पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७९ भगण योग को वा दृढ़भगणान्तर को भाज्य कल्पनाकर पूर्ववत् कुट्टक से अहर्गण साधन करना चाहिये इति ।। २१ ।। इदानीं विशषमाह । एवं राश्यंकला विकला शेषादहर्गणः प्राग्वत् । नष्टस्थेष्विष्टान् तान् कृत्वा भक्त्वोक्तवच्छेषम् ।। २२ ।। सु. भा--एवं राशिशेषात् अंशशेषात् कलाशेषात् विकलाशेषाच प्राग्वदह र्गणः स्यात् । किं कृत्वा नष्टस्थेषु विकलाकलादिमानेषु भक्त्वा विभज्येष्टान् तान् विकलादीन् कृत्वा शेषं भगणशेषमहर्गणं चोक्तवत्कार्यम् । अत्रैतदुक्तं भवति । षष्टिर्भाज्यो विकलाशेषमृणक्षेपो दृढकुदिनानि हार इति प्रकल्प्य यः कुट्टकः सकला शेषस्तेन षष्टिर्हता विकलाशेषोना दृढकुदिनहृता फलं विकला अभीष्टा स्युस्ततः कलाशेषमृणक्षेपं षटिं भाज्यं दृढकुदिनानि हार प्रकल्प्य यः कुट्टकः स चांशशेष स्तेन षष्टिर्गुणा कलाशेषोना दृढकुदिनभक्ता फलं कला अभीष्टाः स्युः । एवं राखि शेषानयने त्रिंशद्भाज्यो भगणशेषानयने च द्वादशभाज्यकल्प्यः । भगणशेषतः पूर्व विधानेनाहर्गणो गतभगणाश्च साध्याः । ‘कल्प्याथ शुद्धिर्विकलावशेषम्'-इत्यादि भास्करोक्तमेतदनुरूपमेव ॥ २२ ॥ वि. भा-एवं राशिशेषात्-अंशशेषात् कृलाशेषात् विकलाशेषात् पूर्ववदह गर्गणः स्यात् कथं तदुच्यते । नष्टस्थेषु विकला कलादिमानेषु भक्त्वा (विभज्य) इष्टान् तान् विकलादीन् कृत्वा शेषं (भगणशेष) अहर्गणंच पूर्ववत्कार्यम् । यथा षष्टिभाज्धः । दृढ़ कुदिनानि हारः । विकलाशेषं शुद्धिरिति प्रकल्प्य कुट्टकविधि ना गुणाप्ती साध्ये तत्र लब्धिविकला:स्युः । गुणस्तु कलावशेषम् । ततः कलावशेष शुद्धिः । षष्टिर्भाज्यः । दृढ़कुदिनानि हार इति प्रकल्प्य कुट्टकेन गुणाप्ती साध्ये तत्र लब्धिः कलाः । गुणोंऽशशेषम् । अंशशेषं शुद्धिः । त्रिंशद् भाज्यः । दृढकदिनानि हारः । अत्र कुट्टकेन लब्धिरंशाः । गुणो राशिशेषम् । एवं राशिशेष शुद्धिः । द्वादश भाज्य: । क्दिनानि हारः । अत्र कुट्टकेन लब्धिर्गतराशयः । गृणोभगणशेषम् । कल्पभगणा भाज्यः । कुदिनानि हारः । भगणशेषं शुद्धिः । अत्र लब्धिर्गतभ गणाः । गुणोऽहर्गणः स्यादिति । लीलावत्यां ‘कल्प्याथ शुद्धिर्विकलावशेषं षष्टिश्च भाज्यः कुदिनानि हार' इत्यादि भास्करोक्तमेतदनुरूपमेवेति ॥ २२ ॥ अब विशेष कहते हैं। हि. भा--एवं राशिशेष से, अंश शेष से, कलाशेष से, विकलाश ष से अहर्गण होता है। कैसे होता है सो कहते हैं। विकला-कलाद्वि मानों में भाग देकर इष्टविकलादि करके भगणशष और अहर्गण पूर्ववत् करना चाहिये । जैसे-साठ को भाज्य, दृढ़कुदिन को