गर्गसंहिता/खण्डः ८ (बलभद्रखण्डः)/अध्यायः १२

विकिस्रोतः तः
← गर्गसंहिता/खण्डः ८ (बलभद्रखण्डः)/अध्यायः ११ गर्गसंहिता/खण्डः ८ (बलभद्रखण्डः)/अध्यायः १२
गर्गमुनि
गर्गसंहिता/खण्डः ८ (बलभद्रखण्डः)/अध्यायः १३ →

बलभद्रखण्डः - द्वादशोऽध्यायः

बलराम कवचम् -


दुर्योधन उवाच -
गोपीभ्यः कवचं दत्तं गर्गाचार्येण धीमता ॥
 सर्वरक्षाकरं दिव्यं देहि मह्यं महामुने ॥१॥
 प्राड्‌विपाक उवाच -
स्नात्वा जले क्षौमधरः कुशासनः
     पवित्रपाणिः कृतमन्त्रमार्जनः ॥
 स्मृत्वाथ नत्वा बलमच्युताग्रजं
     संधारयेद्धर्मसमाहितो भवेत् ॥२॥
 गोलोकधामाधिपतिः परेश्वरः
     परेषु मां पातु पवित्रकीर्तनः ॥
 भूमण्डलं सर्षपवद्विलक्ष्यते
     यन्मूर्ध्नि मां पातु स भूमिमण्डले ॥३॥
 सेनासु मां रक्षतु सीरपाणि-
     र्युद्धे सदा रक्षतु मां हली च ॥
 दुर्गेषु चाव्यान्मुसली सदा मां
     वनेषु संकर्षण आदिदेवः ॥४॥
 कलिंदजावेगहरो जलेषु
     नीलांबरो रक्षतु मां सदाग्नौ ॥
 वायौ च रामोऽवतु खे बलश्च
     महार्णवेऽनन्तवपुः सदा माम् ॥५॥
 श्रीवासुदेवोऽवतु पर्वतेषु
     सहस्रशीर्षा च महाविवादे ॥
 रोगेषु मां रक्षतु रौहिणेयो
     मां कामपालोऽवतु वा विपत्सु ॥६॥
 कामात्सदा रक्षतु धेनुकारिः
     क्रोधत्सदा मां द्विविदप्रहारी ॥
 लोभात्सदा रक्षतु बल्वलारि-
     र्मोहात्सदा मां किल मागधारिः ॥७॥
 प्रातः सदा रक्षतु वृष्णिधुर्यः
     प्राह्णे सदा मां मथुरापुरेन्द्रः ॥
 मध्यन्दिने गोपसखः प्रपातु
     स्वराट् पराह्णेऽवतु मां सदैव ॥८॥
 सायं फणींद्रोऽवतु मां सदैव
     परात्परो रक्षतु मां प्रदोषे ॥
 पूर्णे निशीथे च दुरन्तवीर्यः
     प्रत्यूषकालेऽवतु मां सदैव ॥९॥
 विदिक्षु मां रक्षतु रेवतीपति-
     र्दिक्षु प्रलंबारिरधो यदूद्वहः ॥
 ऊर्ध्वं सदा मां बलभद्र आरा-
     त्तथा समन्ताद्‌बलदेव एव हि ॥१०॥
 अन्तः सदाव्यात्पुरुषोत्तमो बहि-
     र्नागेन्द्रलीलोऽवतु मां महाबलः ॥
 सदांतरात्मा च वसन् हरिः स्वयं
     प्रपातु पूर्णः परमेश्वरो महान् ॥११॥
 देवासुराणां भयनाशनं च
     हुताशनं पापचयेन्धनानाम् ॥
 विनाशनं विघ्नघटस्य विद्धि
     सिद्धासनं वर्मवरं बलस्य ॥१२॥


इति श्रीगर्गसंहितायां बलभद्रखण्डे
स्तोत्रकवचवर्णनं नाम द्वादशोऽध्यायः ॥१२॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥





वर्गःगर्ग संहिता