सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१८५
बालमनोरमा ।

भावः । धात्वर्थम्बाधते कश्चित् । दोग्धि । दुग्धः । धोक्षि । दुग्धे । धुक्षे । धुग्ध्वे । दोग्धु । दुग्धि । दोहानि । धुक्ष्व । धुग्ध्वम् । दोहै । अधोक् । अदोहम् । अदुग्ध । अधुग्ध्वम् । अधुक्षत् । अधुक्षत । ‘लुग्वा दुह-' (सू २३६५) इति लुक्पक्षे तथास्ध्वम्वहिषु लङ्वदपि । दिह १०१५ उपचये । उपचयो


अद्विक्षदिति ॥ ‘शल इगुपधात्' इति क्स: । अद्विक्षताम् । अद्विक्षन् इत्यादि । तडि अद्विक्षत । अद्विक्षाताम् । अद्विक्षन्त इत्यादि । अद्वेक्ष्यत् । अद्वेक्ष्यत । दुह प्रपूरणे इति ॥ अयमनिट् । 'पयो दोग्धि' इत्यादौ प्रकृष्टपूरणस्यार्थस्यानवगमादाह । प्रपूरणं पूरणाभावः इति ॥ ऊधः पूरणप्रतिकूलीभाव इत्यर्थः । ऊधसः सकाशात् क्षारणे इति यावत् । ननु प्रपूरणशब्दस्य कुतोऽयमर्थ इत्यत आह । धात्वर्थम्बाधते कश्चिदिति ॥ प्रसिद्ध धात्वर्थं कश्चिदुपसर्गो बाधित्वा अर्थान्तरं नयतीत्यर्थः । दोग्धीति ॥ ‘दादेः’ इति हस्य घः ‘झषस्तथो’ इति तकारस्य धकार घस्य जश्त्वेन गः । एवं दुग्धः इत्यपि । दुहन्ति । धोक्षीति ॥ हस्य घः चर्त्वेन कः षत्वमिति भावः । दुग्धः । दुग्ध । दोह्मि । दुह्वः । दुह्मः । लटि आत्मनेपदे आह । दुग्धे इति ॥ घधगाः । दुहाते । दुहते । धुक्षे इति ॥ हस्य घः दस्य भष् धकारः घस्य कः षत्वम् । दुहाथे । धुग्ध्वे इति ॥ हस्य घः भष् घस्य गः । दुह्वहे। दुद्महे । दुदोह । दुदुहतुः । दुदुहुः । अजन्ताकारवत्त्वाभावात् क्रादिनियमान्नित्यमिट् । दुदोहिथ । दुदुहथुः । दुदुह । दुदोह । दुदुहिव । दुदुहिम । दुदुहे । दुदुहाते । दुदुहिरे । दुदुहिषे । दुदुहाथे । दुदुहिढ्वे-दुदुहिध्वे । दुदुहे । दुदुहिवहे । दोग्धा । धोक्ष्यति । धोक्ष्यते । दोग्ध्विति ॥ दुग्धात् । दुग्धाम् । दुहन्तु । दुग्धीति ॥ हेर्धिः घत्वजश्त्वे । दुग्धात् । दुग्धम् । दुग्ध । दोहानीति ॥ आटः पित्त्वादडित्त्वाद्गुणः । दोहाव । दोहाम । दुग्धाम् । दुहाताम् । दुहताम् । धुक्ष्वेति ॥ घत्व भष् जश्त्वचर्त्वे षत्वम् । दुहाथाम् । धुग्ध्वमिति ॥ हस्य घः भष् घस्य जश्त्वम् । दोहै इति ॥ आटः पित्त्वादकित्त्वाद्गुण इति भावः । दोहावहै । दोहामहै । लडि परस्मैपदे आह । अधोगिति ॥ तिप् इकारलोपः हल्ड्यादिलोपः हस्य घः दस्य भष् घस्य चर्त्वविकल्पः । अदुग्धाम् । अदुहन् । अधोक् । अदुग्धम् । अदुग्ध । अदोहमिति ॥ अदुह्व । अदुह्म । लडस्तड्याह । अदुग्धेति ॥ हस्य घः तकारस्य ध घस्य गः । अदुहाताम् । अदुहत । अदुग्धाः । अदुहाथाम् । अधुग्ध्वमिति ॥ हस्य घः दस्य भष् घस्य गः । अदुहि । अदुह्वहि । लुडि परस्मैपदे आह । अधुक्षदिति ॥ 'शल इगुपधात्’ इति क्सः । हस्य घः दस्य भष् घस्य चर्त्वम् । अधुक्षताम् । अधुक्षन् इत्यादि । लुडस्तड्याह । अधुक्षतेति ॥ 'क्सस्याचि' अधुक्षाताम् । अधुक्षन्त । अधुक्षथाः । अधुक्षाथाम् । अधुक्षध्वम् । अधुक्षि । अधुक्षावहि । अधुक्षामहि । लुग्वेति ॥ त थास् ध्वम् वहि एषु चतुर्षु दन्त्यादिषु परेषु 'लुग्वा दुह' इति क्सस्य लुक्पक्षे लडीव रूपाणीत्यर्थः । तथाच अदुग्ध । अदुग्धाः । अधुग्ध्वम् । अदुह्वहि इत्यपि रूपाणीति फलितम् । अधोक्ष्यत् । अधोक्ष्यत । दिह उपचये इति ॥ उपचयो वृद्धिः । अनिट् । प्रणिदेग्धीति ॥ 'नेर्गद' इति णत्वम् ।