पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/20

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ጻጻ पीकरणवार्तिकम। मनु इन्द्रियैरर्थोप छर्दिं परेिति मूलमनुपपन्नं । अद्वितीयात्मनि इन्द्रियादैिमेदाभावात् । अरोपितस्य तस्य सत्वेऽपि इन्द्रियाणां जडानां खतः' प्रवृत्त्यसंभवः । न चात्माऽसङ्गः तत्प्रवर्तको भवति । अतस्तेषां विषयसंबंधाभावादर्थीपलब्धिने संभवतीत्याशङ्गयाह - अधिदैवतमध्यात्ममधिभूतमिति ख्रिधा । एक ब्रह्म विभागेन भ्रमाद्धांति न तस्वतः । १२ । अधिदैवतमिति । अधिदैवनिमित्यादिषु सप्तम्यर्थेऽव्ययीभावः । देवतासु विद्यमार्न दिगादिकमधिदैवञ्नम् । अत्मनि कार्यकरणसंघाते शरीरे विद्यमानै श्रोलाद्यध्यात्मम् । भूतेषु विद्यमानै विषयभूर्त शब्दादिकमधिभूतम । * तेभ्यः समभव' दिति वार्तिके भूतानामिन्द्रियाणां च सृष्टिः कण्ठरवेणोक्ता } इन्द्रियसृष्ट्युक्त्यैव समष्टीन्द्रियाभिमानिचैतन्यानामेव देवतात्वात् तत्सृष्टिरप्यर्थादुक्तेति निविधस्याप्यात्मन्यध्यारोपो दर्शित इति भावः ।। १२ ॥ एवं सति इन्द्रियैरर्थोपलब्धिरिति वाक्यमुपपन्नं , तेन देवानां इन्द्रियप्रवर्तकत्वोपपत्तिरिल्याह - इन्द्रियैरर्थविज्ञानं देवतानुग्रहान्वितैः । शब्दादिविषयं ज्ञानं तजागरितमुच्यते । १३ । इन्द्रियैरेिति । एर्व सति देवतानुप्रहान्वितैरिन्द्रियैरर्थविज्ञार्न जायते । तत् ज्ञार्न जागरितमुच्यते इत्येर्वै वाक्यभेदेन ज्ञानपदद्वयस्या'न्वयो द्रष्टव्यः । यद्वा, इन्द्रियजन्यज्ञानम्, अन्यत् शास्रानुमानादिजन्यं ज्ञानै च सर्वै जागरितमिति ज्ञानपदद्वयस्यापुनरुक्तिः । अत्रोपलब्धिरित्युक्त तुरीये गतः, अतः अर्थेति । विषयोपलब्धिरिल्यर्थः । सुषुप्ते अज्ञानस्य विषयस्योपलब्धेरर्थपर्दै शब्दादिपरत्वेन व्यास्यार्त शब्दादिविषयमियनेन। तथापि स्वझे वासनारूपशब्दाद्यर्थोंपलब्वे • 4. स्याप्य ।