पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३०२ ब्राह्मस्फुटसिद्धान्ते स्फुट ज्ञय ग्रह होते हैं। तथा ज्ञात ग्रह से पश्चिम में ज्ञय ग्रह के रहने से विपरीत लग्न जो हो उसमें छः राशि घटाने से स्फुट ज्ञय ग्रह होते हैं इति । उपपत्ति लग्नानयनवत् समझनी चाहिये ॥१०-११॥ इदानीं तस्मान्मध्यगतिं ततो युगभगणान् साधयति य इत्यस्योत्तरमाह । ज्ञातं कृत्वा मध्यं भूयोऽन्यदिने तदन्तरं भुक्तिः । त्रैराशिकेन भुक्तया कल्पग्रहमण्डलानयनम् ।। १२ ।। सु. भा.- एवं स्फुटज्ञेयग्रहात् स्पष्टीकरणविलोमविधिना मध्य ग्रहं ज्ञातं कृत्वा भूयः पुनरन्यदिने च मध्यं ग्रहं ज्ञातं कृत्वा तदन्तरं तयोरन्तरं कार्यमेवं ग्रहस्य मृध्यमा भुक्तिर्भवेत् । ततो भुक्त्या त्रैराशिकेनैकस्मिन् दिने मध्यमा गतिस्तदा। कल्पकुदिनैः किमिति त्रैराशिकेन कल्पग्रहभगणानयनं सुगममिति ।।१२।। वि. भा.-स्पष्टज्ञेयग्रहात् ‘स्फुटं ग्रहं मध्यखगं प्रकल्प्ये' त्यादि भास्करोक्त सूत्रेण स्पष्टीकरणविलोमक्रियया मध्यमं ग्रहं संसाध्य पुनरन्यस्मिन् दिने तेनैव विधिना मध्यमग्रहसाधन कार्य तयोरन्तरमेकदिनजा ग्रहस्य मध्यमा गतिर्भवेत् । ततोऽनुपातेना ‘यद्येकस्मिन् दिने इयं मध्यमा गतिस्तदा कल्पकुदिनैः किम्' न कल्प ग्रहभगणमानानयनं स्फुटमेवेति ॥१२॥ अत्रोपपत्तिर्विज्ञानभाष्यलिखितस दृश्येवेति।।१२॥ अब ‘तस्मान्मध्यगतिं ततोयुत भगणमानयति यः' इसके उत्तर को कहते हैं । हेि. भा..-स्पष्ट ज्ञयग्रह से ‘स्फुटं ग्रहं मध्यखगं प्रकल्प्य' इत्यादि भास्करोक्त सूत्र से स्पष्टीकरण की विलोम विधि से मध्यम ग्रह ज्ञान करके पुनः अन्य दिन में उसी विधि से मध्यम ग्रह ज्ञान करना चाहिये, दोनों मध्यम ग्रहों के अन्तर एक दिन सम्बन्धी ग्रह की मध्यम गति हुई, तब इस मध्यम गति से अनुपात ‘यदि एक दिन में यह मध्यम गति पाते हैं तो कल्प कुदिन में क्या' से कल्प ग्रह भगणानयन स्फुट ही है इति ॥१२॥ इदानीमानयति यस्तमोरविशशाङ्कमानानीत्यस्योत्तरमाह । स्थित्यर्धाद्विपरीत तमः प्रमाणं स्फुटं ग्रहणे । मानोदयाद्रवीन्द्वोर्घटिकावयवेन भोदयतः ॥१३॥ सु.भा.-स्थित्यर्धाद्विपरीतं विपरीतविधिना ग्रहणे स्फुटं तमः प्रमाणं भूभाबिम्बप्रमाणं भवति । अत्रैतदुक्त भवति । स्थित्यर्घ रविचन्द्रगत्यन्तरकला गुणं षष्टिहृतं स्थित्यर्धकला भवन्ति । तद्वर्गाच्छरवर्गयुतान्मूलं मानैक्यार्धकला