पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शन्कुच्छायादिज्नानाध्यायः इदानेएमन्यं प्रश्नमाह्।

इष्तगृहौच्च्यज्नो यस्तदन्तरज्नो निरीक्षते तु जले। गृहभित्त्यग्रं दर्श्यति दर्पणे वा स तन्त्रन्यः॥४॥

सु भा-य इष्तग्रहौच्च्यज्न प्रात्मस्थनात् तस्य गृहस्थान्तरज्नश्च जले गृहभित्त्यग्रं निरीक्षते वा दर्पणे तगदग्र दर्शयति स एव तन्त्रज्नः॥४॥

हि भा-य इष्तगृहाउच्च्यज्नाता स्वस्थानात्तस्य गृहस्यान्तरज्नाता च जले गृहभित्त्यग्रं निरीक्षते वा दर्पणे तदग्रऑ दर्शयति स तन्त्रज्नोस्तीति॥४॥

इदानीमन्यं प्रश्नमाह।

छायादितीयभाग्रान्तर विज्नानेन वेति दीपौच्च्यम्। शन्कु च्छायाज्नो वा मूमेश्छयां स तन्त्रज्नः॥५॥

सु भा-यः शन्कुछायाज्नः(शन्कोर्ये द्वे छाये ते जानातीति शन्कुछायज्नः)छायाद्वितीयभाग्रान्तर्विज्नानेन छायायाः प्रथमच्छायाया द्वितीय भाग्रस्य द्वितीयच्छायाया यदन्तरं तस्य विज्नानेन दीपौच्च्यं वेत्ति वा भूमेर्भूमिमानाच्छायां वेत्ति स एव तन्त्रज्नः॥५॥

वि भा-यः शन्कुच्छायाज्नः(शन्कोर्ये छये ते जानातीति शन्कुच्छायाज्नः) प्रथम छायाया द्वितीयच्छायायाश्च यदन्तरं तदिज्नानेन दीपौच्च्यं जानाति वा भूमिमानात् छायां जानाति स तन्यत्रज्नोस्तीति॥५॥

इदानीमन्यं प्रश्नमाह।

गृहपुरुषान्तरसलिले यो द्रष्ट्वाग्रं गृहस्य भूमिज्नः। वेत्ति गृहौच्च्यं द्र्ष्ट्वा तैलस्थं वा स तन्त्रज्नः॥६॥