गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०३

विकिस्रोतः तः
← गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०२ गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०३
गर्गमुनि
गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०४ →

माधुर्यखण्डः - तृतीयोऽध्यायः

मैथिली गोपीगणानां उपाख्यानम् -

श्रीनारद उवाच -
मैथिलीनां गोपिकानामाख्यानं शृणु मैथिल ।
 दशाश्वमेधतीर्थस्य फलदं भक्तिवर्धनम् ॥ १ ॥
 श्रीरामस्य वराज्जाताः नवनन्दगृहेषु याः ।
 कमनीयं नन्दसूनुं दृष्ट्वा ता मोहमास्थिताः ॥ २ ॥
 मार्गशीर्षे शुभे मासि चक्रुः कात्यायनीव्रतम् ।
 उपचारैः षोडशभिः कृत्वा देवीं महीमयीम् ॥ ३ ॥
 अरुणोदयवेलायां स्नाताः श्रीयमुनाजले ।
 नित्यं समेता आजग्मुर्गायन्त्यो भगवद्‌गुणान् ॥ ४ ॥
 एकदा ताः स्ववस्त्राणि तीरे न्यस्य व्रजांगनाः ।
 विजर्ह्रुर्यमुनातोये कराभ्यां सिंचतीर्मिथः ॥ ५ ॥
 तासां वासांसि संनीय भगवान् प्रातरागतः ।
 त्वरं कदंबमारुह्य चौरवन्मौनमास्थितः ॥ ६ ॥
 ता न वीक्ष्य स्ववासांसि विस्मिता गोपकन्यकाः ।
 नीपस्थितं विलोक्याथ सलज्जा जहसुर्नृप ॥ ७ ॥
 प्रतीच्छन्तु स्ववासांसि सर्वा आगत्य चात्र वै ।
 अन्यथा न हि दास्यामि वृक्षात्कृष्ण उवाच ह ॥ ८ ॥
 राजंत्यस्ताः शीतजले हसंत्यः प्राहुरानताः ॥ ९ ॥
 गोप्य ऊचुः -
हे नन्दनन्दन मनोहर गोपरत्‍न
     गोपालवंशनवहंस महार्तिहारिन् ।
 श्रीश्यामसुन्दर तवोदितमद्य वाक्यं
     कुर्मः कथं विवसनाः किल तेऽपि दास्यः ॥ १० ॥
 गोपाङ्गनावसनमुण्नवनीतहारी
     जातो व्रजेऽतिरसिकः किल निर्भयोऽसि ।
 वासांसि देहि न चेन्मथथुराधिपाय
     वक्ष्यामहेऽनयमतीव कृतं त्वयाऽ‍त्र ॥ ११ ॥
 श्रीभगवानुवाच -
दास्यो ममैव यदि सुन्दरमन्दहासा
     इच्छन्तु वैत्य किल चात्र कदंबमूले ।
 नोचेत्समस्तवसनानि नयामि गेहां-
     स्तस्मात्करिष्यथ ममैव वचोऽविलम्बात् ॥ १२ ॥
 श्रीनारद उवाच - तदा ता निर्गताः सर्वा जलाद्‌गोप्योऽतिवेपिताः ।
 आनता योनिमाच्छाद्य पाणिभ्यां शीतकर्शिताः ॥ १३ ॥
 कृष्णदत्तानि वासांसि ददुः सर्वा व्रजजांगनाः ।
 मोहिताश्च स्थितास्तत्र कृष्णे लज्जायितेक्षणाः ॥ १४ ॥
 ज्ञात्वा तासामभिप्रायं परमप्रेमलक्षणम् ।
 आह मन्दस्मितः कृष्णः समन्ताद्‌वीक्ष्य ता वचः ॥ १५ ॥
 श्रीभगवानुवाच -
भवतीभिर्मार्गशीर्षे कृतं कात्यायनीव्रतम् ।
 मदर्थं तच्च सफलं भविष्यति न संशयः ॥ १६ ॥
 परश्वोऽहनि चाटव्यां कृष्णातीरे मनोहरे ।
 युष्माभिश्च करिष्यामि रासं पूर्णमनोरथम् ॥ १७ ॥
 इत्युक्त्वाऽथ गते कृष्णे परिपूर्णतमे हरौ ।
 प्राप्तानन्दा मंदहासा गोप्यः सर्वा गृहान् ययुः ॥ १८ ॥


इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
मैथिल्युपाख्यानं नाम तृतीयोऽध्यायः ॥ ३ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥