विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १६०

विकिस्रोतः तः
← अध्यायः १५९ विष्णुधर्मोत्तरपुराणम्
अध्यायः १६०
वेदव्यासः
अध्यायः १६१ →

वज्र उवाच ।।
केवलं कृष्णपक्षस्य द्वादशीषु जनार्दनम् ।।
कदाप्रभृति धर्मज्ञ विधिना केन चार्चयेत् ।। १ ।।
मार्कण्डेय उवाच ।।
मार्ग्यां तु समतीतायां द्वादशी या भवेन्नृप ।।
ततः प्रभृति कर्तव्यं व्रतमेवमुपोषितः ।। २ ।।
द्वादशीषु च कृष्णासु नाम कृष्णस्य कीर्तयेत् ।।
तेनैव नाम्ना कर्तव्यौ जपहोमौ तथैव च ।। ३ ।।
तिलैर्निवेदनं कार्यं होमः कार्यस्तथा तिलैः ।।
पौष्यां तु समतीतायां कृष्णा या द्वादशी भवेत् ।। ४ ।।
तस्यां व्रतावसाने तु तिलान्दद्याद्द्विजातिषु ।।
सुवर्णं च महीपाल रक्तवस्त्रं तथैव च ।। ५ ।।
सम्वत्सरमिदं कृत्वा व्रतं मनुजपुङ्गव ।।
तिर्यग्योनिं न चाप्नोति स्वर्गलोकं च गच्छति ।। ६ ।।
यावज्जीवं व्रतमिदं यः करोति समाहितः ।।
न स दुखं समाप्नोति नरकं न नराधिप ।। ७ ।।
यत्र वैतरणी दुर्गा क्षुरधाराश्च पर्वताः ।।
पापानां यातना यत्र तत्रासौ न गमिष्यति ।। ८ ।।
यस्यां गणाः भीमबला महोग्रा दंष्ट्राकराला विकटोग्रवेषाः ।।
विद्रावणाः पापकृतां नराणां न येन तस्या नृप यन्ति मार्गम् ।। ९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे प्रतिकृष्णपक्षद्वादशीविधिर्नाम षष्ट्यधिकशततमोऽध्यायः ।। १६० ।।