पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/24

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ पञ्चीकरणवार्तिकम् । हस्तावध्यात्ममित्युत्तमादातव्यं च यद्भवेत् । अधिभूतं तदित्युक्तमिन्द्रस्तत्राधिदैवतम् ।। २० ।। इन्द्र इति । 'इन्द्रो मे बले श्रितः” इति श्रल्या इन्द्रस्य बलाधिष्ठा तृत्वाद्वलस्य बाह्रोबैलमिति श्रुत्या बाहुधर्मत्वादिन्द्रो हस्ताधेिदैवतमिल्यर्थः । पादावध्यात्ममित्युक्तं गन्तव्यं तत्र यद् भवेत् । अधिभूतं तदित्युक्तं विष्णुस्तत्राधिदैवतम् ॥ २१ ।। विष्णोर्विक्रमणादिकर्तृत्वाद्विक्रमणहेतुपादाधिष्ठातृत्वं तस्योचितमिल्यर्थः॥ पायूरिन्द्रियमध्यात्मं विसर्गस्तत्र यो भवेत् । अधिभूतं तदित्युक्तं मृत्युस्तत्त्राधिदैवतम् ।। २२ ॥ उपस्थेन्द्रियमध्यात्मं स्त्र्याद्यानन्दस्य कारणम् । अधिभूतं तदित्युक्तमधिदैवं प्रजापतिः ॥ २३ ।। प्रजापतिरिित । यद्यपि 'आपो रेतो भूत्वा शिझै प्राविशक्षि'ति श्रुतावपां देवतात्वमुकम् ; तथाप्यन्नाप्शब्देन तदुपलक्षितपश्चभूतोपाधिकः प्रजापतिरेवोक्तं इति भावः ।। २२-२३ ॥ मन्तव्योद्धव्यादिक सर्व यद्यपि श्रोतध्यादिरूपमेव तथापि मन्तव्यत्वादिरूपेण श्रोतव्याद्यपेक्षया मेदमङ्गीकृत्य तेषां मनअादिविषयत्वमाद्द मन्तव्यमित्यदिन • मनोऽध्यात्ममिति प्रोक्तं मन्तव्यं तत्र यद्भवेत् । अधिभूतं तदित्युक्तं चन्द्रस्तत्त्राधिदैवतम् ॥ २४ ॥ बुद्विरध्यात्ममित्युक्तं बोद्भव्यं तत्र यद्भवेत् । अधिभूतं तदित्युक्तं अधिदैवं बृहस्पतिः ॥ २५ ॥