विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०६४

विकिस्रोतः तः
← अध्यायः ०६३ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०६४
वेदव्यासः
अध्यायः ०६५ →

।। शङ्कर उवाच ।। ।।
आदौ देशे तथा राम प्रयतः सुसमाहितः ।।
स्वाध्यायेनार्चयेद्देवं प्रयतेनान्तरात्मना ।। १ ।।
तावत्कार्यं द्विजश्रेष्ठ स्वाध्यायं विधिवत्सदा ।।
यावदस्तं गतो राम सविता दीप्तदीधितिः ।। २ ।।
ततस्त्वस्तं गते सूर्ये स्वाचान्तः सुसमाहितः ।।
प्रविश्य देवतावेश्म नैराज्यं कर्म कारयेत् ।। ३ ।।
पादपीठान्तकं कर्म कृत्वा प्रागुक्तमञ्जसा ।।
अर्घ्यमाचमनीयं च दत्त्वा पाद्यं च भार्गव ।। ४ ।।
स्थालीमक्लिन्ननैवेद्यादारभ्याभिहितं ततः ।।
कर्तव्यमनुयागान्तं प्रयतः सुसमाहितः ।। ५ ।।
कृत्वानुयागं विधिवत्प्रविश्य सुरमन्दिरम् ।।
स्वाध्यायस्यानुसंधानं ततः कुर्यात्समाहितः ।। ६ ।।
योगकालमुपादाय पश्चात्कुर्याद्विसर्जनम् ।।
कृत्वा विसर्जनं युक्तस्तिष्ठेद्याममतन्द्रितः ।।७ ।।
योगादनन्तरं स्वप्यादेवं युक्तस्य भार्गव।।
स्वयं कालोऽपि सततं योगमध्येऽभिधीयते ।। ८ ।।
स्नानार्हकत्वं यदि नास्ति तस्य यामे विबुद्धस्तु तथा चतुर्थे ॥
युञ्जीत योगं रिपुकालभूतं योगेन बुद्धिः समुपैति सर्गम् ॥९॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० शङ्करगीतासु स्वाध्यायकालकथनं नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ।॥