पृष्ठम्:साहित्यसारः.pdf/70

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
षष्ठः प्रकाशः


रसस्तु भूयसा कार्यो हास्यो नानाविधाश्रयः ।
मुखनिर्वहणे सन्धी वृत्तिरेकैव भारती ॥ ५८ ॥

एकोऽङ्कः कल्पनीयः स्यात् नानाहासमनोहरः ।

             डिमः

डिमो विशेषविग्न्यातवस्तुविस्तारशोभितः ।। ५९ ।।

वृत्तयः कैशिकीहोना रसः शृङ्गारवर्जिताः ।
नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः ।। ६० ।।

भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ।
मायेन्द्रजालसङ्ग्रामनिर्घानोत्पातविभ्रमान् ।। ६१ ।।

चन्द्रसूर्योपरागांश्च सम्यगेव विनिर्दिशेत् ।
रौद्रो रसश्च कर्तव्यश्चत्वारोऽङ्कास्सविस्तराः ॥ ६२ ।।

दीर्घवृत्तिविचित्रार्थो निर्विमशों डिमो भवेत् ।
सन्धिसन्ध्यङ्गवृत्त्यङ्गवृत्तिनायकवस्तुभिः ।। ६३ ।।

भिद्यमानाङ्कसङ्केतभेदाः स्युर्नाटके दश ।

सदृढरचितबन्धस्साधु सर्वेश्वरेण
प्रथितभरतशास्रप्राप्तभूषाविशेषः ।

मृदुतरपदशय्याशोभितश्शश्वदुच्चैः
सरसमनसेि भूयादेष साहित्यसारः ।। ६४ ।।

इति श्रीमन्मलयजमहापण्डितसर्वेश्चराचार्यविरचिते

   साहित्यसारे षष्ठः प्रकाशः