६ ॥

मन्त्राभिमन्त्रितं तन्तु विधायाञ्जलिमध्यतः ।
आमन्त्रिणापदं ह्येतद् देशिकोऽपि यजेद्यथा ॥ ९७ ॥

ओं समस्थविधिवच्छिद्र पूरणेशमखं प्रति ।
प्रभवामन्त्रयामित्वा त्वदिच्छा व्याप्तिकारिका ॥ ९८ ॥

तत्सिद्धिमनुजानीहि जातं च चिदचित्पते ।
सर्वथा सर्वदा शम्भो नमस्तेस्तु प्रसीदमे ॥ ९९ ॥

आमन्त्रितोसि देवेश ! सहदेव्या गणेश्वरैः ।
मन्त्रैस्त्रैलोक्य पालैश्च सहितः परिवारकैः ॥ १०० ॥

प्. १०५०)

निवेदयाम्यहं तुभ्यं प्रभाते पवित्रकम् ।
नियमं पञ्च करिष्यामि परमेश तवाज्ञया ॥ १०१ ॥

अमन्त्रादेवमित्येवं रेचकेनामृती कृतम् ।
मूलं शिवान्तमुच्चार्यं तच्छिवाय निवेदयेत् ॥ १०२ ॥

जपैस्तोत्रैः प्रणामैश्च तोषयेत् परमेश्वरम् ।
तृतीयांशं चरोर्हुत्वा तदतीत शिवान्नयेत् ॥ १०३ ॥

पूर्वादि दिग्वासिभ्यो दिगीशमातृगणरुद्रक्षेत्रपालेभ्यः स्वाहेति ॥ १०४ ॥

आसां साम्नादि भेदेन सर्वदिक्षु बहिर्बलिम् ।
अथ दद्यात्तु वायस्यं क्षेत्रपालबलिं कुरु ॥ १०५ ॥

प्. १०५१)

आचम्य विधिवच्छिद्र पूरकं होममाचरेत् ।
पूर्णाहुतिं व्याहृतिं च हुत्वारुन्धित पावकम् ॥ १०६ ॥

तत्र ओं हां अग्नये स्वाहा । ओं हां सोमाय स्वाहा ।
ओं हां अग्नीषोमाभ्यां स्वाहा । ओं हां अग्नये स्विष्ट- ॥ १०७ ॥

कृते स्वाहा ।
कुर्यादाहुतिभिश्चैव चतुर्भ्यं नन्दिकेश्वर ॥ १०८ ॥

देवं तत्स्थण्डिलेभ्यर्च्य वह्नौ तु तदनन्तरम् ।
नाडीसन्धानविधिना योजयेन्नन्दिकेश्वर ॥ १०९ ॥

अस्त्रमन्त्रेण संशुद्धिं शुद्धपात्रेण कंकणम् ।
हृदयाख्येन मन्त्रेण पवित्राण्यधिरोपयेत् ॥ ११० ॥

प्. १०५२)

षडंगेन कलामन्त्रैः ब्रह्मांगैर्वा यथा विधि ।
अंगमन्त्रैर्विशेषेण जपं कुर्यात्समाहितः ॥ १११ ॥

भक्तियुक्तश्शिवं नत्वा रक्षणार्थं समर्चयेत् ।
पुष्पधूपादिभिश्चैव संपूज्य विधिना तदा ॥ ११२ ॥

सिद्धान्तपुस्तकं चार्च्य विधिना नन्दिकेश्वर ! ।
भक्त्या पदान्तिकं गत्वा गुरोर्दद्यात्पवित्रकम् ॥ ११३ ॥

बहिर्निर्गत्य चाचम्य गोमये मण्डलत्रये ।
पञ्चगव्यं चरुं दन्तधावनं च विनिक्षिपेत् ॥ ११४ ॥

विधिनाचम्य सान्निध्य कृतसंगीतजो गुरुः ।
स्वपदेन स्मरन्नीशं मुमुक्षुर्दर्भसंस्तरे ॥ ११५ ॥

प्. १०५३)

मुमुक्षुरप्यनेनैव प्रकारेणाभि संविशेत् ।
केवलं भस्मशययायां सोपवासस्समाहितः ॥ ११६ ॥

पवित्रस्याधिवासोऽयं विधिरत्र समाहितः ।
उत्थाय प्रातराचम्य कृतप्रातस्समाहितः ॥ ११७ ॥

कृतसन्ध्याविधिर्मन्त्री प्रविशेद्यागमण्डपम् ।
पवित्राणि समादाय चाविसर्जित दैवतम् ॥ ११८ ॥

शुद्धपात्रे समारोप्य चैशान्यां कृतमण्डले ।
देवं विसृज्य निर्माल्यमपनीय च तद्बहिः ॥ ११९ ॥

नित्यकर्म च कृत्वा तु पूर्ववच्छिवभूतले ।
शिवकुम्भे च वर्धन्यां द्वारदिक्पालवह्निषु ॥ १२० ॥

प्. १०५४)

आदित्यं पूर्वमभ्यर्च्य विधिनान्नन्दिकेश्वर ! ।
कुर्यात्पूजां सविस्तारां नैमित्तिक विधान्विताम् ॥ १२१ ॥

मनूनां तर्पणं कुर्यात् प्रायश्चित्तं शिरोणुना ।
हुत्वा चाष्टोत्तरं पश्चाच्छतं पूर्णाहुतिं पुनः ॥ १२२ ॥

दत्वा पवित्रमर्कस्य समाचम्य विधानवित् ।
द्वारपालादि दिक्पालकुम्भवर्धनिकासु च ॥ १२३ ॥

सन्निधाने ततः शम्भोरुपविश्यति शासने ।
दद्यात् पवित्रमात्मार्थं गणाय गुरुपंकजे ॥ १२४ ॥

पवित्रकमथादाय किंचित्कलश संमुखम् ।
स्मरन्कलात्मकं देवं प्रब्रूयादिति शंकरम् ॥ १२५ ॥

प्. १०५५)

कलात्मना त्वया देव यदिष्टं मामके विधौ ।
क्लिष्टं कृतं समुद्दिष्टं धृतं गुप्तं च यत्कृतम् ॥ १२६ ॥

तदस्तु क्लिष्टमक्लिष्टं सुसंपुष्टमसत्कृतम् ।
सर्वात्मा वायुना शम्भो त्वत्सूत्रेण त्वदिच्छया ॥ १२७ ॥

ओं पूरय पूरय मखं प्रति नियमेश्वराय स्वाहा ।
आत्मतत्वे प्रकृत्यन्ते पालिते पद्मयोनिना ॥ १२८ ॥

उच्चार्य मूलमाद्यन्तं पवित्रेणार्चयेच्छिवम् ।
विद्यातत्वे च विद्यान्ते पालिते विष्णुकारणे ॥ १२९ ॥

ईश्वरान्तं समुच्चार्य पवित्रमधिरोपयेत् ।
शिवान्ते शिवतत्वेथ रुद्रकारणपालिते ॥ १३० ॥

प्. १०५६)

शिवान्तं मूलमुच्चार्य पवित्रमधिरोपयेत् ।
सर्वकारण बाल्येषु सर्वतत्वेषु सुव्रतम् ॥ १३१ ॥

मूलं लया * * * * दद्याद्गंगावतारकम् ।
मुमुक्षूणां पवित्रं तु चात्मविद्याशिवे क्रमात् ॥ १३२ ॥

भुभुक्षूणां च संप्रोक्ते शिवविद्यात्मभिः क्रमात् ।
स्वाहान्तं वा नमोऽन्तं वा मन्त्रैरेषामुदीरयेत् ॥ १३३ ॥

देशिकस्सर्वदेवानां पवित्रं कुर्यात्पुनः ।
ओं हां आत्मतत्वाधिपतये शिवाय स्वाहा ॥ १३४ ॥

ओं हां विद्यातत्वाधिपतये शिवाय स्वाहा ।
ओं हां शिवतत्वाधिपतये शिवाय स्वाहा ॥ १३५ ॥

प्. १०५७)

एवं क्रमेण देवाय पवित्रं कारयेद्बुधः ।
ओं हां सर्वतत्वाधिपतये शिवाय स्वाहा ॥ १३६ ॥

अनेनैव तु मन्त्रेण कुर्याद्गंगावतारकम् ।
भक्त्या पुष्पकरद्वन्द्वं गुरवे विनिवेदयेत् ॥ १३७ ॥

त्वं स्थितिस्सर्वदेवानां स्थितस्त्वं च चराचरम् ।
अन्तं वारेण भूतानां दृष्ट्वातः परमेश्वरः ॥ १३८ ॥

कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम ।
मन्त्रहीनं क्रियाहीनं वृत्तहीनं च यत्कृतम् ॥ १३९ ॥

जपहोमार्चने हीनं कृत्यं नित्यं मया तव ।
उत्कृतं कृतिहीनं च तत्पुराथ महेश्वर ! ॥ १४० ॥

प्. १०५८)

सुपूतस्तं सुरेशानं पवित्रं पापनाशनम् ।
त्वया पवित्रितं सर्वं जगत् स्थावरजंगमम् ॥ १४१ ॥

खण्डितं यन्मयादेव ! पदं वैकुल्ययोगतः ।
एकीभवतु तत्सर्वं तत्वज्ञार्थ सूत्रग्रन्थितम् ॥ १४२ ॥

जपन्निवेद्य देवस्य भक्त्या स्तोत्रं निवेद्य च ।
प्रणम्यामूलचित्तेन सन्तुष्टं भावयेच्छिवम् ॥ १४३ ॥

चतुस्त्रीरण्यथ द्वौ वा तासां मासार्धमेव वा ।
सप्ताहं पञ्चरात्रं वा त्र्यहमेकाहमेव वा ॥ १४४ ॥

गुरूणां वाथयोद्दिष्टं गृहीत्वा नियमं तथा ।
प्रणम्य क्षमयित्वेशं गत्वा कुण्डान्तिकं प्रति ॥ १४५ ॥

प्. १०५९)

यावत्तस्थौ शिवेप्येवं पवित्राणां चतुष्टयम् ।
समभ्यर्च्य समारोप्य पुष्पधूपाक्षतादिभिः ॥ १४६ ॥

अन्तर्बलिं पवित्रं च रुद्रादिभ्यो निवेदयेत् ।
शिवं स्तुत्वा प्रविश्यान्तर्वन्दित्वा तं क्षमापयेत् ॥ १४७ ॥

होमं प्रायश्चित्तकं च कृत्वा हुत्वा च पायसम् ।
पूर्णाहुतिं शनैर्हुत्वा पतिस्थं पितृशेच्छिवम् ॥ १४८ ॥

व्याहृत्या वा हुतिं कुर्याद् मध्यान्निष्ठुरयानिलम् ।
सुदित्येभ्योऽथ दत्वा वै चाहुतीनां चतुष्टयम् ॥ १४९ ॥

दिक्पालेभ्यस्ततो दत्वा स पवित्रं बहिर्बलिम् ।
पवित्रं च ततो न्यस्येत् सम्यक् सिद्धान्तपुस्तके ॥ १५० ॥

प्. १०६०)

ओं हां भूस्वाहा ओं हां भुवः स्वाहा ।
ओं हां सुवः स्वाहा ओं हां भूर्भुवस्सुवः स्वाहा ॥ १५१ ॥

व्याहृतीभिश्चतुर्भिश्च जुहुयाद्देशिकोत्तमः ।
ओं हां अग्नये स्वाहा ओं हां सोमाय स्वाहा ॥ १५२ ॥

ओं हां अग्नीषोमाभ्यां स्वाहा ओं हामग्नये स्विष्टकृते स्वाहा ।
एवं क्रमादाहुतिभिः जुहुयात्तदनन्तरम् ॥ १५३ ॥

शिववद्देशिकं पूज्य मुद्राभूषण वस्त्रकैः ।
आयान्ते देशिके तेषां सद्यः प्रीणाति शंकरः ॥ १५४ ॥

गुरुरेव परं दैवं गुरुरेव परागतिः ।
गुरुसंतोषणान्नान्यद् विद्यते नन्दिकेश्वर ! ॥ १५५ ॥

प्. १०६१)

हृदालम्बि पवित्रं तु गुरावरोपयेत् तदा ।
अर्धवक्षादिकान्सर्वान् भोजयेत् तदनन्तरम् ॥ १५६ ॥

वस्त्राभरणशययादि भक्त्या तेषां समर्चयेत् ।
देवेशोचितदानेन प्रीयतां मे सदाशिवः ॥ १५७ ॥

दानादिकं च कृत्वा तु पवित्राण्याहरेद्विभोः ।
पूजयेदष्ट पुष्पेण भक्त्या तं च विसर्जयेत् ॥ १५८ ॥

नित्यनैमित्तिकं कुर्याद् विस्तरेण यथा विधि ।
समारोप्य पवित्राणि प्रणम्याग्नौ शिवं यजेत् ॥ १५९ ॥

ततोऽस्त्रेण प्रायश्चित्तं हुत्वा पूर्णाहुतिं यजेत् ।
शिवाय मुक्तिकामस्तु कुर्यात्कर्मसमर्पणम् ॥ १६० ॥

प्. १०६२)

त्वत्प्रसादेन कर्मेदं ममास्तु फलसाधकम् ।
भुक्तिकामस्तु कर्मेदमस्तु मे नाथ बन्धनः ॥ १६१ ॥

वह्निस्थानादि योगेन शिवो मे योजयेच्छिवम् ।
मन्त्रपूतं हृदि न्यस्य विसृजेत् पावकं पुनः ॥ १६२ ॥

प्रविश्यान्तस्समाविश्य कुम्भानुगत मन्त्रकान् ।
सापेक्षं च शिवे योज्य क्षमस्वेति विसर्जयेत् ॥ १६३ ॥

दिक्पालांश्च विसृज्याथ दापयेत् तत्पवित्रकम् ।
यद्यस्मिंश्चण्ड पूजां च कुर्याद्दत्वा पवित्रकम् ॥ १६४ ॥

निर्माल्यादिकमेतस्मै सपवित्रं समर्पयेत् ।
चण्डेशं स्थण्डिले वापि पीठे वा पूर्ववद्यजेत् ॥ १६५ ॥

प्. १०६३)

यत्किंचिद्वापिकं कर्म कृतं न्यूनाधिकं मया ।
तदस्तु परिपूर्णं मे चतुराधि शिवाज्ञया ॥ १६६ ॥

चण्डेशमिति विज्ञाप्य विसृजेन्नन्दि वन्दनैः ।
अलं कूपेऽथवा तोये तन्निर्माल्यं विनिक्षिपेत् ॥ १६७ ॥

चण्डेशमेवं संपूज्य गोमयेनोपलेपयेत् ।
विशोध्य शुद्धदेहस्सन् स्नापयित्वा शिवं व्रजेत् ॥ १६८ ॥

पञ्चयोजनतश्चार्वाक् पवित्रं गुरुसन्निधौ ।
अनेन विधिना कुर्याल्लभते वांछितं फलम् ॥ १६९ ॥

पवित्रमेवं कर्तव्यं विधिना नन्दिकेश्वर ! ।

इत्यचिन्त्य विश्वसादाख्ये पवित्रविधिरेकोन सप्ततिः पटलः ॥



प्. १०६४)

ईशकोपात्पुरा जातो भैरवो दमनाख्यकः ।
सर्वेऽसुरास्तेन जाता दानवाश्च महाबलाः ॥ १ ॥

प्रसन्नेन शिवेनाथ भूतले वमुनेत्तवा ।
तान्तु नूनमनुप्राप्यमद्भोगाय भविष्यति ॥ २ ॥

ये नराः पूजयिष्यन्ति देवत्वं पल्लवादिभिः ।
ते यास्यन्ति परं स्थानं दमनत्वत् प्रसादतः ॥ ३ ॥

ये पुनर्न करिष्यन्ति दापनं पर्वमानवाः ।
चैत्रमासे तु तेषां ते दत्तं पुण्यफलं मया ॥ ४ ॥

सप्तम्यां च त्रयोदश्यां गत्वा दमनकान्तिकम् ।
शोधयित्वा तमस्त्रेण पूजयेत्संहिताणुभिः ॥ ५ ॥

प्. १०६५)

सन्तोषयेत्तु तद्दानं भगवात्येन मन्त्रवित् ।
ईशप्रसादाज्ज्ञातोऽसि ममार्थे सन्निधीभव ॥ ६ ॥

शिवकार्यं समुद्दिश्य नेतव्योऽसि शिवाज्ञया ।
इत्थं दमनमामन्त्र्य संरक्ष्य भवतं व्रजेत् ॥ ७ ॥

पुरस्थितं समानीय मृत्स्नासार्धं विशेषतः ।
मृत्स्ना संपूरिते पात्रे समारोप्याथ पूजयेत् ॥ ८ ॥

आमन्त्रितत्रभे कुर्यात् तत्पूर्वविधिना पुनः ।
सायंतने तु काले वै विदध्यादधि वासनम् ॥ ९ ॥

आहृत्य यागवस्त्राणि कृतस्नानादिकाः स्त्रियः ।
यथा विधि समभ्यर्च्य सूर्यशंकरपावकान् ॥ १० ॥

प्. १०६६)

देवस्य पश्चिमेभागे तस्य मूलमुदाहृतम् ।
हृदये नाथ सद्यं च मन्त्रेणादाय तत्पुनः ॥ ११ ॥

वामेन शिरसा वापि नालाद्धात्रिं तथोत्तरे ।
दक्षिणे भस्म पात्रं च रूपेण शिखयाथवा ॥ १२ ॥

प्राच्यानां चर्मणा वापि स पुष्पं दन्तधावनम् ।
गायत्र्या बिलमूलेन ऐशान्यां गन्धसंयुतम् ॥ १३ ॥

न्यासाञ्जलौ च पुष्पांगदामपुष्पाक्षतान्वितम् ।
विज्ञापयेच्च देवेशं दमनारोहणं प्रति ॥ १४ ॥

आमन्त्रितोसि देवेश प्रातः काले मया प्रभो ।
कर्तव्यं तु यथा लाभं तामसर्वं तवाज्ञया ॥ १५ ॥

प्. १०६७)

इति विज्ञाप्य देवस्य मस्तके कुसुमाञ्जलिः ।
संयोज्य मूलमन्त्रेण जपं कुर्याद्विशेषतः ॥ १६ ॥

पात्रे विशेषं निक्षिप्य द्वितीयेन विधायकम् ।
पवित्रकविधानेन कवचेनावकुण्ठयेत् ॥ १७ ॥

इत्थं सुरक्षितं कृत्वा शिवाय विनिवेदयेत् ।
निराहारोऽथवा चापि हविर्भुञ्जीत देशिकः ॥ १८ ॥

देवस्य पुरतश्चापि प्रबुद्धो जपगीतिभिः ।
प्रातः स्नात्वा जगन्नाथं अष्टपुष्पं विसर्जयेत् ॥ १९ ॥

नित्यनैमित्तिकं चैव कुर्यात्पूजां विशेषतः ।
पञ्चांगैः पूजयेद्देवं दमनैरपि खण्डितम् ॥ २० ॥

प्. १०६८)

अञ्जलौ शेषमादाय दूर्वागन्धाक्षतान्वितम् ।
शुद्धस्फटिकसंकाशं पञ्चवक्त्रं सदाशिवम् ॥ २१ ॥

ध्यात्वाभि मुखमेवं तु पूजयेन्नन्दिकेश्वर ! ।
आत्मविद्या शिवैस्तत्वैः मूलाद्यैरीश्वरान्तिके ॥ २२ ॥

पवित्रोक्तेन मार्गेण देवेशं सम्यगर्चयेत् ।
ओं हां आत्मतत्वेश्वराय शिवाय नमः ॥ २३ ॥

ओं हां विद्यातत्वेश्वराय शिवाय नमः ।
ओं हां शिवतत्वेश्वराय शिवाय नमः ॥ २४ ॥

एवं पुष्पाञ्जलिं कृत्वा विधिनाथ च मन्त्रवित् ।
ओं हौं माहेश्वराय मखं पूरयशूलपाणये नमः ॥ २५ ॥

प्. १०६९)

वन्दित्वा शिवमभ्यर्च्य पावकं च यथोक्तवित् ।
भक्त्या विज्ञापयेदीशं वांछितार्थ फलप्रदम् ॥ २६ ॥

भगवन्नतिरिक्तं वा न्यूनं वाथ मयाकृतम् ।
सर्वं तदस्तु संपूर्णं सर्वं दमनकर्मकम् ॥ २७ ॥

एवं धामविधिं कृत्वा कुर्वीत गुरुपूजनम् ।
ब्राह्मणादीन्विशेषेण तुष्टये पूजयेत् तदा ॥ २८ ॥

गृहस्थो ब्रह्मचारी वा नियमं कुरुते विधिः ।
चैत्रमास कृता पूजा अफलाय भवेत्तदा ॥ २९ ॥

  • * * * * * कुर्याद् गुरुभक्ति समन्वितः ।

ईश्वरोऽतिप्रसन्नोभूद्दमनस्य प्रसादतः ॥ ३० ॥

इत्यचिन्त्यविश्वसादाख्ये दमनोक्तविधिस्सप्ततितमः पटलः ॥


प्. १०७०)

अथ वक्ष्ये विशेषेण जीर्णलिंगस्य चोद्धृतिम् ।
लिंगं भूत्याश्रयं भूयाज्जीर्णोद्धारं विनाभवेत् ॥ १ ॥

उत्तरे जीर्णलिंगं च महापुण्यबलोद्बणम् ।
जीर्णदण्डमनिर्मूलं लक्षणेन विहीनितम् ॥ २ ॥

मानहीनं च स्फुटिका शान्त्याद्येन विदूषितम् ।
संपुटं व्यंगलिंगं च नदीतीरान्तरं पुनः ॥ ३ ॥

इत्यादि दोषदुष्टं च लिंगं संत्यज्य बुद्धिमान् ।
पीडितं चैव वृषभं चालिं च चलितं तथा ॥ ४ ॥

निम्नमृत्युच्चविषमं दिङ्मूढस्वं च वा ततः ।
एवं विधिं च संज्ञाप्य निर्वाणं च भवेद्यदि ॥ ५ ॥

प्. १०७१)

नद्यादिक प्रवाहेण यदि संह्रियतेऽपि वा ।
विध्युक्तकर्मणा तत्र संस्थाप्यं च विशेषतः ॥ ६ ॥

सुस्थितं दुस्थितं वापि शिवलिंगं न चालयेत् ।
शान्तेन स्थापितं लिंगं सहस्रेण तु पालयेत् ॥ ७ ॥

पूर्णादिभिश्च संयुक्तं जीर्णाद्यस्य * * * तम् ।
पूजया रहितं यद्वा तत्सन्धिरपि दुस्थिरम् ॥ ८ ॥

शतेन स्थापनेत्यादेरयमर्थो विवर्जितः ।
स्थापितं यदि संमोहाल्लिंगं निम्नादितां व्रजेत् ॥ ९ ॥

सहस्रादिभ होमेन पालन्तुश्च तदा मतम् ।
परित्यक्तां शिलायोगं निर्वाणं च स लक्षणम् ॥ १० ॥

प्. १०७२)

संसक्तमुत्तरे मन्त्री मन्त्रैवं स्थापनाय च ।
विधिना चलितं तत्तत् प्रागुक्तफलसिद्धये ॥ ११ ॥

ईशे यमे च कुर्यात्तु मण्टपं लक्षणान्वितम् ।
द्वारतोरण पूजां च द्वारपूजादि पूर्ववत् ॥ १२ ॥

स्थण्डिलेशं समभ्यर्च्य मन्त्रं तर्पण पूर्वकम् ।
वास्तुदेवं समभ्यर्च्य दिक्पालानां बलिं क्षिपेत् ॥ १३ ॥

देशिकोपि समाचम्य भोजयेल्लिंगविप्रकान् ।
देवं संस्थापयेत्पश्चाल्लिंगं दुष्टमिदं विभो ॥ १४॥

अस्य चोद्धारणे शान्तिस्स्यादित्यस्तिभवेच्छया ।
तस्मादस्त्रविधानेन समधिष्टं महेश्वर ! ॥ १५ ॥

प्. १०७३)

एवं विज्ञाप्य देवेशं शान्तिहोमं समाचरेत् ।
मध्वाज्य क्षीरदूर्वा च मूलेनाष्टोत्तरं शतम् ॥ १६ ॥

लिंगं ततश्च संपूज्य पूजयेत्स्थण्डिलं तथा ।
ओं व्यापकेश्वरायेति नुत्यन्तं शिवमर्चनम् ॥ १७ ॥

ओं व्यापकेश्वराय हृदयाय नमः ।
ओं व्यापकेश्वराय शिरसे नमः ॥ १८ ॥

ओं व्यापकेश्वराय शिखायै वषट् ।
ओं व्यापकेश्वराय कवचाय हुम् ॥ १९ ॥

ओं व्यापकेश्वराय नेत्रत्रयाय वौषट् ।
ओं व्यापकेश्वराय अस्त्राय फट् ॥ २० ॥

प्. १०७४)

एवं पञ्चांग मन्त्रेण सम्यगभ्यर्च्य शंकरम् ।
अस्त्रमन्त्रेण तन्त्रस्थं सत्वं संश्रावयेद्गुरुः ॥ २१ ॥

सत्वको * * * * * लिंगमाश्रित्य तिष्ठति ।
लिंगं त्यक्त्वा शिवाज्ञाभिर्यत्रेष्टं तत्र गच्छति ॥ २२ ॥

विद्याविद्येश्वरैर्यत्र शम्भुरत्रभविष्यति ।
पाशुपतास्त्रमन्त्रेण जुहुयात्तु सहस्रकम् ॥ २३ ॥

प्रतिभागं विशेषेण शुभतोयेन मोक्षयेत् ।
काशैस्संमार्जयेत्पश्चाद्दत्वार्थं च विशेषतः ॥ २४ ॥

फलमेनं ततस्तत्र तत्वाधिपमनन्तरम् ।
मूर्तिमूर्तीश्वरा लिंगपिण्डिकांस्तु विशेषतः ॥ २५ ॥

प्. १०७५)

विसृज्य स्वर्णपाशेन वृषस्कन्धस्त्वया तया ।
खट्वांगं तु ततो नीत्वा शिवमस्तु गृणञ्जनैः ॥ २६ ॥

तज्जले निक्षिपेन्मन्त्री पुष्ट्यर्थं होमयेच्छतम् ।
दिक्पालतर्पणं कुर्याद् वास्तुशुद्ध्यै शतं शतम् ॥ २७ ॥

विधाय रक्षां तद्धाम्नि महापाशुपतास्त्रतः ।
लिंगं तन्मात्रतस्तत्र विधिवत्स्थापयेद्गुरुः ॥ २८ ॥

ब्राह्मणैमुनिभिर्देवैः तत्वविद्भिः प्रतिष्ठितः ।
जीर्णं वाप्यथवा भग्नं धिनापि न चालयेत् ॥ २९ ॥

एवं विधिश्च कर्तव्यो जीर्णधाम समुद्धृतौ ।
खड्गमन्त्रगणा * * कारयेदन्य मन्दिरम् ॥ ३० ॥

प्. १०७६)

संकोचे मरणं प्रोक्तं विस्तारे तु धनक्षयम् ।
तद्द्रव्यं श्रेष्ठद्रव्यं वा तत्कार्यं तत्प्रमाणकम् ॥ ३१ ॥

विधिनाजीर्णपूर्णानामुद्धारं च विधीयते ।
नोचेदनर्थकं तत्तु विधिना तत्समाचरेत् ॥ ३२ ॥

इत्यचिन्त्यविश्वसादाख्ये जीर्णोद्धारविधिरेकोन सप्ततितमः पटलः ॥


मठप्रतिष्ठां वक्ष्यामि शृणुत्वं नन्दिकेश्वर ! ।
मण्टपं मण्डलं कुण्डं पूर्ववत्कारयेद्गुरुः ॥ १ ॥

अनुग्रहाय लोकानां लिंगभूता प्रतिष्ठिता ।
उत्तरेष्वेकतमे चैव मठादीनि प्रकल्पयेत् ॥ २ ॥

प्. १०७७)

आगन्तुकानां सर्वेषां नैष्ठिकानां निवासभूः ।
अन्नपानीयसंयुक्तं केवलं वा मठं मतम् ॥ ३ ॥

कर्णसूत्रद्वयेनैव संयुतं पीठमिष्यते ।
पूर्वोक्तवास्तुना ये तु पादास्ते संप्रकीर्तिताः ॥ ४ ॥

एतत्पदं मठादीनां तच्च ग्रामादियोग्यताम् ।
रात्रौ वाथ दिवा वापि गृहदेवाल यादिषु ॥ ५ ॥

देवालये च ग्रामादौ शिवविप्रो विशिष्यते ।
स्वगृहे त्वनुशैवं तु महायान्तरशैलकौ ॥ ६ ॥

स्थण्डिलं कारयेत्तत्र अष्टपत्रं सकर्णिकम् ।
वस्त्रयुग्मावृतं स्कन्धे शिवकुम्भं द्विजश्शिवः ॥ ७ ॥

प्. १०७८)

मन्दिरे विन्यसेत्तत्वं शक्तिं विन्यस्य धारिकाम् ।
आत्मतत्वमधोभागे ब्रह्मासावधि विन्यसेत् ॥ ८ ॥

सद्यतत्वं न्यसेन्मध्ये बुद्धितत्वपदानुगम् ।
तदूर्ध्वे शिवतत्वं स्याच्छुद्धविद्यावसानकम् ॥ ९ ॥

करणत्रितयं न्यस्त्वा शिवं सांगं च विन्यसेत् ।
तत्वोपस्थापनं शुद्धिं प्रोक्षणं स्पर्शनं जपम् ॥ १० ॥

सान्निध्यं रोधनं पूजा सन्धानं प्रति तत्वकम् ।
एवं सर्वत्र विधिवद्विधानं पूर्वतां व्रजेत् ॥ ११ ॥

शुभलग्नं समासाद्य विन्यसेद् ध्वजमादरात् ।
मन्दिरं स्थापयेत्पश्चात् फलाद्यैः शुभवस्तुभिः ॥ १२ ॥

प्. १०७९)

दारुतृणादि संछन्ने मन्त्रे न्यासोऽत्र कथ्यते ।
शिवकुम्भं च संस्थाप्य लेपयेद्गोमयेन तत् ॥ १३ ॥

बाह्ये चाभ्यन्तरे चापि पुष्पगन्ध सुशोभितम् ।
पताका तोरणादींश्च कुर्यात्तत्र विशेषतः ॥ १४ ॥

सुहृद्भिवहभिस्सार्धं तत्कर्ता गुरुपूजकः ।
यजमानस्सुलग्ने तु स्नातश्च कृतमंगलः ॥ १५ ॥

चतुष्कामं न्यसेद्धीमावेदिकाया मुदङ्मुखात् ।
ब्राह्मणानां च दानं च दैवज्ञाय विशेषतः ॥ १६ ॥

शिल्पिने च ततो दद्याद् यथाविभव विस्तरम् ।
पूजयेत्पूर्वतः कुम्भान्वास्तु द्विकरमण्टपे ॥ १७ ॥

प्. १०८०)

ज गत्यां पादपीठे च जंघा चैव कपोतके ।
भेदेन च यथा संख्यान्निवृत्त्यादिकलां न्यसेत् ॥ १८ ॥

हृदयेन समभ्यर्च्य शक्तिदिक्पालकानपि ।
व्य * पान्स्वस्वसंज्ञाभिः पूजयेद् ध्यान पूर्वकम् ॥ १९ ॥

वह्निगेहं समासाद्य तर्पयेद्वास्तु देवताः ।
निवृत्त्यादि कलाश्चापि द्वारपालान्स्वमन्त्रकैः ॥ २० ॥

दत्वा दिग्बलिमाचम्य सकलीकृतविग्रहः ।
मधुराम्रकपित्थैश्च बीजापूरफलैस्तथा ॥ २१ ॥

बदरामलवार्ताकनारंगलिकुचादिभिः ।
संस्थाप्य स्नापयेत्कुम्भजलैरुपरि चालयम् ॥ २२ ॥

प्. १०८१)

विभूति स्थिरहेत्वर्थं सन्तानादिविवृद्धये ।
कीर्त्यर्थं कीर्तयेन्नाम कर्तृनामपुरस्सरम् ॥ २३ ॥

एकं मठं सुसंज्ञातं कुर्याद्वै देशिकोत्तमः ।
एवं मठप्रतिष्ठा च कार्या वै नन्दिकेश्वर ॥ २४ ॥

पुष्करिण्याः प्रतिष्ठां तु वक्ष्ये संक्षेपतः शृणु ।
वास्तुदेवं समभ्यर्च्य चतुरश्रे विशेषतः ॥ २५ ॥

रुद्रभाजित कोणेषु पूज्याः स्त्रीपदिकाः क्रमात् ।
ईशान पितृवायूनां दिशमारभ्य च क्रमात् ॥ २६ ॥

एकैक पदमारूढाः पर्जन्याद्या यथाक्रमम् ।
आप * करकोष्ठस्था मरीच्या द्वादशानुगाः ॥ २७ ॥

प्. १०८२)

ब्रह्माणं मध्यदेशे तु पञ्चविंशतिकोष्ठके ।
वास्तुं यजेत्प्रतिष्ठायां वारुण्यां मण्टपे शुभे ॥ २८ ॥

परिगृहीत भूमध्ये प्रारभेत्तु यथाविधि ।
मूर्त्त्यंगयुक्ततारेण तन्नाम्ना च समर्चयेत् ॥ २९ ॥

दलाष्टसितपद्मे वै कालाग्निं मध्यतो यजेत् ।
हाटकेशं बलिं शान्तिबलिनाथमठेदयम् ॥ ३० ॥

महाब्धिं कलशाम्भोधिं विरूपाक्षं च पूजयेत् ।
पूर्वपत्रक्रमादीशे भ्रुकुटीश्चरमण्टपः ॥ ३१ ॥

अनन्ताद्यास्ततो गर्ते कार्कोटान्तानिकाणुभिः ।
यज्ञमण्टपबाह्ये तु पूजयेच्चरकीमुखान् ॥ ३२ ॥

प्. १०८३)

गृह्या लोकादिनाथांश्च रौप्यनागाष्टकं तथा ।
तत्रानन्तमहापद्मौ तक्षकं गुलिकं तथा ॥ ३३ ॥

शंखं च वासुकिं पद्मं कार्कोटं चाष्ट विन्यसेत् ।
कृत्वा पूजां न्यसेत्पश्चात्पूर्वादिक्रमतस्ततः ॥ ३४ ॥

षडौषधीश्च निक्षिप्य परितः फणिनस्तथा ।
मत्स्याक्षीं च सभां चैव सृष्ट्याख्यां चापि तत्र वै ॥ ३५ ॥

कूर्मं च पञ्चरत्नानि रसगन्धाम्बु पञ्चकम् ।
अर्घ्याम्बु पञ्चगव्यं च पुष्करिण्यां परिक्षिपेत् ॥ ३६ ॥

खानतो द्विगुणं पादहीनमध्ये च वाधिकम् ।
हुं आं अनन्तनागाय नागाधिपतये नमः ॥ ३७ ॥

प्. १०८४)

अस्त्रतोयेन संस्थाप्य अस्त्रेणाप्यधिवासयेत् ।
क्षुरिकायावतार्याथ क्षिपेद्वामेन वारिणा ॥ ३८ ॥

रौप्यं पाशं समादाय कपिलापृष्ठसंगतः ।
यजमानांस्तरेस्तस्यां गुरुः पाशुपतं जपेत् ॥ ३९ ॥

तत्र संतरणान्तेन तीर्णा वैतरणी नदी ।
अष्टोत्तरशतं हुत्वा रूपिणीं च विशेषतः ॥ ४० ॥

प्रचेतसं तु संतर्प्य विधिना नन्दिकेश्वर ।
देवेशं वामदेवाख्यं चरुन्तेभ्योऽवसाधयेत् ॥ ४१ ॥

दद्यात्पूर्णाहुतिं तत्र चरुणा शिवमन्त्रतः ।
गुरवै गौरियं देया वस्त्रसंभूषणादिभिः ॥ ४२ ॥

इत्यचिन्त्यविश्वसादाख्ये मठ पुष्करिणीविधि स्त्रिसप्ततितमः पटलः ॥


प्. १०८५)

प्रतिष्ठाविषये तत्र वक्ष्यते नन्दिकेश्वर ! ।
वास्तुदेवं समभ्यर्च्य मण्डलैरपि संयुते ॥ १ ॥

ईशस्त्वाग्नित्रकं चैव पुत्ररोगौ मरुद्दिभः ।
ईशादीशान्तकोणेषु सार्धद्विपदनायकाः ॥ २ ॥

पर्जन्याद्यास्सपदिकाः पूर्ववन्नन्दिकेश्वर ! ।
आपाद्याः पदयुग्मं वा भवत्येव विशेषतः ॥ ३ ॥

भानुभागा मरीचाद्या ब्रह्मा षट्त्रिंशदंशतः ।
चरक्याद्या बहिःपूज्या स्कन्दाद्या अपि पूज्यवत् ॥ ४ ॥

स्वतन्त्रविहितैर्मन्त्रैः स्मृता वा तदनन्तरम् ।
पूर्वकाद्याश्च रुद्रश्च स्वभूपद्मे यजेत्क्रमात् ॥ ५ ॥

प्. १०८६)

कूपस्य वारुणे भागे मण्टपे च समर्चयेत् ।
पूर्वोदित विधानेन रौप्यनागाष्टकावृतम् ॥ ६ ॥

भुक्त्वा ते च बलिं दत्वा कूपे रत्नादि निक्षिपेत् ।
प्रोक्षयेदम्बुना शान्त्यै यजमानं ततो गुरुः ॥ ७ ॥

गुरुं सन्तोषयेत्कर्ता गोहिरण्याम्बरादिभिः ।
भोजनादि ततो दद्याद्यथा सामर्थ्यमर्थिनाम् ॥ ८ ॥

खातांनामपि सर्वेषां कूपवत्कार्य निष्कृतिः ।
क्षेपणं भवनं यच्च सव्यासव्येन संमतम् ॥ ९ ॥

इत्यचिन्त्य विश्वसादाख्ये कूपादि प्रतिष्ठाविधिश्चतुस्सप्ततितमः पटलः


प्. १०८७)

अथ वक्ष्ये विशेषेण वृक्षाणां च प्रतिष्ठितम् ।
जुहुयात् सर्पिषा चैव तिलैस्सम्यक् समाहितः ॥ १ ॥

आरामोद्यानयोर्द्राक्षा नैन्द्रदिक्कृतमण्टपे ।
स्नपनं पूजनं न्यासं स्वेन स्वेनाणुना चरेत् ॥ २ ॥

वृक्षाधिदेवताप्रीत्यै दद्यात्पूर्णाहुतिं गुरुः ।

(इत्यचिन्त्यविश्वसादाख्ये) वृक्षप्रतिष्ठाविधिः पञ्चसप्ततितमः पटलः




अथान्त्येष्टिविधिं वक्ष्ये साधकाचार्यपुत्रकाः ।
एतेषां मरणान्तस्य विधिरन्त्येष्टिरुच्यते ॥ १ ॥

प्. १०८८)

तत्वशुद्धिविहीनाभिरिष्टिरन्त्येष्टिरुच्यते ।
आर्द्रं वंशादिभि * * * मनोप्यत्र शोभिते ॥ २ ॥

पुष्पमालाभिसंयुक्ते कुर्याच्छंकरवालुके ।
स्वर्गसोपानयुक्ते च शवमारोपयेत्ततः ॥ ३ ॥

अपसव्योपवीतिभिर्दीक्षितैस्तुल्यजातिभिः ।
संस्कन्धैशस्त्रमन्त्रं च जपयुक्तैश्च धारयेत् ॥ ४ ॥

लाजाग्निकेश शुद्धे तु भूताग्रे चावतारयेत् ।
दक्षिने प्रेतशिरसं विधायैव विशेषतः ॥ ५ ॥

चतुर्हस्तयुतं कूटं तत्कुर्यात्प्रपयान्वितम् ।
सर्वालंकार संयुक्तं सर्वमाला सुशोभितम् ॥ ६ ॥

प्. १०८९)

कुण्डं कुर्याद्विधानेन चतुरश्रैकमण्डलम् ।
षडंगुलोच्छ्रितं वायौ तन्मृदा स्थण्डिलं भवेत् ॥ ७ ॥

चतुष्करं चिताख्यातं कुण्डं दक्षिणतो भवेत् ।
विस्तीर्णाकारयुक्ताढ्यां अष्टांगुलविहीनकम् ॥ ८ ॥

कुण्डादित्रयमालिप्य गोमयाम्बुभिरेव च ।
गुरुः स्नातः कृतन्यासो गृहीतास्त्राद्यहस्तकम् ॥ ९ ॥

कृत्वा प्रदक्षिणं चापि स्थण्डिलं तमुदङ्मुखम् ।
अपसव्यकृत न्यासो हेतिमन्त्रेण रक्षितः ॥ १० ॥

मौनी कृतान्तर्यजनो मन्त्रपित्रास्त्रवर्धनीम् ।
तदम्बु * * * क्षेत्रे पञ्चविंशतिकोष्ठके ॥ ११ ॥

प्. १०९०)

श्वेतैः पीतैश्च रक्तैश्च कृष्णैश्शुभ्रैर्यथाक्रमम् ।
पृथिव्यादि यथारूपं पञ्चवर्णैर्विभूषितम् ॥ १२ ॥

वंशज्वरादि संपन्ने वास्तुदेवं च विन्यसेत् ।
ब्रह्माणं पञ्चकोष्ठे च विन्यसेन्मध्यकोष्ठके ॥ १३ ॥

नैरृत्यां * * नीश्राद्धं विष्णुकोष्ठं चतुष्टये ।
अग्निकोणे चतुष्केपि रुद्रं ज्वलन संयुतम् ॥ १४ ॥

चतुष्कोष्ठे वायुकोणे वायुना समनीश्वरम् ।
तच्चतुष्के तथैशान्यां गगनेन सदाशिवम् ॥ १५ ॥

पूर्वादिदिक्स्वकोष्ठेषु नक्रादींश्चतुरो यजेत् ।
स्वनाम्ना च नमोन्तेन स्वाहान्तेन बलिं ददेत् ॥ १६ ॥

प्. १०९१)

ओं ब्रह्मणे वास्त्वधिपतये नमः ।
इति भूमौ च विन्यस्य ब्रह्माणं विधिना यजेत् ॥ १७ ॥

ओं हां विष्णवे नम इति ।
वारि विष्णौ तु संपूज्य गोविन्दं नन्दिकेश्वर ॥ १८ ॥

ओं हां रुद्राय नम इति वह्निं संपूजयेदपि ।
ओं हां ईश्वरायनम इति वायौ चेशं समर्चयेत् ॥ १९ ॥

ओं हां सदाशिवाय नमः । व्योम्नि-
सदाशिवेत्यादि मन्त्रैश्च ऐशान्यां वर्धनीं न्यसेत् ॥ २० ॥

मन्त्रं पाशुपताख्यं वै सम्यगेवं समर्चयेत् ।
अष्टकुम्भानि चिन्त्या च परितः स्थापयेद्गुरुः ॥ २१ ॥

प्. १०९२)

ऐन्द्रादि चाष्टदिक्ष्वेव दिक्पालानां युधैर्यजेत् ।
दत्वैश्वर्यादिपीठं च स्थण्डिलाब्जगमध्यगम् ॥ २२ ॥

मनोन्मन्यादिवामान्त शक्तिचक्रं प्रपूजयेत् ।
विकीर्यतिलभस्मादि चेशं सांगं प्रपूजयेत् ॥ २३ ॥

प्रक्षिप्य दक्षिणे कुण्डे जनयेत्प्रागिवानलम् ।
ईशं संपूज्य हुत्वाग्नौ हुनेत्पूर्वावसानिकम् ॥ २४ ॥

प्रदक्षिणमथान्यादि कोणेषु निखनेत्क्रमात् ।
अस्त्रमन्त्रेण संजप्त्वा रक्तसूत्रेण वेष्टयेत् ॥ २५ ॥

ऊर्ध्वमूलानधोग्रांश्च शुष्ककाष्ठीयकालकान् ।
इन्धनैश्चितिमापूर्य सकुशैः कुसुमैस्तिलैः ॥ २६ ॥

प्. १०९३)

पूजयेदस्त्रराजेन विपरीतघटावृतम् ।
प्रेतं मृद्गोमयाम्भोभिः संस्नाप्योद्धूल्य चानयेत् ॥ २७ ॥

दद्याद्वस्त्रोपवीतं च पूर्ववत्तानपेक्षया ।
अथात्र धारणाशुद्धे गन्धपुष्पादिपूजिते ॥ २८ ॥

महाजालप्रयोगेण जीवमादाय विन्यसेत् ।
ओं हुं हां हां हां हुं अमुकात्मने नमः ॥ २९ ॥

विद्यादेहं च तद्देहमस्तके वदने हृदि ।
नाभावधश्शरीरे च शान्त्यतीतादिकाः कलाः ॥ ३० ॥

विन्यस्य विद्यातत्वं च शक्तिचक्रं तथा शिवम् ।
चैतन्य सन्निधानाय शतं मूलेन होमयेत् ॥ ३१ ॥

प्. १०९४)

समादाय निवृत्त्यादि यौगपद्यक्रमेण वै ।
अग्नौ संपूज्य संयोज्य शिवाद्यावाहनादिकम् ॥ ३२ ॥

कृत्वा त्वासन विश्लेषौ जीवस्य कर्षणादिकम् ।
शिवात्मानं च तत्रस्थदीक्षावत्सर्वमाचरेत् ॥ ३३ ॥

तन्त्राधिकारभोगं च लयं स्रोतो विनिष्कृतम् ।
निष्कृतिश्च तिरोधानं पशोः पाशविमोचनम् ॥ ३४ ॥

मर्दनं वर्तुलाकारं पादीदाहुतिकां क्रियाम् ।
कारणावाहनं तद्वद् अधिकार समर्पणम् ॥ ३५ ॥

आत्मनो मृतिकर्माणि कृत्वा गुणविवर्जिते ।
योजनाद्भावनानीतशिवे चैतन्यमव्यये ॥ ३६ ॥

प्. १०९५)

स्थण्डिले सन्नियोज्याग्नौ शवदक्षिण मस्तकम् ।
चितावृत्तानमारोप्य विदधीतसदिन्धनैः ॥ ३७ ॥

सन्दीपयेच्चितां पश्चात् कुण्डमध्यगताग्निना ।
शिरः प्रदेशे ज्वलिते चोत्तरास्यो हुनेत्पुनः ॥ ३८ ॥

पूर्णाहुतिं च वह्नौ च यजेत्तन्नन्दिकेश्वर ! ।
त्वमग्नेर्दक्षिणः काले कालेनैवं शतं हुतम् ॥ ३९ ॥

गृहाणमन्त्रसंपूतां शाव्यालेतां महात्मभिः ।
अनेनैव तु मन्त्रेण दत्वा पूर्णाभवान्तिकम् ॥ ४० ॥

दीप्ताग्नौ सृक्सृवौ पश्चात्प्रक्षिपेतावधोमुखौ ।
वर्धनीं शस्त्रजप्तां तु वामांसे सन्निवेशयेत् ॥ ४१ ॥

प्. १०९६)

सन्निवेश्य ततो यायात् प्रत्यग्द्वार प्रदक्षिणम् ।
विमुञ्चन्निक्षिपेत्तत्र यत एव समुद्धृता ॥ ४२ ॥

सरितश्च तटं गत्वा पश्चादनव लोकयेत् ।
स्नात्वा प्रास्तीर्य संदर्भानपसव्यं विधाय च ॥ ४३ ॥

ओं हां शुद्धात्मनीशो भव स्वाहा ।
ओं हां शुद्धात्मन् सदाशिवो भव स्वाहा ॥ ४४ ॥

ओं हां शुद्धात्मन् शान्तो भव स्वाहा ।
पितृतर्पणमेतैस्तु मन्त्रैः कुर्यात्समाहितः ॥ ४५ ॥

स्नात्वा गुरुरघोरेण शतमावर्तयेज्जपम् ।
द्विगुणं स्कन्धदातारस्ततो यास्यनियाश्रयम् ॥ ४६ ॥

प्. १०९७)

तत्र देवं समभ्यर्च्य तदुद्दिश्य विशेषतः ।
प्रथमेऽह्नि तृतीये वा कुर्यात्संचयनं चितेः ॥ ४७ ॥

क्षीरपूर्णं च करकं तोयपूर्णमथापि वा ।
आदाय तत्र संस्थाप्य चित्या काष्ठत्रयं ददेत् ॥ ४८ ॥

क्रमेण पादमारभ्य शिरोन्तं ककुदीकृताम् ।
निश्शब्दं स्थापयेत्तस्य विधिना नन्दिकेश्वर ॥ ४९ ॥

तस्मात्प्रदेशमादाय सरितां नीरदेशके ।
निधाय विधिना खात्वा स्थापयेन्नन्दिकेश्वर ! ॥ ५० ॥

अथ दुर्मरणं चात्र पुनर्दहनमिष्यते ।
दीक्षाहीनस्य मरणे शिवदीक्षायुतस्य च ॥ ५१ ॥

प्. १०९८)

जीवन्तोऽपि च वांछापे मृतदीक्षा विधीयते ।
शस्त्रैर्मृगैर्गजैश्चैव वारिभिर्विषभक्षणैः ॥ ५२ ॥

भित्तिवृक्षादिपतनैः हस्तनाडनभेदनैः ।
सर्पदंशनकैश्चैव रज्जुबन्धनमारणैः ॥ ५३ ॥

अन्यैरेता दृशैरेषां मरणे पूर्ववत्क्रिया ।
अविद्यमान देहानां तथा विकलदेहिनाम् ॥ ५४ ॥

क्षयकुष्ठपिशाचादिमरणे नन्दिकेश्वर ! ।
अपस्मारग्रहादीनां दर्शनान्मरणादपि ॥ ५५ ॥

ततः कुशैश्च दारुभिः पलाशोत्थैश्च पल्लवैः ।
षट्त्रिंशदथवा कुर्यात्प्रतिमां तु सलक्षणाम् ॥ ५६ ॥

प्. १०९९)

पिष्टेन पञ्चगव्येन कारयेद्गोमयैस्सह ।
इष्टमानेन कर्तव्यं तस्यां कर्म यथाक्रमम् ॥ ५७ ॥

हुंफडन्तास्त्रमन्त्रेण पञ्चगव्यशिवान्तथा ।
किंतु सर्पिर्मधुक्षीरधाराभिस्तां च सेचयेत् ॥ ५८ ॥

स्वात्मदक्षिणभागे वै प्रतिमां कुसुमासने ।
संस्थाप्य करवीरोत्थमुकुलैन्या समाचरेत् ॥ ५९ ॥

यथा स्थानं च तत्वानि सर्वाण्यपि च विन्यसेत् ।
अथवा व्योम संस्थेन गोमयेन च भस्मना ॥ ६० ॥

पञ्चगव्येन संमार्ज्य प्रतिमां कारयेत्सुधीः ।
भूर्जपत्रे कृतं नाम लिखित्वा हृदये न्यसेत् ॥ ६१ ॥

प्. ११००)

कूपं विचिन्त्य हृदये वामदक्षिणभागके ।
शुद्धां च पिंगलां चापि सुषुम्नां तत्र भावयेत् ॥ ६२ ॥

वामां ज्येष्ठां च रौद्रीं च शक्तित्रयसुतन्न्यसेत् ।
धर्माधर्मौ च कर्माणि सर्वाण्यपि च विन्यसेत् ॥ ६३ ॥

महाजालकमन्त्रेण संस्थितं यत्र कुत्रचित् ।
ओं हं हां हुं अनेन मन्त्रेण कृष्याण वामायेयं ॥ ६४ ॥

कर्माख्यकमलत्रयम् ।
एतत्तर्पणबन्धाय स्वस्वनाम्ना च होमयेत् ॥ ६५ ॥

पञ्चपञ्चाहुतिं कृत्वा विन्यसेन्मस्तकावधि ।
परं शिवं शिरो देशे शक्तिं बिन्दुं च वक्त्रके ॥ ६६ ॥

प्. ११०१)

ललाटे तदधोनादं महेशं घण्टिकोपरि ।
कण्ठे सदाशिवं विद्याद्बाहुसन्धिषु विन्यसेत् ॥ ६७ ॥

अष्टविद्येश्वराणां तु मण्डलं वामपार्श्वके ।
मायां दक्षिणपार्श्वे तु कालतत्वं च विन्यसेत् ॥ ६८ ॥

कलां तदुत्तरे देशे हृदये नीललोहितम् ।
तत्रैव शुद्धविद्यां च पु * * गस्तथोच्यते ॥ ६९ ॥

नाभौ प्रकृति तत्वं च विन्यसेच्च यथाक्रमम् ।
सूक्ष्माणि पृष्ठदेशे च गुणत्रय समन्वितम् ॥ ७० ॥

पुरुषत्रयं नाभिमेढ्रे चान्तरं विन्यसेत्सुधीः ।
त्रिकस्सन्धिषु बुद्धिः स्यान्मेढ्रेऽहंकारकं न्यसेत् ॥ ७१ ॥

प्. ११०२)

व्योमवागीश्वरीं चैव वायुं योन्यन्तरालके ।
चित्ते चाग्निमधोभागे वरुणं तत्र विन्यसेत् ॥ ७२ ॥

तत्वे वै बुद्धिगगनवायुं ज्वलनरूपिणे ।
पञ्चाष्टकानां रुद्राणां न्यासं तस्मादधोमहि ॥ ७३ ॥

तद्बहिश्शतरुद्रांश्च लोकपालांश्च तत्र वै ।
गुल्फाते चापि लोकादौ ब्रह्मविष्णुपितामहान् ॥ ७४ ॥

गुल्फादधस्तात्पातालसप्तकं विन्यसेत्क्रमात् ।
कुले तु नरकान्सर्वान् विन्यस्यांगुष्ठमूर्धनि ॥ ७५ ॥

कालाग्निमेवं स्थाने तु मूर्धाद्यंगुष्ठकान्तकम् ।
परश्शिवादिकालाग्नि तत्वान्यपि च विन्यसेत् ॥ ७६ ॥

प्. ११०३)

गन्धादिभिस्समभ्यर्च्य कलां दीक्षां विधाय च ।
पूर्णाहुत्या शिवस्कन्तमात्मानं तु परश्शिवम् ॥ ७७ ॥

परिपूर्ण समग्रे च मधुक्षीरघृतप्लुतम् ।
पूर्णां हुत्वा च जुहुयाद् अग्नौ संपूर्णमानसः ॥ ७८ ॥

पश्चात्तां प्रतिमां चापि दहेत्पूर्वोक्तमार्गतः ।
भद्रे त्रिपदनक्षत्रे भृग्वंगार बृहस्पतौ ॥ ७९ ॥

दहने मरणे चैव तत्कुलस्य क्षयं भवेत् ।
तत्र वै दोषनाशाय पुनर्दहनमाचरेत् ॥ ८० ॥

तपस्सन्यासिनां चापि दामः परमहंसिनाम् ।
लोकाग्निमुदराग्नौ च समारोपणतः पुराः ॥ ८१ ॥

प्. ११०४)

बाह्याग्निकार्यभावाच्च शाययेल्लक्षणैस्सह ।
खननेऽप्यपदं चापि दैर्ध्यं वेदकरं भवेत् ॥ ८२ ॥

हस्तद्वयं च विस्तारमधः खातं चतुष्करम् ।
अग्निकार्यं विना सर्वं कर्म पूर्ववदाचरेत् ॥ ८३ ॥

शिवाग्नि कार्य संयुक्तयतीनां तेन संदहेत् ।
खनने दहने चैव दण्डकौपीन संयुतम् ॥ ८४ ॥

तत्र देशेऽपि लिंगादिप्रतिष्ठामपि कारयेत् ।
तन्मूर्तिं वापि पीठं वा भित्तिचित्रमथापि वा ॥ ८५ ॥

कूटप्रासादकं वापि तत्र देशे च कारयेत् ।
आवाहनादिबल्यन्तं दीपान्तं वापि पूर्ववत् ॥ ८६ ॥

इत्यचिन्त्यविश्वसादाख्ये अन्त्येष्टिविधिद्विसप्ततितमः पटलः ॥



प्. ११०५)

अथ वक्ष्ये शिवश्राद्धमेकोद्दिष्टाख्यमेव च ।
आशौचान्ते दिने प्राप्ते एकोद्दिष्टं विधीयते ॥ १ ॥

अग्निसंचयनादेव दशाहैकादशाह्नि वा ।
तथैकहेतिकानान्तु कर्तव्यं श्राद्धमुत्तमम् ॥ २ ॥

स्वस्वजात्यनुरूपेण कर्तव्यं लौकिकं भवेत् ।
दशाहे द्वादशाहे च विप्रक्षत्रिय शुद्धि वै ॥ ३ ॥

पञ्चादशाहे वैश्यानां शूद्राणां मासमेव हि ।
पितृवत्सर्वजातीनां दीक्षितानां च शुद्धि वै ॥ ४ ॥

मासं प्रतिसमायावद् एकोद्दिष्टमिदं भवेत् ।
एकोद्दिष्टं विशेषेण चैकमर्घ्यं पवित्रकम् ॥ ५ ॥

प्. ११०६)

अग्निकार्यविधिस्तत्र कर्तव्यः श्राद्धकर्मणि ।
श्राद्धपक्षेषु तिथिषु श्राद्धं सर्वासु साधयेत् ॥ ६ ॥

अनन्तेशश्च सूक्ष्मश्च शिवेशं च सुसंज्ञकैः ।
एकनेत्रैक रुद्रश्च त्रिमूर्तिष्विति भौतिके ॥ ७ ॥

त्रिमूर्त्त्यादिविलोमेन मात्रादित्रितयं भवेत् ।
शिवोत्तमाद्यनन्तेशात्पित्रादि त्रितयं क्रमात् ॥ ८ ॥

श्रीकण्ठश्च शिखण्डी च विश्वेदेवौ समीरितौ ।
षड्दैवतं गृहस्थानां लिंगिनां तु त्रिदैवतम् ॥ ९ ॥

लिंगिनो ब्राह्मणाद्याश्च श्रद्धया शिवदीक्षितः ।
शिवश्राद्धविहीनश्चेत् पिशाचत्वं स विन्दति ॥ १० ॥

प्. ११०७)

द्वारे वै भस्मनिचये चान्तरिक्षे तथैव च ।
ऋक्षाणि त्रीणि चैकं च प्रेतभूतस्स तिष्ठति ॥ ११ ॥

नैष्ठिकानां विशेषेण नैष्ठिकाश्च भवन्ति वै ।
ईशस्सदाशिवश्शान्तः शिवश्राद्धे तपस्विनः ॥ १२ ॥

रुद्रश्चानातता नाम विश्वेदेवौ स्थितौ द्वयोः ।
निर्वाण दीक्षितानां तु रुद्रांशानामतोन्यथा ॥ १३ ॥

तत्र नन्दिमहाकालौ विश्वेदेवौ गणौ द्वयोः ।
स्कन्दचण्डगणाधीशा गणास्त्रिषु यथाक्रमम् ॥ १४ ॥

एवं च विधिविष्ण्वीशा विश्वेदेवा यमारुणौ ।
सर्वत्र पञ्चभावेऽपि पुरुषद्वयमुच्यते ॥ १५ ॥

प्. ११०८)

शिरस्तद्धविभागेन त्रयमेकत्र कल्पयेत् ।
पर्वशेषेषु चाष्टम्यां मातृपक्षविधिः स्मृतः ॥ १६ ॥

पूर्वेद्युरादरेणैव गौरवेण निमन्त्रयेत् ।
आह्वाययेत्ततोन्यस्मिन्दिने सायाह्नकेऽपि वा ॥ १७ ॥

शुक्लपक्षे तु पूर्वाह्ने कृष्णे साद्यपराह्नके ।
कृतनित्यविधिश्शुद्धभावो वै * * * * * ॥ १८ ॥

कंकणे प्राक्समं कुर्याद्वेदाश्रं मण्डलद्वयम् ।
दक्षिणोत्तर संस्थानं भस्ममात्रं करान्तकम् ॥ १९ ॥

वारुण्यां वर्तुलं तद्वद् विश्वेदेवौ च पूजयेत् ।
पितृदेवं दक्षिणतः पश्चिम संस्थितम् ॥ २० ॥

प्. ११०९)

देवद्वये यवान्दद्यात् सकुशान्पैतृयोस्तिलान् ।
श्वेतपुष्पैः क्रमात्तत्र चतुरश्र क्रमाद्यशेत् ॥ २१ ॥

यवैर्द्वयोस्त्रयाणां तु दद्यादर्घ्यं तिलैस्सह ।
निमित्तार्थे तिलैस्सार्धं रुण * * * दापयेत् ॥ २२ ॥

स्वाहा स्वधान्तकैर्मन्त्रैः स्वनामप्रणवान्वितैः ।
दक्षिणे वामदेवेन पादौ प्रक्षालयेन्मृदा ॥ २३ ॥

दद्यादाचमनं सौम्ये स्वाहान्ते तु प्रवेशयेत् ।
वामेन शुद्धेष्वासनेषु चैतान्नैवं निवेशयेत् ॥ २४ ॥

द्वयं पूर्वाननं पूर्वं ततस्त्रयमुदङ्मुखान् ।
द्रव्यमर्घ्याम्बुना प्रोक्ष्य प्रार्थयेत्तान्समाहितः ॥ २५ ॥

प्. १११०)

यथा श्राद्धं करिष्येहं कुरुष्वेति समासतः ।
द्वाभ्या * * * जान्तेन सव्येनासनयोः कुशान् ॥ २६ ॥

त्रयाणामपसव्येन सर्वत्रैवं विधो विधिः ।
आवाहयेद्यथानाम्नः पञ्चापि तदनन्तरम् ॥ २७ ॥

द्वामे शाभ्यां च रक्षायै तिलैः कार्याप्यनुक्रमात् ।
सान्निध्यार्ध्यमघोरेण सपुष्पाम्बु कुशाक्षतैः ॥ २८ ॥

द्वाभ्यां त्रिभ्यस्तमीशेन दद्याद्भूमिषु जानुकः ।
यवैः पादादिमूर्धान्तं बहुरूपेण पूजयेत् ॥ २९ ॥

तिलैस्तत्रयतैन शिरः प्रभृति पूजयेत् ।
गन्धं पुष्पं च वामेन रूपिणा धूपदीपकम् ॥ ३० ॥

प्. ११११)

दत्वेशेन पवित्राद्यं ब्रूयात्संपूर्णमस्त्विति ।
अनुक्तमन्यच्छ्राद्धांगं हृदयेनाभिमन्त्रयेत् ॥ ३१ ॥

संश्रावयेत्ततस्तांश्च पात्रं कृत्वा विधानवित् ।
पितृस्थानमसंत्यक्त्वा न्युब्जपात्रमधो न्यसेत् ॥ ३२ ॥

मृष्टान्नभोजनं कार्यं भक्तियुक्तो दृढव्रतः ।
कोद्रवं लवणं सर्वं तथा जम्बूफलानि च ॥ ३३ ॥

कूश्माण्डा लाबुवार्तालं माहिषं क्षीरमेव च ।
बीजपूरकषायाणि मरीचिं पिप्पलीमपि ॥ ३४ ॥

कृतं च लवणं सर्ववंशाग्रं च विवर्जितम् ।
वर्ज्यं च लोहितं सर्वं हित्वा कुंकुममेव च ॥ ३५ ॥

प्. १११२)

आरक्ता ये च निर्यासाः प्रत्यक्षलवणानि च ।
कुलस्थं पादसंस्पृष्टं शुष्कं पर्युषितं च यत् ॥ ३६ ॥

पिण्याकमधितं चापि तथाति लवणं च यत् ।
हस्तदत्तानि तु स्नेहाल्लवणव्यञ्जनानि च ॥ ३७ ॥

दातारं नोपतिष्ठन्ते भोक्ता भुंक्ते च किल्विषम् ।
निरंगुष्ठं च यच्छ्राद्धं बहिर्जानु च यद्धुतम् ॥ ३८ ॥

बहिर्जानु च यद्भुक्तं सर्वमेवासुरं भवेत् ।
अन्तर्जानु विशेषेण तथैवाचमनं भवेत् ॥ ३९ ॥

उत्तरे शिवपूजा च दक्षिणे पिण्डयोजनम् ।
मध्ये वह्नि सपर्या वै कर्तव्या नन्दिकेश्वर ! ॥ ४० ॥

प्. १११३)

अपसव्योपवीती च पित्रर्थे च विशेषतः ।
ओं सोमाय पितृमते * * * * * * * * ॥ ४१ ॥

सर्वपाकाग्रमादाय हुत्वाग्नौ पितृयज्ञके ।
आं कव्यवाहनाय स्वधा नमः * * * * * ॥ ४२ ॥

एतेन जुहुयादग्नौ पिण्डत्रयमनन्तरम् ।
पातेषु हुतशेषान्नमाददीत नरं जपन् ॥ ४३ ॥

एवमग्नौ च करणं मधुरान्नं घृतप्लुतम् ।
अघोरेण च शुध्यर्थं पुंसा दद्याच्च संस्पृशत् ॥ ४४ ॥

न्युब्जं सव्यतदंगुष्टं अभूतायां न संगतम् ।
वामं मृत्युञ्जयं वापि परितो भ्रामयेज्जपन् ॥ ४५ ॥

प्. १११४)

अपामशनमस्त्रेण प्रदद्यात्पाणिपल्लवे ।
वाचंयमाः प्रभुञ्जीरंस्तेषु ध्वजमितीरिताः ॥ ४६ ॥

कर्ता तिष्ठेज्जपन्नीशं स्ते * * स्तादृशाननाः ।
भक्त्याथितींश्च संपूज्य तत्कालेनापि चालयेत् ॥ ४७ ॥

अन्नमादाय तृप्तास्थ मणित्वान्नमतः शनैः ।
तदन्नं प्रतिनेद्भूमौ दद्यादापस्सकृत्सकृत् ॥ ४८ ॥

उच्छिष्ट निकटे कुर्याद् गोमयेनाथ मण्डलम् ।
अजातेन च संदर्भान् वामेन विकिरेत्तिलान् ॥ ४९ ॥

त्रयं सर्वान्न पिण्डानां सतिलं दक्षिणामुखः ।
दर्भैः परिक्रमाद्दद्यादीशाद्यैर्मन्त्रकैः क्रमात् ॥ ५० ॥

प्. १११५)

वामदेवेन मन्त्रेण तोयधारां विनिक्षिपेत् ।
पूजयेद्गन्धपुष्पाद्यैः प्रणमेन्नन्दिकेश्वर ! ॥ ५१ ॥

क्षमयित्वोप संहृत्य समाचम्य विधानवित् ।
पूर्वमाचमनं त्रिभ्यो द्वाभ्यां दद्यादनन्तरम् ॥ ५२ ॥

दद्याच्च दक्षिणां तेभ्यः कुर्यात्पात्रमुदाननः ।
सर्वान्प्रदक्षिणीकृत्य प्रणम्य विसृजेत्पुनः ॥ ५३ ॥

पंक्तिभ्यो मध्यपिण्डं च दद्यद्रुद्रसुताप्तये ।
ब्राह्मणायाथ वा तोये वह्नौ गो वृषभे तथा ॥ ५४ ॥

पिण्डांस्त्रीनपि दद्याद्वै निक्षिपेन्नन्दिकेश्वर ! ।
तत्तन्मनुष्याः पितरो दैत्याः श्राद्धे कृते यदि ॥ ५५ ॥

प्. १११६)

मन्त्राः शिवान्वगाः वर्धयन्ति कुलद्वयम् ।
शिवश्राद्धे कृते देवाः पितरश्च विशेषतः ॥ ५६ ॥

वर्धयन्ति कुलद्वन्द्वं नात्र कार्या विचारणा ।
पश्चाल्लिंग प्रतिष्ठां वा प्रतिष्ठां वापि पैतृकीम् ॥ ५७ ॥

भित्तिचित्रं च वा कुर्यात्प्रतिष्ठा पूर्ववद्भवेत् ।
प्रासादगोपुरादीनि पूर्ववत्तत्र कारयेत् ॥ ५८ ॥

पञ्चावरणकैरेवं भवेदेव प्रतिष्ठितम् ।
अर्चनादिविशेषास्तु पूर्ववन्नन्दिकेश्वर ! ॥ ५९ ॥

इत्यचिन्त्य विश्वसादाख्ये शिवश्राद्धविधिपटलः ॥



प्. १११७)

अथ वक्ष्ये विशेषेण जातिनिर्णयरूपकम् ।
विद्यातत्वाख्यलिंगं वै मायाशक्तिश्च पीठिका ॥ १ ॥

आत्मनामुत्तमौ चैव विष्णुवेधाख्यरूपिणौ ।
पुरुषोत्तमं तु वामे तु सव्ये ब्रह्माणमेव च ॥ २ ॥

विद्यातत्वपदं चैव स्थितिकारणमेव च ।
विष्णवे च विशेषेण स्थितिकारणमेव च ॥ ३ ॥

आत्मतत्वाधिपत्यं च सृष्टिकर्माप्यजाय वै ।
ब्रह्मातल्लिंगबुध्या तु जठरे तु चराचरम् ॥ ४ ॥

जनयामास वै विश्वं चतुःस्मृत्वा तु पूर्वकम् ।
पुरुषाघोरवामेशसद्यमन्त्रक्रमात्तदा ॥ ५ ॥

प्. १११८)

दिव्यागमाश्च वेदाश्च लिंगमूर्धन्यजायत ।
सृष्टौ तु प्रथमे देवा मनुष्य पशुपक्षिणः ॥ ६ ॥

सरीसृपाश्च वृक्षाश्च वल्लीगुल्मादयस्तथा ।
ब्राह्मणाख्याः समाख्याताः कवयश्चाप्यनेकशः ॥ ७ ॥

द्वितीयाः क्षत्रिया जाताः तृतीया वैश्यजातयः ।
तुर्याः शूद्राश्च वर्णाःस्युः एवं जाताश्चतुर्विधाः ॥ ८ ॥

जातिसंकल्पमात्रं वै तत्वतो नास्ति जातिकम् ।
ये जाताः शिरसोभागं पूर्वं बाहुद्वितीयकम् ॥ ९ ॥

ऊरु स्तृतीया पादश्च चतुर्थो दृश्यते यथा ।
सृष्टिरूपं ब्रह्मरूपं तस्माद्ब्रह्मांगजातयः ॥ १० ॥

प्. १११९)

मुखे जातो ब्राह्मणः स्यात्क्षत्रियो बाहुजस्तथा ।
ऊर्वोश्च जातो वैश्यः स्यात्पादयोः शूद्र एव च ॥ ११ ॥

विद्यारक्षणमानेन कारणाद्ब्रह्मसंहितम् ।
क्षत्रियं रक्षणार्थाय भूतिसंरक्षणाय च ॥ १२ ॥

ममत्व वृद्धये चैव क्षत्रसंज्ञमुदीरितम् ।
धनरक्षाभिमानेन वैश्यसंज्ञत्वजातिकम् ॥ १३ ॥

धान्योत्पत्यै ममत्वं च शूद्रसंज्ञमुदीरितम् ।
नवखण्डेषु वर्षेषु भारते वर्ष एव च ॥ १४ ॥

जातिभेदमिदं कल्प्यमन्यदेशेषु नास्ति तत् ।
तस्मात्तत्कल्पनामात्रं जातिभेदमितिक्रमम् ॥ १५ ॥

प्. ११२०)

उच्चनीचक्रमादत्र जातिभेदं च कल्पितम् ।
अध्ययन मध्यापनं यजनं याजनं तथा ॥ १६ ॥

दानं प्रतिग्रहं चैव तेषां षट्कर्म चोच्यते ।
प्राणिनामस्त्र शस्त्रेण रक्षां कुर्यात्तु सर्वदा ॥ १७ ॥

जगतः पालनं दुष्टनिग्रहं शिष्टपूजनम् ।
नृपाणां वृत्तिरित्युक्ता तेषां मात्सर्यसंभवे ॥ १८ ॥

वैश्यजातेस्तु वृत्तिश्च धनधान्यादिविक्रयम् ।
तेन वर्धनकं कुर्याद् दानार्थं धनकंकतः ॥ १९ ॥

धान्योत्पत्तिं कृषिं चापि कुर्याच्छूद्रस्तु जीवनम् ।
एवमादि विभेदेन वृत्तिर्वै जगतो भवेत् ॥ २० ॥

प्. ११२१)

तेषां चतुर्ण्णां वृत्तिस्तु चान्योन्यं च न गच्छति ।
तस्मादुत्कर्षणाशीते त्वदतो नास्ति भेदकम् ॥ २१ ॥

धर्ममित्यनुलोमांश्च शृणुत्वं नन्दिकेश्वर ! ।
द्विजेन कन्यायां जाता * * * * * * च्यते ॥ २२ ॥

द्विजेनोपनीतं कुर्यान् नित्यकर्म द्विजस्य वै ।
अथर्व प्रोक्तमार्गेण शान्तिकं पौष्टिकं भवेत् ॥ २३ ॥

रथं गजं हयं चैव वाहनं तु नृपाज्ञया ।
आयुर्वेदमथवं च ज्ञात्वा गुरुमुखेन तु ॥ २४ ॥

ब्राह्मणादि चतुर्णां तु रोगान्ज्ञात्वा चिकित्सयेत् ।
सेनापत्यं चमूनां च कुर्यादादिव संयुतम् ॥ २५ ॥

प्. ११२२)

एते पञ्चकुलाजाता दीक्षायामुत्तमो भवेत् ।
द्विजस्य वैश्यकन्यायां जातोऽम्बष्ठेति विश्रुतः ॥ २६ ॥

द्विजेनोपनी * * * * * कर्मसु तत्परः ।
ब्राह्मणादि चतुर्णां तु रोगान्हस्तेन संस्पृशेत् ॥ २७ ॥

सवर्णस्य नियोगेन चिकित्सां कुर्यात्ततः परम् ।
शल्यक्रिया च कर्तव्या पीतकं चलनं तथा ॥ २८ ॥

विप्रस्य शूद्रकन्यायां जातः पारशवः स्मृतः ।
कुलशास्त्रोक्तमार्गेण भद्रकालीं समर्चयेत् ॥ २९ ॥

चित्रकर्म च विद्या च नृत्तगीतं च वाद्यकम् ।
तथा मर्दकवृत्तिश्च मुद्राभाग्यं तथैव च ॥ ३० ॥

प्. ११२३)

शूलं च रुद्रवाद्यं च संग्राह्यातोद्यवाद्ययुक् ।
गृहे गृहेऽपि * * * टेहि देहीति याचयेत् ॥ ३१ ॥

एवं समाचरेन्नित्यं यावदामरणान्तिकम् ।
नृपस्य वैश्यकन्यायां जातो माहिष उच्यते ॥ ३२ ॥

नृपभण्डारकर्तृत्वं वैश्यवृत्तिस्तथैव च ।
नृपस्यान्तः पुरे रक्षा * * * * पजीवनः ॥ ३३ ॥

नृपस्य शूद्रकन्यायां जातश्चोग्र इति स्मृतः ।
विप्रक्षत्रियविट्छूद्रशुश्रूषां कारयेत्तदा ॥ ३४ ॥

नृपाज्ञया तु दण्ड्याश्च दण्डयेदविचारतः ।
वैश्यस्य शूद्रकन्यायां जातः कारविकः स्मृतः ॥ ३५ ॥

प्. ११२४)

लेखप्र * * * * * द्राज्ञां तेनोपजीवनम् ।
ब्रह्माणमर्चयेन्नित्यं गृहमध्ये विशेषतः ॥ ३६ ॥

ताम्बूल क्रमुकादीनां विक्रयाजीवनः पुनः ।
सवर्णादध उत्पन्नाः पञ्चैते चानुलोमकाः ॥ ३७ ॥

एते दीक्षाविधौ * * * * * स्तेद्विशेषतः ।
कुलसम्बन्धजातत्वा न्नयोग्याः पशवस्तथा ॥ ३८ ॥

कामस्य दुश्चरित्रत्वात् कल्पना च विशीर्णतः ।
पापभेदात्तु संजातं प्रतिलोमाद्यनेककः ॥ ३९ ॥

ब्राह्मण्यां ब्राह्मणस्यैव प्रमाणाद्गूढसापिहिम् ।
व्याख्या विप्र स्यात् तन्तुधारण मात्रकम् ॥ ४० ॥

प्. ११२५)

क्षौद्रहिंमु तथा पूपं जलतैलं च सैन्धवम् ।
बीजद्रव्याणि सर्वाणि सर्जसारं च गुल्गुलु ॥ ४१ ॥

सर्वाणि गन्धद्रव्याणि कृष्णव्या * * * * था ।
अन्यानि चौषधादीनि क्रय विक्रय जीवनम् ॥ ४२ ॥

स एव पति संयुक्ते कुण्डाख्ये तद्वियोगतः ।
गोलकाख्यो भवेदेवं वृत्तिः पूर्ववदेव हि ॥ ४३ ॥

नृपाणां ब्राह्मणस्यैव चोराज्जातोभि ।
तं ज्योतिषं चैव भूततन्त्रोऽर्थनिश्चयः ॥ ४४ ॥

आयुर्वेदमथाष्टांगं सामुद्रीलक्षणं तथा ।
ज्ञात्वा सर्वं च तेनैव जीवनं नन्दिकेश्वर ! ॥ ४५ ॥

प्. ११२६)

चौर्याद्विप्रस्य वैश्यायां जातौ वैकम्भुकः स्मृतः ।
मृत्पात्रं प्रतिमां चित्रसुधाकर्म तथैव च ॥ ४६ ।

मोहिनीं पूजनं कुर्यात् कुलशास्त्र विधानतः ।
शान्तस्तारं दण्डपालहेमकेश्यर्चनं तथा ॥ ४७ ॥

सूतके प्रेतके वापि यजेच्चोपनिते तथा ।
नाभेरुद्धूलनं तेषां भक्तिरितीरिता ॥ ४८ ॥

चौर्याद्विप्रस्य शूद्रायां जातः शूद्रक उच्यते ।
वने व्याल मृगादीनां संग्रहादुपजीवनम् ॥ ४९ ॥

वैश्यस्य चौर्याद्वैश्यायां जनितो मणिकारकः ।
शंखानां विक्रयं कुर्याच्छंखानां वलयक्रयी ॥ ५० ॥

प्. ११२७)

वैश्यकुण्डो मणिकारो गोलकः शंखकारकः ।
वैश्यस्य चौर्याच्छूद्रायां जातः कटकरो भवेत् ॥ ५१ ॥

विष्णोरभ्यर्चनं कुर्यात् कटवृत्तिस्तु जीवनम् ।
शूद्रस्य चौर्याच्छूद्रायां जातो मालवकः स्मृतः ॥ ५२ ॥

स्याख्य गजादीनां तृणभारं तु दाहयेत् ।
एष वै शूद्रकुण्डः स्याद्गोलको वृत्तिरुच्यते ॥ ५३ ॥

राज्ञः कैंकर्यकं कुर्यात् तेन जीवनमन्वहम् ।
चतुर्दश च संप्रोक्ता अनुलोमक्रमात्तदा ॥ ५४ ॥

कुलबन्धि कुम्भकारो दीक्षायामपरे समाः ।
प्रतिलोमं करीपश्चाच्छृणुत्वं नन्दिकेश्वर ॥ ५५ ॥

प्. ११२८)

ब्राह्मण्यां क्षत्रियस्यैव विधिना यदि जायते ।
पूजितं प्रतिलोमेषु स सूतो नाम नामतः ॥ ५६ ॥

तस्य वृत्तिः पुराणादौ बोधनं पाञ्चरात्रकम् ।
विष्णुतन्त्रोक्तमार्गेण पूजयेच्च जनार्दनम् ॥ ५७ ॥

रथांगं च भवं चैव वाहयेच्च नृपाज्ञया ।
नृपस्य भोजनार्थाय कारयेत्पाचनक्रियाम् ॥ ५८ ॥

वैश्यस्य विप्रकन्यायां जातो मातंग उच्यते ।
सर्वेषां कीर्तनं कृत्वा वन्दनं च विशेषतः ॥ ५९ ॥

वैश्यस्य क्षत्रकन्यायां जातस्त्वायोगवः स्मृतः ।
वृत्तिवस्त्रं च कस्यं च क्रयविक्रयणाद्भवेत् ॥ ६० ॥

प्. ११२९)

शूद्रस्य नृपकन्यायां जातः पुष्कल उच्यते ।
सोमं चैव सुरां चैव संगृह्य क्रय विक्रयम् ॥ ६१ ॥

मृदंगादि महाशब्दं वादयेद्गेय संयुतम् ।
शूद्रस्य वैश्यकन्यायां जातः स्थपति रुच्यते ॥ ६२ ॥

देवानां सदनं चैव विप्रादीनां गृहं तथा ।
रत्नकार्याणि सर्वाणि रुग्णाद्याभरणं तथा ॥ ६३ ॥

प्रतिमानं च सर्वेषां अस्त्रशास्त्राणि सर्वतः ।
पात्राणि विविधादीनि आभासं सौधकार्यकम् ॥ ६४ ॥

विन्यासं वास्तुदेशेषु शल्योद्धारं तथैव च ।
लक्षणेन कृतं सर्वं तेषां यदुपजीवनम् ॥ ६५ ॥

प्. ११३०)

प्रतिलोम इमे प्रोक्तास्तेषां संकर उच्यते ।
ब्राह्मण्यां ब्राह्मणस्यैव स्वगोत्रे चैव जायते ॥ ६६ ॥

सोपि चण्डाल इत्युक्तस्तथाचारं शृणुष्वथ ।
ग्रामस्य कोशमात्रे तु वासस्तस्य भवेत्पुनः ॥ ६७ ॥

कुरभान्गर्दभांश्चैव कुक्कुराणां च लक्षणम् ।
श्मशानवस्त्रं संगृह्य तस्याच्छादनकं भवेत् ॥ ६८ ॥

मृत्पात्रे भोजनं कार्यमायसाभरणं तथा ।
गोचर्मखण्डैश्शयया च महिषस्याजिनेऽपि वा ॥ ६९ ॥

पूर्वाह्ने संविशेद्ग्रामं अपराह्ने न संविशेत् ।
गदाधरो ग्रामशुद्धिं कुर्यात्प्रेताग्रयात्रके ॥ ७० ॥

प्. ११३१)

भद्रकाल्यास्तु यात्रायां ग्रामकार्ये तथैव च ।
चण्डालवाद्यं संगृह्य भक्षणं च भवेत्ततः ॥ ७१ ॥

सन्यासो प्रेतविप्रस्य कश्चित्पात्रेषु जातकः ।
सोऽपि चण्डाल इत्युक्तः तस्याचारः पुरोक्तवत् ॥ ७२ ॥

शूद्रस्य जातो विप्रायां चण्डालस्य प्रसिद्धिकः ।
पूर्वचण्डालवृत्तिः स्याज्जीवितं च तथैव च ॥ ७३ ॥

शूद्रस्य तु नृपायां वै जातो बैलवनामवान् ।
स्पृसस्सहवर्णैस्तु * * * * तं च वाद्यकम् ॥ ७४ ॥

सर्वेषां प्रेक्षणं चैव तेन वृत्तिरुदाहृता ।
शूद्रस्य वैश्यायां संजातः श्वकिकाख्यात इष्यते ॥ ७५ ॥

प्. ११३२)

यन्त्रेण तैलाद्युत्पाद्य तैलपिण्याकविक्रयम् ।
क्षारेण लवणेनैव विक्रयो जीवनं मतम् ॥ ७६ ॥

संकरं प्रतिलोमानामुक्तं प्रत्यपि संकरम् ।
ब्राह्मणान्क्षत्रियाज्वैश्यान्शूद्रान्वैश्यविसन्तिहि ॥ ७७ ॥

तेषु ब्राह्मण वाक्यस्य विप्रायां जायते तदा ।
सात्यकर्णक इत्युक्ते व्यभिचारविधानवित् ॥ ७८ ॥

तदेव क्षत्रियायोगादादावन्तेति कीर्तितः ।
शत्रूणां वश्यकार्यं च मन्त्र तन्त्र क्रियादिभिः ॥ ७९ ॥

तस्य वृत्तिश्च कथिता वैश्यायाः पुष्पकाः स्मृतः ।
औषधानि च मन्त्राणि गृह्यं * * दीकांश्चरेत् ॥ ८० ॥

प्. ११३३)

वानप्रस्थस्य वैश्यायां जातो वैखानसः स्मृतः ।
विष्णुं संपूजयेन्नित्यं कटवृत्तिस्तु जीवनम् ॥ ८१ ॥

शूद्रायां तु तथा जातः तक्षकाख्यं तु प्रेमणः ।
क्षत्रियस्यैव कार्याणि जीवनं तस्य चोच्यते ॥ ८२ ॥

प्रात्यस्य राजन्यस्यापि ब्राह्मणां च निकस्तु सः ।
तन्नाम खल्ल इत्युक्तं चोररूपेण केशवः ॥ ८३ ॥

प्रेर्यवृत्तिर्नृपाणां तु भवेत्तेनैव जीवनम् ।
तदैव क्षत्रियोयोगाज् जातो मल्ल इतीरितः ॥ ८४ ॥

अन्यराजन्यवृत्तिं तु ज्ञात्वा राज्ञे निवेदयेत् ।
तेन जीवनमित्युक्तं स प्रविश्य दिने दिने ॥ ८५ ॥

प्. ११३४)

सूतिकाभवनं चैव रक्षाभूतं च कारयेत् ।
वैश्यायां तु ततो जातो मैत्रकाख्य इतीरितः ॥ ८६ ॥

सोगताश्व समाविश्य कर्तृदेवान्समर्चयेत् ।
तथैव वृषलीयोगाज् जातो भागवतः स्मृतः ॥ ८७ ॥

तस्मात्सात्विक इत्युक्तो विष्ण्वाराधन वृत्तिकः ।
प्रात्यवर्गस्समाख्यातः संकरात्संकरं शृणु ॥ ८८ ॥

विप्रचोरोग्रकन्याया जातस्सुमतिकः स्मृतः ।
राज्ञस्तु कुञ्जराणां तु पालनं वृत्तिरुच्यते ॥ ८९ ॥

द्विजस्याम्बष्ठकन्यायां जातः स्वाभिरिकः स्मृतः ।
अजगो महिषाणां तु पालनं जीवनं भवेत् ॥ ९० ॥

प्. ११३५)

द्विजस्यायोगवीयोगाज् जातो हि यव उच्यते ।
तत्कर्मकार इत्युक्तः तेषां नाविकवृत्तिका ॥ ९१ ॥

विप्रस्य बैलवायोगाज्जातः कुक्कुट उच्यते ।
तन्तुवायक्रियां कुर्यात् तेन जीवनमुच्यते ॥ ९२ ॥

काणस्त्रीहेष्य संयोगाज्जातस्तु दृचिकारकः ।
देवानामुत्सवे यज्ञे विधिना चित्रकादिकान् ॥ ९३ ॥

दृढं संरक्षणं कुर्यात् तेन वृत्तिरुदीरिता ।
स्थपत्यम्बष्ठ संयोगाज्जातो वैणव उच्यते ॥ ९४ ॥

आचरेद्वैणवं वृत्तं तेन जीवनमुच्यते ।
वैणव स्थपतीयोगाद् आपिण्डिक इतीरितः ॥ ९५ ॥

प्. ११३६)

राजद्रोहि मनुष्याणां बाधां कुर्याद्विशेषतः ।
बाह्यरक्षा तु कर्तव्या तेनैवास्य तु जीवनम् ॥ ९६ ॥

मागधायोगवीयोगाज्जातश्शौरुण्डनामकः ।
आर्द्रवं कर्तृविधिना कृत्वा मत्क्रयविक्रयम् ॥ ९७ ॥

व्याघ्रं मृगं शशं कृष्णं संगृहेज्जालकादिना ।
मांसविक्रयणं कुर्यात् तेन जीवनमुच्यते ॥ ९८ ॥

पुष्करे योगवीयोगाज्जातो नाविक उच्यते ।
तस्य नाविकवृत्तिः स्याद्यावदाजीवमेव तु ॥ ९९ ॥

स्थपतीयोगवीयोगाज्जातो मैत्राख्यकः स्मृतः ।
घण्टाताडनकं कुर्यात् प्रातरेव महाध्वनिम् ॥ १०० ॥

प्. ११३७)

क्षत्रियाणां तु बोधार्थं तज्जीवं परमीरितम् ।
अम्बष्ठस्य तु विप्रायां जातो नाविक उच्यते ॥ १०१ ॥

विन्धौ तुरण्डकादीनां कारणं जीवनं भवेत् ।
अम्बष्ठस्य नृपायां तु जातो नाविक उच्यते ॥ १०२ ॥

चतुर्वर्णानुलोमानां वपनं नाभ्यधो भवेत् ।
विप्रायां महिषस्यैव जातो वैणव उच्यते ॥ १०३ ॥

वैणवी तस्य वृत्तिस्तु न्वन्नालीनासमन्वितम् ।
ब्राह्मणादि नृपाणां तु वासनं शयनादिकम् ॥ १०४ ॥

वर्ण सम्बन्धनं कृत्वा तेन जीवन मुच्यते ।
नृपायां चूचुकस्यैव जातो वैवत्स्यबन्धकः ॥ १०५ ॥

प्. ११३८)

जालेन सूत्रयन्त्रेण मत्स्यानाहृत्य विक्रयम् ।
वैदेहकस्य विप्रायां जातको रजकः स्मृतः ॥ १०६ ॥

निर्लेपनं च वस्त्राणां तेन वृत्तिरुदीरिता ।
आयोगवस्य विप्रायां जातस्ताम्रक उच्यते ॥ १०७ ॥

ताम्रेण सर्वकार्यं तु कृत्वा तत्क्रयविक्रयम् ।
नृपायां योगकस्यैव जनितो बन्धकः स्मृतः ॥ १०८ ॥

वस्त्रदोषाद्विनिर्मुक्ता शुद्धिं कृत्वोऽथ जीवनम् ।
वृषल्यो ममथस्यैव जातः कुक्कुट उच्यते ॥ १०९ ॥

गोपुराणां तु संशुद्धिं कृत्वा तेनोपजीवनम् ।
अम्बष्ठायां विदेहस्य जातो बैल इतीरितः ॥ ११० ॥

प्. ११३९)

लाटयत्पटभादीनि शुद्धिं कृत्वा तु मुष्टिना ।
इन्द्रजालादिलीलाश्वकुर्यात्तेनोपजीवनम् ॥ १११ ॥

तस्यैव निषधीयोगाज्जातस्त्वगत उच्यते ।
वने व्यालमृगादीनि कन्दमूलान्यनेकशः ॥ ११२ ॥

औषधानि च सर्वाणि विक्रयाज्जीवनं भवेत् ।
चण्डालस्य तु विप्रायां जातः स्यपव उच्यते ॥ ११३ ॥

श्मशान वासस्संवेष्ट्य चर्मणा कर्णदेशके ।
पूर्वाह्ने ग्राममासाद्य अपराह्ने निवेशनम् ॥ ११४ ॥

सर्वं मलं व्यपोह्याथ शुनां मांसं च कारकः ।
चर्मणा पादरक्षादि कृत्वा तत्क्रय विक्रयम् ॥ ११५ ॥

प्. ११४०)

वैदेहस्य नृपायां तु जातिस्सूतिक उच्यते ।
सूचिनाबन्धयेद्वस्त्रान्यथा युक्तोपजीवनम् ॥ ११६ ॥

पुष्करस्य तु विप्रायां जातस्त्वापश्वभक्षकः ।
नष्टद्रव्याणि सर्वाणि यत्नात्संगृह्यते ततः ॥ ११७ ॥

गुरूल्काश्वापचेञ्चाश्व म्लेच्छादिपनकादयः ।
जातिभेदमिदं प्रोक्तं क्रमात्तन्नन्दिकेश्वर ! ॥ ११८ ॥

व्रात्यपुत्राश्च दशका दीक्षायामथ माधवाः ।
उत्तमानां च मध्यास्तु पञ्चपञ्चाधिमामनुः ॥ ११९ ॥

अधमाधमकाश्चापि दशप्रोक्ता विशेषतः ।
चतुस्त्रिंशच्च ये मर्त्याः कुलसम्बन्धिनस्तथा ॥ १२० ॥

प्. १६४१)

हीनाचारयुताश्चापि क्रूरकर्मयुता अपि ।
हीनवृत्तियुतानेव दीक्षायां वर्जयेद्गुरुः ॥ १२१ ॥

दीक्षाद्ययोग्यजातीकाप्यकल्पेन च भस्मना ।
त्रिपुण्ट्रां कितदेहाश्चरुद्राक्षमणिधारिणः ॥ १२२ ॥

अमन्त्रकाः स्वयं पश्चाच्छिवभक्तियुतान्परान् ।
लिंगिनं च सदा भक्त्या दूरतः प्रणमादिकाः ॥ १२३ ॥

कृत्वाशिवालयाद्यं च स्वस्वजात्यनुसारतः ।
यथोचितं तथा कुर्यात्तेन स्वर्गमवाप्नुयात् ॥ १२४ ॥

पश्चाद्भूमौ तु संजाय दीक्षया मोक्षमाप्नुयुः ।
दीक्षितो विधिनोलिंगी नैष्ठिकोऽपि विशेषतः ॥ १२५ ॥

प्. ११४२)

तस्य जातेस्तु सम्बन्धो नास्त्येवं नन्दिकेश्वर ! ।
भौतिकस्य विशेषेण लोकाचार समन्वयात् ॥ १२६ ॥

पूर्वजात्या तु वक्तव्यमिति शास्त्र विनिश्चयः ।

इत्यचिन्त्य विश्वसादाख्ये जातिनिर्णयविधिरष्टसप्ततितमः पटलः




भूतोत्पत्तिविधिं वक्ष्ये शृणुत्वं नन्दिकेश्वर ! ।
जननी प्रादुर्भाव इति तद्भेदे जातिभेदकः ॥ १ ॥

उद्भिदं स्वेदजं चैव मण्डजं च जरायुजम् ।
एवं चतुर्विधं प्रोक्तं जातिभेदं ततः शृणु ॥ २ ॥

प्. ११४३)

भूमिमुद्भिद्य संजाता उद्भिदः स्थावरादिकाः ।
तृणगुल्मलताद्याश्च उद्भिदश्च प्रकीर्तिताः ॥ ३ ॥

स्वेदजाः स्विद्यमानेभ्यो * * * * दिमत्कुणाः ।
स्त्रियाद्याश्च पिपील्याद्या स्वेदजाश्च प्रकीर्तिताः ॥ ४ ॥

अण्डजाः पक्षिणस्सर्पा गोधामत्स्याश्च कच्छपाः ।
नक्रा ग्राहाश्च ते सर्वे चाण्डजाश्चेति कीर्तिताः ॥ ५ ॥

जरायुजश्च ग्राम्यातः क्रमतस्थूनि संभवाः ।
जरायुजाश्च मूलं वै चौषध्या जायते भृशम् ॥ ६ ॥

प्राप्तकाले तु संसिक्ता भूमिरुष्म समन्विता ।
वायुना व्यूहमानासा व्योम्नि जीवत्वमागता ॥ ७ ॥

प्. ११४४)

यथार्तवानि बीजानि सं * * * * * पुनः ।
उच्छ्रनातार्द्रदुर्भं च मूलभागमियात्क्रमात् ॥ ८ ॥

तन्मूलादं कुरोत्पत्तिरंकुरार्पण निष्कृतिः ।
पर्णनालं ततः काण्डं काण्डोक्त प्रसवं पुनः ॥ ९ ॥

कुसुमात्क्षीरसंपत्तिः * * * ण्डुलनिष्कृतिः ।
तण्डुलानां तु पाकात्तु त्रियन्त्यौषधजातयः ॥ १० ॥

तदायवाद्यस्सप्तदशशणान्ताश्च प्रकीर्तिताः ।
फलपाकावसानान्तास्तथा चौषधिजातयः ॥ ११ ॥

ओषधीनां रसं चैव षड्विधं परिकीर्तितम् ।

  • * * * * संयोगाद् अनेक स्वादुतां गतिम् ॥ १२ ॥


प्. ११४५)

भोज्यं भक्ष्यं च लेह्यं च शोष्यं पेयं च पिंच्छिलम् ।
मधुराम्रे च लवणं तिक्तं कटुकषायकम् ॥ १३ ॥

एवं षड्रस संयोगाद् अन्नं ग्राम्यास्तु भुंजते ।
आसाद्यामाशयं प्राप्य प्राणादि स्थापितं क्रमात् ॥ १४ ॥

पुनर्दग्धं भवेदन्नं वायुना च विशेषतः ।
अन्नांशं भुजलांशन्तु तोयासो वह्निरूर्जितः ॥ १५ ॥

प्राणवायुजलस्याथ शनैरग्नि * * * * ।
अग्निनात्वार्थ्यतेतोयं तेनान्नस्यापि पाचनम् ॥ १६ ॥

पृथगंश पृथक्कीटं पुनश्च द्विविधं भवेत् ।
किट्टं द्वादशमार्गेण वह्निरंगात्प्रवर्तते ॥ १७ ॥

प्. ११४६)

श्रोत्रनेत्रघ्राणजिह्वा शिश्नो मेढ्रगुदं नखाः ।
मलाशयाः कफस्वेदौ विण्मूत्रा द्वादश स्मृताः ॥ १८ ॥

हृदयाम्भोजसम्बद्धाः सर्वा नाड्यस्समन्ततः ।
प्राणवायुश्च नाडीनां मुखे सूक्ष्मरसं क्षिपेत् ॥ १९ ॥

तेनापि रसनेनैव नाड्या प्र * श्च पूर्यते ।
नाडीनां मध्यमे प्राणशरीरः श्लेष्मणो रसः ॥ २० ॥

पच्यन्ते पाकमानाश्च भवेत्पाकद्वयं पुनः ।
रसतस्त्वक्च रुधिरं मांसं रक्तात्तु जायते ॥ २१ ॥

मांसं मेदतस्नायुस्नायोरस्थीनि वै क्रमात् ।
मज्जा तु जायते पश्चाच्छुक्लोऽप्यत त्रिधा भवेत् ॥ २२ ॥

प्. ११४७)

अन्नस्य रेतश्शुक्लं स्याच्छुक्लाद्देहस्य संभवः ।
प्राजापत्य * * * नै ऋतुकाले विशेषतः ॥ २३ ॥

निर्दोषं योनिगं शुक्लं योषिद्रक्तेन मिश्रितम् ।
शुक्तान्नरान्तस्थो जीवः करणसंयुतः ॥ २४ ॥

गर्भाशयं प्रविशति प्रीत्या स्वैरेव कर्मभिः ।
एकाहामिश्रितं तत्तु कलाख्यंगं च गच्छति ॥ २५ ॥

कललात्पञ्चरात्रेण बुद्बुदत्वं प्रपद्यते ।
सप्तरात्रोविमाद्भूत्वा बुद्बुदात्पेशिकां व्रजेत् ॥ २६ ॥

चतुर्दशदिनात्पेशि रक्तं मांसात्मना दृढा ।
पंचविंशदिनात्पश्चाद् बीजांकुरसमुद्भवः ॥ २७ ॥

प्. ११४८)

तत्पुनर्मांसमात्रेण पञ्चधाजायते तदा ।
शिरो ग्रीवा च स्कन्धश्च पृष्ठवंशस्तथोपरम् ॥ २८ ॥

पाणिपादं तथा पार्श्वं कटिर्गात्रं तथैव च ।
मासद्वयात्क्रमेणैव भवत्येवांगनिष्कृतिः ॥ २९ ॥

मासेनैव च जायन्ते सर्वांगांकुरसन्धयः ।
अंगुल्यश्च चतुर्मासाज्जठराणा * * शकम् ॥ ३० ॥

पञ्चमे मासि वक्त्रं च नासाकर्णौ तथैव च ।
गुह्यं च दन्तपंक्तिश्च जायते च न खांकुराः ॥ ३१ ॥

कर्णादीनामपिच्छिद्रं षण्मासादेव जायते ।
पायुर्मेढ्रमुपस्थं च नाभिर्वंशास्थिरेव च ॥ ३२ ॥

प्. ११४९)

गात्रेषु सन्धयो ये च सप्तमे मासि जज्ञिरे ।
अंगप्रत्यंग संपूर्णशिरोभाग समन्वितः ॥ ३३ ॥

अष्टमे मासिके चैव विस्पष्टांगश्च जायते ।
नवमे मासि संप्राप्ते संपूर्णज्ञान वारुणः ॥ ३४ ॥

षड्विधेन रसेनैव मातुराहारजैः पुनः ।
नान्तरालेन संव्याप्तपोषजा याति नित्ययः ॥ ३५ ॥

सुखदुःखं विजानाति निद्रां स्वपं पुराकृतम् ।
जरश्चाभं मृतश्चाभः जन्मजन्म पुनः पुनः ॥ ३६ ॥

यज्जन्मपरजन्मस्यार्थे कृतं कर्म शुभाशुभम् ।
एकाकी तेन दह्येहं गतास्ते फलभोगिनः ॥ ३७ ॥

प्. ११५०)

यदा योग्याः प्रमुद्येऽहं तं प्रपद्ये महेश्वरम् ।
अशुभक्षयकर्तारंपरं मुक्ति प्रदायकम् ॥ ३८ ॥

गर्भस्थः कीटजालैश्च पीड्यमानो मुहुर्मुहुः ।
येन येन प्रकारेण गर्भवासो न जायते ॥ ३९ ॥

तेन तेन प्रकारेण शिवस्याराधनं भवेत् ।
गर्भस्थश्चिन्तयन्नित्यं यदि वा निर्गतो भवेत् ॥ ४० ॥

इत्येवं चिन्तया खिन्नो गर्भदुःखेन पीड्यते ।
मोक्षं विचिन्तयञ्जीवी कर्मपाशानुगः ॥ ४१ ॥

बृहच्छिलाभिराक्रान्तः क्वचिद्दुःखेन तिष्ठति ।
जीवोपि तद्वन्महतावेष्टितश्च जरायुणा ॥ ४२ ॥

प्. ११५१)

संसारसागरे मग्नो दुःखमास्ते समाकुलः ।
गर्भादिकेनच्छन्नांगव्याकुलः पुमान् ॥ ४३ ॥

वह्निना लोहकुंभस्तु यथा कश्चित्प्रपद्यते ।
अथाप्य प्रश्चिते गर्भः कुम्भे तु जठराग्निना ॥ ४४ ॥

प्रतप्तलोहजातीभिः विभिन्नस्य निरन्तरम् ।
दुःखं यज्जायते तस्य तद्गर्भेषु गुणं भवेत् ॥ ४५ ॥

गर्भवासात्परं वासं कष्टं नैवात्र विद्यते ।
अग्निघोरं महादुःखं बहुलं देहिनामिदम् ॥ ४६ ॥

जंगमस्थावराणां तु गर्भाणामनुरूपतः ।
गर्भात्कोटिगुणं दुःखं योनियन्त्र प्रपीडनात् ॥ ४७ ॥

प्. ११५२)

संपीडितसमस्तांशो दुःखार्तोऽपि भयान्वितः ।
तिलषत्पीड्यमाणस्य यन्त्रेणैव समन्ततः ॥ ४८ ॥

गर्भान्निष्क्रममाणस्य प्रबलैस्सूतिमारुतैः ।
महद्दुःखं भवत्येव जायमानस्य तस्य वै ॥ ४९ ॥

तिलेक्षुबन्धयन्त्रेण पीडितास्सारवर्जिताः ।
तद्वन्निस्सारमापन्नो विवशोऽधः पतत्यसौ ॥ ५० ॥

अस्थिपक्षतुलास्तम्भं स्नायुबन्धनयन्त्रितम् ।
रक्तमांसमृदा लिप्तं विण्मूत्रद्रव्यभाजनम् ॥ ५१ ॥

लोमकेशतृणच्छन्नं व्याधीनां च निकेतनम् ।
वदनैक महाद्वारं गवाक्षाष्टकभूषितम् ॥ ५२ ॥

प्. ११५३)

अधरोष्टिकवाटं च जिंजमिह्वार्गलावृतम् ।
सिरास्वेद प्रवाहं च श्लेष्म पद्मपरिप्लुतम् ॥ ५३ ॥

परितः क्लेशसंयुक्तं कालानल समन्वितम् ।
कामक्रोधेन्धनाक्रान्तं व्यसनैश्चापि मर्दितम् ॥ ५४ ॥

भोगतृष्णातुरं डम्भरागद्वेषवशानुगम् ।
संकटेनाविविक्तेन योनिमार्गेण निर्गतम् ॥ ५५ ॥

विण्मूत्र रक्तसिक्तांगमुद्वेन च समुद्भवेत् ।
प्रधानास्थीनि वै त्राणि शतान्यधिकमष्ट वै ॥ ५६ ॥

सार्धां च सोरोम कोट्यं पञ्चपेशिशितानि च ।
द्विसप्तति सहस्राणां नाडीभिरभितो वृतम् ॥ ५७ ॥

प्. ११५४)

  • * * * * * * * शुक्लं कटुबु उच्यते ।

मेदः प्रस्थद्वयं प्रोक्तं देहिनां नन्दिकेश्वर ! ॥ ५८ ॥

मूत्राणां च पुरीषाणां संख्यासख्यानमादिशेत् ।
इति देहं * * * * ह्येव स्यान्नित्यमात्मनः ॥ ५९ ॥

विशुद्धस्यापि मलिनं कर्मबन्धाद्विनिर्मितम् ।
शुलशोणितसंयोगाद् देह उत्पद्यते यतः ॥ ६० ॥

पुरीषपूर्णकुम्भस्य शुद्धिः कुत्रोपलभ्यते ।
शोध्यमानोऽपि देहोयं अशुचिः स्याद्वि निश्चयः ॥ ६१ ॥

हृद्यानि सुरभीण्याशु यत्प्राप्यशुचिर्भवेत् ।
अशुद्धित्वं क्षणाद्याति किमन्यदशुचिर्भवेत् ॥ ६२ ॥

प्. ११५५)

यस्य स्रोतांसि सततं सूक्ष्मैर्नाडी मुखैस्सदा ।
स्रवन्ति पूति गन्धानि किमन्यदशुचिर्भवेत् ॥ ६३ ॥

एवंविधे शरीरेऽपि न विरज्यति कश्चन ।
चन्दनागरुकर्पूरकुंकुमाद्यनुलेपितम् ॥ ६४ ॥

न जहाति स्वकं गन्धं श्वपुच्छमिवनामितम् ।
सर्वदा शोध्यमानोपि शुद्धिं नैवाधि गच्छति ॥ ६५ ॥

जिघ्रन्नपि सुदुर्गन्धं पश्यन्नपि स्वकं मलम् ।
नान्यद्विरागहेतुः स्याच्छरीरादिह विद्यते ॥ ६६ ॥

जगत्सर्वं विशुद्धं वै देह एवाशुचिः परम् ।
भावशुद्धिर्विशुद्धिर्वै शुद्धये कथितं मया ॥ ६७ ॥

प्. ११५६)

भावहीने कृताशुद्धिर्भाव शुद्धिर्विशुद्धिदा ।
गंगातीर्थैश्च मृद्भारैमृज्यते पर्वतोपमैः ॥ ६८ ॥

दीर्घकालमशुद्धः स्याद् भावशुद्धि विहीनकः ।
शुद्धतीर्थ सहस्रैस्तु स्नातो भावविहीनकः ॥ ६९ ॥

तेनापि नैव शुद्धः स्यात् श्वदृतिः क्षालितायथा ।
दुष्टात्मावह्नि योगेऽपि न शुद्धः कुत्रचिद्भवेत् ॥ ७० ॥

स्वर्गं मोक्षं च नास्त्येव केवलं देहनाशनम् ।
शौचं परं भावशुद्धिप्रमाणं सर्वकर्मसु ॥ ७१ ॥

भावेनालिंगिता भार्या दुहिता वान्यथा यथा ।
मानवा भिद्यते बुद्धिरभिन्नेष्वेव वस्तुषु ॥ ७२ ॥

प्. ११५७)

नन्दिन्सर्वत्र पुत्रस्तु स्तनं ध्यायन्यथा यथा ।
पतिस्तदेव ध्यायन्वै कामार्द्र हृदयो भवेत् ॥ ७३ ॥

परिष्वक्तापि यद्भार्या भावहीना न कामयेत् ।
अभावेन परं तस्माद्भावस्सर्वस्य हेतुक ॥ ७४ ॥

चेतश्शुद्धिर्विशुद्धिर्वै किमन्यैश्शै * * * रैः ।
दाहशुद्ध्या च सर्वं च लभते नात्र संशयः ॥ ७५ ॥

ज्ञानाम्बुनामलात्पुंसां सद्वैराग्यमृदा पुनः ।
अविनारागविण्मूत्रलेपगन्धविशोशधनम् ॥ ७६ ॥

स्वभावतः शरीरे तु मलभाण्डमिदं परम् ।
त्वङ्मात्र सारनिस्सारं रम्भास्तम्भनिभं परम् ॥ ७७ ॥

प्. ११५८)

एवं शरीरं यत्प्राज्ञः प्रबुद्धः शिथिली भवेत् ।
संसारसागरं घोरं करोत्येव न संशयः ॥ ७८ ॥

एवमेतन्महाकष्टं गर्भदुःखं प्रकीर्तितम् ।
अज्ञातशेषां पुंसां तु नानाकर्मवशात्पुनः ॥ ७९ ॥

यास्मृतिर्गर्भवासे तु सास्मृतिस्तु प्रणश्यति ।
संक्षयद्योनि मार्गेण निर्गच्छन्नवशो भवेत् ॥ ८० ॥

प्रणवेनैव मरुता स्पृष्टो मोहवशानुगः ।
स्मृतिभ्रंशश्च जायेत पूर्वकर्मवशात्तदा ॥ ८१ ॥

तूर्णं सन्तायतेजान्तो रतिस्तत्रैव जन्मनि ।
लोभेन रक्तो मूढश्च स्वमात्मानं न वि ॥ ८२ ॥

प्. ११५९)

  • * णाति परं श्रेष्ठ न जपन्नेव दैवतम् ।

नेत्रयुक्तोऽपि सद्वस्तु नेक्षते च कदाचन ॥ ८३ ॥

शुद्धे समे पथि तथा गच्छन्स्पन्दति च ध्रुवम् ।
संसारे क्लिश्यते लोभ मोहक्रोध वशानुगः ॥ ८४ ॥

व्यक्तेन्द्रियविहीनत्वात् बाल्ये दुःखं महद्भयम् ।
वक्तुं कर्तुं न शक्नोति स्वेचेच्छन्नपि सत्क्रियाम् ॥ ८५ ॥

दन्ताना मुद्गमे काले व्याधीनां दुःखमाप्नुयात् ।
बाल्ये तु वहुमिश्चैव बालरोगैर्विशेषतः ॥ ८६ ॥

क्षुद्बुभुक्षापरीतांगः क्वचित्तिष्ठति चारटन् ।
मोहान्मूत्रपुरीषादीन् भक्षयेद्बाल्यभावतः ॥ ८७ ॥

प्. ११६०)

कर्णवेधे च कौडीरे मातापित्रोश्च ताडनात् ।
अक्षराध्ययनाद्यैश्च दुःखं स्याद्गुरुशासनात् ॥ ८८ ॥

कामज्वरेण सन्नांगो यौवने मोहपीडितः ।
ईर्ष्यया च महद्दुःखं मोहात्तस्यैव जायते ॥ ८९ ॥

जायते तस्य नेत्रस्य दुःखमेव न संशयः ।
निद्रां न विन्दते रात्रौ कामाग्नि परितापितः ॥ ९० ॥

दिवापि सौख्यं नास्त्येव वित्तचित्तन्नचिन्तया ।
योषित्सक्तस्य देहस्य पुंसो ये शुक्ल बिन्दवः ॥ ९१ ॥

कृमिभिस्तुद्यमानस्य कुष्ठिनः पामितस्य च ।
कण्डूयनाग्नितापेन यद्भवेत्स्तिषु तद्विषु ॥ ९२ ॥

प्. ११६१)

यादृशं मन्यते सौख्यं कण्डूयन विनिर्गमात् ।
तादृशं सौख्यमेवैति नान्यस्त्रीषु न विद्यते ॥ ९३ ॥

  • * शगन्धसञ्जातो गन्धोपरिविनिर्मिता ।

तद्वत्स्त्रीष्वपि तद्विद्धि न सौख्यं परमार्थतः ॥ ९४ ॥

विण्मूत्रस्य सकृत्सर्गाद् यादृशं स्यात्सुखं तथा ।
कान्तासुतद्वज्ज्ञातव्यं अन्यैः कल्पितमन्यथा ॥ ९५ ॥

अवस्तभूतनारीषु पापानामाश्रयासु च ।
सुखं नास्ति विचारोस्ति यदि तस्य विशेषतः ॥ ९६ ॥

अवमानेन संमानं वियोगे नष्ट संगमः ।
जरया यौवनं कष्टं क्वसौख्यमनुपद्रवम् ॥ ९७ ॥

प्. ११६२)

वलीपलितपालित्यैः शिथिलीकृतविग्रहः ।
अन्योन्यं यौवने प्रतिवर्धनं स्त्रीनरं प्रति ॥ ९८ ॥

तद्गात्रं जरया ग्रस्तं अप्रियत्वं व्रजेत्क्षणात् ।
जरया शिथिलीभूतं स्वमात्मानं निरीक्षयेत् ॥ ९९ ॥

न विरज्येतकस्तस्माद् आज्ञो नास्तीति विद्यते ।
पुत्रमित्रकलत्रादिबन्धुभिर्जरया वृतः ॥ १०० ॥

दुराचाररतैश्चैव भृत्यैश्च परिभूयते ।
न जीर्येताथ धर्मार्थ काममोक्षफलं पुनः ॥ १०१ ॥

यौवने धर्मरक्षां च कुर्यात्तन्नन्दिकेश्वर ! ।
व्याधीनामाकरं देहं वातपित्तकफात्मकम् ॥ १०२ ॥

प्. ११६३)

यस्माद्व्याधिस्वरूपोयमात्मनश्च शरीरकम् ।
शरीरेस्मिन्मृत्युशतं शतमेकेन संयुतम् ॥ १०३ ॥

तेषामेकस्तु कालाख्योऽप्यन्तेप्यागन्तवामताः ।
आगन्तवो भैषजाद्यैः शान्तिं गच्छन्ति नेतरे ॥ १०४ ॥

जपहोमादिभिस्सर्वैर्न प्रशाम्यति कालजः ।
विविधा मृतयश्चापि शस्त्रसर्पविषाणिभिः ॥ १०५ ॥

नगलैराभिचारैश्च कीनाशनगृहं व्रजेत् ।
कालमृत्युवशं जन्तुं न कश्चिदपि रक्षति ॥ १०६ ॥

न तपो न जपो नार्चा नौषधा दानमेव वा ।
रसायनवरैर्योगैः कालं दैवत्वमाप्नुयात् ॥ १०७ ॥

प्. ११६४)

तथापि दीर्घकालेपि कालः कालं न यत्यसौ ।
नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयम् ॥ १०८ ॥

नास्ति मृत्युसमो रोगः सर्वेषामपि देहिनाम् ।
सत्पुत्रमित्रभार्यादिराज्यैश्वर्यादिकानपि ॥ १०९ ॥

असार्थांश्चापि शत्रूंश्च संहरेन्मृत्युराक्षसः ।
प्र * * * * * * ध्य प्यशनिषष्टिरेव वा ॥ ११० ॥

प्रथमायुस्समारभ्य मध्ये मृत्योर्वशंगतः ।
मध्ये रात्रिं मृतिस्तुल्या सर्वेषां प्राणिनामयम् ॥ १११ ॥

बालभावेपि मोहेऽपि यौवने कामपीडितः ।
वार्धक्ये जरया ग्रस्तो मध्ये व्याधिशतैरपि ॥ ११२ ॥

प्. ११६५)

कामक्रोधैश्च मोहैश्च मदमात्सर्यकैरपि ।
देहजैश्शत्रुभिस्सर्वैः सर्वदा बाध्यते नरः ॥ ११३ ॥

जीवितेऽपि ततः प्रातो बाधामूत्रपुरीषयोः ।

  • * सार्धैश्च मध्येह्नि तृप्तौ कामेन निद्रया ॥ ११४ ॥


रात्रौ तु सर्वदाजन्तोः सुखं किंचिन्न विद्यते ।
व्याध्यादि बाधयो घोरं मरणं च स गच्छति ॥ ११५ ॥

ततोऽपि जन्मकोटीषु जायते कर्मचोदितः ।
अन्योन्य मातृपितृत्व पितृत्वज्ञातिशब्दकैः ॥ ११६ ॥

कलत्रभृत्यपश्वादिजातिभेदेन विद्यते ।
कर्मणां साहचर्याच्च ऋणमात्रादि संभवः ॥ ११७ ॥

प्. ११६६)

तस्मान्मातृपितृत्वादिनास्ति नास्ति यथार्थतः ।
धर्माद्ययेपि योगं च देहेन च समाप्नुयात् ॥ ११८ ॥

एवं जरायुर्निर्दिष्टो स्तनोशः परमार्थतः ।
मृत्युदुःखं च यद्भूतं तद्वच्छतगुणाधिकम् ॥ ११९ ॥

ग्रवाबाधश्च यामातस्त्रातापि परितापितः ।
सर्पास्यगतमण्डूक इव क्रन्दन्मुहुर्मुहुः ॥ १२० ॥

बन्धुभिश्च कलत्रैश्च मातृभिः पितृभिस्तथा ।
सेवितोऽपि मुखेनैव शुष्येताति समुच्छ्वसन् ॥ १२१ ॥

पादान्तेऽपिशिरः कृत्वा शिरोन्ते पादमेव च ।

  • * * * * * * * नागजालेन पड्यते ॥ १२२ ॥


प्. ११६७)

खट्वाया भूमिमन्विच्छन् भूमेः खट्वां पुनर्व्रजेत् ।
शुष्कन्धपिप तोयावमानस्य मृतः कस्य भविष्यति ॥ १२३ ॥

एवञ्जपनार्वस्वं च मुक्तलज्जो महीतले ।
मूत्रविष्ठानुलिप्तांगो म्रियते मृत्युना पुनः ॥ १२४ ॥

घोरचोरगजाध्वानो दह्य देहं क्रमाद्व्रजेत् ।
मनस्विनः प्रार्थनां तु मरणादधिकं भवेत् ॥ १२५ ॥

क्षणिकं मरणे दुःखं अनन्त प्रार्थनावृतम् ।
नित्यव्याधिस्तु क्षुद्व्याधि * * * * * मिदम् ॥ १२६ ॥

अन्नपानमहौषद्ध्या शमं गच्छति नान्यथा ।
तक्षवृ विधिरत्यन्त बलसंहारकारणम् ॥ १२७ ॥

प्. ११६८)

तदभावे तु म्रियते व्याध्यौषधमिदं परम् ।
व्याध्यौषधमिदं ज्ञेयं परमार्थेन पण्डितैः ॥ १२८ ॥

त्यक्तसंगश्च यश्शेते सर्वकार्योमृतोपमः ।
सौख्यं तत्र न विद्येत तमसाच्छादितात्मनः ॥ १२९ ॥

सौख्यं कुतः प्रबोधेपि कार्यैरूवहितात्मनः ।
गजाश्वसेवा वाणिज्य गोरक्षणपरिश्रमैः ॥ १३० ॥

अर्थार्जनाय दुःखी स्याद् रक्षणे लब्ध * * * ।

  • * र्थेदन्नरोगादिकष्टं तत् किंकरोम्यहम् ॥ १३१ ॥


नष्टा गावः कृषिर्भग्ना धनधान्यविनाशिताः ।
कण्ठादिभिर्गृहं भग्नं पार्थिवादिशतैर्नृपैः ॥ १३२ ॥

प्. ११६९)

बालापत्या च मे पत्नी छिन्नं वै कः करिष्यति ।
कन्यानां कीदृशां चैव पराचिन्ताभिभूतवान् ॥ १३३ ॥

कुटुम्बरक्षणं कर्तुं चिन्ता सन्तति बाधितः ।
तस्य ज्ञानं श्रुतिश्शीलं गुणाश्च विनयन्तथा ॥ १३४ ॥

आमपात्राम्बुवद्दोहैस्सार्धं नाशं व्रजत्यसौ ।
पार्थिवत्वे कुतस्सौख्यं कीदृशं तत्सुखं भवेत् ॥ १३५ ॥

सर्वेषामेव जन्तूनां समानीय भवेद्भयम् ।
तत्रैकार्थाभिलाषित्वं शत्रुत्वमिति कीर्तितम् ॥ १३६ ॥

एकमासाभिलाषित्वाच्छन्नाजीवि परस्परम् ।
सवैर ष्यो नृपतिः न कश्चित्सामगीतले ॥ १३७ ॥

प्. ११७०)

मेघैश्चापि तिरस्कारो रवश्चापि क्वचित्क्वचित् ।
मेघाः प्रभञ्जनेनैव वायुवीर्यं च पर्वतैः ॥ १३८ ॥

पर्वता वह्निना दग्धा वह्निस्तोयेन निर्जितः ।
आदित्य पादैरम्भांसि शोषं गच्छन्ति नित्यशः ॥ १३९ ॥

अजस्यैकदिनं सर्वं नाशं गच्छति वै ध्रुवम् ।
विरिञ्चोऽप्य परैस्सार्धं परार्धद्वयकालतः ॥ १४० ॥

परार्धद्वयकालश्च शिवे नाशं च गच्छति ।
सर्वातिशयवीर्यं च नास्ति संसारमण्डले ॥ १४१ ॥

जगत्पतिं विहायैवमव्ययं सर्वगं विभुम् ।
एवं विदित्वा सर्वं वै चा विज्ञानं विवर्जयेत् ॥ १४२ ॥

प्. ११७१)

तस्माज्जगत्त्रये नास्ति कः शूरः कश्च पण्डितः ।
सर्ववित्कोपि नास्त्येव मुक्तोर्ध्वापि न कुत्रचित् ॥ १४३ ॥

यो यद्वस्तु विजानाति सस्वस्थश्च स पण्डितश्च ।
सर्वत्र सर्वदा नास्ति प्रभाव सदृशः पुनः ॥ १४४ ॥

प्रभावः कस्य चिन्नास्ति स्थितस्सातिशयत्वतः ।
असुरैनिर्जिता देवा असुरा अमरैर्जिताः ॥ १४५ ॥

इतरेतरयोगेन स्थितौ जयपराजयौ ।
प्रस्थमात्रान्नसंतृप्तो वसनद्वय संयुतः ॥ १४६ ॥

येन शययासनं चैकं विशेषं दुःखकल्पते ।
सप्तभूमयुते गेहे खट्वायामेकदेशके ॥ १४७ ॥

प्. ११७२)

निपाते विद्यते यस्मात् केशाय बहुविस्तरम् ।
राज्ञोतिमात्रमानं वै केशायाभरणं भवेत् ॥ १४८ ॥

सुगन्धलेपनादीनि मलभावं च गच्छति ।
गीतं सर्वप्रलपितं नृत्तमुन्मत्त चेष्टितम् ॥ १४९ ॥

राज्यभोगैः कुतस्सौख्यं निश्चयं च विजानतः ।
पार्थिवानां च सर्वेषां अन्योन्यविजिगीषया ॥ १५० ॥

रज्यैश्वर्यादिभिस्सौख्यं विद्यते न कदाचन ।
सौख्यं कुतोपि हि स्वर्गे विलोक्यातिशयस्त्रियम् ॥ १५१ ॥

उपर्युपरि देवानामन्योन्यातिशयस्थितिः ।
क्षयात्पुण्यफलानां तु नराणां पतनं भवेत् ॥ १५२ ॥

प्. ११७३)

न किंचित्क्रियते कर्म तत्र दोषो महान्भवेत् ।
छिन्नमूलस्तत्कुर्यात्तद्वदवश्यं पतति क्षितौ ॥ १५३ ॥

स्वर्गे सौख्यं न किंचित्स्या * * * * * * * तः ।
स्वस्वानुभव मध्ये च पुण्यकर्मफलक्षयात् ॥ १५४ ॥

रौरवादिषु घोरेषु पतत्येवाथ कर्मतः ।
वाङ्मनः कायिकैश्चापि घोरैश्च विविधैरपि ॥ १५५ ॥

स्थावरत्वं प्रपद्यते तीवैश्चोदनयासनैः ।
कुठाराद्यैश्च शस्त्रैश्च क्लेदनैस्ताडनैरपि ॥ १५६ ॥

फणिशाखाफलानां तु पतनं चण्डमारुतैः ।
भेदनं मर्दनं चैव करिभिश्चान्यदेहिभिः ॥ १५७ ॥

प्. ११७४)

दावाग्नि तापशोषैश्च स्थावरत्वे महद्भयम् ।
बहुक्षात्रं च सर्पाणां * * * खञ्चदारुणम् ॥ १५८ ॥

पाशेन बन्धनं चैव दुष्टानां च विशेषतः ।
कीटादीनां च मरणमकस्मात्तु दिने दिने ॥ १५९ ॥

सरीसृपाणां सर्वेषां एवं दुःखं च जायते ।
श्वापदानां च सर्वेषां वर्षशीतातपाद्भयम् ॥ १६० ॥

भारोद्वहन दुःखं च शिक्षायुद्धादिपीडनम् ।
स्वकीय यूथविरहो नवानयनबन्धनम् ॥ १६१ ॥

पश्वादीनां च सर्वेषां एवं दुःखस्य संभवः ।
इत्येवमादिभिर्दुःखै व्याप्तं यस्माच्चराचरम् ॥ १६२ ॥

प्. ११७५)

निरयादि मनुष्याणां तद् * * * * व्रजेद्बुधः ।
स्कन्धात्तत्स्कन्धयेद्भारं विश्रमन्गच्छते यथा ॥ १६३ ॥

तस्माल्लोकमिदं सर्वं दुःखाद्दुःखेन शाम्यति ।
नानायोनिसहस्रैस्तु पुण्यकर्मवशाद्भवेत् ॥ १६४ ॥

स्वर्गेऽपि रोगा विविधा * * * * न संशयः ।
शिरश्छिन्नस्य वज्रस्य पुनस्सन्धितमेव च ॥ १६५ ॥

तद्वच्छिष्यशिरो रोगी यज्ञ एव न संशयः ।
मार्ताण्डभानोः कुष्ठित्वं जलरोगं प्रचेतसः ॥ १६६ ॥

रवेर्दशनवैकल्यं इन्द्रस्य स्तम्भने भुजे ।
भगस्यन्दि क्षयरोगी क्षयरोगित्वमेव च ॥ १६७ ॥

प्. ११७६)

सदा ज्वरि तु दक्षो वै विष्णोः कालुष्यमेव च ।
ब्रह्मणश्च शिरश्छेदः सर्वेषामपि विद्यते ॥ १६८ ॥

बाधा कल्पे च कल्पे च लयाच्च भवति ध्रुवम् ।
परार्धद्वयकालान्ते ब्रह्मणो भवेत् ॥ १६९ ॥

दक्षस्य दारिकां पौत्रीं ब्रह्मा कामितवान्यतः ।
क्रोधेना जया देवी योगस्थाप्यशपत्प्रभुः ॥ १७० ॥

धात्रा रागादि दोषैश्च जायते तत्र वै शृणु ।
दुःखानि च समस्तानि स्थितान्येव न संशयः ॥ १७१ ॥

दुःखाभिभूतो निपतेद् दुःखादाकुलितः क्षणात् ।
निर्वेदाद्ग्लानिमापन्नो वैराग्यं च समाप्नुयात् ॥ १७२ ॥

प्. ११७७)

निरीहो निस्पृशस्सद्यो निस्पृहो मोक्षमाप्नुयात् ।
दुःखाद्विजन्मनः पुंसां तल्लवान्मोक्षमेव च ॥ १७३ ॥

येन केन प्रकारेण शिवलोकं च तद्गुरुः ।
चतुर्दश च जन्म स्याद् देवत्वाच्चाष्टधा युतः ॥ १७४ ॥

पैशाचादि च संप्रोक्ता मनुष्याः पशवः पुनः ।
स्थावरं चैवमेतेषु चतुर्दशसु तत्र वै ॥ १७५ ॥

तपोभिर्धर्मिभिर्दानैः हर्षैस्तु च * * * रपि ।
पैशाचं राक्षसं हित्वा देवयोनिषु जायते ॥ १७६ ॥

पुण्यपापसमं चैव मनुष्यत्वं प्रपद्यते ।
ईषत्पुण्यैश्च वा पापैः स्वमायातिशयेन च ॥ १७७ ॥

प्. ११७८)

पशुंधनत्वमाप्नोति मृगजन्ममथ शृणु ।
रागद्वेषैर्मृगत्वं च जायते नन्दिकेश्वर ॥ १७८ ॥

जन्मवैचित्र्यतः पक्षिजातित्वं च प्रपद्यते ।
वै गाकाःसञ्जाताः सर्पादिकृमिकीटकाः ॥ १७९ ॥

द्रोहात्तृणादिजातित्वं मोहाच्छोकाच्च पादपाः ।
एतेषां सर्वजातीनां धर्माधर्मादयोर्ध्वतः ॥ १८० ॥

पुण्यपापानुसारेण सर्वयोनिषु जायते ।
पश्वादीनां च जन्मत्वं संप्राप्तमृतिमान्नरः ॥ १८१ ॥

पश्चात्कीनाशनं प्राप्य तस्याज्ञा जन्मभोगदा ।
पृथिवीगन्धतन्मात्रा न समापद्यते तले ॥ १८२ ॥

प्. ११७९)

रसगन्धसमायुक्तं रूपमग्नौ प्रपद्यते ।
रसगन्धस्वरूपाणि स्पर्शं मारुति गच्छति ॥ १८३ ॥

एतैश्चतुर्भिराकाशैः शब्दनन्मात्रकं व्रजेत् ।
पञ्चतन्मात्रकाश्चाशु मनस्तत्वं प्रपद्यते ॥ १८४ ॥

षडिन्द्रियाणि सर्वाणि बुद्धितत्वं समाप्नुयात् ।
सप्तैतानि त्वहंकारे व्याप्नोतीत्यष्टकानि वै ॥ १८५ ॥

पुर्यष्टकं देहमिति कल्पितं नन्दिकेश्वर ।
अस्य देहस्य मध्ये च पुरुषः शब्दतत्वयुक् ॥ १८६ ॥

शिवाज्ञया च चित्तेस्य सन्निधौ द्विविधं भवेत् ।
शरीरं सुकृतैश्चैव दुष्कृतैश्च तथैव च ॥ १८७ ॥

प्. ११८०)

सुकृतैश्च सुखं देहि दुष्कृतैर्यातनातुरम् ।
एवं मरणमाख्यातमुत्पत्तिस्तदनन्तरम् ॥ १८८ ॥

पुर्यष्टकत्वमापाद्य न तस्येव पतत्यसौ ।
आकाशाद्वायुरापन्नो वायोर्वह्निः सृजत्यसौ ॥ १८९ ॥

अग्नेरापश्च संप्राप्य जलं भूमिं सृजत्यसौ ।
उद्भिदानां च सर्वेषां स्वेदजानां तथैव च ॥ १९० ॥

स्वस्वयोग्यत्वमापन्नं त्रित्वमापन्नपुत्रकम् ।
जरायुजश्चाण्डजश्चोपि वौषड्जानाति माप्नुयात् ॥ १९१ ॥

अन्नं पित्रोस्तथा भोज्यं तस्मिन्सममभूत्पुनः ।
रसाच्छ्रोणितमुत्पन्नं शोणितान्मांस संभवः ॥ १९२ ॥

प्. ११८१)

मांसान्मेदश्च संजातं मेदसः स्नायुरेव च ।
स्नायवां मज्जा तु संजाता तन्मज्जाच्छुक्ल संभवः ॥ १९३ ॥

अन्नादि शुक्लपर्यन्तं क्रमादात्मापरत्यसौ ।
शुक्लेन सार्धं मातुश्च योनौ रक्तं पतत्यसौ ॥ १९४ ॥

एवं विधैस्तु मरणैः पुनर्मरणमाप्नुयात् ।
पुनश्च जन्म संप्राप्य पुनः पञ्चत्वमृच्छति ॥ १९५ ॥

इत्यचिन्त्य विश्वसादाख्ये भूतोत्पत्तिविधिरेकानाशीतितमः पटलः



कालोदयं समासेन शृणुत्वं नन्दिकेश्वर ।
कालं ज्ञात्वा त्रिभेदैस्तु मृत्युं जयति सर्वतः ॥ १ ॥

प्. ११८२)

कालज्ञानोदयं सर्वे योगिनः शान्तचेतसः ।
आयुरादौ परीक्षेत ततो विज्ञानमाप्नुयात् ॥ २ ॥

आयुष्यरहिते मर्त्ये विज्ञानं निष्फलं भवेत् ।
तस्मात्सर्वप्रयत्नेन ज्ञात्वा कालं हि योगवित् ॥ ३ ॥

कालोत्तरं ततः कुर्याद् ध्यानधारणयोगजम् ।
काले वायुस्समाख्यातः कालः सर्वज्ञ उच्यते ॥ ४ ॥

कालो यमश्च सूर्यश्च कालस्सोमश्च देवता ।
सर्वदेवमयः कालो ज्ञात्वा कालं समभ्यसेत् ॥ ५ ॥

मेषः कर्कटकश्चैव तुला च मकरस्तथा ।
चरराशय इत्युक्ता वामनासापुटे चरेत् ॥ ६ ॥

प्. ११८३)

वृषभश्च तथा सिह्नो वृश्चिकः कुम्भ एव च ।
दक्षिणे नासिकाद्वारे चरेत्सम्यक् स्थिराख्यकाः ॥ ७ ॥

मिथुनं च तथा कन्या कोदण्डो मीन एव च ।
अस्वभाव स्वभावत्वादुभयत्रापि वै चरेत् ॥ ८ ॥

एवमभ्यासयोगेन देशिकस्योपदेशतः ।
अहन्यहनि चाभ्यासान्मृत्युं जयति पण्डितः ॥ ९ ॥

अरोगी यौवनोत्पन्नौबलीबालत्वमाप्नुयात् ।
इडाचन्द्रकलाज्ञेया पिंगला सूर्यसंभवा ॥ १० ॥

वह्नेः कला सुषुम्ना स्यादहोरात्रं च रात्रितः ।
घटिकाः पञ्च पञ्चैव वामदक्षिणमेव वा ॥ ११ ॥

प्. ११८४)

विषं दक्षिणसंचारं वामं चामृतमेव च ।
सुषुम्ना वहते मिश्रं नाड्यां चैव पृथक् पृथक् ॥ १२ ॥

षष्टिन्यासे भवेत्प्राणः षट्प्राणैर्घटिकाः स्मृताः ।
षष्टिघटिकमहोरात्रं जीवसंख्यां करोति यः ॥ १३ ॥

अयुते द्वे सहस्राणि षट्छतान्यधिकानि च ।
अहोरात्रेण चारेण श्वासचारणमेव तु ॥ १४ ॥

यथा तृणं जलूकां वै तृणानां यावदागतः ।
तद्वज्जिह्वा निरालम्बे नासाग्रे द्वादशांगुले ॥ १५ ॥

हंसहंसेति चोच्छासं निश्वासं च करोत्यसौ ।
चतुरंगुलहानिः स्यात्तदायुर्हानिरुच्यते ॥ १६ ॥

प्. ११८५)

अष्टांगुलं ततोच्छ्वासं प्राणायामं समभ्यसेत् ।
प्राणायाम विहीनश्चेन् मरणं तु विकारणात् ॥ १७ ॥

नाभिमध्ये कुटाकारं तन्मूलं नवखण्डके ।
अयनद्वयकाले तु प्रातःकाले परीक्षयेत् ॥ १८ ॥

आदौ दक्षिणपादं तु दिनपादं बहेदिति ।
ततः सव्यापसव्येन यावदस्तमितो रविः ॥ १९ ॥

भूतषट्सप्तवसवो ग्रहपंक्तिर्भवेत्तथा ।
पक्षमित्येव नाडीनां क्रमादस्तं शृणुष्व तत् ॥ २० ॥

षड्विवंशकरं चैव मूलभेदस्य संख्यया ।
त्रिंशत्तु वेदसंख्यावै पञ्चाशद्द्वे च षष्टिकम् ॥ २१ ॥

प्. ११८६)

अशीतिश्शतसंख्या वै व्युत्क्रमोक्तस्समाःसमाः ।
दिनार्धं च दिनं चैव द्विदिनं त्रिदिनं तथा ॥ २२ ॥

चतुर्दिनं भवेद्देवं वर्मणां पञ्चविंशतिः ।
भानुसंख्या दशाब्दंस्यादष्टमं परिकीर्तितम् ॥ २३ ॥

चतुष्टयाब्दमेवं स्याद् अत ऊर्ध्वं शृणु क्रमात् ।
दीपनं च महागी स्याद् दशाह्ने वर्तितं यदि ॥ २४ ॥

पञ्चदशदिनं तद्वद् वत्यरात्रि च यैककम् ।
षड्विंशदिनलोपंस्यासप्तविंशद्दिने पुनः ॥ २५ ॥

अष्टाविंशद्दिनानां च वाहाञ्चैवायुरेव च ।
त्रिंशदेकत्रिंशत्त्रिंशद्दिनैस्तथैव च ॥ २६ ॥

प्. ११८७)

भावं दिनं चरेद्वायुदशसप्त * * मकम् ।
चतुष्टयं च त्रिदिनं द्विदिनं दिनमात्रकम् ॥ २७ ॥

एवं वायोः परीक्षा तु कालेन सममुच्यते ।
पाध्ववह्निरतश्चाथो दण्डस्पृकचेथरा भवेत् ॥ २८ ॥

पार्श्वे वायुश्च मध्ये तु गमनं वायुमृच्छति ।
कुम्भाहो तु चतुष्टिस्याल्ललाटे चाञ्जलिर्भवेत् ॥ २९ ॥

तत्पद्ममुपलाकारं दर्शनाज्जीवनं महत् ।
प्रतिपदादि संगम्य पूर्वपक्षोपरिस्थिता ॥ ३० ॥

यत्र रेखाखिलं कस्यात् तद्दिने मरणं भवेत् ।
छाया न विष्ठा तत्रैव मरणं भवति ध्रुवम् ॥ ३१ ॥

प्. ११८८)

धूमावलोकने चापि वह्निरूपं तथैव च ।
त्रिमासान्मरणं गच्छेन्निश्चयं नन्दिकेश्वर ॥ ३२ ॥

भूतं चतुस्त्रये द्वे च एकमासं तथैव च ।
इष्टसंक्रमकाले तु सूर्यबिम्बनिरीक्षणात् ॥ ३३ ॥

लक्ष्यं तत्वविलक्षितेन मनसा शुद्धेन भावेन दक्षं
दक्षिणपश्चिमोत्तरपुरे षट्त्रिद्विमानैकतः ।
छिद्रं पश्यति मध्यमे दशदिनं धूमाकुलं पञ्चमं चैवं
कालमनाकुलेन मनसा योगीश्वरो लोकयेत् ॥ ३४ ॥

कृष्णश्चेन्मासमात्रं वै चार्धे वै चार्धमासकम् ।
पतितश्चेत्सप्तदिनं शून्यात्सप्तदिनं भवेत् ॥ ३५ ॥

प्. ११८९)

रवीन्दुपरिवेषं तु सूर्यबिम्बनिरीक्षणम् ।
अनेकभेदमासानां नक्षत्र पतनाद्यहम् ॥ ३६ ॥

बवृक्सं च तदर्धं च निर्धूमादेकमासतः ।
दिद्धूमास्तेकमासं च मण्डलानिं च चैकतः ॥ ३७ ॥

हेमरूपाश्च पञ्चम्ये अग्निपादाष्टमंगलैः ।
प्रत्यादित्यप्रभाश्च प्रत्यादित्यद्वयं तथा ॥ ३८ ॥

ज्योतिर्मण्डलमेकं च कृष्णाकाशोक्ततद्घितम् ।
भूमिधूमाद्दहाहं च भूमिघोषैस्त्रयं तथा ॥ ३९ ॥

पुंभावाच्चतते दृष्ट्वा मर्ते आदित्यदर्शनम् ।
शिरोनूनादेकवर्षं सर्वन्यूना तदर्धतः ॥ ४० ॥

प्. ११९०)

छायाभूमास्त्रयस्त्रिंशद्द्विविहीनं पञ्चविंशतिः ।
कुब्जे नरश्चतुर्विंशत् शिरोनासा तदर्धकम् ॥ ४१ ॥

चतुर्दिवसमध्ये च सूर्यरूपं जपेत्परम् ।
दीपधूमात्सपञ्चम्ये सहदीपार्धपक्षतः ॥ ४२ ॥

अभावात्सप्तकं चैव कालरात्रिश्च पञ्चमम् ।
अर्धं च नवमं चैव मृत्युपा * श्रयं तथा ॥ ४३ ॥

एकमूर्धाबह्वरोस्त्रयोदशे मृत्युरेव च ।
तस्त्रस्थानेह्निमीशाश्च चत्वारि मरणं भवेत् ॥ ४४ ॥

कृष्णबिन्दुश्च दृश्येत मासान्मृत्युमवाप्नुयात् ।
गलस्थानमिम * * * दिनैर्मरणं भवेत् ॥ ४५ ॥

प्. ११९१)

कर्णमध्ये कृष्णबिन्दुः अर्धमासान्मरिष्यते ।
श्रोत्रपाश्वे तु कृष्णश्चेत् पञ्चाशद्दिवसान्मृतिः ॥ ४६ ॥

श्रोत्रपाश्वं च कृष्णं स्याद्विंशाहान्मरणं भवेत् ।
दन्ते कृष्णं च दृश्येत मासान्मृत्युमवाप्नुयात् ॥ ४७ ॥

कृष्णबिन्दुश्च तत्रास्ति पञ्चविंशद्दिनान्मृतिः ।
तन्मूलं कृष्णवर्णं स्यादष्टविंशत्यहान्मृतिः ॥ ४८ ॥

कृष्णं तु रसनाग्रं वै चत्वारिंशद्दिनं भवेत् ।
कदाचित्कण्डूय * * बुद्बुदाकार शर्तनात् ॥ ४९ ॥

त्रिंशद्दिनं च जीवेत तवाचोभिश्च कृष्णयुक् ।
त्रिंशद्दिनात्तु मरणं कथितं नन्दिकेश्वर ॥ ५० ॥

प्. ११९२)

कृष्णं नखालि हीमांचे चतुर्दशदिनान्मृतिः ।
पदमध्ये च खिन्नं चे * * * मृत्युमाप्नुयात् ॥ ५१ ॥

तयोः पार्श्वे च कृष्णं चेत्सप्तविंशद्विवान्मृतिः ।
पादे विषं च कण्डूश्चेत् षड्वारान्मरणं भवेत् ॥ ५२ ॥

तत्र रेखा च कृष्णा च दशाहान्मृत्युमाप्नुयात् ।
मुखं शोभाविहीनं चेत् * * * मृतिमृच्छति ॥ ५३ ॥

जानुर्जंघा च कृष्णा चेत्त्रयस्त्रिंशद्दिनान्मृतिः ।
रेखादिवर्षमेतद्धि दृष्टिकर्णद्विविंशतिः ॥ ५४ ॥

मूर्ध्नि कृष्णनिमीलंचेत् त्र्यहान्मरणं भवेत् ।
एतत्कालमहाज्ञानं श्रुत्वैतदु * * * कः ॥ ५५ ॥

प्. ११९३)

क्षिप्रेकोपरतारेथा रपांगे चलते तथा ।
शब्दस्तोयनिधौ भीममपिश्वासस्य नेधनः ॥ ५६ ॥

अब्दे तद्दलकोदर्धसमयेमासे तदर्धे तथा ।
पञ्चाहे दिवसेऽह्नि जीवहरणं विद्या * तैः ॥ ५७ ॥

लवादिप्रलयान्तं तु कालमेवं निरीक्षयेत् ।
नलिनीपद्मसंहत्याः सूक्ष्मसूच्यभिवेधने ॥ ५८ ॥

दले दले तु यः कालः स कालो लववाचकः ।
लवैस्त्रुटिः स्यात्त्रिंशद्भिः कल * वत्थितं विदुः ॥ ५९ ॥

काष्ठा तावत्कलाज्ञेया तावत्काष्ठा निमेषकः ।
त्रिंशत्कलामुहूर्तं स्यादित्येवं चापि पञ्चमम् ॥ ६० ॥

एवं कालं विदित्वा तु कालपञ्चकमभ्यसेत् ।
इत्यचिन्त्य विश्वसादाख्ये कालोदयविधिः अशीतितमः पटलः ॥

प्. ११९४)

अथ वक्ष्ये विशेषेण प्रायश्चित्तविधिं शृणु ।
प्रायो विनाश इत्युक्तश्चित्तं सान्धार्यते तु यत् ॥ १ ॥

तद्विना न समाधानात् प्रायश्चित्तमिति स्मृतम् ।
प्रातः काले तु समये शौचमाचमनं तथा ॥ २ ॥

स्नानं चोद्धूलनं चापि प्राणायामादि संस्पृशः ।
समाहितमना भूत्वा श्रद्धाभक्ति समन्वितः ॥ ३ ॥

रागद्वेषादि निर्मुक्तः क्षमी ध्यानपरायणः ।
सम्यक् प्रत्यग्रबुद्धिस्तु प्रायश्चित्तं समाचरेत् ॥ ४ ॥

प्रादि पात्रसंशुद्धिं वक्ष्ये तत्र पृथक् पृथक् ।
वस्त्राणां शुक्ल विण्मूत्रदिग्धानां मृज्जलैरपि ॥ ५ ॥

प्. ११९५)

क्षालयित्वा पुनः क्षारैः गोमूत्रैरपि शोधयेत् ।
लेपगन्धौ च न स्यातां क्तोयेन शोधयेत् ॥ ६ ॥

अन्येषु द्रव्यजालेषु योग्येष्वेवं समाचरेत् ।
आविकक्षौमकौशेयं संशुद्धं गौरसर्षपैः ॥ ७ ॥

पट्टानामंशुकानां च श्रीफलैःशोधनं भवेत् ।
अरिष्टैः कुन्तपानान्तैः चेलवच्चर्मणामपि ॥ ८ ॥

रज्वौ च प्राशने वापि चामराणां तथैव च ।
पूर्वेषां वः कलादीनां शोधनं च भवेत्तदा ॥ ९ ॥

वस्त्रवल्लाबुपात्राणां विदलानान्तु शुद्धये ।
गोवालघर्षणं चापि विशेषात्परिकीर्तितम् ॥ १० ॥

प्. ११९६)

ताम्रकांस्यादि पात्राणां त्रिपुसीसकयोरपि ।
कुम्भस्थेन जलेनैव शुद्धिः स्यान्नन्दिकेश्वर ! ॥ ११ ॥

हैमं रूप्यं तु निर्लेपं पात्रात्तज्जलतश्शुचि ।
माणिक्यं मौक्तिकं शंखं प्रबालं मौक्तिकं तथा ॥ १२ ॥

पूर्ववद्वारिणा शुद्धिरित्येवं कथितं मया ।
सूतिपात्रे पिकं स्पृष्टे विष्ठामूत्रादिदूषिते ॥ १३ ॥

अग्नौ संयोगिनो येन क्षालयेच्छुद्धिमर्हति ।
तृणपाषाण काष्ठानां वलालन्दलवल्लिषु ॥ १४ ॥

जलप्रोक्षणतः शुद्धिर्विहिता नन्दिकेश्वर ! ।
उलूखले च मुसले भारवे सृक्सृवादिके ॥ १५ ॥

प्. ११९७)

उष्णतोयेन शुद्धिःस्याच्छूर्पकेरसपात्रके ।
तदावेदान्तवे चापि तत्क्षणाच्छोधनं भवेत् ॥ १६ ॥

अन्योन्योपहतानां तु गोमूत्रेण विशोधनम् ।
द्रव्याणां सहितानां तु व्रीहीणां प्रोक्षणाच्छुचिः ॥ १७ ॥

धान्यवच्छाकमूलानां फलानां शोधनं भवेत् ।
कृमिकीटपतंगानां स्पर्शनान्नन्दिकेश्वर ! ॥ १८ ॥

जलेन प्रोक्षणाच्छुद्धिः अस्त्रमन्त्रेण सर्वदा ।
श्ववराहखरोष्ट्राणां स्पृष्टो वै विध्वनाहके ॥ १९ ॥

लेपेऽपि स्पृष्टदेशात्तु संत्याज्याम्भोभिराक्षयेत् ।
मक्षिकाकेशसंमिश्रे तुषांगारकसंयुते ॥ २० ॥

प्. ११९८)

पादधूल्यादिभिश्चैव युक्तेऽप्यत्र विशेषतः ।
तत्स्पृष्टदेशमुत्कृत्य पूर्ववच्छोषयेज्जले ॥ २१ ॥

आज्याभिधारणाच्चापि भस्मना चापि शोधयेत् ।
गोशकृन्मूत्रवल्मीकमृत्तिकाभस्मवारिभिः ॥ २२ ॥

प्रासमंगेहानां शुद्धिरेतैश्च जायते ।
अध्यापनादिकाले वा वने चोक्तमनाः शुचिः ॥ २३ ॥

भूमिस्सर्वत्र मेध्यास्यात्स्वर्णरत्नादिजन्मभूः ।
कुत्सित द्रव्य संयोगाच्छुद्धिरत्रैव चोच्यते ॥ २४ ॥

नगरग्रामगमनात् पादप्रक्षालनाच्छुचिः ।
आलये स्फुटिते भग्ने पिण्डिका चलितेऽपि वा ॥ २५ ॥

प्. ११९९)

स्फुटिते चापि भवने लिंगे वा प्रतिमासु वा ।
भित्तौ चित्रे पटेच्छिन्ने भिन्ने वंशतृणावृते ॥ २६ ॥

अष्टबन्धविहीने च वह्निदग्धे तथैव च ।
नदीप्रवाहभग्ने वा भग्ने वा * * * * * ॥ २७ ॥

चण्डालश्वपचान्तादिस्पृष्टे दीक्षाविहीनके ।
संस्पृष्टे कुक्कुटादीनां बभ्रूणां च विशेषतः ॥ २८ ॥

काकानां कौशिकानां च स्पृष्टौ चैव विशेषतः ।
खरोष्ट्रकोलमार्जारस्पर्शनं त्वंगनन्दिभिः ॥ २९ ॥

सूतिकैः प्रापतीश्चोरैः प्रतिलोमान्त्यजातिभिः ।
व्रात्यैश्च प्रेतकैश्चैवरोगजालयुतैरपि ॥ ३० ॥

प्. १२००)

न तत्स्पृष्टैश्च मूढैश्च लिंगादि स्पर्शने तथा ।
नित्यपूजाविहीने च आवृतार्चा विवर्जिते ॥ ३१ ॥

स्नानाभिषेकहीने वै बलिदानादिवर्जिते ।
पुष्पगन्धविहीने च धूपपाद्यैश्च वर्जिते ॥ ३२ ॥

सन्ध्यादीपविहीने तु हविर्हीने तथैव च ।
कालातीते च मन्त्राणां व्यत्यये च व्यतिक्रमे ॥ ३३ ॥

पुष्पहीने शिरोदेशे स्नपनांगविहीनके ।
पवित्रारोपणे हीने दमनारोपणे तथा ॥ ३४ ॥

धृतकम्बलहीने तु शिवरात्रि विहीनके ।
आत्मार्थं यजने हीने तस्य भेदविहीनके ॥ ३५ ॥

प्. १२०१)

लंघने मलनिर्माल्यतपनादिषु भेदके ।
महापातक संयुक्ते पञ्चपातकसंभवे ॥ ३६ ॥

उपवीत वियुक्ते वा नियमाचारवर्जिते ।
मन्त्राणां संकरे चैव चात्यैष्ट्यादि विवर्जिते ॥ ३७ ॥

श्राद्धहीने त्वशेषाणां निष्कृतिश्च विधीयते ।
स्फुटिते भिन्ने प्रासादे भवेत् कर्तृविनाशनम् ॥ ३८ ॥

पुंसानकं च कृत्वा तु प्रोक्षयेत्पञ्चगव्यकैः ।
मन्त्रन्यासादिकं सर्वं पूर्ववत्पूजयेद्गुरुः ॥ ३९ ॥

चलितायां पिण्डिकायां स्थानभ्रंशमवाप्नुयात् ।
सुस्थितं पूर्ववत्कुर्यात् सन्धयेदष्टबन्धनैः ॥ ४० ॥

प्. १२०२)

स्नपनं पञ्चगव्याद्यैः कारयेद्देशिकोत्तमः ।
पीठे तु भग्ने स्फुटिते कारयेदक्षतं पुनः ॥ ४१ ॥

स्नपनोक्तेन विधिना स्नापयेन्नन्दिकेश्वर ।
भग्ने च स्फुटिते लिंगे राष्ट्र नाशो न संशयः ॥ ४२ ॥

रत्नजं लोजहं वापि तंविसृज्याथ पूर्ववत् ।
लिंगं तु तवकं कृत्वा प्रतिष्ठां सम्यगाचरेत् ॥ ४३ ॥

स्वयंभुलिंगे तल्लिंगवर्जनं न तु कारयेत् ।
पूर्ववत्स्नपनं कुर्यात् पञ्चगव्येन देशिकः ॥ ४४ ॥

अंगानां विकलं वापि तत्तदंशं तु पूरयेत् ।
संप्रोक्षणादि सर्वं च पूर्ववन्नन्दिकेश्वर ! ॥ ४५ ॥

प्. १२०३)

वैरिणापहृते लिंगे पटे वाचादिकेप्य वा ।
यजमानस्य नाशः स्याद् दुर्भिक्षं च भवेत्ततः ॥ ४६ ॥

बालालयं च संकल्प्य तन्मध्ये कर्णिका न्यसेत् ।
लिंगार्चनान्तरस्यान्तं यत्नेन च परिग्रहेत् ॥ ४७ ॥

संप्रोक्षणादिकं सर्वं पूर्ववत्स्नपनं भवेत् ।
अष्टबन्धनहीने तु अनावृष्टिर्न संशयः ॥ ४८ ॥

पूर्ववद्बन्धनं कुर्यात् मूलमन्त्रं शतं जपेत् ।
प्रासादलिंगप्रतिमा * * चरूपगादिषु ॥ ४९ ॥

वह्निना दहनान्नं तु कालवृष्टिर्विनश्यति ।
पूर्ववत्स्नपनं कुर्याल्लिंगादिषु विशेषतः ॥ ५० ॥

प्. १२०४)

पटञ्चेदन्यथा कृत्वा प्रतिष्ठा पूर्ववद्भवेत् ।
चित्रं रूपविहीनं चेत् पुनश्चित्रं समालिखेत् ॥ ५१ ॥

संप्रोक्षणादिकं सर्वं पूर्ववत्स्नपनं भवेत् ।
चण्डालाद्यैस्तु संस्पृष्टे वैरिभिर्भयमुच्यते ॥ ५२ ॥

स्नपनं प्रोक्षणादीनि पूर्ववन्नन्दिकेश्वर ! ।
शतमावर्तयेदाशु मन्त्रं पाशुपतं गुरुः ॥ ५३ ॥

नित्यपूजाविहीने तु जनता दुःखमाप्नुयात् ।
एकसन्धिविहीनेन द्विगुणं चार्चयेत्पुनः ॥ ५४ ॥

हीने तु * * * * * हुनेत्पूर्वं सहस्रकम् ।
सन्धित्रयविहीने च पञ्चगव्येन सेचयेत् ॥ ५५ ॥

प्. १२०५)

पूजाहीने त्र्यहे तत्र स्नपनं पूर्ववद्भवेत् ।
पञ्चांहे स्नपनं कृत्वा ब्रह्मांगैर्होममाचरेत् ॥ ५६ ॥

पक्षहीने तु गव्येन सेचयेत्स्नपनं तथा ।
मासैकं पूजनाहीनं यदि गव्याभिषेचनम् ॥ ५७ ॥

पूर्ववत्स्नपनं कुर्यात् गन्धतोयादिभिः पुनः ।
पञ्चब्रह्म षडंगैश्च जुहुयान्नन्दिकेश्वर ॥ ५८ ॥

मासादूर्ध्वेर्चनाहीने संप्रोक्षणमथाचरेत् ।
आवृतार्चनहीने स्यात् भृत्यवर्गस्य नाशनम् ॥ ५९ ॥

तत्तन्मन्त्रमनुस्मृत्य हुनेदष्ट सहस्रकम् ।
बलिदानविहीने तु न प्रीताः सर्वदेवताः ॥ ६० ॥

प्. १२०६)

बलिमन्त्र मनुस्मृत्य जपेदष्टोत्तरं शतम् ।
स्नानतो यविहीनं चेद् अनावृष्टिर्भवेत्क्षणात् ॥ ६१ ॥

मूलमन्त्रं शतं जप्त्वा जलं तद्द्विगुणं भवेत् ।
गन्धद्रव्यविहीने तु बालानां नाशनं भवेत् ॥ ६२ ॥

हृदये नैव मन्त्रेण जपेदष्टोत्तरं शतम् ।
पाद्यादि द्रव्यहीने तु महामारी प्रवर्तते ॥ ६३ ॥

पञ्चब्रह्मषडंगैश्च जुहुयाच्छतमष्टकम् ।
सन्ध्यादीपविहीने तु दृष्टिरोगश्च जायते ॥ ६४ ॥

नेत्रमन्त्रं शतं जप्त्वा दीपं द्विगुणमाचरेत् ।
हविर्हीने तु दुर्भिक्षं द्विगुणं तत्तु दापयेत् ॥ ६५ ॥

प्. १२०७)

हृदयेनैव मन्त्रेण हुनेदष्ट सहस्रकम् ।
संध्यातिक्रमयुक्तं चेद् वैरिभिर्भयमाविशेत् ॥ ६६ ॥

अघोरास्त्रेण जुहुयाच् छतमष्टोत्तरं गुरुः ।
स्नपनांगविहीने तु महावातश्च जायते ॥ ६७ ॥

अस्त्रेणैव शतं जप्त्वा पश्चात्प्रतिनिधिं ग्रहेत् ।
अदीक्षितानां संस्पर्श लिंगं वा प्रतिमां तु वा ॥ ६८ ॥

देशस्य नाशनं विद्यात् पञ्चगव्येन सेचयेत् ।
पवित्रारोपणे हीने परचक्राद्भयं भवेत् ॥ ६९ ॥

स्नपनं पूर्ववत्कुर्यात् सर्वसिद्धि समृद्धये ।
उक्तमासे तु तदृक्षे चोत्सवं न कृतं यदि ॥ ७० ॥

प्. १२०८)

पुनरुत्सवकं कुर्यान् मूलमन्त्रं शतं हुनेत् ।
परार्थमेवं युक्तं तद् आत्मार्थे शुद्धिरुच्यते ॥ ७१ ॥

आत्मार्थे च परार्थे च व्यामिश्रं च शृणु क्रमात् ।
राजचोरभयादौ च देहे व्याध्यादि बाधिते ॥ ७२ ॥

देवाग्नि गुरुकार्येषु नित्यहानिर्नदोषभाक् ।
विरक्तस्य गृहस्थस्य प्रायश्चित्तं द्विधा भवेत् ॥ ७३ ॥

गृहस्थाद्द्विगुणं प्रोक्तं नैष्ठिके च विशेषतः ।
आषोडशान्तं बालः स्याद् अशीत्यादिशतान्तकम् ॥ ७४ ॥

स्थविरश्च भवेदेवं प्रायश्चित्तं तयोर्नहि ।
रोगार्ताश्च स्त्रियश्चापि प्रायश्चित्तार्धयोग्यकाः ॥ ७५ ॥

प्. १२०९)

तत्रापि च परिक्लेशान् ज्ञात्वार्धार्धं च कारयेत् ।
स्वयं कर्तुमशक्तश्चेद् अन्येन द्विगुणं भवेत् ॥ ७६ ॥

देशकालाद्यवस्थाभिर ज्ञानभक्तिक्रियादिभिः ।
पुण्यक्षेत्रस्य देशं स्यात् गुरुदीक्षार्णदेशकाः ॥ ७७ ॥

विषुवायन पूर्वादि * * * काल एव वा ।
राष्ट्रदोषभयं चैव रिक्तव्याध्यादिरेव च ॥ ७८ ॥

एवमाद्याह्यवस्थाश्च अलभ्या इति कीर्तिताः ।
देशिकस्तु विचार्यैव कारयेत्तदनन्तरम् ॥ ७९ ॥

शैवाचाराविरोधेन यथा दृष्टं यथा श्रुतम् ।
गुरुभिः कल्पितं यत्तु तद्वतिश्चात्र दोषकृत् ॥ ८० ॥

प्. १२१०)

गृहस्थस्यापि दानं च पूजां रात्रौ विवर्जयेत् ।
चन्द्रोपरागविषुवपुण्यकालायनेषु च ॥ ८१ ॥

रात्रौ च यजनादौ च कर्तव्यं बहुसिद्धिदम् ।
अन्यकाले गृहस्थस्य रात्र्यर्चा दोषमावहेत् ॥ ८२ ॥

शतमष्टोत्तरं वापि गायत्र्या जपमाचरेत् ।
रात्रौ पूजादिना चैव नैष्ठिकस्यापि सर्वदा ॥ ८३ ॥

एकस्यापि विलोपे तु सद्योजातशतं जपेत् ।
द्विसन्ध्यालोपके चैव त्रिशतं जपमुच्यते ॥ ८४ ॥

कामतश्च भवेत्सर्वमुपवासं चरेत्क्रमात् ।
एककालार्चने हीने जपेद्घोरसहस्रकम् ॥ ८५ ॥

प्. १२११)

कामतस्सोपवासं स्याद् * * * द्वित्रिकालकम् ।
एकाहमेवं संजप्य द्वितीये वासरेऽपि च ॥ ८६ ॥

सहस्रं वर्धयेन्नन्दिन् त्रिदिने त्रिशतोत्तरम् ।
एवं तु वर्धयेद्धीमान् दिनं प्रति दिनं प्रति ॥ ८७ ॥

पक्षपूजाविहीने तु बहुरूपायुतद्वयम् ।
वर्धयेत्प्रतिमासं तु द्विशतोत्तरवृद्धितः ॥ ८८ ॥

चोरमूषिककाशादिश्वानवानरकादिभिः ।
सर्पमत्स्यादिभिश्चैव ग्रहे नष्टे तथैव च ॥ ८९ ॥

दग्धे बिलादिलग्ने तु दृष्टे चात्मार्थलिंगके ।
एकाहमुपवासं च पश्चान्नक्ताशनी भवेत् ॥ ९० ॥

प्. १२१२)

अघोरं लक्षं संजप्याद् द्वि * * * गकान्तरम् ।
गुरुणादत्तं लिंगं च ज्येष्ठेनापि तथैव च ॥ ९१ ॥

अन्यलिंगं तु संगृह्य पूर्ववद्विधिना यजेत् ।
एवं च पिण्डिकानां तु प्रतिष्ठाप्याथ पूजयेत् ॥ ९२ ॥

लुलितेमंग सहस्र द्विगुणात्परिवर्तने ।
लाक्षान्बन्धुच्यते शुद्धिस्त्रीचतुर्लुठिते युतात् ॥ ९३ ॥

गण्डूककलशाद्यादिताडनायुश्चतद्वयम् ।
अयुतं मदपाते तु च्युतमानमनन्तरम् ॥ ९४ ॥

मृदुप्रदेशसाधारे * ता * लयुतं तथा ।
अच्छिन्ने च निराधारे द्विगुणं बहुरूपकम् ॥ ९५ ॥

प्. १२१३)

अष्टतालाच्च्युते लिंगे विशीर्णे वा कलाशया ।
कामात्तु वेधने चापि प्रायश्चित्तं ततो नहि ॥ ९६ ॥

प्रासादं सर्वमेवं स्यात् प्रायश्चित्तोऽथ विद्यते ।
महापापविनाशे तु बहुरूपं प्रशस्यते ॥ ९७ ॥

कामतो लुठितं चैव पातनं तु विशीर्णकम् ।
न तस्य प्रायश्चित्तं वै महापातकिनस्तु वै ॥ ९८ ॥

पादस्पृष्टे तु लिंगे तु स्पृष्टे श्लेष्महतेऽपि वा ।
अघोरद्व्ययुतं चैव त्र्ययुतं च जपेत्पुनः ॥ ९९ ॥

द्विजात्यदीक्षित स्पर्शे लिंगे जप्यं चतुश्शतम् ।
बाह्यस्पर्शे तु साहस्रं प्रतिलोमे तु लक्षकम् ॥ १०० ॥

प्. १२१४)

काकादिवर्ग संस्पृष्टेऽप्ययुतद्वयमुच्यते ।
कपालैर्भरन्नैश्चैव परमार्गसमन्वितैः ॥ १०१ ॥

महाव्रतयुतैश्चैव स्पृष्टे लिंगे चतुश्शतम् ।
स्पृष्टे पाशुपतैश्चापि चतुश्शतमथो जपेत् ॥ १०२ ॥

लिंगं च वेदिकां चापि विभज्य स्थापनं यदि ।
लक्षं तु बहुरूपेण जपं कुर्याद्विशुद्धये ॥ १०३ ॥

आत्मार्थे च परार्थे च लिंगं वै संयुतं यदि ।
राजादिभिश्चतुष्पादैर्घोरैश्चैवादिवातमे ॥ १०४ ॥

सन्त्यज्य तत्वदेवांगं जप्त्वाघोरं दशायुतम् ।
अन्यलिंगं प्रतिष्ठाप्य पूजयेन्नन्दिकेश्वर ॥ १०५ ॥

प्. १२१५)

अग्निकुण्डे तु संस्थाप्य दक्षिणाभिरतस्य च ।
निर्वाणमुपगच्छेत एकरात्रमुपोषितः ॥ १०६ ॥

सहस्रं बहुरूपं तु जपेद्वै तस्य शान्तये ।
त्रिरात्रं दशसाहस्रं जपाच्छुद्धिश्च जायते ॥ १०७ ॥

न पूजितं त्रिसन्ध्यं तु तथैकादशिकात्रयम् ।
विशुद्धिं तेन चाप्नोति स्नानहीनतां जपेत् ॥ १०८ ॥

देवेप्य पूजिते पूर्वे गुरौ वह्नौ च भकिततः ।
बलिदानविहीनेऽपि मूलमष्टशतं जपेत् ॥ १०९ ॥

नियमस्य व्रतस्यापि क्रियायाश्च विलोपनम् ।
अष्टोत्तरशतं जप्यं गायत्रीं च विशेषतः ॥ ११० ॥

प्. १२१६)

चतुर्दश्यथके पर्वे नित्यपूजाविहीनके ।
चतुगुणं भवेत्तन्तु प्रायश्चित्ताद्विशुध्यति ॥ १११ ॥

ग्रहणे विषुवे चैव न कृतं पूजनं यदि ।
अघोरमयुतद्वन्द्वं जपेत्तस्य विशुद्धये ॥ ११२ ॥

शिवरात्रि विहीने तु मूलं लक्षजपं ततः ।
तद्दिने सन्धिहीने तु चाष्टकृत्वो जपं भवेत् ॥ ११३ ॥

पूर्वं पवित्रं कार्यं स्यान् मध्ये चैव न कारयेत् ।
अघोरं लघुयुग्मं च जप्त्वा चान्द्रायणं जपेत् ॥ ११४ ॥

शिवनिन्दागुरोर्निन्दा ज्ञानिनिन्दा तथैव च ।
देवस्वहरणे युक्तो गुरुद्रव्यविनाशनः ॥ ११५ ॥

प्. १२१७)

तद्द्रव्यहर्ता सुरापी च गणभक्ता तथैव च ।
कृतघ्नो ज्येष्ठबाधा वा दशैतेऽत्यन्तपापिनः ॥ ११६ ॥

मरणान्तावधेश्शुद्धिस्तेषां तत्रापि लक्ष्यते ।
शिवनिन्दारतस्यैव चान्द्रायणयुगं चरेत् ॥ ११७ ॥

शिवमन्त्रं जपेल्लक्षदशकं च विशुद्धये ।
गुरुनिन्दारतो वापि गुर्वनुग्रह पूर्वतः ॥ ११८ ॥

चान्द्रायणद्वयं कुर्याद् बहुमन्त्रेण पूर्ववत् ।
शिवज्ञानस्य निन्दायां पूर्ववन्नन्दिकेश्वर ॥ ११९ ॥

देवस्वहर्ता तद्द्रव्यं द्विगुणं तस्य दापयेत् ।
चान्द्रायणजपादीनि पूर्ववत्कारयेत्क्रमात् ॥ १२० ॥

प्. १२१८)

गुरुद्रव्यविनाशे तु तस्मै द्विगुणितं ददेत् ।
चान्द्रायणद्वयं कुर्यात् पूर्ववज्जपमुच्यते ॥ १२१ ॥

प्रीत्या गुरोश्च शिष्याय यद्दत्तं तत्सुखावहम् ।
सुरापस्य विशुद्धिस्तु कालान्तेन न विद्यते ॥ १२२ ॥

सुरां तप्त्वाग्निवर्णाभां पाययेन्मरणं ध्रुवम् ।
तेन शुद्धिस्तु विहिता गुणतत्तर विद्यते ॥ १२३ ॥

त्रिलक्षं शिवमंत्रं च चान्द्रायणमथाष्टकम् ।
आचरेद्येन शुद्धिः स्यात् प्रमादाद्यदि तस्य तु ॥ १२४ ॥

कृतघ्नो ज्येष्ठ बाली च गुरुनिन्दासमं भवेत् ।
गुरुतल्पगतस्यापि गुरोरग्रे प्रिये रतः ॥ १२५ ॥

प्. १२१९)

तस्याग्रेऽप्यन्तकोपी वा स्वर्णस्तेये तथैव च ।
एते वै पञ्चकास्तेऽपि महापापसमन्विताः ॥ १२६ ॥

गुरुतल्पाभिगमनी लिंगं स्वं शस्त्रतो हरेत् ।
तालपत्रयुतो गच्छेद् दक्षिणां ककुभं प्रति ॥ १२७ ॥

मरणान्ते च गमनं तेन शुद्धिर्भविष्यति ।
पुरस्ताद्देशिकस्यापि तथैवाप्रियवादकम् ॥ १२८ ॥

जिह्वायाश्च्छेदनं कुर्यात्तेनैव मरणं भवेत् ।
अथवानुग्रहात्तस्य गुरोश्शुद्धिर्विधीयते ॥ १२९ ॥

गुरुनाम जपेन्नित्यं मौनी तज्ज्ञानतत्परः ।
एनमामरणात्कुर्यात् तेन तस्यापि शुद्धिभाक् ॥ १३० ॥

प्. १२२०)

तद्वज्ज्येष्ठप्रिये युक्तं चान्द्रायण समन्वितः ।
मौनी देहं त्यजेत्पश्चात् तेन शुद्धिश्च जायते ॥ १३१ ॥

विप्रादि जाति स्मरणं नैष्ठिके वचनं यदि ।
शिवनिन्दासमं ज्ञेयमघोरं लक्षकं जपेत् ॥ १३२ ॥

विण्मूत्र शुक्लसंपर्काच्छरीरं न च शुद्धियुक् ।
तद्वाणव मायोत्थतथर्माद्यशुपासनात् ॥ १३३ ॥

ज्ञानिनो यदि तल्लोपादशुचित्वं प्रपद्यते ।
शिवानुभूताध्ययनादानन्दाच्छुद्धिमाप्नुयात् ॥ १३४ ॥

तपोवनादि संयुक्तः प्रायश्चित्तं समाचरेत् ।
सुमहत्पातुकाद्यन्ते चोपपाता व सानिकम् ॥ १३५ ॥

प्. १२२१)

विलोक्य व्रतकृच्छ्रादि तीर्थक्षेत्रादिवेशनम् ।
अग्रेऽपि चोग्रतपसा चाल्पे चाल्पे च वैभवम् ॥ १३६ ॥

तपः कृच्छ्रादयोप्युक्तास्तप्तकृच्छ्रास्तथैव च ।
अतिकृच्छ्रं तृतीयं स्यात्परा कश्चित्स्वरूपकम् ॥ १३७ ॥

चान्द्रायणशतं पश्चात् क्रमात्कृच्छ्रादिकं शृणु ।
त्रिरात्रमेकभुक्तिस्तु त्रिदिनं वोपवासनम् ॥ १३८ ॥

कृच्छ्रमेव समाख्यातं प्राजापत्यमिति स्मृतम् ।
उष्णाम्बु त्रिदिनं पीत्वा क्षीरभोजी जितेन्द्रियः ॥ १३९ ॥

सोष्ण्यमाज्यं त्र्यहं वाद्य त्रिदिनं केवलोदकम् ।
तप्त कृच्छ्र इति ख्यातमतिकृच्छ्रमथोच्यते ॥ १४० ॥

प्. १२२२)

एकविंशतिनक्षत्रं त्रिपक्षं क्षीरभोजनम् ।
अतिकृच्छ्रस्समाख्यातः पराकस्त्विह कथ्यते ॥ १४१ ॥

द्वादशाहो निराहारः पराकाख्य इति स्मृतः ।
मासार्धं ग्रासवृद्धिः स्याच्छुक्ले कृष्णेऽवभासयेत् ॥ १४२ ॥

चान्द्रायणं यवामर्धं पिपीलाख्यं ततः परम् ।
मासार्धं ग्रासमासेस्याध्रासंशुक्ले च वर्धयेत् ॥ १४३ ॥

चान्द्रायणमिति प्रोक्तं जलेनैव जलात्मकम् ।
सायमाद्यन्तयोरह्वः सायं प्रातश्च मध्यमे ॥ १४४ ॥

चरिष्णुरुपवासं च जलं भुक्तं चतुष्टयम् ।
मध्यमस्त्वितयं वाथ तदर्धं नादमेव वा ॥ १४५ ॥

प्. १२२३)

उपवासस्समाख्यातो गंगादीनां हि तीर्थकम् ।
व्रतं वै ब्रह्मचर्यादि भोजनं तत्र कथ्यते ॥ १४६ ॥

हविष्यं च मितग्रासं भिक्षान्नं क्षीरभोजनम् ।
शकं यावकपिण्याकं कन्दमूलपलाशनम् ॥ १४७ ॥

वायवादिरं निराहारं एवमादि समाचरेत् ।
यस्मिन्विधिनिषेधोवा नास्ति कर्मण्यनुष्ठिते ॥ १४८ ॥

तस्मिन्पुण्यं च पापं च नेति शास्त्रार्थ निश्चयः ।
प्रायश्चित्ते हुतादीनां शान्तिं सद्यस्समाचरेत् ॥ १४९ ॥

दिनपक्षार्क्षलग्नादीन् प्रेक्षणं चैव कारयेत् ।
सद्यः कृतं रत्नगर्भप्रायश्चित्तं न शस्यते ॥ १५० ॥

प्. १२२४)

मध्यं सप्तदिनादूर्ध्वं पक्षाहादथवा भवेत् ।
मासावसानकं यत्तु हीनं तथैश्चर ॥ १५१ ॥

  • * * * * * * * * * * च विशेषतः ।

आत्मार्थे च गुणं प्रोक्तं प्रायश्चित्तविधौ तदा ॥ १५२ ॥

स्वाहान्तं होमकाले च जपकाले नमोन्तकम् ।
स्वाहान्ते भगवत् क्षोभवंशपदं पुनः ॥ १५३ ॥

  • * कुर्विति संयुक्तं प्रतिमन्त्रं दशान्तरम् ।

पश्चादनन्तरं पापी शतंमन्त्रान्तरं तु वा ॥ १५४ ॥

संजप्य जपकाले तु होमकाले विशेषतः ।
पूर्णाहुतिं च जुहुयाद् विधिना नन्दिकेश्वर ॥ १५५ ॥

प्. १२२५)

एकत्रिपञ्चसप्ताहान्न * * * * सप्तकैः ।
पक्षत्रिसप्तनक्षत्रे अविच्छिन्ना यतस्ततः ॥ १५६ ॥

लक्षजापे तु कर्तव्यमधिके वर्धयेत्पुनः ।
आत्मार्थलिंगमन्येन पूजितं वा स्वयं पुनः ॥ १५७ ॥

प्रायश्चित्तं तु कर्तव्यं शास्त्रोक्तेन जपादिना ।
नैष्ठिकोपि हरिद्रां च ताम्बूलं यदि सेवते ॥ १५८ ॥

दिनं प्रति सहस्रं वै दक्षिणं तु जपेत्क्रमात् ।
सप्ताहादूर्ध्वमेवं स्यात्कृच्छ्रमेकं चरेत्सुधीः ॥ १५९ ॥

नैष्ठिकः शिविका डोलातुरंगाद्यधिरोहणात् ।
अघोरं तु सहस्रं स्याद्दिनं प्रतिदिनं प्रति ॥ १६० ॥

प्. १२२६)

व्याध्यादौरोहणाद्धूद्यो न दोषाय कदाचन ।
शिवद्रोहे गुरुद्रोहे ज्ञानिनिन्दादिनि व्रते ॥ १६१ ॥

रौरवादिक्रिये चैव तत्तद्भेदे तथैव च ।
अष्टाविंशति कोटीनां नरकेप्यतिदारुणे ॥ १६२ ॥

आजन्मतारको नित्यं व्याधितो भवति ध्रुवम् ।
सुमहत्पातंशकृथमे तत्कालार्धं तु पीड्यते ॥ १६३ ॥

तद्दशांशं तु कालः स्यात् * * * * दि पञ्चके ।
तत्समे तु तदर्धं स्यान्निरये वसतिस्सदा ॥ १६४ ॥

मृगपक्ष्यादिहननेप्युपपातकसंभवे ।

  • * * * * * * * सहस्रं वसति ध्रुवम् ॥ १६५ ॥


प्. १२२७)

तत्समे तु तदर्धं वै नरकीपीडनं भवेत् ।
तस्मात्सर्वप्रयत्नेन पातकादीन्विसर्जयेत् ॥ १६६ ॥

पुनर्जन्म न विद्येत दीक्षितस्य विशेषतः ।
पापान्नरकसंप्राप्तिस्तस्मात्पापं न कारयेत् ॥ १६७ ॥

शान्तिके पौष्टिके वापि प्रायश्चित्तादिके जपे ।
वश्यं पूर्वमुखं चैव दक्षिणं चाभिचारकम् ॥ १६८ ॥

धनदं पश्चिमं विद्याद् उत्तरं शान्तिदं भवेत् ।
उष्णीषं कञ्चुकीनाशो मुक्तकेशोदलावृतः ॥ १६९ ॥

अपवित्रकरोऽशुद्धो * * * नं जपेत्क्वचित् ।
जृम्भानिष्ठीवनं चैव क्षुतमर्दन तन्त्रिका ॥ १७० ॥

प्. १२२८)

नीचान्त्य दर्शनं चैव वर्जयेज्जपकर्मणि ।
आचमनं भवेत्तेषां स्मरेद्वामामुमान्वितम् ॥ १७१ ॥

नक्षत्राणि च पश्येद्वा कुर्याद्वा प्राणयामकम् ।

  • * * नश्शयानोवा गच्छेदुत्थित एव वा ॥ १७२ ॥


रथ्यायामशिवे स्थाने चान्धकारे विशेषतः ।
पादौ प्रसार्य न जपेत् कुक्कुटासनको नवः ॥ १७३ ॥

यानशययादिरूढो वा चित्तव्याकुलसंभवः ।
सुशक्तश्चेत्सर्वमेव शक्तयश्शक्तितो जपेत् ॥ १७४ ॥

आदौ योगे भवेदन्ते पल्लवस्संपुटद्वयोः ।
ग्रथनोन्तरितः प्रोक्ता विदर्भो द्व्यन्तरीकृतः ॥ १७५ ॥

प्. १२२९)

मध्याद्यन्तचरोयः स्यात्साध्यनामा * * * * ।
तम्भनं रोधने विद्यादाकृष्टौ स्याद्द्विदर्भनम् ॥ १७६ ॥

उच्चाटे मारणे कार्यः पल्लवश्च विशेषतः ।
अनिर्दिष्टमसंज्ञं च यत्कृतं तद्वृथा भवेत् ॥ १७७ ॥

यमुद्दिश्य कृतं कर्म तस्य सिद्धिदमुच्यते ।
मोक्षे प्रायश्चित्तेषु सप्तत्तुषु जपं भवेत् ॥ १७८ ॥

ग्रीष्मे उद्वेषणं कुर्याद् वर्षासूच्चाटनं भवेत् ।
मारणं शिशिरे कुर्यात् तथान्यानि वसन्तके ॥ १७९ ॥

पूर्वाह्ने शान्तिकं प्रोक्तं मध्याह्ने तु जयार्थकम् ।
उच्चाटनं पराह्ने स्यान् मध्याह्ने शैशिरं तु वा ॥ १८० ॥

प्. १२३०)

हेमन्ते कर्मपूर्वाह्ने मध्याह्नेऽपि प्रशस्यते ।
अर्धयांमोत्तरे काले हेमन्ते कर्म शस्यते ॥ १८१ ॥

अर्धयामोत्तरे यामे अपराह्ने तु * मकम् ।
चारदं चार्धरात्रे स्याद् वासन्तं सार्धवाधके ॥ १८२ ॥

शान्तिस्सर्वत्र श * * * * * * * * * * ।

॥ चिन्त्यः समाप्तः ॥

प्. १२३१)

योगजमहोत्सवः

अथ वक्ष्ये विशेषेण शिवोत्सवविधिक्रमम् ।
सर्वदोषनिवृत्त्यर्थं सर्वलोक सुखावहम् ॥ १ ॥

सर्वदेव प्रियार्थं स्यात् सर्वप्राणि सुखावहम् ।
राष्ट्रस्य सस्यफलदं भुक्तिमुक्ति फलप्रदम् ॥ २ ॥

राज्ञां च विजयस्यार्थं सर्वरक्षार्थ साधनम् ।
उत्सवं कॢप्तभेदं च पुष्कलं विजयान्वितम् ॥ ३ ॥

स * * * त्युच्यते वाचा * * शब्दभाषितम् ।
उद्भूतसृष्टिकारित्वाद् उत्सवः कथितः क्रमात् ॥ ४ ॥

प्रतिष्ठोत्सवविधिश्चैव मासोत्सव विधिक्रमः ।
अमावास्यां समारभ्य मासोत्सवं तथैव च ॥ ५ ॥

प्. १२३२)

वसन्तोत्सव विधिं चैव पुष्यमासेष्विदं तथा ।
चैत्रमासे त्रयोदश्यां मासनक्षत्रमेव च ॥ ६ ॥

वैशाखे तु विशाखान्तं वसन्तोत्सवमेव च ।
सर्वमासे तु कर्तव्यं महोत्सवविधिक्रमः ॥ ७ ॥

निश्चित्यमासनक्षत्रे कथितमुत्सवं तथा ।
षोडशं सर्वरक्षार्थं चैत्रं द्वादशकं तथा ॥ ८ ॥

सौख्यं नवदिनं प्रोक्तं सप्ताहं श्रीकरं भवेत् ।
पार्थिवं पञ्चदिनं चैव द्व्यहं वृद्धिकरं तथा ॥ ९ ॥

एकाहं शिवमेवोक्तं उत्सवं कारयेद्बुधः ।
सप्तविंशति नक्षत्रं ध्वजारोहण पूर्वकम् ॥ १० ॥

प्. १२३३)

भेरीमादौ समारभ्य अष्टादशदिनं भवेत् ।
अंकुरार्पणकं पूर्वं ध्वजं पश्चात्समर्चयेत् ॥ ११ ॥

भेरीं तु ताडनं कुर्याद् अस्त्रदेवार्चनं भवेत् ।
सर्वेषामुत्सवं कुर्यात् पूर्वं वृषभमर्चयेत् ॥ १२ ॥

तद्दिनात्पूर्वरात्रौ तु वृषयागं समाचरेत् ।
प्रतिष्ठादिक्रमेणैव मण्डपं तु प्रकल्पयेत् ॥ १३ ॥

ध्वजस्य लक्षणं चैव कार्पासं सितमेव च ।
द्वादशं दशहस्तं स्यान्नवहस्तमथापि वा ॥ १४ ॥

ध्वजस्य पञ्चभागं स्याच्छिखरं हस्तमेव च ।
हस्तार्धं पुच्छमेवोक्तं त्रिपुच्छं तु द्विपुच्छकम् ॥ १५ ॥

प्. १२३४)

तत्पटं पञ्चधा भज्य मध्यभागे वृषं लिखेत् ।
ऊर्ध्वे तस्य लक्ष्मीं चैव अधो भागे तु कुम्भकैः ॥ १६ ॥

तदूर्ध्वे अस्त्रदेवः स्यात्तदूर्ध्वेच्छत्र चामरे ।
पार्श्वे तु दीप एवोक्त अथवा कुरमेव वा ॥ १७ ॥

धूपघण्टामिति प्रोक्तं पूर्णकुम्भैरलंकृतम् ।
श्वेतं रक्तं तथा पुष्पं सर्वालंकारमेव च ॥ १८ ॥

वृषभं श्वेतवर्णं च सर्वसिद्धिं प्रकारयेत् ।
काम्याद्धरहवर्णेन आभिचारं तु * * कम् ॥ १९ ॥

स्मभवशयनं चैवं वृषभं तु लिखेद्बुधः ।
कृते तदुक्तवर्णानां वालापीतेन शोभितम् ॥ २० ॥

प्. १२३५)

नेत्रं तु कृष्णवर्णं च रक्तं नीलं तु मिश्रकम् ।
सर्वाभरण संयुक्तं सर्वपुष्पैरलंकृतम् ॥ २१ ॥

शिवाग्रे मण्डपं धौतं गोमयालेपनं तथा ।
दर्भमालां समावेष्ट्य मुक्तादामप्रलम्बितम् ॥ २२ ॥

तन्मध्ये स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ।
तदर्धं तण्डुलैः कुर्यात् तदर्धं तु तिलैरपि ॥ २३ ॥

तन्मध्ये नलिनं लिख्य मध्यमे वृषभध्वजम् ।
तदग्रे स्थण्डिलं कुर्यात् नेत्र भंतु स्थापयेत् ॥ २४ ॥

अभितोष्टघटान्न्यस्त्वा पूजयेत्पूर्ववत्क्रमात् ।
मध्ये वृषभमावाह्य गन्धपुष्पैस्समर्चितम् ॥ २५ ॥

प्. १२३६)

परितोऽष्टघटान्न्यस्त्वा स्वस्वबीजेन विन्यसेत् ।
इक्षुं च गोपतिं चैव शंकुकर्णं तथैव च ॥ २६ ॥

तीक्ष्णशृंगं तथानन्दिं वृषभं लजं तथा ।
महोदरोष्टमश्चैव स्वस्वनाम्ना प्रपूजयेत् ॥ २७ ॥

वृषगायत्रिमन्त्रेण वृषकुम्भं न्यसेत्क्रमात् ।
तदग्रे स्थण्डिलं कुर्यात्सितैस्सिकतमेव च ॥ २८ ॥

चतुरश्रासनं कुर्याद्धस्तमात्रेण देशिकः ।
प्राच्य सूत्रं त्रिसूत्रं स्यादुदक्सूत्रं तथैव च ॥ २९ ॥

ब्रह्मजज्ञानमन्त्रेण मध्यरेखां समालिखेत् ।
नाके सुपर्णमन्त्रेण दक्षिणेषु लिखेद्बुधः ॥ ३० ॥

प्. १२३७)

आप्यायस्वेति मन्त्रेण उत्तरे तु समालिखेत् ।
योरुद्र इति मन्त्रेण उदक् सूत्रं तथैव च ॥ ३१ ॥

इदं विष्ण्विति मन्त्रेण पूर्वे रेखां समालिखेत् ।
इन्द्रं विश्वेति मन्त्रेण पश्चिमे तु समालिखेत् ॥ ३२ ॥

शिवाम्भसा तु संप्रोक्ष्य कूर्चं प्रादेश पूजयेत् ।
वागीश्वरं तु वागीशीं आसनं तु प्रपूजयेत् ॥ ३३ ॥

तदग्रे वह्निं संस्थाप्य होमं कृत्वा विचक्षणः ।
पूर्ववच्चाग्नि संस्कारं पूजयेद्वृषभं गुरुः ॥ ३४ ॥

ब्रह्माणं दक्षिणेऽभ्यर्च्य उत्तरे विष्णुमेव च ।
परिस्तरणे दद्याद् दर्भादीनि परिस्तरेत् ॥ ३५ ॥

प्. १२३८)

प्रोक्षणीमूर्ध्वतः स्थाप्य अधः प्रणीतापात्रकम् ।
आज्यस्थालीं तथा स्थाप्य चरुस्थालीं तु स्थापयेत् ॥ ३६ ॥

प्रणीतां प्रोक्षणीं चैव आज्यस्थाली मधोमुखम् ।
सृक्सृवाभिमुखे स्थाप्य स्थापयेत्तु अधोमुखम् ॥ ३७ ॥

प्रादेशमात्रसमिधा परिधित्रयमेव च ।
समिधाद्वयपूर्वे तु * * * * * * * * ॥ ३८ ॥

इन्धनं तत्र कुर्वीत वह्निं प्रजालयेत्क्रमात् ।
आहुति त्रितयं कुर्याद् व्याहृत्या जुहुयात्क्रमात् ॥ ३९ ॥

पञ्चब्रह्म षडंगेन जुहुयात्तु क्रमात्सुधीः ।
वृषगायत्रिमन्त्रेण तत्र होमत्रयं हुनेत् ॥ ४० ॥

प्. १२३९)

समिधस्सद्यमन्त्रेण आज्यं वामेन होमयेत् ।
चरुंत्वघोरमन्त्रेण लाजं तत्पुरुषेण तु ॥ ४१ ॥

तिलमीशान मन्त्रेण सर्षपं कवचेन तु ।
आढकं मुद्गमाषाणां तथैव जुहुयात्क्रमात् ॥ ४२ ॥

शिवमन्त्रेण जुहुयात् प्रत्येकं तु दशाहुतीः ।
होमान्ते वृषकुम्भः स्याद्वृषकुम्भस्तु मूर्तिमान् ॥ ४३ ॥

तदग्रे भेरीदेवः स्यात् स्थण्डिलेन प्रकल्पयेत् ।
ब्रह्मा विष्णुश्च रुद्रश्च अधिदेवाः प्रकीर्तिताः ॥ ४४ ॥

गन्धं पुष्पं च धूपं च दीपं चैव निवेद्यकम् ।
अर्चयेद्भेरिदेवं स्याद् आचार्यस्ताडयेत्क्रमात् ॥ ४५ ॥

प्. १२४०)

आहूय वाद्यकान्पश्चात् शुद्धपारशिवस्तथा ।
अंगपूर्ण समायुक्तं शक्त्या सहितमेव च ॥ ४६ ॥

शक्तिहीनं विना कुर्याद् वर्जयेत्तु विचक्षणः ।
नन्दिकेश्वरमावाह्य वाद्यान्हृदय संपदम् ॥ ४७ ॥

यजनं धूपदीपं स्यात् पुष्पं हस्ते निधापयेत् ।
तत्पुष्पं निक्षिपेद्भेर्यां समतालं तु वाद्यकान् ॥ ४८ ॥

सप्ततालमिदं प्रोक्तमाचार्यः शिष्य एव वा ।
अस्त्रदेवं समभ्यर्च्य मध्यपत्रे तु रुद्रकम् ॥ ४९ ॥

ब्रह्माणं दक्षिणे पत्रे वामपत्रे जनार्दनम् ।
गौरीं च मध्यकूले तु सरस्वतीं दक्षिणे तथा ॥ ५० ॥

प्. १२४१)

लक्ष्मीं च वामपत्रे तु मध्ये गंगां च योजयेत् ।
गणेशं पालिकामध्ये स्कन्दं दण्डाग्र एव च ॥ ५१ ॥

अनन्तादिशि खण्ड्यन्तं पालिकोपरि विन्यसेत् ।
क्षेत्रपालं तथैशान्यां दण्डमध्ये तु शास्तु च ॥ ५२ ॥

चन्द्रसूर्यादिनक्षत्रं दण्डमध्ये तु पूजयेत् ।
चण्डेशं दण्डमूले तु सर्वदेवे च संग्रहे ॥ ५३ ॥

सर्वदेवं समावाह्य अस्त्रेणैव समाचरेत् ।
धूपदीप समायुक्तं सर्वदेव निवेद्यकम् ॥ ५४ ॥

अस्त्रदेवं च लिंगं च बलिपात्रं तथैव च ।
प्रतिश्चन्द्रधरं चैव वृषध्वजसहैव च ॥ ५५ ॥

प्. १२४२)

ग्रामप्रदक्षिणं कुर्याद् बलिदेवान्समर्चयेत् ।
दिनदैवतमावाह्य पीठाग्रे वा ध्वजाग्रके ॥ ५६ ॥

प्रथमं विघ्नरात्रं स्याद् पैशाचं तु द्वितीयकम् ।
तृतीयं ब्रह्मरात्रं स्याद् गन्धर्वं तु चतुर्थकम् ॥ ५७ ॥

पञ्चमं भूतरात्रं स्यात् षष्ठं वै गुहरात्रकम् ।
सप्तमं ऋषिरात्रं स्याद् अष्टमं नागरात्रकम् ॥ ५८ ॥

नवमं चेन्द्ररात्रं स्याद् दशमं विष्णुरात्रकम् ।
एकादशं रुद्ररात्रं द्वादशं शिवरात्रकम् ॥ ५९ ॥

गणरात्रं त्रयोदश्यां चतुर्दशं राक्षसं तथा ।
पञ्चादशं शास्तुरात्रं शक्तिरात्रं च षोडश ॥ ६० ॥

प्. १२४३)

विघ्नादिशिवपर्यन्तं पैतृकोत्सवमेव च ।
विघ्नादि चेन्द्रपर्यन्तं सौख्यमुत्सवमेव च ॥ ६१ ॥

विघ्नादि ऋषिरात्रान्तं सप्ताहमुत्सवं भवेत् ।
विघ्नादि भूतपर्यन्तं पार्थिवोत्सवमेव च ॥ ६२ ॥

विघ्नादि ऋषिरात्रान्तं सप्ताहमुत्सवं भवेत् ।
विघ्नादि भूतपर्यन्तं पार्थिवोत्सवमेव च ॥ ६३ ॥

विघ्नादि ब्रह्मपर्यन्तं सात्विकोत्सवमेव च ।
प्रथमं गणपते रात्रमुत्सवादिति संभवेत् ॥ ६४ ॥

प्रथमं विघ्नराजं तु अपूपं तिलचूर्णकम् ।
शुद्धान्नं तु निवेद्यं स्याद्विघ्नरात्रौ बलिं क्षिपेत् ॥ ६५ ॥

प्. १२४४)

शुद्धान्नं कृसरान्नं च माषयुक्तं दधिप्लुतम् ।
द्वितीयेऽहनि दातव्यं पैशाचं मन्त्रमुच्चरन् ॥ ६६ ॥

शुद्धान्नं बृहती सर्पिर्दधिक्षीरं तु मिश्रकम् ।
तृतीयेऽहनि दातव्यं ब्रह्ममन्त्रमनुस्मरन् ॥ ६७ ॥

कृसरान्नं लड्डुकं सर्पिः कदलीगुलसंयुतम् ।
चतुर्थेऽहनि दातव्यं गान्धर्वं मन्त्रमुच्चरन् ॥ ६८ ॥

मुद्गान्नं गुलसंयुक्तं मधुक्षीरं घृतं तथा ।
पञ्चमेऽहनि दातव्यं भूतमन्त्रमनुस्मरन् ॥ ६९ ॥

पायसान्नं घृतं चैव कदलीगुलसंयुतम् ।
षष्ठेऽहनि प्रदातव्यं स्कन्दमन्त्रमनुस्मरन् ॥ ७० ॥

प्. १२४५)

शुद्धान्नं घृतसंयुक्तं बृहतीफलमेव च ।
सप्तमेऽहनि दातव्यं ऋषिमन्त्रमनुस्मरन् ॥ ७१ ॥

षिष्ठमाषमधूसर्पिरिक्षुमिश्रमिति स्मृतम् ।
अष्टमेऽहनि दातव्यं नागमन्त्रमनुस्मरन् ॥ ७२ ॥

शुद्धान्नं सघृतं क्षीरं पनसाम्रफलं तथा ।
नवमेऽहनि दातव्यं मनुमन्त्रमनुस्मरन् ॥ ७३ ॥

शुद्धान्नं दधि संयुक्तं गुलखण्ड समन्वितम् ।
कदलीपनसं चाम्रं नालिकेरफलान्वितम् ॥ ७४ ॥

दशमेऽहनि दातव्यं विष्णुमन्त्रमनुस्मरन् ।
माषान्नं घृतसंयुक्तं क्षीरं च गुलखण्डकम् ॥ ७५ ॥

प्. १२४६)

एकादशबलिं कुर्याद् रुद्रमन्त्रमनुस्मरन् ।
शुद्धान्नं दधिसंयुक्तं बृहती मूलसंयुतम् ॥ ७६ ॥

द्वादशेऽहनि दातव्यं शिवमन्त्रमनुस्मरन् ।
कृसरान्नं घृतं सर्पिर मधुक्षीरफलं तथा ॥ ७७ ॥

त्रयोदशेऽह्नि दातव्यं गणानां मन्त्रमुच्चरन् ।
मुद्गान्नं माषसंयुक्तं गुलं क्षीरं घृतं तथा ॥ ७८ ॥

चतुर्दशेऽह्निदातव्यं राक्षसं मन्त्रमुच्चरन् ।
पायसं घृतसंयुक्तं गुलखण्डसमन्वितम् ॥ ७९ ॥

पञ्चादशेऽह्नि दातव्यं शास्तृमन्त्रमनुस्मरन् ।
शुद्धान्नं लड्डुकं सर्पिः कदलीकारवल्लिका ॥ ८० ॥

प्. १२४७)

वल्लीमूलं तथा कन्दं गुलक्षीरं घृतं तथा ।
षोडशेऽहनि दातव्यं शक्तिमन्त्रमनुस्मरन् ॥ ८१ ॥

दिनदैवतमावाह्य नित्यमेवं बलिक्रमम् ।
ब्रह्माद्यैशानपर्यन्तं लोकपालबलिं क्षिपेत् ॥ ८२ ॥

शुद्धान्नं घृतसंयुक्तं दधिक्षीरं तु मिश्रकम् ।
पश्चिमद्वारहर्म्ये तु वास्तुभूतबलिः क्रमात् ॥ ८३ ॥

ब्रह्मादिनिरृत्यन्तं वारुणादिप्रदक्षिणम् ।
एवं बलिक्रमं कुर्यान् नित्यमेव बलिं क्षिपेत् ॥ ८४ ॥

तद्द्वारे बलिं निक्षिप्य वृषभं तत्र पश्चिमम् ।
ज्येष्ठादि विघ्नपर्यन्तं स्वस्वनाम्ना बलिं क्षिपेत् ॥ ८५ ॥

प्. १२४८)

दिनदैवतमावाह्य पीठाग्रे तु बलिं क्षिपेत् ।
ध्वजादिबलिपीठान्तं सर्वमेव बलिं क्षिपेत् ॥ ८६ ॥

सर्वदेवालयाग्रे तु ग्रामद्वारे बलिं क्षिपेत् ।

  • * * * * * लक्ष्मीं गोस्थाने च सरस्वतीम् ॥ ८७ ॥


कूपे चैव महामोटीं दुर्गादेवीं बलिं क्षिपेत् ।
श्मशाने सुन्दरीं चैव देवकोष्ठं बलिं क्षिपेत् ॥ ८८ ॥

तत्तत्स्वनाममन्त्रेण बलिक्षेपविधिं शृणु ।
ग्रामप्रदक्षिणं कुर्यान्महापीठे बलिं क्षिपेत् ॥ ८९ ॥

लिंगस्य तु महापीठे अन्नलिंगं विसर्जयेत् ।
जले तु भूतकं कुर्याद् विसृजेदन्न लिंगकम् ॥ ९० ॥

प्. १२४९)

आवाहनबलिं चैव उद्वासनबलिं तथा ।
त्रिंशद्बलिक्रमं कुर्यात् षोडशं दिनमेव च ॥ ९१ ॥

चतुर्विंशद्बलिं कुर्याद् द्वादशं दिनमेव च ।
अष्टादशबलिं कुर्यात् सौम्यमेवं विधीयते ॥ ९२ ॥

मनुना कौशिकं चैव एकाहे तु प्रदापयेत् ।
बलिसंख्या इति प्रोक्ता उत्सवस्य विधिं शृणु ॥ ९३ ॥

उत्सवं कारयेद्धीमान् पुण्यनक्षत्र एव च ।
प्रतिष्ठाद्युत्सवे हीने यथेष्टं मासमानयेत् ॥ ९४ ॥

राजजन्मन्यनक्षत्रे सुखप्रीतिकराय च ।
द्वाहापीठं * * * * प्रसादुर्धूढमेव च ॥ ९५ ॥

प्. १२५०)

व्याप्तलिंगविदीर्याणि यजेदुत्सवमेव च ।
प्रतिष्ठाशिखरं हीनं उत्सवं वर्जयेत्ततः ॥ ९६ ॥

अंगोपांगं च प्रत्यंगं परिवारसमन्वितम् ।
प्रासादद्वार * * * * * मेवमिहोच्यते ॥ ९७ ॥

हीने तु उत्सवं हीने वर्जयेत्तु विचक्षणः ।
प्रारभ्यमुत्सवे हीने यथेष्टं मासि मानयेत् ॥ ९८ ॥

आहसं सहसा कृत्वा पश्चादुत्सवमाचरेत् ।
कालातीतादिदोषेण शान्तिहोमं समाचरेत् ॥ ९९ ॥

राजक्षोभे न कर्तव्यं उत्सवं हीनमेव च ।
राजराष्ट्रे सुखं प्राप्ते पुनरुत्सवमाचरेत् ॥ १०० ॥

प्. १२५१)

पूर्वोत्सवविहीने च यथेष्टं मासि मानयेत् ।

  • * * ते काले * * * नष्टे उत्सवमेव च ॥ १०१ ॥


प्रायश्चित्तविधिं कुर्याच्छान्तिहोमं समाचरेत् ।
मासनक्षत्र तीर्थान्तं आर्द्रान्तमुत्सवं परम् ॥ १०२ ॥

ग्रामनक्षत्र तीर्थान्तं प्रतिष्ठानक्षत्रमेव च ।
राजजन्मन्यनक्षत्रे यजमानवशाद्बुधः ॥ १०३ ॥

चान्द्रमित्युक्तनक्षत्रं सौरमानं च तीर्थकम् ।
तत्काले तीर्थमारभ्य संक्रमं संभवेत्सुधीः ॥ १०४ ॥

गुरुशुक्रास्तमे चैव तन्मासमुत्सवं कुरु ।
प्रतिमां वर्जनात्पश्चाद् ऋज्यवं कारयेद्बुधः ॥ १०५ ॥

प्. १२५२)

सर्वमासेषु कर्तव्यमुत्सवं कारयेत्क्रमात् ।
नित्यं नैमित्तिकं काम्यमुत्सवं त्रिविधं भवेत् ॥ १०६ ॥

नित्यं नित्योत्सवं कुर्यान्नैमित्तिकं विशेषतः ।
यथेष्ठं काम्यमित्युक्तं उत्सवं त्रिविधं भवेत् ॥ १०७ ॥

नित्योत्सवं ततः कुर्यात् नैमित्तिकमहोत्सवम् ।
इष्टमासेषु काम्यार्थमुत्सवं कारयेद्बुधः ॥ १०८ ॥

नित्योत्सवं विनायत्र महोत्सवं विसर्जयेत् ।
ध्वजारोहण * * तु वर्जयेत्तु विचक्षणः ॥ १०९ ॥

यजमानेच्छया कुर्याद् यथेष्टं मासि मानयेत् ।
ध्वजे ध्वजं न कर्तव्यं कर्तव्यं वृषभध्वजम् ॥ ११० ॥

प्. १२५३)

विष्णुकल्याणदं प्रोक्तं शिवयागं समाचरेत् ।
देवयागं च कुर्वीत विष्णुयागं विनाशयेत् ॥ १११ ॥

देवानामपि कल्याणं नृपादीनां न कारयेत् ।
ग्रामे च नगरे चैव पत्तने राजधानिके ॥ ११२ ॥

सर्वदेवोत्सवं कुर्याद् एकस्मिन्नेव वस्तुनि ।
हरि * * * * * स्यात् हरिपृष्ठं तु शोभनम् ॥ ११३ ॥

सर्वदेवोत्सवं कुर्याद् एकवास्तु बलिक्रमम् ।
उत्सवं कारयेद्धीमान् पुण्यमासे तु पूर्वकम् ॥ ११४ ॥

माघमासे तु माघान्तं फाल्गुन्यां चोत्तरान्तकम् ।
चैत्रमासे तु चित्रान्तं विशाखे वैशाख एव च ॥ ११५ ॥

प्. १२५४)

मूलान्तं ज्येष्ठमासे तु कृष्णाष्टम्यन्तमुत्सवम् ।
आषाढे पूर्वनक्षत्रे श्रावणे वैष्णवान्तकम् ॥ ११६ ॥

शुक्लपक्षे तृतीयेषु रोहिण्यन्तं प्रकल्पयेत् ।
पूर्णे तु मासनक्षत्रे समुद्रस्नानमुत्तमम् ॥ ११७ ॥

पूर्वाषाढान्तं भाद्रे तु अश्वान्तमश्वमासके ।
कार्तिके कृत्तिकान्तं वा आर्द्रान्तमुत्सवं परम् ॥ ११८ ॥

विपुलं चान्द्रमासे तु सौरमासप्रशस्तिकम् ।
सर्वोत्सवं च ऋक्षे तु सौरं सौख्यान्तमेव च ॥ ११९ ॥

आरम्भं त्रिविधं तेषां कौतुकं बन्धपूर्वकम् ।
भेरीताडनपूर्वं च अंकुरार्पणपूर्वकम् ॥ १२० ॥

प्. १२५५)

अंकुरं वृषयागं तु वृषभान्तं प्रतिष्ठितम् ।
उत्सवांकुरं द्वितीयं तु तीर्थांकुरं तृतीयकम् ॥ १२१ ॥

सर्वेषामुत्सवं कुर्याद् अंकुरं द्विविधं भवेत् ।
नयनं मोक्षणं चैव जलाधिवासनं विना ॥ १२२ ॥

आचार्यः शिल्पिहस्तेन नयनोन्मीलनं कुरु ।
शालितण्डुल तन्मध्ये वृषकुम्भान्तमेव च ॥ १२३ ॥

अष्टदिक्कलशेनैव उक्षादीन्कलशे न्यसेत् ।
पुण्याहं वाचयेत्तत्र होमं कुर्याद्विशेषतः ॥ १२४ ॥

हेमसूच्या प्रकारन्तु सुमुहूर्ते विचक्षणः ।
मधुसर्पिस्तथा कुर्यान् नेत्रं तु स्पर्शनं तथा ॥ १२५ ॥

प्. १२५६)

धूपदीपं तथा कुर्याद्धान्यदर्शन संभवेत् ।
दर्पणे अभिषेकं तु मुद्गान्नं तु निवेदयेत् ॥ १२६ ॥

शिल्पिं विसर्जनं कुर्याद्गोमयालेपनं तथा ।
मण्डपे समलं कृत्य मध्ये स्थण्डिलमेव च ॥ १२७ ॥

नलिनं च लिखेत्तत्र मध्ये वृषभकुम्भकम् ।
अभितः कलशानष्टौ उक्षादीन्क्रमशो न्यसेत् ॥ १२८ ॥

हैमं तु नखदूर्वं च स्थण्डिलं तत्र कारयेत् ।
होमान्ते नयनोन्मीलं मधुसर्पिश्च लोचनम् ॥ १२९ ॥

दर्शयेद्द्रव्य संयुक्तं अभिषेकं दर्पणं तथा ।
दर्पणं जलाधिवासं च प्रतिष्ठां कारयेद्बुधः ॥ १३० ॥

प्. १२५७)

शिवाग्रे मण्डपं कुर्याद्गोमयालेपनं तथा ।
मण्टपे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ १३१ ॥

तन्मध्ये नलिनं कृत्वा स्थापयेद्वृषभध्वजम् ।
कौतुकं बन्धयेद्धीमान्स्वर्णं रजतसूत्रकम् ॥ १३२ ॥

अथवा कार्पाससूत्रं स्याद्बन्धयेद्वृषशृंगके ।
पुण्याहं वाचयेत्तत्र कौतुकं बन्धयेत्क्रमात् ॥ १३३ ॥

त्रियम्बकेन मन्त्रेण रक्षासूत्रं तु बन्धयेत् ।
शयनं स्थण्डिलं कुर्यात् तदग्रे वृषकुम्भके ॥ १३४ ॥

अभितः कलशानष्टौ उक्षादीन्क्रमशो न्यसेत् ।
तदग्रे अग्निं संस्थाप्य होमयेत्पूर्ववद्गुरुः ॥ १३५ ॥

प्. १२५८)

तदग्रे भेरीदेवं स्यात् स्थण्डिलं तत्र कारयेत् ।
पश्चिमे अस्त्रदेवं तु शालिभिः स्थण्डिलं क्रमात् ॥ १३६ ॥

लाजपुष्पैरलंकृत्यदर्भमालासमन्वितम् ।
अग्निकार्योक्तमार्गेण होमयेत्तु विचक्षणः ॥ १३७ ॥

प्रोक्षणीं प्रणीता पात्रं आज्यस्थालीं तु विन्यसेत् ।
उत्तरे आसनं कल्प्य अधोमुखं तु साधयेत् ॥ १३८ ॥

प्रोक्षणीपात्रमादाय तोयं कुशाक्षतैर्युतः ।
प्रादेशकूर्चसहितं त्रिःस्पर्शनजलं तथा ॥ १३९ ॥

आज्यस्थालीं प्रणीतां च ऊर्ध्वमुखान्तमेव च ।
प्रोक्षयेत्प्रोक्षणीं चैव प्रोक्षणीस्थजलं तथा ॥ १४० ॥

प्. १२५९)

प्रणीतां च जलं पूर्य कुशपुष्पाक्षतैर्युतः ।
जनार्दनं समावाह्य उत्तरे स्थाप्यमेव च ॥ १४१ ॥

दक्षिणे तु जले ब्रह्मकूर्चं पुष्पाक्षतान्वितम् ।
अग्निसंस्कार मेवं तु आज्यसंस्कारमेव च ॥ १४२ ॥

आज्यस्थालीं घृतं पूर्यं कूर्चं प्रादेशमात्रतः ।
प्रादेशे स्पर्शनं कुर्याद्विसर्जयेदग्निमेव च ॥ १४३ ॥

दर्भाग्निं प्रदक्षिणं कुर्यादाज्य संस्कारमेव च ।
एवं संस्कारमेवं तु यथोक्तं पूर्वमेव च ॥ १४४ ॥

समिदाज्यचरून्लाजान् माषशालि यवांस्तथा ।
तिलसर्षपमुद्गानि गुलखण्डं दश स्मृताः ॥ १४५ ॥

प्. १२६०)

परिस्तरणदर्भाणां परिधित्रंयमेव च ।
ऊर्ध्वं तु समिधा कृत्वा परिषेचमनन्तरम् ॥ १४६ ॥

अग्निसंस्कारमेवं तु आज्य संस्कारमेव च ।
समिधा सद्यमन्त्रेण आज्यं वामेन हूयते ॥ १४७ ॥

अघोरेण चरुं हुत्वा लाजं तत्पुरुषेण तु ।
तिलमीशानमन्त्रेण सर्षपं कवचेन तु ॥ १४८ ॥

मुद्गमाष यवांश्चैव शिवमन्त्रेण हूयते ।
वृषमूलं च गायत्रीं शतमष्टोत्तरं शतम् ॥ १४९ ॥

द्रव्यान्ते व्याहृतिं हुत्वा स्विष्टमग्नेति मन्त्रतः ।
जयादि रभ्याधानं च राष्ट्रभृच्च हुनेत्क्रमात् ॥ १५० ॥

प्. १२६१)

पूर्णाहुतिं च शिरसा अग्निबीजमनुस्मरन् ।
ताम्बूलं दापयेत्कुर्यान् मूर्तिं वृषभ कुम्भके ॥ १५१ ॥

मन्त्रन्यासं ततः कुर्याद् वृषमूलेन मन्त्रवित् ।
भेरीघोषं ततः कुर्यादावाहनमथोच्यते ॥ १५२ ॥

आहूयवाद्यकान्पश्चात् शुद्धपारशिवाः स्मृताः ।
दीक्षितानां तु सर्वेषां आचार्यस्ताडयेत्क्रमात् ॥ १५३ ॥

नववस्त्रोत्तरीयं च यज्ञोपवीतमेव च ।
सर्वाभरण संयुक्तं सर्वपुष्पैरलंकृतम् ॥ १५४ ॥

पुष्पाञ्जलिसमायुक्तं भेरीघोष समन्वितम् ।
ताडयेन्नवतालं स्यादाचार्यः शिष्य एव च ॥ १५५ ॥

प्. १२६२)

अस्त्रदेवं तु संपूज्य देवतावाहनं भवेत् ।
शिवादि चण्डपर्यन्तं आवाहनविधिं कुरु ॥ १५६ ॥

हविर्निवेदयेद्धीमान् सर्वदेवं निवेदयेत् ।
बलिपात्र समायुक्तमन्नलिंगास्त्रमेव च ॥ १५७ ॥

ध्वजं चण्डेश्वरं चैव ग्रामप्रदक्षिणं तथा ।
वृषयन्त्रं समादाय ध्वजपं बन्धयेत्क्रमात् ॥ १५८ ॥

सन्धि दैवतमावाह्य दिनदेव समन्वितम् ।
अन्तर्बलिक्रमं पूर्वयागान्ते वा बलिं क्षिपेत् ॥ १५९ ॥

दिनदैवतमावाह्य पीठाग्रे वा बलिं क्षिपेत् ।
सर्वमभ्यर्चयेद्धीमान् पश्चाद्वास्तु बलिं क्षिपेत् ॥ १६० ॥

प्. १२६३)

यन्त्रपीठं समादाय रत्नजं लोहजं तथा ।
अथवा दारुजं पीठं तालमान प्रमाणतः ॥ १६१ ॥

अथवा कदलीपत्रे वास्तुबाह्यबलिं क्षिपेत् ।
ग्रामप्रदक्षिणं कृत्वा महापीठबलिं क्षिपेत् ॥ १६२ ॥

अन्नलिंगस्य मूर्तीनां जले वापि बलिं क्षिपेत् ।
ध्वजपटं स्थालिकां चैव दण्डमूले तु संस्थितम् ॥ १६३ ॥

दण्डलक्षणमेवोक्तं दारुजं वाथ कारयेत् ।
आसनं खादिरं चैव बिल्वचम्पकमेव च ॥ १६४ ॥

देवदारुक संयुक्तं व्याघ्रवृक्ष समन्वितम् ।
मधूकमर्जुनं चैव कृष्णवृक्ष समन्वितम् ॥ १६५ ॥

प्. १२६४)

मुनिवृक्षसमुत्पन्नं क्रमुकं वेणुदण्डकम् ।
वक्रं भिन्नं च सुषिरं कृमिकोटरवर्जितम् ॥ १६६ ॥

अन्तस्सारं पुमानेवं बहिस्सारं तु शक्तिकम् ।
स्थूप्यन्तं वागलान्तं वा वृषस्थल समं तु वा ॥ १६७ ॥

तद्बाह्यं च समं वापि गोपुरस्य समं तु वा ।
त्रयस्त्रिंशति वा हस्तं पञ्चविंशति हस्तकम् ॥ १६८ ॥

ध्वजहस्तमपि प्रोक्तं दण्डायामं विधीयते ।
क्षीरवृक्षं तु संग्राह्य यष्टिं कृत्वा विचक्षणः ॥ १६९ ॥

चतुस्तालप्रमाणेन त्रितालं च समन्वितम् ।
अग्न्यंगुलघनं प्रोक्तं चतुराकृत्यलं कृतिम् ॥ १७० ॥

प्. १२६५)

सुषिरद्वयसंयुक्तं अर्धचन्द्रसमन्वितम् ।
उपदण्डप्रमाणेन वेणुदण्डं विधीयते ॥ १७१ ॥

नवतालेन तत्कुर्यात् सप्ततालं तु मध्यमम् ।
षट्तालं पञ्चतालं च कन्यसं उपदण्डकम् ॥ १७२ ॥

अयसा वलयं वापि बन्धयेदुपदण्डकम् ।
कार्पाससूत्रं रज्जुं च वलयद्विगुणं भवेत् ॥ १७३ ॥

कनिष्ठांगुलि प्रमाणं तु दण्डमूलं समाश्रितम् ।
भूमि संप्रोक्षणं कुर्याद् यष्टिबन्धन संयुतम् ॥ १७४ ॥

दण्डं तु स्थापनं कुर्यात् शालितण्डुल कूर्चकम् ।
रत्नजं रजतं चैव कूर्मासनं तु लोहजम् ॥ १७५ ॥

प्. १२६६)

पञ्चलोहसमायुक्तं दण्डमूले तु योजयेत् ।
त्रिहस्तं तु प्रमाणेन द्विहस्तं वा नयेत्क्रमात् ॥ १७६ ॥

पुण्याहं वाचयेत्तत्र सुमुहूर्ते विचक्षणः ।
वेदिकालक्षणं प्रोक्तं * * भेदनिका तथा ॥ १७७ ॥

अथवा मृदं संग्राह्य त्रिमेखलसमन्वितम् ।
हस्तद्वयं तु विस्तारं उत्सेधं हस्तमात्रकम् ॥ १७८ ॥

रत्निमात्र समुत्सेधं मुष्ठिमात्रमथापि वा ।
विस्तारात्तुसमुत्सेधं हस्तमात्रमथोत्तमः ॥ १७९ ॥

चतुविंशांगुलं हस्तं मात्रांगुलेन कारयेत् ।
वेदिकालक्षणं प्रोक्तं दण्डमूले विचक्षणः ॥ १८० ॥

प्. १२६७)

शिल्पिं विसर्जयेद्धीमान्गोमयालेपनं ततः ।
कौतुकं बन्धयेद्धीमान् दण्डमध्ये सुबन्धनम् ॥ १८१ ॥

विनायकं पूजयेत्तत्र पुण्याहं वाचयेत्तदा ।
आयसं वलयं रज्जुद्विगुणं मूलमाश्रिता ॥ १८२ ॥

दर्भमालासमायुक्तं पुष्पमाल्यैश्च शोभितम् ।
ध्वजं च बन्धयेद्धीमान्किंकिणी पुष्प शोभितम् ॥ १८३ ॥

वृषकुम्भश्च मूर्तिः स्याद्धूपदीप समन्वितः ।
सुमुहूर्ते तु यः कुर्याद् ध्वजारोहणमेव च ॥ १८४ ॥

कार्पासकेन संयुक्तं सन्धयेत्तु दृढं बुधः ।
विपरीतं च रोहणं प्रायश्चित्तं विधीयते ॥ १८५ ॥

प्. १२६८)

शान्तिहोमं ततः कुर्यात् पुनस्सन्धानमाचरेत् ।
सर्वदेवान्समावाह्य दण्डमूले तु योजयेत् ॥ १८६ ॥

लोकपालान्समभ्यर्च्य दिग्देवान्बन्धयेत्क्रमात् ।
नृत्तगीतसमायुक्तं सर्वघोष समन्वितम् ॥ १८७ ॥

मुद्गान्नं तु निवेद्यं स्यात् पायसान्नं निवेदयेत् ।
बल्यन्नं तु ततः कुर्यात् दिग्विदिक्षु च एव हि ॥ १८८ ॥

गर्भोत्पत्तिसमायुक्तं धृतमांगल्यदापयेत् ।
अमंगल्य कन्यका चैव अपस्मारो दृढं बुधः ॥ १८९ ॥

आचार्यं पूजयेत्तत्र वस्त्रहेमांगुलीयकैः ।
शिवाग्रे मण्टपं कुर्याद् गोमयेनोपलेपयेत् ॥ १९० ॥

प्. १२६९)

उमास्कन्दान्तमेवं स्यात् कौतुकं बन्धयेत्क्रमात् ।
सुवर्णं रजतं वाथ अथ कार्पासमेव च ॥ १९१ ॥

त्रियम्बलेन मन्त्रेण रक्षाबन्धन कर्मणि ।
स्थलिके स्थण्डिलं चैव तन्मध्ये तन्तुरक्षकम् ॥ १९२ ॥

परिचारक हस्तेन प्राकारेति प्रदक्षिणम् ।
नववस्त्र समायुक्तं तूर्यघोष समन्वितम् ॥ १९३ ॥

तस्याग्रेण स्थितं कुर्यात् पुण्याहं वाचयेत्ततः ।
त्रियम्बकेन मन्त्रेण रक्षासूत्रं सुबन्धयेत् ॥ १९४ ॥

उमासहितमेवोक्तं चन्द्रशेखरमेव वा ।
पुष्पमालां ततः कुर्यात् कूटं वा मण्टपं तु वा ॥ १९५ ॥

प्. १२७०)

ऐन्द्रे वा पावके वापि यमे वा राक्षसेऽपि वा ।
वायौ सोमे तथैशान्यां यागमण्टपमेव च ॥ १९६ ॥

मण्टपं समलंकृत्य तस्यान्तर्वेदिकां कुरु ।
रत्निमात्र समुत्सेधं दर्पणोदरसन्निभम् ॥ १९७ ॥

हस्तद्वितयविस्तारमुपवेदीसमायुतम् ।
नवाग्निरुत्तमश्चैव पञ्चाग्निर्मध्यमो भवेत् ॥ १९८ ॥

एकाग्निरधमश्चैव वृत्तं वा चतुरश्रकम् ।
एकाग्निं वाथ कुर्वीत पूर्वपश्चिममेव वा ॥ १९९ ॥

यद्द्वाराभिमुखं लिंगं तद्द्वारं कुम्भपूजनम् ।
तदग्रे अग्निकुण्डं वा होमयेत्तु विचक्षणः ॥ २०० ॥

प्. १२७१)

षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमेव वा ।
चतुस्तम्भसमायुक्तं चतुर्द्वारसमायुतम् ॥ २०१ ॥

युगतोरण संयुक्तं दर्भमाला समन्वितम् ।
गात्रवेष्टन संयुक्तं पताका ध्वजमेव च ॥ २०२ ॥

वेद्यूर्ध्वे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ।
तदर्धं तण्डुलैः प्रोक्तं तदर्धं तु तिलैरपि ॥ २०३ ॥

तन्मध्ये नलिनं लिख्य अष्टपत्रं सकर्णिकम् ।
मध्ये सदाशिवं कुम्भं वर्धनीं तु तथोत्तरे ॥ २०४ ॥

अष्टविद्येश्वराश्चैते तत्तत्स्वनाममन्त्रकैः ।
द्वारकुम्भं समादाय पूर्वादीशान्तमर्चयेत् ॥ २०५ ॥

प्. १२७२)

प्राकुम्भमग्निकुम्भं वा निरृति त्रयमेव च ।
वारुण्यभूते तथैव वायुसोमे युगान्तं च त्रिकुम्भमीशे ॥ २०६ ॥

तत्तत्स्वनाममन्त्रेण द्वारकुम्भं समर्चयेत् ।
सर्वदेवं समावाह्य गन्धपुष्पादिनार्चयेत् ॥ २०७ ॥

धूपदीप समायुक्तं होमं कृत्वा विचक्षणः ।
पुण्याहं वाचयेत्तत्र कौतुकं बन्धयेत्क्रमात् ॥ २०८ ॥

कौतुकं त्वग्निकुण्डे तु प्रति प्रति विशेषतः ।
कुण्डसंस्कारमेवोक्तं अग्निं प्रज्वाल्यमेव च ॥ २०९ ॥

अग्निकार्यविधिः प्रोक्तः प्रतिकुण्डं तु होमयेत् ।
आचार्यः शिष्यसंयुक्तो होमं कुर्याद्विचक्षणः ॥ २१० ॥

प्. १२७३)

पालाशौदुम्बरं चैव अपामार्गं नृपस्य तु ।
बिल्वं च खदिरं चैव न्यग्रोधं वह्निमेव च ॥ २११ ॥

वैकंकतं च काश्मीरं समिधस्समुदाहृताः ।
परिस्तरणदर्भाणां परिधित्रयमेव च ॥ २१२ ॥

पूर्वे ऊर्ध्वं च समिधां द्वयं विष्ठरमेव च ।
ब्रह्माणं दक्षिणेऽभ्यर्यच उत्तरे तु जनार्दनम् ॥ २१३ ॥

परिषेचन पात्रैश्च प्रोक्षणी पात्रमेव च ।
प्रणीता पात्रमादाय पूजयेच्च जनार्दनम् ॥ २१४ ॥

आज्यसंस्कारमेवोक्तं स्वाहासहितमेव च ।
होमान्ते तद्बलिं कुर्यान् मेखलोपरि विन्यसेत् ॥ २१५ ॥

प्. १२७४)

तत्तत्स्वनाममन्त्रेण लोकपालबलिं क्षिपेत् ।
बहिर्बलिविधिं कुर्याद् अन्तर्बलिमथाचरेत् ॥ २१६ ॥

कुण्डपार्श्वे पावके च अन्तर्बलिं क्षिपेत्ततः ।
प्रथममष्टनागं च द्वितीयं द्वादशादिकम् ॥ २१७ ॥

नानादिग्बलिं निक्षिप्य पूर्णाहुतिमथाचरेत् ।
अग्निमंत्रमनुस्मृत्य स्वाहेति च नियोजयेत् ॥ २१८ ॥

अग्निमूर्तिं समावाह्य कुम्भमध्ये सुयोजयेत् ।
हविर्निवेदयेत्तत्र सर्वदेवं निवेद्यकम् ॥ २१९ ॥

होमान्ते भेरिघोषः स्यात्सप्ततालविधिर्भवेत् ।
आहूयवाद्यकान्पश्चाद् आचार्यः शिष्य एव च ॥ २२० ॥

प्. १२७५)

यागान्ते भेरिघोषः स्याद् वास्तुदेवबलिं क्षिपेत् ।
प्रथममन्तर्बलिं कुर्याद् द्वितीयं दिनदेवता ॥ २२१ ॥

ध्वजादिबलिपीठान्तं बलिभोज्यक्रमं शृणु ।
उमास्कन्देश्वरं देवं ग्रामप्रदक्षिणं तथा ॥ २२२ ॥

तथे वा शिबिकायां वा स्थापयेद्देवमेव च ।
शंखघोष समायुक्तं ब्रह्मघोष समन्वितम् ॥ २२३ ॥

सर्ववाद्य समायुक्तं स्तोत्रमंगलवाचकैः ।
छत्रं च चामरं चैव व्यजनं ध्वजमेव च ॥ २२४ ॥

सर्वदेव समायुक्तं यन्त्रदीपमनन्तरम् ।
सर्वभक्तजनानां तु नृपतिब्रह्ममेव च ॥ २२५ ॥

प्. १२७६)

आचार्यं दक्षिणे पार्श्वे नृपतिर्वामपार्श्वके ।
रुद्रकन्यकय युक्तं गान्धर्वं तु शिवाग्रके ॥ २२६ ॥

ग्राम प्रदक्षिणं कुर्याद् आस्थानं मण्टपं तथा ।
पाद्यमाचमनं चार्ध्यं धूपदीप समन्वितम् ॥ २२७ ॥

आरात्रिमर्चयेद्धीमान् भस्मं तु पातयेद्बुधः ।
दर्पणं चामरं चैव व्यजनं छत्रमेव च ॥ २२८ ॥

भस्मं तु दापयेत्पश्चान् नृपभक्तजनान्वितः ।
नालिकेर समायुक्तं कदलीफल संयुतम् ॥ २२९ ॥

अभिमन्त्रित ताम्बूलं ताम्बूलं तु निवेदयेत् ।
तद्दिनं तु समारभ्य यज्ञं सप्तदिनं भवेत् ॥ २३० ॥

प्. १२७७)

तद्दिनात्सप्तदिवसे तैलाभ्यञ्जन कर्मणि ।
आस्थान मण्डपं कुर्याद् गोमयालेपिते शुभे ॥ २३१ ॥

स्थण्डिलं तत्र कुर्वीत अष्टद्रोणैश्च शालिभिः ।
तन्मध्ये तु घृतं स्थाप्य दूर्वाक्षत समायुतम् ॥ २३२ ॥

पुण्याहं वाचयित्वा तु घृतं शिरोर्पणमेव हि ।
दूर्वाक्षत समायुक्तं ऊद्धू * * * * बुधः ॥ २३३ ॥

अस्त्रभेर्यादि संयुक्तं तैलाभ्यञ्जनकं तथा ।
स्नपनं कारयित्वा तु पञ्चाशत्पञ्चविंशतिः ॥ २३४ ॥

शुद्धवस्त्रपरीधानं श्वेतमाल्यविभूषितम् ।
मुक्ताभरण संयुक्तं श्वेतचन्दनलेपितम् ॥ २३५ ॥

प्. १२७८)

बहुनैवेद्य संयुक्तं उपदंश समन्वितम् ।
ताम्बूलं तु निवेद्यं स्याद्धूपदीप समन्वितम् ॥ २३६ ॥

आरात्रिमर्चयेत्कुर्यात् भस्मं तु दापयेद्बुधः ।
ग्रामप्रदक्षिणं कुर्यात् प्रवेशे दीपदापनम् ॥ २३७ ॥

काले काले विशेषेण बहिर्होमं समाचरेत् ।
पश्चाद्धोमबलिं कुर्यात् अस्त्रराज समन्वितम् ॥ २३८ ॥

अन्नलिंगबलिं चैव चन्द्रशेखरमेव च ।
रात्रौ बलिं ततः कुर्यात् सर्वेषां बलिमाचरेत् ॥ २३९ ॥

ग्रामप्रदक्षिणं कुर्यात् त्प्रविशेदालयं प्रति ।
अष्टमे वा नवाहे वा गन्धोत्सव विधिक्रमम् ॥ २४० ॥

प्. १२७९)

तद्दिनस्य तृतीये वा द्वितीये वांकुरार्पणम् ।
तद्दिनात्पूर्वरात्रौ तु कौतुकं मंगलं कुरु ॥ २४१ ॥

गीतं च ललितं चैव भुजंगत्रासमेव च ।
एकनृत्तसमायुक्तं स्नपनं तत्र कारयेत् ॥ २४२ ॥

शिवाग्रेमण्टपं कुर्याद् आस्थानं मण्टपं तथा ।
गोमयालेपिते शुद्धे स्थण्डिलं परिकल्पयेत् ॥ २४३ ॥

अष्टद्रोणैश्च शालीनां तदर्धं तण्डुलं तथा ।
तदर्धं तिलसंयुक्तं देवाग्रे स्थण्डिलं तथा ॥ २४४ ॥

दर्भैः पुष्पैः परिस्तीर्यं लाजपुष्पैश्च शोभितः ।
तन्मध्ये तु त्रिपादीनां ब्रह्मजज्ञानमन्त्रतः ॥ २४५ ॥

प्. १२८०)

नाके सुपर्णमन्त्रेण दक्षिणे सूत्रमेव च ।
आप्याय स्वेति मन्त्रेण उत्तरे रेखयेत्क्रमात् ॥ २४६ ॥

यो रुद्र इति मन्त्रेण उदक्सूत्रं तथैव च ।
इदं विष्ण्वितिमन्त्रेण प्रतीच्यां रेखयेत्क्रमात् ॥ २४७ ॥

इदं विश्वेति मन्त्रेण पूर्वरेखां समालिखेत् ।
तन्मध्ये स्थापितं कुर्यात् प्रदक्षिण मथाचरेत् ॥ २४८ ॥

वागीश्वरं वागीशीं तन्मन्त्रैरर्चयेत्क्रमात् ।
तत्पुरो ह्यासनं कल्प्य प्रणीतां प्रोक्षणीं तथा ॥ २४९ ॥

आज्यस्थालीं सृक्सृवं च साधयेत्तु विशेषतः ।
समित्त्रय समायुक्तं परिधित्रयमेव च ॥ २५० ॥

प्. १२८१)

प्रोक्षणी पात्रमादाय जलेनापूरयेत्क्रमात् ।
कुशपुष्पाक्षतैर्युक्तं प्रोक्षणीं साधयेत्ततः ॥ २५१ ॥

प्रणीतापात्रमादाय तोयपुष्पाक्षतैर्युतम् ।
उत्तरे चैव संकल्प्य जनार्दनं समर्चयेत् ॥ २५२ ॥

आज्यस्थालीं घृतं * * त्रिंशत्स्पर्शनकूर्चकम् ।
कूर्चग्रन्थिं विसृज्याथ अग्निमध्ये स्थितं ताः ॥ २५३ ॥

तथा संस्कारदर्भाणां अग्निं प्रदक्षिणं तथा ।
व्याहृतिं जुहुयात्पश्चाद् ब्रह्मजज्ञानमन्त्रकैः ॥ २५४ ॥

परिस्तरण दर्भाणां परिधित्रयमेव च ।
पूर्वे विष्ठरं संकल्प्य समिदाहुतिमाचरेत् ॥ २५५ ॥

प्. १२८२)

समिधा सद्यमन्त्रेण आज्यं वामेन होमयेत् ।
अघोरेण चरुं हुत्वा लाजं तत्पुरुषेण तु ॥ २५६ ॥

तिलमीशानमन्त्रेण सर्षपं कवचेन तु ।
मुद्गमाषं च शालीनां नेत्रमन्त्रेण हूयते ॥ २५७ ॥

पायसं गुलखण्डं च शिवमन्त्रेण हूयते ।
प्रति प्रति तथा कुर्यात् प्रत्येकं तु दशाहुतीः ॥ २५८ ॥

शिवगायत्रि मन्त्रेण तत्तदष्टोत्तरं हुनेत् ।
द्रव्यान्ते व्याहृतिं हुत्वा दशहुत्वा समाचरेत् ॥ २५९ ॥

पूर्णाहुतिं च शिरसा अग्निबीजमनुस्मरन् ।
होमान्ते कौतुकं कुर्यात् पुनः पुण्याहमाचरेत् ॥ २६० ॥

प्. १२८३)

त्रियम्बकेन मन्त्रेण कौतुकं तु नटेश्वरम् ।
शक्तेस्तु वामहस्ते तु कौतुकं बन्धयेत्सुधीः ॥ २६१ ॥

कौतुकं त्वस्त्रदेवानां मृदपाद्ये तु कौतुकम् ।
धूपदीपसमायुक्तमारात्रिमर्चयेद्बुधः ॥ २६२ ॥

सुमुहूर्ते विशेषेण बन्धयेत्कौतुकं हृदा ।
ब्राह्मणान्भोजयेत्तत्र चतुर्वेदसमन्वितान् ॥ २६३ ॥

नृत्तगीतं च वाद्यं च पुराणकथनं क्रमात् ।
अपूपं निवेदयेद्धीमान् बहुनैवेद्यसंयुतम् ॥ २६४ ॥

निवेदयेत्ततो मन्त्री ताम्बूलं तु निवेदयेत् ।
धूपदीपसमायुक्तमारात्रिकमथाचरेत् ॥ २६५ ॥

प्. १२८४)

छत्रं च चामरं चैव दर्पणं दर्शयेत्क्रमात् ।
भस्मशेषं च नृपतिर्भक्तानां दापयेत्सुधीः ॥ २६६ ॥

नववस्त्रैरलंकृत्य कौतुकं पूर्ववत्क्रमात् ।
सर्वाभरण संयुक्तं मुक्ताभरणभूषितम् ॥ २६७ ॥

श्वेतपुष्पैरलंकृत्य श्वेतचन्दनलेपितम् ।
नीलोत्पलसमं पुष्पं न भवेत्तु भविष्यति ॥ २६८ ॥

तण्डुलं च समायुक्तं प्रभावसमन्वितम् ।
हर्म्यप्रदक्षिणं कुर्याद् आस्थानं मण्टपं स्थितम् ॥ २६९ ॥

धूपदीपसमायुक्तं नीराञ्जनं विशेषतः ।
भस्मं तु दापयेत्पश्चाच् छत्रचामरदर्शनम् ॥ २७० ॥

प्. १२८५)

नृपतेश्च जनानां च शेषं भस्म तु दापयेत् ।
प्रातःकाले समारभ्य गन्धोत्सव विधिक्रमम् ॥ २७१ ॥

आचार्यः स्नानमेवं तु प्रतिमास्नानमाचरेत् ।
चित्रवस्त्रैरलंकृत्य सर्वाभरणभूषितम् ॥ २७२ ॥

कस्तूरीं चैव कर्पूरं कृष्णगन्धं तु मिश्रितम् ।
शंखदुन्दुभिनिर्घोषैः स्तोत्रमंगलवाचकैः ॥ २७३ ॥

ग्रामप्रदक्षिणं कुर्यात् प्रविश्यास्थान मन्टपम् ।
देवसन्निधिसंप्राप्ते होमं कृत्वा विशेषतः ॥ २७४ ॥

पूर्ववदग्निं संस्थाप्य अग्निकार्योक्तमाचरेत् ।
पुण्याहं कारयेद्धीमान् होमं कृत्वा विचक्षणः ॥ २७५ ॥

प्. १२८६)

सर्वगन्धसमायुक्तं कृष्णगन्ध प्रधानकम् ।
होमान्ते कृष्णगन्धेन लेपयेत्तु नटेश्वरम् ॥ २७६ ॥

शक्तौ गन्धं समुत्प्राप्य सुमुहूर्ते विचक्षणः ।
ब्राह्मणान्भोजयेत्तत्र स्वस्तिसूक्तसमन्वितम् ॥ २७७ ॥

अस्त्रदेवं सुभेरीं च मृदवाद्ये तु गन्धकम् ।
मूलबेरं सुगन्धं स्यात् परिवार समन्वितम् ॥ २७८ ॥

यागेश्वरस्य देवानां कृष्णगन्धं तु दापयेत् ।
चतुर्वेद प्रवक्तॄणां द्विजानां भोजयेत्क्रमात् ॥ २७९ ॥

शुद्धनृत्तं विशेषेण गीतवाद्य समन्वितम् ।
गोदर्शमशुभं प्राप्य कन्यादर्शन संभवम् ॥ २८० ॥

प्. १२८७)

भेरीं तु ताडनं कृत्वा आचार्य हस्तमेव च ।
गन्धद्वारेति मन्त्रेण ताडयेत्तु विचक्षणः ॥ २८१ ॥

आहूय वाद्यकान्पश्चात् हस्ते पुष्पं तु निक्षिपेत् ।
पुष्पाञ्जलिर्नमस्कृत्वा वाद्यकान्ताडयेत्क्रमात् ॥ २८२ ॥

सप्ततालविधिः प्रोक्त आचार्यः शिष्य एव च ।
नन्दिमन्त्रं समुच्चार्यं मृदवाद्यं तु ताडयेत् ॥ २८३ ॥

आचार्यस्ताडयेत्पश्चाद् वाद्यकास्तदनन्तरम् ।
झल्लरीमुखं चैव पटहं मर्दलं तथा ॥ २८४ ॥

महानाट्यसमायुक्तं महाघोष समन्वितम् ।
सप्ततालं ततः कुर्यान् महानाट्यं तथैव च ॥ २८५ ॥

प्. १२८८)

देवदेवं नमस्कृत्वा पाद्याचमनमेव च ।
धूपदीप समायुक्तं नीराजनं विशेषतः ॥ २८६ ॥

भस्मं तु दापयेत्पश्चाद् दर्पणं दर्शयेत्क्रमात् ।
छत्रं च चामरं चैव व्यजनं च क्रमात्सुधीः ॥ २८७ ॥

शेषभस्म समायुक्तं भूपतिं च विशेषतः ।
सर्वभक्तजनानां तु सर्वेषां गन्धमेव च ॥ २८८ ॥

महाहविर्निवेद्यं स्यात् ताम्बूलं तु निवेदयेत् ।
धूपदीप समायुक्तमारात्रिमर्चयेत्क्रमात् ॥ २८९ ॥

सर्वपुष्पैरलंकृत्य सर्वघोष समन्वितम् ।
शंखनाद समायुक्तं दुन्दुभीमर्दलान्वितम् ॥ २९० ॥

प्. १२८९)

पुष्पप्रभा समायुक्तं चित्रप्रभा समन्वितम् ।
रथे वा शिबिकायां वा चित्रदीप समन्वितम् ॥ २९१ ॥

सप्ताग्रहं ततः कुर्यात् प्रविश्यास्थानमण्टपम् ।
पाद्यमाचमनं चार्घ्यं धूपदीप समन्वितम् ॥ २९२ ॥

नीराजनं ततः कुर्याद् भस्म तु दापयेत्क्रमात् ।
नालिकेरसमायुक्तं कदलीपनसं तथा ॥ २९३ ॥

ताम्बूलं दापयित्वा तु दर्पणं दर्शयेत्क्रमात् ।
छत्रं च चामरं कुर्यात् गीतवाद्य समन्वितम् ॥ २९४ ॥

स्नपनं कारयित्वा तु पंचाशत्पंचविंशतिः ।
स्नपनं कारयित्वा तु पूर्ववत्परिकल्पयेत् ॥ २९५ ॥

प्. १२९०)

लाजचूर्णं शकृच्चूर्णं मृदं ग्राह्य तु बुद्धिमान् ।
अभिषेकं प्रकुर्वीत स्नपनं कारयेत्क्रमात् ॥ २९६ ॥

पुण्याहं वाचयेत्तत्र वेदध्वनि समायुतम् ।
शुक्लवस्त्रपरीधानं श्वेतमाल्यानुलेपनम् ॥ २९७ ॥

श्वेतचन्दन संयुक्तं कर्पूरं चैव मिश्रितम् ।
श्वेतयज्ञोपवीतं च श्वेतवस्त्रोत्तरीयकम् ॥ २९८ ॥

हविर्निवेदयेत् धीमान् ताम्बूलं तत्र कारयेत् ।
शिबिकायां ततः कुर्यात् प्राकारे तु प्रदक्षिणम् ॥ २९९ ॥

शिवाग्रे मण्टपं कुर्याद् आस्थानं मण्टपं तथा ।
धूपदीप समायुक्तं आरात्रिक समन्वितम् ॥ ३०० ॥

प्. १२९१)

पैशाचनृत्तसंयुक्तं महानाटकमेव च ।
प्रातःकाले समारभ्य चित्रवस्त्रोत्तरीयकम् ॥ ३०१ ॥

सर्वाभरण संयुक्तं सर्वमंगलभूषितम् ।
सर्वमंगलवाद्यं च शंखकाहलमेव च ॥ ३०२ ॥

ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति ।
आस्थान मण्टपे स्थित्वा धूपदीपसमन्वितम् ॥ ३०३ ॥

आरात्रिमर्चयित्वा तु भस्म दत्वा विशेषतः ।
दर्पणं चामरं चैव व्यजनं च नयेत्क्रमात् ॥ ३०४ ॥

शेषभस्म ततः कुर्यान् नृपतिश्च विशेषतः ।
सर्वभक्तजनानां च भस्म दत्वा च दापयेत् ॥ ३०५ ॥

प्. १२९२)

नालिकेरसमायुक्तं पनसं कदलीफलम् ।
स्नानं कृत्वा यथान्यायं हविर्निवेदयेत्ततः ॥ ३०६ ॥

मृगयात्रां समारभ्य पूर्वरात्राधिवासयेत् ।
त्रिपुरघ्नप्रतिमां कुर्यात् कल्याणसुन्दरं तथा ॥ ३०७ ॥

वाजियन्त्राः स्थितान्ते तु राजयन्त्रं गजस्थिताः ।
कारुकैर्विद्यदृच्छं वा केचित्काले शिवोत्सवम् ॥ ३०८ ॥

केचित्खड्गधराश्चैव केचित्परशुधारिणः ।
परिधाय ययुस्सर्वे धनुर्धरास्तथैव च ॥ ३०९ ॥

युद्धारम्भे तथा सर्वे शीघ्रं गच्छेत्समाकुलम् ।
मृगपक्षिवराहाश्च मयूराः कुक्कुटास्तथा ॥ ३१० ॥

प्. १२९३)

मुक्तालंकार संयुक्तं वनयात्रा समन्वितम् ।
हेलाविलासकथितं गच्छेद्भक्तजनैर्युतम् ॥ ३११ ॥

गौरीं चण्डेश्वरं चैव महाकालं वृषं तथा ।
ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं सह ॥ ३१२ ॥

प्रदोषसमये काले तीर्थाधिवासनं भवेत् ।
शिवाग्रे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ ३१३ ॥

तन्मध्ये नलिनं कुर्यात् त्रिपादीं तत्र विन्यसेत् ।
शालिकातण्डुलैः पूर्य तन्मध्ये कुम्भकं हृदा ॥ ३१४ ॥

उमास्कन्देश्वरं चैव अस्त्रदेव समन्वितम् ।
भेरीदेवं समभ्यर्च्य चण्डेशप्रतिमां तथा ॥ ३१५ ॥

प्. १२९४)

कौतुकं बन्धयेद्धीमान् उमास्कन्देश्वरं तथा ।
पुण्याहं पूर्ववत्कुर्यात् कौतुकं बन्धयेद्धृदा ॥ ३१६ ॥

त्रियम्बकेन मन्त्रेण रक्षासूत्रं सुबन्धयेत् ।
अस्त्रं तु कौतुकं कुर्याद्भेर्यां कौतुकबन्धनम् ॥ ३१७ ॥

नदीतटक उदकौ अस्त्रतीर्थसमन्वितम् ।
सर्वदेवं समावाह्य सप्ततन्तुं समापयेत् ॥ ३१८ ॥

स्थण्डिलं तत्र कुर्वीत कुंभं तु स्थापयेत्क्रमात् ।
पुण्याहं वाचयेत्तत्र गन्धपुष्प समन्वितम् ॥ ३१९ ॥

सप्ततालविधिं कुर्याद् आचार्यः शिष्यसंयुतः ।
स्नानं कृत्वास्त्र तत्वज्ञः सर्वभक्तजनैस्सह ॥ ३२० ॥

प्. १२९५)

ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति ।
तीर्थाधिवासनं कृत्वा महातीर्थं ततः शृणु ॥ ३२१ ॥

प्रातःकाले समारभ्य अमृतस्नानमुत्तमम् ।
प्रातस्संगमकाले तु यागान्ते वा बलिक्रमम् ॥ ३२२ ॥

ग्रामप्रदक्षिणं कुर्याद् उमास्कन्देश्वरं तथा ।
आस्थानमण्टपे स्थित्वा धूपदीप समन्वितम् ॥ ३२३ ॥

चूर्णोत्सवं ततः कुर्यान् मण्टपाग्रे विशेषतः ।
गोमयालेपिते शुद्धे श्वेतवर्णैरलंकृतम् ॥ ३२४ ॥

तन्मध्ये स्थलिकां कुर्याल्लूखलं मुसलेन तु ।
लूखलं ब्रह्मदैवत्यं मुसलं विष्णुदैवतम् ॥ ३२५ ॥

प्. १२९६)

वस्त्रं दूर्वासमायुक्तं तत्र पुष्पैः परिस्तरेत् ।
रजनीद्रोण संयुक्तं लूखलं पूर्णमेव च ॥ ३२६ ॥

रुद्रकन्यकया युक्तं स्नानं कृत्वा विशेषतः ।
त्रिपुण्ट्रभस्मसंयुक्तं श्वेतवस्त्रैरलंकृतम् ॥ ३२७ ॥

धूपदीपसमायुक्तं पुष्पं कूर्च उपन्यसेत् ।
लूखलं तु नमस्कृत्य रजनीचूर्णमेव च ॥ ३२८ ॥

शंखघोषसमायुक्तं सर्ववाद्यसमन्वितम् ।
रजनीं लूखलं पूर्य देवसन्निधि संयुतम् ॥ ३२९ ॥

कुशलाजाक्षतैःपुष्पं कूर्चं तत्रैव विन्यसेत् ।
मंगलांकुरमावृत्य सुमुहूर्ते विचक्षणः ॥ ३३० ॥

प्. १२९७)

पुण्याहं वाचयेत्तत्र तैलं शिरोर्पणं ततः ।
मूलबेरं च परितो तैलाभ्यञ्जन कर्मणि ॥ ३३१ ॥

उमास्कन्देश्वरं चैव अस्त्रं भेर्यां च तैलकम् ।
दूर्वांकुराक्षतैर्मूर्ध्नि अर्चयित्वा विशेषतः ॥ ३३२ ॥

धूपदीपसमायुक्तमारात्रिक समन्वितम् ।
भक्ष्यभोज्यविशेषेण ताम्बूलं तत्र कारयेत् ॥ ३३३ ॥

दर्पणं दर्शयेत्तत्र चामरं व्यजनं तथा ।
ब्राह्मणान्भोजयेत्तत्र चतुर्वेदसमन्वितान् ॥ ३३४ ॥

प्रतिमामस्त्रदेवानां रजनीचूर्णमस्तके ।
तैलारम्भे तु सहसा चूर्णं कृत्वा विचक्षणः ॥ ३३५ ॥

प्. १२९८)

तैलं च चूर्णपात्रं च अस्त्रदेव समन्वितम् ।
शंखघोष समायुक्तं वास्तुदेवबलिक्रमः ॥ ३३६ ॥

प्राकारेणावृतं कुम्भैः पूर्णं गच्छेत्समाकुलम् ।
भूपतिं तैलसंयुक्तं महासेना समन्वितम् ॥ ३३७ ॥

गायकैर्वाद्यनृत्तं वा गणिकाभिस्समन्वितम् ।
तदीतीरे तटाके वा तीर्थं च स महेश्वरम् ॥ ३३८ ॥

स्थण्डिलं तत्र कुर्वीत विधिपूर्वं विशेषतः ।
पुण्याहं वाचयेत्तत्र गन्धपुष्पसमन्वितम् ॥ ३३९ ॥

परिस्तरेण दर्भाणां अर्चयेत्कलशं तथा ।
सर्वदेवं समावाह्य सर्वतीर्थ समन्वितम् ॥ ३४० ॥

प्. १२९९)

सप्ततालविधिः प्रोक्त आचार्यः शिष्य एव च ।
अस्त्रेण सर्वभक्तानां सहस्नानं विधीयते ॥ ३४१ ॥

ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति ।
मूलदेवस्य स्नपनं प्रतिमा स्नपनं तथा ॥ ३४२ ॥

यागेशं पूजयेत्तत्र पूर्णाहुतिं समाचरेत् ।
शिवकुम्भं ततोद्धृत्य आचार्यः परिचारकैः ॥ ३४३ ॥

ग्रामप्रदक्षिणं कुर्याच् छिवाग्रे मण्टपं तथा ।
पुण्याहं वाचयेत्तत्र अभिषेकं च कारयेत् ॥ ३४४ ॥

यागेश्वरस्य देवानां पीठबाह्ये प्रदक्षिणम् ।
स्नपनं तत्र कुर्वीत वस्त्रेणालंकृतं शुभम् ॥ ३४५ ॥

प्. १३००)

उमास्कन्देश्वरं चैव स्नपनं तत्र कारयेत् ।
अष्टोत्तर शतं श्रेष्ठं पंचाशत्पंचविंशतिः ॥ ३४६ ॥

देवाग्रे स्थण्डिलं कृत्वा अष्टद्रोणैश्च शालिभिः ।
पुण्याहं वाचयेत्तत्र स्नपनं स्नानमाचरेत् ॥ ३४७ ॥

शुद्धवस्त्रपरीधानं श्वेतमाल्यसुशोभितम् ।
हविर्निवेद्य संयुक्तं ताम्बूलं तत्र कारयेत् ॥ ३४८ ॥

धूपदीपं समारोप्य नीराजनं विशेषतः ।
मौनव्रतधरास्सर्वे ग्रामप्रदक्षिणं तथा ॥ ३४९ ॥

लाजं पुष्पं गृहीत्वा तु ब्राह्मणान्स्वस्ति वाचकैः ।
आलयं तु प्रविश्याथ आचार्यः पूजयेत्ततः ॥ ३५० ॥

प्. १३०१)

यागोपकारसंभारवस्त्रहेमांगुलीयकैः ।
ब्राह्मणान्भोजयेत्तत्र भक्तानां परिचारकैः ॥ ३५१ ॥

ध्वजदेवं समभ्यर्च्य मुद्गान्नं तु निवेदयेत् ।
अवरोहं तु कुर्वीत शंखकाहलमर्दलैः ॥ ३५२ ॥

भेरीघोष समायुक्तं सर्वालंकारमेव च ।
प्राकारं तु प्रदक्षिण्य चण्डयागं समाचरेत् ॥ ३५३ ॥

चण्डेशं स्नानसंयुक्तं वस्त्रैराभरणैर्युतम् ।
चण्डाग्रे होमसंयुक्तं अग्निकार्यं समाचरेत् ॥ ३५४ ॥

होमाग्रे तु बलिं दद्यात् ताम्बूलं तु निवेदयेत् ।
धूपदीपसमायुक्तं अर्चयित्वा विशेषतः ॥ ३५५ ॥

प्. १३०२)

अन्नलिंगसमायुक्तं बलिपात्रसमन्वितम् ।
अस्त्रदेवं समादाय मौनं बलिं समाचरेत् ॥ ३५६ ॥

मौनव्रतधरास्सर्वे बलिदेवान्विसर्जयेत् ।
दीपहीनं तथा कुर्या प्रभानाथं तु घोषयेत् ॥ ३५७ ॥

ग्रामप्रदक्षिणं कृत्वा महापीठेबलिं क्षिपेत् ।
पादप्रक्षालनं कुर्यात् प्रविशेदालयं तथा ॥ ३५८ ॥

गौरीयागमहं वक्ष्ये पूर्वरात्रेऽधिवासयेत् ।
सायेचोत्सवमारभ्य उमास्कन्देश्वरं तथा ॥ ३५९ ॥

ग्राम प्रदक्षिणं कुर्याद् भक्तोत्सवमथाचरेत् ।
सर्वलोकसुखं पुण्यं सर्वराष्ट्रविवर्धनम् ॥ ३६० ॥

प्. १३०३)

सर्वदारिद्र्यशमनं राज्ञां विजयवर्धनम् ।
भोगमोक्षफलं चैव उत्सवः कथितः क्रमात् ॥ ३६१ ॥

इति योगजे उत्सव विधिपटलः



॥ ओं शिवाय नमः ॥

पद्ममूलेन चैकेन नालजं पत्रपुष्पकम् ।
तथा च लिंगेनैकेन उत्सवो जायते क्रमात् ॥ १ ॥

लिंगं वै पद्ममूलं तु पद्मनालं ध्वजं स्मृतम् ।
पत्रं चैव महेशादि कुम्भादि कुसुमं स्मृतम् ॥ २ ॥

नाडीत्रयं तु लिंगे स्यादालीनं तु शिवोत्सवे ।
महेशादिषु कुम्भेषु ध्वजेषु च विशेषतः ॥ ३ ॥

प्. १३०४)

अग्नौ घृतादि होतव्यं तृप्तिं प्राप्य घटे शिवम् ।
मन्त्रैः कुम्भैः शिवं पूज्य लिंगे तृप्तं सदाशिवम् ॥ ४ ॥

  • * * * * * * * * * (सिद्धान्तशेखरे)


अबुद्धिर्बुद्धिपूर्वस्तु दीक्षा तु द्विविधा भवेत् ।
अबुद्धि पूर्वसंस्कारदीक्षाभेदं चतुष्टयम् ॥ ५ ॥

कर्षणादि प्रतिष्ठान्तं प्रतिष्ठाद्यर्चनान्तकम् ।
अर्चनादुत्सवान्तं तु प्रायश्चित्तं चतुष्टयम् ॥ ६ ॥

कर्षणादि प्रतिष्ठान्तं समयं परिकीर्तितम् ।
विशेषमर्चनं काम्यं नित्यं नैमित्तिकं विदुः ॥ ७ ॥

उत्सवध्वजशुद्धिस्स्यात्तीर्थान्तमभिषेचनम् ।
तदंगकर्महीनं तु प्रायश्चित्तमिति स्मृतम् ॥ ८ ॥

प्. १३०५)

समयस्नान पर्यन्तं ज्ञानपूर्त्तिपवित्रकम् ।

  • * * * * * * * संकल्पनिराकरणे

ध्वजारोहादितीर्थान्तं दशकार्यमिदं भवेत् ॥ ९ ॥

एतानि दशभेदानि त्रिपदार्थस्य युज्यते ।
बीजांकुरार्पणं चैव ध्वजारोहणमेव च ॥ १० ॥

तत्वरूपमिदं सर्वं तस्मिन्विन्यासदर्शनम् ।
यागदीक्षाध्वशुद्धिःस्याद्वृषारूढात्मरूपकम् ॥ ११ ॥

आत्मदृश्यं रथीयानं कृष्णगन्धात्मशोधनम् ।
दीपावलोकनं चैव शिवरूपमिति स्मृतम् ॥ १२ ॥

तीर्थं तु दर्शनं विद्याद् योगं कुम्भाभिषेचनम् ।

प्. १३०६)

शक्तियात्रा महेशस्य शिवभोगमिति स्मृतम् ॥ १३ ॥

एवं तु दशकार्याणि दीक्षाचोत्सवमुच्यते ।

  • * * * * * * * * * * (इति कामिके)

ध्वजदण्डः पतिर्ज्ञेयो ध्वजस्थितवृषः पशुः ॥ १४ ॥

  • * * जस्य सूत्रं स्याद् वृषभ ध्वजरूपिणः ।

इच्छाज्ञानक्रियाशक्तिर्यष्टित्रयमिदं भवेत् ॥ १५ ॥

यष्टिदण्डस्तु नादः स्याद् बलयं बिन्दुरेव च ।
उत्सवस्य तु कर्तृत्वं ध्वजारोहणमुच्यते ॥ १६ ॥

ओं तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि ।
तन्नः शिवः प्रचोदयात् * * * * * * * * ॥ १७ ॥

प्. १३०७)

ओं सप्तजिह्वाय विद्महे हव्यवाहाय धीमहि ।
तन्नो अग्निः प्रचोदयात् * * * * * * * * ॥ १८ ॥

ओं तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् * * * * * * * * ॥ १९ ॥

ओं नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् * * * * * * * * ॥ २० ॥

ओं हंसारूढाय विद्महे कूर्चहस्ताय धीमहि ।
तन्नो ब्रह्मा प्रचोदयात् * * * * * * * * ॥ २१ ॥

ओं गणाम्बिकाय विद्महे उमाशक्ती च धीमहि ।
तन्नो देवी प्रचोदयात् * * * * * * * * ॥ २२ ॥

ओं वक्रतुण्डाय विद्महे शूर्पकर्णाय धीमहि ।
तन्नो दन्तिः प्रचोदयात् * * * * * * * * ॥ २३ ॥

प्. १३०८)

ओं धनुर्धराय विद्महे सर्वसिद्धी च धीमहि ।
तन्नो धरा प्रचोदयात् * * * * * * * * ॥ २४ ॥

ओं महादेव्यै च विद्महे रुद्रपत्न्यै च धीमहि ।
तन्नो गौरी प्रचोदयात् * * * * * * * * ॥ २५ ॥

ओं तीक्ष्णशृंगाय विद्महे वेदपादाय धीमहि ।
तन्नो वृषभः प्रचोदयात् * * * * * * * * ॥ २६ ॥

ओं सर्वशक्ती च विद्महे सप्तरूपाय धीमहि ।
तन्नो मातॄः प्रचोदयात् * * * * * * * * ॥ २७ ॥

ओं तद्विशाखाय विद्महे बाणहस्ताय धीमहि ।
तन्नः स्कन्दः प्रचोदयात् * * * * * * * * ॥ २८ ॥

ओं फलप्रदाय विद्महे पापहन्त्री च धीमहि ।
तन्नो ज्येष्ठा प्रचोदयात् * * * * * * * * ॥ २९ ॥

प्. १३०९)

ओं कात्यायनाय विद्महे कन्यकुमारि धीमहि ।
तन्नो दुर्गि प्रचोदयात् * * * * * * * * ॥ ३० ॥

ओं अश्वध्वजाय विद्महे पद्महस्ताय धीमहि ।
तन्नः सूर्यः प्रचोदयात् * * * * * * * * ॥ ३१ ॥

ओं झषध्वजाय विद्महे पद्महस्ताय धीमहि ।
तन्नो वीरः प्रचोदयात् * * * * * * * * ॥ ३२ ॥

ओं हंसध्वजाय विद्महे * हस्वाय धीमहि ।
तन्नो ब्राह्मी प्रचोदयात् * * * * * * * * ॥ ३३ ॥

ओं वृषभध्वजाय विद्महे हस्ताय धीमहि ।
तन्नश्शंकरि प्रचोदयात् * * * * * * * * ॥ ३४ ॥

ओं मयूरध्वजाय विद्महे शक्तिहस्वाय धीमहि ।
तन्नः कौमारी प्रचोदयात् * * * * * * * * ॥ ३५ ॥

प्. १३१०)

ओं चक्रध्वजाय विद्महे शंखहस्ताय धीमहि ।
तन्नो वैष्णवी प्रचोदयात् * * * * * * * * ॥ ३६ ॥

ओं महिषध्वजाय विद्महे दण्डहस्ताय धीमहि ।
तन्नो वाराही प्रचोदयात् * * * * * * * * ॥ ३७ ॥

ओं गजध्वजाय विद्महे वज्रहस्ताय धीमहि ।
तन्नो इन्द्राणी प्रचोदयात् * * * * * * * * ॥ ३८ ॥

ओं पाशहस्ताय विद्महे शूलहस्ताय धीमहि ।
तन्नश्चामुण्डी प्रचोदयेत् * * * * * * * * ॥ ३९ ॥

ओं शूलहस्ताय विद्महे श्वानवाहाय धीमहि ।
तन्नो भैरवः प्रचोदयात् * * * * * * * * ॥ ४० ॥

ओं पक्षिराजाय विद्महे शुक्लापांगाय धीमहि ।
तन्नो मयूरः प्रचोदयात् * * * * * * * * ॥ ४१ ॥

प्. १३११)

महासेनाय विद्महे षडाननाय धीमहि ।
तन्नः स्कन्दः प्रचोदयात् * * * * * * * * ॥ ४२ ॥

ओं श्वेतवर्णाय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो गजेन्द्रः प्रचोदयात् * * * * * * * * ॥ ४३ ॥

ओं वेत्रहस्ताय विद्महे टंकहस्ताय धीमहि ।
तन्नो नन्दी प्रचोदयात् * * * * * * * * ॥ ४४ ॥

ओं टंकहस्ताय विद्महे शिवचिह्नाय धीमहि ।
तन्नश्चण्डः प्रचोदयात् * * * * * * * * ॥ ४५ ॥

ओं उत्पलहस्ताय विद्महे गौरी चिह्नाय धीमहि ।
तन्नश्चण्डी प्रचोदयात् * * * * * * * * ॥ ४६ ॥

ओं चित्रहस्ताय विद्महे पक्षहंसाय धीमहि ।
तन्नो हंसः प्रचोदयात् * * * * * * * * ॥ ४७ ॥

प्. १३१२)

ओं सर्पराजाय विद्महे नागराजाय धीमहि ।
तन्नोऽनन्तः प्रचोदयात् * * * * * * * * ॥ ४८ ॥

ओं व्योमव्योमाय विद्महे सूक्ष्मसूक्ष्माय धीमहि ।
तन्नो रुद्रः प्रचोदयात् * * * * * * * * ॥ ४९ ॥

ओं तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि ।
तन्नः शिवः प्रचोदयात् * * * * * * * * ॥ ५० ॥

ओं श्रीं पशुं हुं फट् पाशुपतास्त्राय नमः ।

  • * * * * * * * * इति पाशुपतास्त्रम् ॥ ५१ ॥


ओं हः अस्त्राय फट् । शिवास्त्रम् ।
ओं प्रस्फुर प्रस्फुर घोरघोरतरतनुरूप चटचट ॥ ५८ ॥

प्रचट प्रचट कुह कुह वमवम बन्धय बन्धय ।
घातय घातय । इत्यघोरास्त्रम् ॥ ५९ ॥

प्. १३१३)

ओं श्रीं पशुं हुंफट् * * पाशुपतास्त्राय नमः ।
इति पाशुपतास्त्रम् * * * * * * * * * ॥ ६० ॥

ओं आं ईं ऊं रुद्रस्थितशृंखले ओं सर्वतो भद्रे ।
कटिरुद्रवचनविधारि रक्षमां प्रत्यंगिरेधाम ॥ ६१ ॥

धाम ज्योतिर्ज्योतिस्सुवस्सुवः भूपते नमोऽस्तु ।
स्वाहा । इति प्रत्यंगिरास्त्रम् * * * * * * * ॥ ६२ ॥

ओं हौं शिवाय नमः । ओं हौं सदाशिवाय नमः ।
ओं हां महेश्वरायनमः । ओं ह्लीं हं विष्णवे नमः ॥ ६३ ॥

ओं ह्यां ब्रह्मणे नमः । ओं ह्रां ह्रीं सह शिव सूर्याय नमः ।
ओं गं गां गौं गणपतये नमः । ओं सौं शरवणभवषण्मुखाय
नमः ॥ ६४ ॥

प्. १३१४)

ओं तुम्बुरु तुम्बुरु आनन्द ताण्डवेश्वराय नमः ।
ओं श्रीं ह्रीं वीरभद्राय नमः । ओं जुंसः ओं ॥ ६५ ॥

ह्रीं वं कुरु कुरु वटुकाय आपदुद्धारणाय नमः ।
ओं हंसः शिवाय नमः । इत्यात्मपञ्चाक्षरम् ॥ ६६ ॥

ओन्नमस्त्र्यक्षरं ओं ह्रीं ह्रां महीं व्योमव्यापिने नमः ।
इति शाम्बरं इं क्ष्म्रं इति मुख्यां
फट् ह्लां ह्लां ह्लां तिशरणं ॥ ६७ ॥

व्र शिरसे स्वाहा ओ दीक्षुकृत्
क्षुरिकाबीजं ओं षं हां हीं हूं व्योमव्यापिने
हुंफट् । इति द्वादशाक्षरम् ॥ ६८ ॥

प्रशान्त प्रणवपुरुष्टुतं औं जुं सं ।
ह्रीं विद्यां गास्त्राय नमः ॥ ६९ ॥

प्. १३१५)

ओं ह्रीं वं पराशक्तिमययै नमः ।
ओं ह्रीं भुवनेश्वर्यै नमः ॥ ७० ॥

ओं ह्रीं मनोन्मन्यै नमः ।
ओं श्रीं महागौर्यै नमः ॥ ७१ ॥

ओं श्रीं ह्रीं उमादेव्यै नमः ।
ओं ऐं क्लीं सरस्वत्यै नमः ॥ ७२ ॥

ओं श्रीं कमलवासिन्यै नमः ।
ओं रं वं यं सं त्रं हं अमृतेश्वराय नमः ॥ ७३ ॥

हौं सिद्धप्रासादमाह । हौं कलाप्रासादमाह ।
ह्रीं कमलाकृत प्रासादमाह । हां क्षमण प्रासादमाह ॥ ७४ ॥

प्. १३१६)

हं अन्नस्थप्रासादमाह ।
हृं सृं क्ष्मृं ऌं वृं श्रं त्रं ऊं कण्ठेर्ण्य प्रासादमाह ॥ ७५ ॥

आत्मतत्वप्रासादमाह * * * * * * * ।
औं आदित्य प्रासादमाह * * * * * * * ॥ ७६ ॥

आं सः आत्मप्रासादमाह * * * * * * * ।
ओं हां हौं शिवायनमः । प्रासादपञ्चाक्षरम् ॥ ७७ ॥

नमश्शिवाय इति स्थूलसूक्ष्मम् * * * * * ।
स्थूलं नमश्शिवाय सूक्ष्मं नमोऽन्तं शिवाय इति सिद्धः ॥ ७८ ॥

प * * * * * * * * मिदं समाप्तमासीत् ॥