योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ५०

विकिस्रोतः तः
← सर्गः ४९ योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)
सर्गः ५०
अज्ञातलेखकः
सर्गः ५१ →

श्रीवसिष्ठ उवाच ।
तमथासौ तथा बुद्धिफलपल्लवशालिनम् ।
आनन्दमन्थरमनाः षुष्परूपाचलोपमम् ।। १
कदम्बं रोदसीस्तम्भमारुरोह वनस्थितम् ।
एकार्णवगतं शौरिर्वटवृक्षमिवोन्नतम् ।। २
तत्रासौ व्योमलग्नायाः शाखायाः प्रान्तपल्लवे ।
विवेश विगताशङ्कमेकाग्रं तप आस्थितः ।। ३
अथोपविश्य मृदुनि नवपल्लवविष्टरे ।
क्षणमालोकितास्तेन दिशः कौतुकचञ्चलम् ।। ४
सरिदेकावलीरम्याः शैलेन्द्रस्तनकुड्मलाः ।
निर्मलाकाशकबरा लोलनीलाम्बुदालकाः ।। ५
नीलपल्लववसनाः पुष्पपूरावतंसिकाः ।
गृहीतसागरापूर्णकलशाः पुरुभूषणाः ।। ६
धृतप्रफुल्लपद्मिन्यः सुगन्धिमुखमारुताः ।
नीलघुंघुमकाकल्यो निर्झरारावनूपुराः ।। ७
द्युमूर्धानो महीपादा वनालीरोमराजयः ।
जङ्गलोरुनितम्बिन्यश्चन्द्रार्ककृतकुण्डलाः ।। ८
शालिसंसारकेदाराश्चन्दनस्थालिकान्विताः ।
शिखरोरसिजालग्नहिमशुभ्राम्बुदांशुकाः ।। ९
महार्णवपयःपूरनवमण्डनदर्पणाः ।
ऋक्षौघघर्मपुलका भुवनान्तःपुरान्तराः ।। १०
आर्तवस्तनधारिण्यो लग्नसूर्यांशुकुङ्कुमाः ।
विचित्रकुसुमोपेताश्चन्द्रांशुसितचन्दनाः ।। ११
गगनगतलतादलोपविष्टः
प्रसृतवनावनिवारिवाहवेषाः ।
त्रिभुवनवनिता ददर्श हृष्टः
कुसुमनिरन्तरमण्डिता दशाशाः ।। १२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे दा० दाशूरादिगवलोकनं नाम पञ्चाशः सर्गः ।। ५० ।।