पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/167

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



११९
समाधिपादः प्रथमंः


[ भाष्यम्]

व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैः चित्तं स्वस्यां प्रकृताववस्थितायां प्रविलीयते । तस्मात्ते संस्काराश्चित्तस्या धिकारविरोधिनो न स्थितिहेतवो भवन्तीति । यस्माद्वसिताधिकारं सह कैवल्यभागीयैः संस्कारैश्चित्तं निवर्तते । तस्मिन्निवृत्ते पुरुषः स्वरूपमात्र प्रतिष्ठोऽतः शुद्धः केवले मुक्त इत्युच्यत इति ॥५१।।"

इति श्रीपातञ्जलयोगसूत्रभाष्ये श्रीमद्वेदव्यासकृते

प्रथमः समाधिपादः ।

[ विवरणम् ]

 व्युत्थाननिरोधसमाधिप्रभवैः व्युत्थानसमाधिप्रभवैः निरोधसमाधि प्रभवैश्च सह कैवल्यभागीयैः संस्कारैश्चित्तं अवसिताधिकारत्वात् स्वस्यां प्रकृतौ स्वकारणेऽस्मितायामहङ्कारे प्रविलीयते प्रत्यस्तमेति । तस्मात्ते ख्यातिनिरोधजन्मानः संस्कारा यस्मात् चित्तस्याधिकाराविरोधिनः न स्थितिहेतवो भवन्तीति ॥

 यस्मादवसिताधिकारं सह केवल्यभागीयैः संस्कारैश्चित्तं यं पुरुषं प्रति चरितप्रयोजनं तस्मात् निवर्तते।तस्मिन्विनिवृत्ते पुरुषः स्वरूपमात्र प्रतिष्ठः केवलो मुक्त इत्युच्यते, चित्तवृत्तिनिवृत्तिरेव मुक्तिः इति ॥५१॥

इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य

श्रीशङ्करभगवतः कृतौ

श्रीपातञ्जलयोग(शास्त्र)सूत्रभाष्यविवरणे

॥ प्रथमः समाधिपादः॥